रसरत्नसमुच्चय : अध्याय 11

विकिस्रोतः तः
Jump to navigation Jump to search
weight units

षट् त्रुट्यश् चैकलिक्षा स्यात् षड् लिक्षा यूकम् उच्यते ।
षड्यूकास्तु रजःसंज्ञं कथितं तव सुव्रते ।। रस-११.१ ।।

षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः ।
षट्सिद्धार्थेन देवेशि यवस्त्वेकः प्रकीर्तितः ।। रस-११.२ ।।

षड्यवैर् एकगुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।
षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्तितः ।
माषा द्वादश तोलः स्यादष्टौ तोलाः पलं भवेत् ।। रस-११.३ ।।

wएइघ्त् उनित्स्

त्रुटिः स्यादणुभिः षड्भिस्तैर्लिक्षा षड्भिरीरिता ।
ताभिः षड्भिर्भवेद् यूका षड्यूकास् तद् रजः स्मृतम् ।। रस-११.४ ।।

षड्रजः सर्षपः प्रोक्तस्तैः षड्भिर्यव ईरितः ।
एका गुञ्जा यवैः षड्भिर्निष्पावस्तु द्विगुञ्जकः ।। रस-११.५ ।।

स्याद्गुञ्जात्रितयं वल्लो द्वौ वल्लौ माष उच्यते ।
द्वौ माषौ धरणं ते द्वे शाणनिष्ककलाः स्मृताः ।। रस-११.६ ।।

निष्कद्वयं तु वटकः स च कोल इतीरितः ।
स्यात्कोलत्रितयं तोलः कर्षो निष्कचतुष्टयम् ।। रस-११.७ ।।

कर्ष > स्य्नोन्य्म्स्

उदुम्बरं पाणितलं सुवर्णं कवलग्रहः ।
अक्षं बिडालपदकं शुक्तिः पाणितलद्वयम् ।। रस-११.८ ।।

शुक्तिद्वयं पलं केचिदन्ये शुक्तित्रयं विदुः ।

पल > स्य्नोन्य्म्स्

तदेव कथितं मुष्टिः प्रकुञ्चो बिल्वमित्यपि ।। रस-११.९ ।।

पलद्वयं तु प्रसृतं तद्द्वयं कुडवोऽञ्जलिः ।
कुडवौ मानिका तौ स्यात्प्रस्थो द्वे मानिके स्मृतः ।। रस-११.१० ।।

प्रस्थद्वयं शुभं तौ द्वौ पात्रकं द्वयमाढकम् ।
तैश् चतुर्भिर् घटोन्माननल्वनार्मणशूर्पकाः ।। रस-११.११ ।।

द्रोणस्य शब्दाः पर्यायाः पलानां शतकं तुला ।
चत्वारिंशत्पलशततुला भारः प्रकीर्तितः ।। रस-११.१२ ।।

रसार्णवादिशास्त्राणि निरीक्ष्य कथितं मया ।
रसोपयोगि यत् किंचिद् दिङ्मात्रं तत्प्रदर्शितम् ।। रस-११.१३ ।।

अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे ।। रस-११.१४ ।।

१८ संस्कारस्

स्यात्स्वेदनं तदनु मर्दनमूर्छने च उत्थापनं पतनरोधनियामनानि ।
संदीपनं गगनभक्षणमानमत्र संचारणा तदनु गर्भगता द्रुतिश्च ।। रस-११.१५ ।।

बाह्या द्रुतिः सूतकजारणा स्याद् ग्रासस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरे योगस् तथाष्टादशधात्र कर्म ।। रस-११.१६ ।।

न योज्यो मर्मणि छिन्ने न च क्षाराग्निदग्धयोः ।। रस-११.१७ ।।

मेर्चुर्य् > गुण दुरिन्ग् संस्कारस्

शुद्धः स मृद्वग्निसहो मूर्छितो व्याधिनाशनः ।। रस-११.१८ ।।

निष्कम्पवेगस् तीव्राग्नाव् आयुरारोग्यदो मृतः ।। रस-११.१९ ।।

त्रिदोष

विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः ।
रसे मरणसंतापमूर्छानां हेतवः क्रमात् ।। रस-११.२० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • विषमिति ।। रसटी-११.२०;१
  • एते दोषा नैसर्गिकाः ।। रसटी-११.२०;२
  • तद्वियोगकरणं दोषान्तरापेक्षयातिदुर्घटम् इति स्वाभाविका इत्युपचर्यन्ते ।। रसटी-११.२०;३
  • वस्तुतस्तु देवप्रार्थितमहादेवेन तेषां संबन्धः पारदे योजित इति भावः ।। रसटी-११.२०;४



यौगिकदोषाः

योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ।। रस-११.२१ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • योगिकौ दोषावाह यौगिकाविति ।। रसटी-११.२१;१
  • निकटवर्तिनागवङ्गखनियोगेन मिश्रणाज्जातो नागाख्य एको दोषो वङ्गाख्य एकश्चेति तो द्वौ जाड्यमाध्मानं कुष्ठं च कुरुतः ।। रसटी-११.२१;२



औपाधिकाः =कञ्चुकाः

औपाधिकाः पुनश्चान्ये कीर्तिताः सप्तकञ्चुकाः ।
भूमिजा गिरिजा वार्जास् ते च द्वे नागवङ्गजौ ।। रस-११.२२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • उपाधिना संनिहितवस्तुसंबन्धमात्रेण वस्तुनि बहिरेव व्याप्य तिष्ठन्ति किंचित् कालावस्थायिनश्च ये दोषास्ते औपाधिकाः ।। रसटी-११.२२;१
  • ते च सप्तविधाः ।। रसटी-११.२२;२
  • कञ्चुकाख्यया शास्त्र उदिताः ।। रसटी-११.२२;३
  • तेषां मध्ये भूमिजा एकप्रकाराः ।। रसटी-११.२२;४
  • तेषाम् अवान्तरभेदेन शास्त्रेऽनुपयोगान्नामतोऽनादृतेन बहुवचनम् ।। रसटी-११.२२;५
  • गिरिजा एकविधाः ।। रसटी-११.२२;६
  • वार्जा जलजाश्चान्यविधाः ।। रसटी-११.२२;७
  • तथा नागेन वणिजादिभिर् मिश्रीकृतेन जातौ दोषौ द्वौ ।। रसटी-११.२२;८
  • वङ्गजावपि द्वौ ।। रसटी-११.२२;९
  • इत्येवं सप्त कञ्चुकाः पूर्वोक्ताश्च पञ्च दोषाः ।। रसटी-११.२२;१०
  • इत्थं पारदे द्वादश दोषा रसज्ञैः प्रोक्ताः ।। रसटी-११.२२;११



द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ।। रस-११.२३ ।।

सप्तकञ्चुकनामानि

पर्पटी पाटनी भेदी द्रावी मलकरी तथा ।
अन्धकारी तथा ध्वाङ्क्षी विज्ञेयाः सप्त कञ्चुकाः ।। रस-११.२४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पर्पट्यादि सप्त कञ्चुकानां संज्ञाः तत्र पर्पटीसदृशशोषकत्वात् पर्पटी पर्पटी यथा शोषिणी ग्राहिणी च पारदस्य पर्पट्याख्यकञ्चुकोऽपि नरदेहे तत्क्रियाजननी विदारकत्वात् पाटनी मलभेदकत्वाद् भेदिनी शारीरधातूनां द्रवत्वसंपादनाद् द्रावी दोषवर्धकत्वात् मलकरी अन्धत्वजननाद् अन्धकारी ध्वाङ्क्षो यथा कर्कशस्वरो भवति तथा स्वरपारुष्यजननाद् ध्वाङ्क्षीति ज्ञेयम् ।। रसबोध-११.२४;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • उक्तसप्तकञ्चुकानां क्रमेण नामान्तराण्याह पर्पटीति ।। रसटी-११.२४;१
  • रसोपरि पर्पटी पर्पटाकारा भवति ।। रसटी-११.२४;२
  • सा पर्पटीत्युच्यते ।। रसटी-११.२४;३
  • पाटनी त्वचोविदारणकरी ।। रसटी-११.२४;४
  • भेदी त्वचि रन्ध्रकरी ।। रसटी-११.२४;५
  • द्रावी लोहादिद्रवकरी ।। रसटी-११.२४;६
  • मलकरी वातादिदोषकरी ।। रसटी-११.२४;७
  • अन्धकारी कृष्णत्वकरी ।। रसटी-११.२४;८
  • ध्वाङ्क्षी कालिमा ।। रसटी-११.२४;९



कञ्चुकस् > आयुर्वेदीय स्य्म्प्तोम्स्

भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च ।
वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ।। रस-११.२५ ।।

तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः ।
सर्वोपस्करमादाय रसकर्म समारभेत् ।। रस-११.२६ ।।

संस्कारस् > देfऔल्त् wएइघ्त्स्

द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।
अष्टाविंशत् पलान्येव दश पञ्चैकमेव वा ।। रस-११.२७ ।।

पलार्धेनैव कर्तव्यः संस्कारः सूतकस्य च ।
सुदिने शुभनक्षत्रे रसशोधनमारभेत् ।। रस-११.२८ ।।

१. स्वेदन

त्र्यूषणं लवणासूर्यौ चित्रकार्द्रकमूलकम् ।
क्षिप्त्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ।। रस-११.२९ ।।

२. मर्दन

गृहधूमेष्टिकाचूर्णं तथा दधि गुडान्वितम् ।
लवणासुरीसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ।। रस-११.३० ।।

षोडशांशं तु तद् द्रव्यं सूतमानान् नियोजयेत् ।
सूतं क्षिप्त्वा समं तेन दिनानि त्रीणि मर्दयेत् ।। रस-११.३१ ।।

जीर्णाभ्रकं तथा बीजं जीर्णसूतं तथैव च ।
नैर्मल्यार्थं हि सूतस्य खल्ले धृत्वा विमर्दयेत् ।। रस-११.३२ ।।

गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ।
मर्दनाख्यं हि यत्कर्म तत्सूतगुणकृद् भवेत् ।। रस-११.३३ ।।

३. मूर्छन

गृहकन्या मलं हन्यात्त्रिफला वह्निनाशिनी ।
चित्रमूलं विषं हन्ति तस्माद् एभिः प्रयत्नतः ।। रस-११.३४ ।।

मिश्रितं सूतकं द्रव्यैः सप्तवाराणि मूर्छयेत् ।
इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ।। रस-११.३५ ।।

संस्कार > उत्थापन

अस्माद्विरेकात् संशुद्धो रसः पात्यस्ततः परम् ।
उद्धृतः काञ्जिकक्वाथात् पूतिदोषनिवृत्तये ।। रस-११.३६ ।।

संस्कार > पातन

ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वभाजने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ।। रस-११.३७ ।।

संस्कार > ऊर्ध्व-, अधःपातन

शुल्वेन पातयेत् पिष्टीं त्रिधोर्ध्वं सप्तधा त्व् अधः ।। रस-११.३८ ।।

संस्कार > अधःपातन

त्रिफलाशिग्रुशिखिभिर् लवणासुरीसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेच्चोर्ध्वभाजने ।
ततो दीप्तैरधः पातमुत्पलैस्तत्र कारयेत् ।। रस-११.३९ ।।

संस्कार > पातन

हरिद्राङ्कोलशम्पाककुमारीत्रिफलाग्निभिः ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • शम्पाकः आरग्वधः ।। रसबोध-११.४०कख;१



तण्डुलीयकवर्षाभूहिङ्गुसैन्धवमाक्षिकैः ।। रस-११.४० ।।

पिष्टं रसं सलवणैः सर्पाक्ष्यादिभिरेव वा ।
पातयेद् अथवा देवि व्रणघ्नो यक्षलोचनैः ।। रस-११.४१ ।।

इत्थं ह्य् अधऊर्ध्वपातेन पातितोऽसौ यदा भवेत् ।
तदा रसायने योग्यो भवेद् द्रव्यविशेषतः ।। रस-११.४२ ।।

संस्कार > अधःपातन

अथवा दीपकयन्त्रे निपातितः सर्वदोषनिर्मुक्तः ।। रस-११.४३ ।।

संस्कार > तिर्यक्पातन

तिर्यक्पातनविधिना निपातितः सूतराजस्तु ।
श्लक्ष्णीकृतम् अभ्रदलं रसेन्द्रयुक्तं तथारनालेन ।। रस-११.४४ ।।

खल्ले दत्त्वा मृदितं यावत् तन् नष्टपिष्टताम् एति ।
कुर्यात् तिर्यक्पातनपातितसूतं क्रमेण दृढवह्निम् ।। रस-११.४५ ।।

संस्वेद्यः पात्योऽसौ न पतति यावद् दृढश् चाग्नौ ।
तदासौ शुध्यते सूतः कर्मकारी भवेद्ध्रुवम् ।। रस-११.४६ ।।

मर्दनैर् मूर्छनैः पातैर् मन्दः शान्तो भवेद् रसः ।। रस-११.४७ ।।

संस्कार > निरोधन

सृष्ट्यम्बुजैर् निरोधेन ततो मुखकरो रसः ।
स्वेदनादिवशात्सूतो वीर्यं प्राप्नोत्यनुत्तमम् ।। रस-११.४८ ।।

संस्कार > नियमन

नियम्योऽसौ ततः सम्यक् चपलत्वनिवृत्तये ।
कर्कोटीफणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः ।
समं कृत्वारनालेन स्वेदयेच्च दिनत्रयम् ।। रस-११.४९ ।।

संस्कार > नियमन

मरिचैर् भूखगयुक्तैर् लवणासुरीशिग्रुटङ्कणोपेतैः ।
काञ्जिकयुक्तैस्त्रिदिनं ग्रासार्थी जायते स्वेदात् ।। रस-११.५० ।।

संस्कार > दीपन

त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैर् लवणोषणाम्लैः ।
नेपालताम्रदलशोषितमारनाले साम्लासवाम्लपुटितं रसदीपनं तत् ।। रस-११.५१ ।।

संस्कार > दीपन

स्वेदयेदासवाम्लेन वीर्यतेजःप्रवृद्धये ।
यथोपयोगं स्वेद्यः स्यान् मूलिकानां रसेषु च ।। रस-११.५२ ।।

रसमूलिकास्

सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुकर्णिका ।। रस-११.५३ ।।

वर्षाभूः कम्बुकी दूर्वा सैर्यकोत्पलशिम्बिकाः ।
शतावरी वज्रलता वज्रकन्दाग्निकर्णिका ।। रस-११.५४ ।।

श्वेतार्कशिग्रुधत्तूरमृगदूर्वारसाङ्कुशाः ।
रम्भा रक्ताभनिर्गुण्डी लज्जालुः सुरदालिका ।। रस-११.५५ ।।

मण्डूकपर्णी पाताली चित्रकं ग्रीष्मसुन्दरा ।
काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ।। रस-११.५६ ।।

जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः ।
कोशातकी नीरं कणा लाङ्गली कटुतुम्बिका ।। रस-११.५७ ।।

चक्रमर्दोऽमृता कन्दः सूर्यावर्तेषु पुङ्खिका ।
वाराही हस्तिशुण्डी च प्रायेण रसमूलिकाः ।। रस-११.५८ ।।

रसस्य भावने स्वेदे मूषालेपे च पूजिताः ।
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
कार्यास्ते प्रथमं शेषा नोक्ता द्रव्योपयोगिनः ।। रस-११.५९ ।।

मेर्चुर्य् > बन्धन > इन्त्रोद्.

पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे ।
येन येन हि चाञ्चल्यं दुर्ग्रहत्वं च नश्यति ।
रसराजस्य सम्प्रोक्तो बन्धनार्थो हि वार्त्तिकैः ।। रस-११.६० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ प्रथमाध्याये मूर्छित्वा हरति रुजम् इतिपद्योक्ता विषयास्त्रय एवात्र ग्रन्थे वक्तव्याः ।। रसटी-११.६०;१
  • मूर्छनं बन्धनं मारणं च ।। रसटी-११.६०;२
  • तत्र मूर्छनं तु मर्दनपूर्वकं पुटेन प्रागुक्तमेव ।। रसटी-११.६०;३
  • यन्त्रमूर्छनं त्वस्मिन्नध्याये देहोपयोगिसर्वबन्धोत्तरं वक्ष्यामि ।। रसटी-११.६०;४
  • द्वितीयो विषयोऽत्र बन्धरूपो वर्ण्यते ।। रसटी-११.६०;५
  • पञ्चविंशतीति ।। रसटी-११.६०;६
  • ननु ग्रन्थान्तरे पाटखोटजलूकाभस्मेति बन्धश्चतुर्विध एवाख्यातः ।। रसटी-११.६०;७
  • अत्र तु पञ्चविंशतिसंख्याक इति प्रतिजानाति ।। रसटी-११.६०;८
  • एतद्विरुद्धमिव भातीत्याशङ्क्य चाञ्चल्यदुर्ग्रहत्वाभावरूपसामान्यस्य सर्वबन्धेषु सत्त्वेऽपि बन्धजनककारणभेदानुरोधेन बन्धभेदोऽपि वार्तिकैरादृत इत्याह येन येनेति ।। रसटी-११.६०;९



बन्धन > सुब्त्य्पेस्

हठारोटौ तथाभासः क्रियाहीनश्च पिष्टिका ।
क्षारः खोटश्च पोटश्च कल्कबन्धश्च कज्जलिः ।। रस-११.६१ ।।

सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।
शृङ्खलाद्रुतिबन्धौ च बालकश्च कुमारकः ।। रस-११.६२ ।।

तरुणश् च तथा वृद्धो मूर्तिबद्धस् तथापरः ।
जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः ।
महाबन्धाभिधश्चेति पञ्चविंशतिर् ईरिताः ।। रस-११.६३ ।।

केचिद्वदन्ति षड्विंशो जलूकाबन्धसंज्ञकः ।
स तावन्नेष्यते देहे स्त्रीणां द्रावेऽतिशस्यते ।। रस-११.६४ ।।

बन्धन > हठ

हठो रसः स विज्ञेयः सम्यक् शुद्धिविवर्जितः ।
स सेवितो नृणां कुर्यान् मृत्युं वा व्याधिमुद्धतम् ।। रस-११.६५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पारदम् आपणाद् आनीय निम्बूरसेन संमर्द्य गालयित्वा मयूरतुत्थादिसमभागं चतुर्थांशं वा तत्र दत्त्वा मर्दनेन बद्धो रसः क्रियते ।। रसटी-११.६५;१
  • स सेवितश्चेन् मृत्युं कुर्याद्व्याधिं वा ।। रसटी-११.६५;२



बन्धन > आरोट

सुशोधितो रसः सम्यगारोट इति कथ्यते ।
स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ।। रस-११.६६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • आरोटलक्षणम् आह सुशोधित इति ।। रसटी-११.६६;१
  • त्रिविधपातनेन शुद्धं पश्चाच्छुद्धं चूर्णीकृतम् अभ्रकदलं समभागं दत्त्वा काञ्जिकेन मर्दनपूर्वकं पारदं नष्टपिष्टं कृत्वोर्ध्वाधस्तिर्यक्पातनेनासकृत्कृतेनाग्निसहः पारद आरोट इति निगद्यते ।। रसटी-११.६६;२
  • तं च माक्षीकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः संयुतं कृत्वा क्षेत्रीकरणाय युञ्जीतेति रसहृदये ।। रसटी-११.६६;३
  • माक्षीकसहितो नष्टपिष्टिरूपः पातनेनाग्निस्थाय्यपि पारदोऽपि आरोट इति कथ्यते ।। रसटी-११.६६;४



आभासबन्ध

पुटितो यो रसो याति योगं मुक्त्वा स्वभावताम् ।
भावितो धातुमूलाद्यैर् आभासो गुणवैकृतेः ।। रस-११.६७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • आभासबन्धमाह पुटित इति ।। रसबोध-११.६७;१
  • धातुमूलाद्यैः प्रागुक्तस्वर्णादिधातुभिस्तथा सर्पाक्ष्यादिमूलिकाभिः भावितः पुटितश्च रसः गुणवैकृतेः द्रव्यान्तरसंयोगेन स्वाभाविकगुणविपर्ययात् स्वभावतां स्वाभाविकगुणादिकं मुक्त्वा योगं योगवाहितां याति स आभासः कथ्यते इति शेषः ।। रसबोध-११.६७;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • आभासलक्षणमाह यः पारदो धातुभिर् मनःशिलागन्धकादिभिस्तथा मूलिकाद्यैः सर्पाक्ष्यादिमूलिकाभिः पत्रपुष्पादिभिश्च सह भावितो द्रवं दत्त्वा मर्दितस्ततो भूधरयन्त्रे पुटेन पुटितो भस्मीकृतः स्वभावतः स्वभावं चाञ्चल्यदुर्ग्रहत्वादि मुक्त्वा धात्वादियोगं याति तत्तद्रोगनाशकयोगगुणं च याति गुणप्रदो भवति ।। रसटी-११.६७;१
  • अल्पकालपर्यन्तं ततः पथ्यसेविनोऽपि नरस्य गुणवैकृते सति गुणविक्रियायां सत्यां स बद्धपारद आभास इति कीर्तितः ।। रसटी-११.६७;२
  • गुणाभासकरत्वात् ।। रसटी-११.६७;३
  • विकृतिरेव वैकृतम् ।। रसटी-११.६७;४



क्रियाहीन

असंशोधितलोहाद्यैः साधितो यो रसोत्तमः ।
क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ।। रस-११.६८ ।।

पिष्टिकाबन्ध

तीव्रातपे गाढतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा ।
स रसः पिष्टिकाबन्धो दीपनः पाचनस्तराम् ।। रस-११.६९ ।।

क्षारबन्ध

शङ्खशुक्तिवराटाद्यैर् योऽसौ संसाधितो रसः ।
क्षारबन्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ।। रस-११.७० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • शङ्खशुक्तीति ।। रसटी-११.७०;१
  • भस्मीकृतानां शङ्खशुक्त्यादीनां वृक्षक्षारादीनां च मूषां कृत्वा तत्संपुटे पारदं प्रक्षिप्य संपुटितः पारदो लघुपुटदानेन भस्मीभवतीति क्षारबन्धोऽसावग्निदीप्त्यादिकृद् भवेत् ।। रसटी-११.७०;२

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • क्षारबन्धमाह शङ्खेति ।। रसबोध-११.७०;१
  • संसाधितः मर्दनपुटनादिभिः सुसम्पादितः ।। रसबोध-११.७०;२
  • स्पष्टम् अन्यत् ।। रसबोध-११.७०;३



खोटबन्ध

बन्धो यः खोटतां याति ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटबन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ।। रस-११.७१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • खोटबन्धमाह बन्ध इति ।। रसबोध-११.७१;१
  • खोटतां वह्निस्थोऽपि अनुड्डयनस्वभावतां यदुक्तम् ।
  • अग्निमध्ये यदा तिष्ठेत् खोटबद्धस्य लक्षणम् ।
  • इति ।। रसबोध-११.७१;२
  • ध्मातो ध्मातः भस्त्रया पुनः पुनर् आध्मापित इत्यर्थः क्षयं व्रजेत् द्रव्यान्तरेण सह एकीभावात् अदर्शनतां गच्छेदित्यर्थः ।। रसबोध-११.७१;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ खोटबन्धमाह बन्ध इति ।। रसटी-११.७१;१
  • खोटकरणप्रकारस्तु रससार उवाच ।
  • बन्धने याश्च विख्याता अष्टावेव महौषधीः ।
  • ताभिष्टङ्कणयुक्ताभिर् भावयेच्च रसेश्वरम् ।
  • ताभिर् विलिप्तमूषायां धमनात् खोटतां व्रजेत् ।। रसटी-११.७१;२
  • इति ।। रसटी-११.७१;३
  • स एवातिध्मानात् क्षयं गच्छति ।। रसटी-११.७१;४
  • स च खोटबन्धो बोध्यः ।। रसटी-११.७१;५
  • अत्र पारदो जीर्णषड्गुणगन्धो ग्राह्यः ।। रसटी-११.७१;६
  • अभ्रकदानेन पिष्टीकृतो वा ग्राह्यः ।। रसटी-११.७१;७
  • सोमवल्लीरसे पिष्ट्वा दापयेच्च पुटत्रयम् ।
  • सोमवल्लीरसेनैव सप्तवारांश्च भावयेत् ।। रसटी-११.७१;८
  • तदभ्रं मृद्भाण्डे दद्याद् रसेन सह संयुतम् ।
  • मूलं तु शरपुङ्खाया गव्यक्षीरेण घर्षयेत् ।। रसटी-११.७१;९
  • कल्केन मेलयेत् सूतं गगनं च तदधोर्ध्वगम् ।
  • स्थापयेद् रवितापे तु निर्मुखो ग्रसते क्षणात् ।
  • जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ।। रसटी-११.७१;१०
  • इति ।। रसटी-११.७१;११
  • पिष्टीबन्धस्तु खोटक इति वर्णनाद् अत्र पिष्टिकारूपम् उच्यते ।। रसटी-११.७१;१२
  • खोटलक्षणं ग्रन्थान्तरे तु ।
  • ध्मातो द्रुतो भवेत् खोट आहतश्चूर्णतां व्रजेत् ।
  • पुनर् ध्मातो द्रुतः खोट इति खोटस्य लक्षणम् ।। रसटी-११.७१;१३
  • घनसत्त्वपादजीर्णः कान्तपादजीर्णः समतीक्ष्णजीर्णश्चेद्वायं क्षेत्रीकरणार्थम् अपि प्रशस्तः ।। रसटी-११.७१;१४



पोटबन्ध

द्रुतकज्जलिका मोचापत्त्रके चिपिटीकृता ।
स पोटः पर्पटी सैव बालाद्यखिलरोगनुत् ।। रस-११.७२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पाटबन्धं लक्षयति द्रुतेति ।। रसटी-११.७२;१
  • अधोऽग्निना कटाहे तापेन द्रुता जातद्रवा या कज्जली सा तत्क्षणे कदलीदले प्रक्षिप्य तद्दलेनाच्छाद्य पीडनेन चिपिटीकृता पाटबन्धः पर्पटिकाबन्धश्चेति ख्याता बालवृद्धादीनाम् अनुपानभेदेन सर्वरोगघ्नी ।। रसटी-११.७२;२



कल्कबन्ध

स्वेदाद्यैः साधितः सूतः पङ्कत्वं समुपागतः ।
कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः ।। रस-११.७३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • योगोक्तफलदायकः यस्मिन् योगे स प्रयोज्यः तस्य फलौत्कर्ष्यप्रद इत्यर्थः अथवा स्वेदनमर्दनार्थं गृहीतकल्कद्रव्याणाम् उपयोगे यत् फलं तत्फलप्रद इत्यर्थः ।। रसबोध-११.७३;१



कज्जलीबन्ध

कज्जली रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा ।
तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ।। रस-११.७४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • कज्जलीबन्धमाह कज्जलीति ।। रसबोध-११.७४;१
  • सुश्लक्ष्णा चिक्कणा ।। रसबोध-११.७४;२
  • तत्तद्योगेन संयुक्ता रसगन्धकशोधकद्रव्यसंयोगेन शुद्धा इत्यर्थः ।। रसबोध-११.७४;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • कज्जलीबन्धं लक्षयति ।। रसटी-११.७४;१
  • तत्तद्योगेन रोगवारकविशिष्टौषधीमिश्रणमर्दनयोगेन युक्ता सती कज्जलीबन्ध उच्यते ।। रसटी-११.७४;२
  • अत्र तत्तद्योगेन संयुक्तेति न लक्षणघटकम् ।। रसटी-११.७४;३
  • तेन विना कज्जल्याः सिद्धत्वात् ।। रसटी-११.७४;४
  • किंतु योगवाहित्वेनेयं सर्वरोगनाशिकेति बोधनाय तदुक्तिः ।। रसटी-११.७४;५



सजीव

भस्मीकृतो गच्छति वह्नियोगाद् रसः सजीवः स खलु प्रदिष्टः ।
संसेवितोऽसौ न करोति भस्मकार्यं जवाद् रोगविनाशनं च ।। रस-११.७५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • सजीवबद्धम् आह भस्मीकृतेति ।। रसटी-११.७५;१
  • ताम्बूलीदलरसमर्दितः पश्चाद् वन्ध्याकर्कोटकीकन्दमध्ये प्रक्षिप्य संपुटितो बहिर् मृद्वस्त्राभ्यां संपुटितो भूमौ गजपुटेन पुटितो भस्मीभवति ।। रसटी-११.७५;२
  • एवं प्रकारान्तरेणापि भस्मीकृतः पारदोऽग्नौ पात्रे धृतश्चेदाकाशे गच्छति ।। रसटी-११.७५;३
  • पक्षच्छेदाभावात् ।। रसटी-११.७५;४
  • भस्मकार्यं जरामरणाभावरूपं स तु न करोति ।। रसटी-११.७५;५
  • व्याधिनाशमपि न ।। रसटी-११.७५;६



निर्जीव

जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः ।
निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति सद्यः ।। रस-११.७६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निर्जीवबन्धमाह जीर्णाभ्रक इति ।। रसबोध-११.७६;१
  • जीर्णाभ्रकः ग्रासीकृताभ्र इत्यर्थः ।। रसबोध-११.७६;२
  • परिजीर्णगन्धः सम्यग्ग्रासितगन्धक इत्यर्थः ।। रसबोध-११.७६;३
  • अखिलेति ।। रसबोध-११.७६;४
  • अखिलानां सर्वेषां लोहानां स्वर्णादीनामित्यर्थः मौलिः शिरोभूषणस्वरूपः सर्वलोहोपयोगे ये गुणा भवन्ति तेभ्योऽप्यधिकगुणप्रद इत्यर्थः ।। रसबोध-११.७६;५
  • वह्नियोगेऽपि निर्गमनासामर्थ्यात् अस्य निर्जीवत्वं बोध्यम् ।। रसबोध-११.७६;६



निर्बीज

रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ।। रस-११.७७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • निर्बीजबन्धं लक्षयति रसस्त्विति ।। रसटी-११.७७;१
  • अत्र सुवर्णं न तु बीजीकृतं किंतु शुद्धं जारणायन्त्रे संस्कृतं पत्त्ररूपं ग्राह्यम् ।। रसटी-११.७७;२
  • पिष्टीकृतो द्वादशांशे पारद एकांशं गन्धकं त्रुटिशो मुहुर् दत्त्वाम्लेन संमर्दितस्ततस्तुल्यांशगन्धैः क्रमेण पुटितः प्रथमं गन्धकं चतुर्थांशं दत्त्वा भूधरयन्त्रे पुटितस्ततोऽर्धांशं गन्धकं दत्त्वा तथा पुटितस्ततः पादोनं गन्धकं दत्त्वा पुटितस्तदूर्ध्वं समभागमितं दत्त्वा पुटित इति क्रमशब्दार्थः ।। रसटी-११.७७;३
  • गन्धैर् इति बहुवचनम् अतन्त्रम् ।। रसटी-११.७७;४



सबीजबन्धन

पिष्टीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः ।
हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ।। रस-११.७८ ।।

शृङ्खलाबन्ध

वज्रादिनिहतः सूतो हतः सूतः समोऽपरः ।
शृङ्खलाबद्धसूतस्तु देहलोहविधायकः ।
चित्रप्रभावां वेगेन व्याप्तिं जानाति शंकरः ।। रस-११.७९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • वज्रेण भस्मीकृतेन चूर्णीकृतेन वा निहतो मारितो यः सूतस्तन्मध्ये मारितम् अन्यं सूतकम् अपि निक्षिपेत् ।। रसटी-११.७९;१
  • सोऽपि रसो बद्धः खोटरूपः शृङ्खलाबद्ध इत्युच्यते ।। रसटी-११.७९;२
  • एतन्मारणप्रकारस्तु रसार्णवे उक्तः ।। रसटी-११.७९;३

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • शृङ्खलाबन्धमाह वज्रादीति ।। रसबोध-११.७९;१
  • वज्रादिनिहतः हीरकादिसहयोगेन मारितः सूतः तद्वा समः समपरिमितः अपरश्च हतः प्रकारान्तरेण मारितः सूतः शृङ्खलाबद्धसूतः उभयोर् मर्दनाद् इति शेषः ।। रसबोध-११.७९;२
  • चित्रप्रभावाम् अलौकिकसामर्थ्यां वेगेन व्याप्तिं शृङ्खलाबन्धसूतस्य देहे इति शेषः ।। रसबोध-११.७९;३



द्रुतिबन्ध

युक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धंगतो वा भसितस्वरूपः ।
स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा ।। रस-११.८० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ द्रुतिबद्धम् आह युक्तोऽपीति ।। रसटी-११.८०;१
  • बीजानां जारणेन यदि रसो महाप्रभावो भवतीति तन्न चित्रम् ।। रसटी-११.८०;२
  • रसोपरसधातूनां या बहिर्द्रुतयस् ताभिर् युक्तोऽपि ताभिर् जारितोऽपि पारदो बद्धमात्रो बन्धोत्तरं भस्मीकृतो वा द्रुतिबद्धनामा सर्षपचतुर्थांशमात्रया सेवितश्चेद्दुःसाध्यरोगान् निहन्ति ।। रसटी-११.८०;३

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • द्रुतिबन्धमाह युक्त इति ।। रसबोध-११.८०;१
  • बाह्यद्रुतिभिः रसस्य द्रवत्वसम्पादकक्रियाविशेषैः युक्तः अपि बन्धं गतः बन्धनतां प्राप्तः वा अथवा भसितस्वरूपः भस्मीभूतः सूतः द्रुतिबद्धनामा ज्ञेयः ।। रसबोध-११.८०;२
  • सः द्रुतिबद्धसूतः राजिका राई इति ख्यातः रक्तवर्णसर्षपविशेषः तस्याः पादमितः चतुर्थभागपरिमितः ।। रसबोध-११.८०;३



बालबन्ध

समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन ।
रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ।। रस-११.८१ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • बालाख्यबद्धं लक्षयति समेति ।। रसटी-११.८१;१
  • अभ्रं कृष्णवज्राभ्रसत्त्वम् ।। रसटी-११.८१;२
  • शिवजः पारदः ।। रसटी-११.८१;३
  • समाभ्रजीर्णश्चतुःषष्टिद्वात्रिंशत्षोडशादिभागक्रमेण ।। रसटी-११.८१;४
  • अस्योपयोगः पत्त्रलेपेऽपि बोध्यः ।। रसटी-११.८१;५


कुमारबन्ध

हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ ।
त्रिः सप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ।। रस-११.८२ ।।

तरुणबन्ध

चतुर्गुणव्योमकृताशनोऽसौ रसायनाग्र्यस् तरुणाभिधानः ।
स सप्तरात्रात् सकलामयघ्नो रसायनो वीर्यबलप्रदाता ।। रस-११.८३ ।।

वृद्धबन्ध

यस्याभ्रकः षड्गुणितो हि जीर्णः प्राप्ताग्निसख्यः स हि वृद्धनामा ।
देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति ।। रस-११.८४ ।।

मूर्तिबन्ध

यो दिव्यमूलिकाभिश्च कृतोऽत्यग्निसहो रसः ।
विनाभ्रजारणात्स स्यान्मूर्तिबन्धो महारसः ।। रस-११.८५ ।।

अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः ।
योजितः सर्वयोगेषु निरौपम्यफलप्रदः ।। रस-११.८६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • मूर्तिबद्धं लक्षयति य इति ।। रसटी-११.८६;१
  • दिव्यमूलिकाश्चतुःषष्टिमूलिकाः प्रागुक्तास्ताभिस्तद्रसेन मर्दनस्वेदनादिना पक्षच्छेदात् ।। रसटी-११.८६;२
  • अभ्रजारणाद् विनाप्यत्यग्निसहो बद्धः कृतो द्रव्यान्तरानभिव्याप्त्या केवलं देहेनैव बद्धो मूर्तिबद्ध इत्युच्यते ।। रसटी-११.८६;३
  • तथा वैक्रान्तवज्रसंस्पर्शात् ।। रसटी-११.८६;४
  • तेन चूर्णीकृतेन सह मर्दनादपि रसो बद्धो भवतीति सोऽपि मूर्तिबद्ध इत्युच्यते ।। रसटी-११.८६;५
  • एवं च मूर्तिबन्धो द्विविधः सम्भवति ।। रसटी-११.८६;६



जलबन्ध

शिलातोयमुखैस्तोयैर् बद्धोऽसौ जलबन्धवान् ।
स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ।। रस-११.८७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • जलबन्धं लक्षयति ।। रसटी-११.८७;१
  • शिलातोयमुखैः शिलातोयचन्द्रतोयप्रमुखैर् जलैः सह मर्दनादिना बद्धः पारदो जलबद्ध इति कीर्तितः ।। रसटी-११.८७;२
  • कल्पोक्तेति ।। रसटी-११.८७;३
  • पारदकल्पोक्तफलेत्यर्थः ।। रसटी-११.८७;४
  • एतस्य जलस्य विस्तरो रसार्णवे स्पष्टीकृतः ।। रसटी-११.८७;५
  • क्षिप्तं जले भवेत् काष्ठं शिलाभूतं च दृश्यते ।
  • बहिरन्तश्च देवेशि वेधकं तत् प्रकीर्तितम् ।। रसटी-११.८७;६
  • हिङ्गुलं हरितालं च गन्धकं च मनःशिला ।
  • एषां गन्धापहारं यत् कुरुते तच्च वेधकम् ।। रसटी-११.८७;७



अग्निबन्ध

केवलो योगेषु वा ध्मातः स्याद्गुटिकाकृतिः ।
अक्षीणश्चाग्निबद्धोऽसौ खेचरत्वादिकृत् स हि ।। रस-११.८८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अग्निबन्धमाह केवल इति ।। रसबोध-११.८८;१
  • केवलः द्रव्यान्तरासंयुक्त इत्यर्थः ।। रसबोध-११.८८;२
  • योगयुक्तः द्रव्यान्तरसंयुक्तः ।। रसबोध-११.८८;३
  • ध्मातः अग्नौ संतप्तः ।। रसबोध-११.८८;४
  • अक्षीणः अग्नितापेऽपि यथामात्रायां स्थितः न तु किंचिद् अप्यूनः ।। रसबोध-११.८८;५
  • खेचरत्वादिकृत् मुखे धृतः नभोगतिसामर्थ्यप्रदः इत्यर्थः ।। रसबोध-११.८८;६
  • उद्देशग्रन्थे जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः इत्यनेन अग्निबन्धानन्तरं महाबन्धाच्च प्राक् सुसंस्कृतकृताख्यबन्धान्तरस्य समुल्लेखो विद्यते विवरणग्रन्थे तु तदुल्लेखादर्शनात् बन्धः सः लिपिकरप्रमादात् प्रमादान्तराद्वा अदर्शनतां गत इति मन्ये ।। रसबोध-११.८८;७
  • किंच सुसंस्कृतकृताभिधः इत्यस्य अग्निबन्धस्य विशेषणत्वमपि न युज्यते तथात्वे बन्धस्य चतुर्विंशतिसंख्यत्वात् पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे इति प्रतिज्ञाहान्यापत्तेरिति ।। रसबोध-११.८८;८

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथाग्निबद्धं पारदमाह केवल इति ।। रसटी-११.८८;१
  • आदौ षड्गुणेनाभ्रकजारणेनाग्निसहः पारदो मणिजीर्णः पातनायन्त्रेणोत्थापितः स द्रुतो भवति ।। रसटी-११.८८;२
  • स च केवलस्तीक्ष्णलोहयुक्तो वा ध्मातः सन् गुटिकाकृतिश्चाग्नावक्षयश्च भवति ।। रसटी-११.८८;३
  • अत एवायम् अग्निबद्ध इत्युच्यते ।। रसटी-११.८८;४
  • अयं मुखे धृतश्चेत् पुरुषस्याकाशगामित्वशस्त्राग्न्यभेद्यत्वसायुज्यसारूप्यादिमुक्तिकरो भवेत् ।। रसटी-११.८८;५



मूर्छन

विष्णुक्रान्ताशशिलताकुम्भीकनकमूलकैः ।
विशालानागिनीकन्दव्याघ्रपादीकुरुण्टकैः ।। रस-११.८९ ।।

वृश्चिकालीभशुण्डीभ्यां हंसपादा सहासुरैः ।
अप्रसूतगवां मूत्रैः पिष्टं वा कुलके पचेत् ।। रस-११.९० ।।

पक्वमेवं मृतैर् लोहैर्मर्दितं विपचेद् रसम् ।
यन्त्रेषु मूर्छा सूतानामेष कल्पः समासतः ।। रस-११.९१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निबिडः नोन्नतानतः समानसर्वावयवः इत्यर्थः ।। रसबोध-११.९१;१



महाबन्ध

हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकताम् अक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीर्घोज्ज्वलः ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निर्बन्धः यथायथम् असंपादितबन्धनक्रियः चेत् क्षणात् द्रवति अग्नौ इति शेषः ।। रसबोध-११.९२कख;१



चूर्णत्वं पटुवत् प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात् स हि महाबन्धाभिधानो रसः ।। रस-११.९२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • महाबन्धमाह हेम्ना वेति ।। रसटी-११.९२;१
  • अत्र हेम चतुर्थांशम् अर्धांशं वा ग्राह्यम् ।। रसटी-११.९२;२
  • रजतमपि तथैव ।। रसटी-११.९२;३
  • बन्धौषधिलिप्तवज्रमूषामध्ये तयोर् अन्यतरेण युक्तो ध्मातोऽग्निबद्ध एव पारदो वक्ष्यमाणलक्षणविशिष्टः सुसंस्कृतकृतसंज्ञां महाबन्धसंज्ञां च लभते ।। रसटी-११.९२;४
  • तान्येव लक्षणान्य् आह ध्मातो व्रजत्येकताम् इत्यादिना ।। रसटी-११.९२;५
  • पटुवत् ।। रसटी-११.९२;६
  • सैन्धवतुल्यं चूर्णत्वं याति ।। रसटी-११.९२;७
  • निहतः संद्रवति ।। रसटी-११.९२;८
  • अग्नियोगादिति शेषः ।। रसटी-११.९२;९



जलूकाबन्ध

सूते गर्भनियोजितार्धकनके पादांशनागेऽथवा पञ्चाङ्गुष्ठकशाल्मलीकृतमदाश्लेष्मातबीजैस् तथा ।
तद्वत् तेजिनीकोलकाख्यफलजैश् चूर्णं तिलं पत्त्रकं तप्ते खल्लतले निधाय मृदिते जाता जलूका वरा ।। रस-११.९३ ।।

जलूकाबन्ध

सैषा स्यात्कपिकच्छूरोमपटले चन्द्रावतीतैलके चन्द्रे टङ्कणकामपिप्पलीजले स्विन्ना भवेत् तेजिनी ।
तप्ते खल्लतले विमर्द्य विधिवद्यत्नाद्वटी या कृता सा स्त्रीणां मददर्पनाशनकरी ख्याता जलूका वरा ।। रस-११.९४ ।।

बाल्ये चाष्टाङ्गुला योज्या यौवने च दशाङ्गुला ।
द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ।। रस-११.९५ ।।

धृत्वा सूतमुखे पात्रं मेषीक्षीरं प्रदापयेत् ।
स्थापयेदातपे तीव्रे वासराण्येकविंशतिः ।। रस-११.९६ ।।

द्वितीयात्र मया प्रोक्ता जलौका द्रावणे हिता ।
पुरुषाणां स्थिता मूर्ध्नि द्रावयेद्बीजम् अद्भुतम् ।। रस-११.९७ ।।

जलूकाबन्ध

मुनिपत्त्ररसं चैव शाल्मलीवृन्तवारि च ।
जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ।। रस-११.९८ ।।

श्लेष्मातकफलं चैव त्रिफलाचूर्णम् एव च ।
कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद् बुधः ।। रस-११.९९ ।।

जलूका जायते दिव्या रामाजनमनोहरा ।
सा योज्या कामकाले तु कामयेत्कामिनी स्वयम् ।। रस-११.१०० ।।

जलूकाबन्ध

त्रिफलाभृङ्गमहौषधमधुसर्पिश्छागदुग्धगोमूत्रे ।
नागं सप्तनिषिक्तं समरसजारितं जलूका स्यात् ।। रस-११.१०१ ।।

जलूकाबन्ध

भानुस्वरदिनसंख्याप्रमाणसूतं गृहीतदीनारम् ।
अङ्कोलराजवृक्षककन्यारसतश्च शोधनं कुर्यात् ।। रस-११.१०२ ।।

शशिरेखावरवर्णिनीसकोकिलाक्षापामार्गकनकानाम् ।
चूर्णैः सहैकविंशतिदिनानि संमर्दयेत् सम्यक् ।। रस-११.१०३ ।।

निशायाः काञ्जिकं यूषं दत्त्वा योनौ प्रवेशयेत् ।
बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् ।
नीरसानामपि नॄणां योषा स्यात्संगमोत्सुका ।। रस-११.१०४ ।।

जलूकबन्ध

रसभागं चतुष्कं च वङ्गभागं च पञ्चमम् ।
सुरसारसमं युक्तं टङ्कणेन समन्वितम् ।। रस-११.१०५ ।।

त्रिदिनं मर्दयित्वा च गोलकं तं रसोद्भवम् ।
लिङ्गाग्रे योनिनिक्षिप्तं यावद् आयुर्वशंकरम् ।। रस-११.१०६ ।।

जलूकबन्ध

कर्पूरसूरणसुभृङ्गसुमेघनादैर् नागं निषिच्य तु मिथो वलयेद् रसेन ।
लिङ्गस्थितेन वलयेन नितम्बिनीनां स्वामी भवत्यनुदिनं स तु जीवहेतुः ।। रस-११.१०७ ।।

जलूकबन्ध

टङ्कणपिप्पलिकाभिः सूरणकर्पूरमातुलुङ्गरसैः ।
कृत्वा स्वलिङ्गलेपं योनिं विद्रावयेत् स्त्रीणाम् ।। रस-११.१०८ ।।

मदनवलय

अग्न्यावर्तितनागे हरबीजं निक्षिपेत्ततो द्विगुणम् ।
मुनिकनकनागसर्पैर् दन्त्याथ सिञ्च्याच्च तन्मध्यम् ।। रस-११.१०९ ।।

तक्रेण मर्दयित्वा गणेन मदनवलयं कुर्यात् ।
रतिसमये वनितानां रतिगर्वविनाशनं कुरुते ।। रस-११.११० ।।

मदनवलय

व्याघ्रीबृहतीफलरससूरणकन्दं च चणकपत्त्राम्लम् ।
कपिकच्छुवज्रवल्लीपिप्पलिकाम्लिकाचूर्णम् ।। रस-११.१११ ।।

अग्न्यावर्तितनागं नववारं मर्दयेद्धिमैर्द्रव्यैः ।
स्मरवलयं कृत्वैतद्वनितानां द्रावणं कुरुते ।। रस-११.११२ ।।

मेर्चुर्य् > मारण

पलाशबीजकं रक्तजम्बीराम्लेन सूतकम् ।
सजीवं मर्दितं यन्त्रे पाचितं म्रियते ध्रुवम् ।। रस-११.११३ ।।

मेर्चुर्य् > मारण

खरमञ्जरि बीजान्वितपुष्करबीजैः सुचूर्णितैः कल्कम् ।
कृत्वा सूतं पुटयेद् दृढमूषायां भवेद्भस्म ।। रस-११.११४ ।।

मेर्चुर्य् > मारण

काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः ।
मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ।। रस-११.११५ ।।

मेर्चुर्य् > मारण

देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम् ।। रस-११.११६ ।।

तत्सूतं खर्परे दद्याद्दत्त्वा दत्त्वा तु तद्द्रवम् ।
चुल्ल्योपरि पचेच् चाह्नि भस्म स्याल्लवणोपमम् ।। रस-११.११७ ।।

मेर्चुर्य् > मारण

अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायाम् अधरोत्तरम् ।
रुद्ध्वा लघुपुटैः पच्याच् चतुर्भिर् भस्मतां नयेत् ।। रस-११.११८ ।।

मेर्चुर्य् > मारण

कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुते ।
सप्तधा स्वेदितः सूतो म्रियते गोमयाग्निना ।। रस-११.११९ ।।

मेर्चुर्य् > मारण

अङ्कोलस्य शिफावारिपिष्टं खल्ले विमर्दयेत् ।
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते स मृतो भवेत् ।। रस-११.१२० ।।

मेर्चुर्य् > मारण

वटक्षीरेण सूताभ्रौ मर्दयेत्प्रहरत्रयम् ।
पाचयेत्तेन काष्ठेन भस्मीभवति तद्रसः ।। रस-११.१२१ ।।

रस > भस्म > सेवन

अथातुरो रसाचार्यं साक्षाद्देवं महेश्वरम् ।
साधितं च रसं शृङ्गदन्तवेण्वादिधारितम् ।। रस-११.१२२ ।।

अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।
पर्णखण्डे धृतं सूतं जग्ध्वा स्यादनुपानतः ।। रस-११.१२३ ।।

घृतसैन्धवधान्यकजीरकार्द्रकसंस्कृतम् ।
तण्डुलीयकधान्यकपटोलालम्बुषादिकम् ।। रस-११.१२४ ।।

गोजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ।
हंसोदकं मुद्गरसः पथ्यवर्गः समासतः ।। रस-११.१२५ ।।

बृहती बिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ।
माषं मसूरं निष्पावं कुलत्थं सर्षपं तिलम् ।। रस-११.१२६ ।।

लङ्घनोद्वर्तनस्नानताम्रसुरासवान् ।
आनूपमांसं धान्याम्लं भोजनं कदलीदले ।
कांस्ये च गुरुविष्टम्भि तीक्ष्णोष्णं च भृशं त्यजेत् ।। रस-११.१२७ ।।

ककारादिगण

कण्टारीफलकाञ्जिकं च कमठस् तैलं तथा राजिकाम् ।
निम्बूकं कतकं कलिङ्गकफलं कूष्माण्डकं कर्कटी ।
कारी कुक्कुटकारवेल्लकफलं कर्कोटिकायाः फलम् ।
वृन्ताकं च कपित्थकं खलु गणः प्रोक्तः ककारादिकः ।। रस-११.१२८ ।।

देवीशास्त्रोदितः सोऽयं ककारादिगणो मतः ।

ककारादिगण

शास्त्रान्तरविनिर्दिष्टः कथ्यतेऽन्यप्रकारतः ।। रस-११.१२९ ।।

कङ्गुः कन्दुककोलकुक्कुटकलक्रोडाः कुलत्थास्तथा ।
कण्टारी कटुतैलकृष्णगलकः कूर्मः कलायः कणा ।
कर्कारुश्च कठिल्लकं च कतकं कर्कोटकं कर्कटी काली काञ्जिकमेषकादिकगणः श्रीकृष्णदेवोदितः ।। रस-११.१३० ।।

यस्मिन्रसे च कण्ठोक्त्या ककारादिर्निषेधितः ।
तत्र तत्र निषेद्धव्यं तदौचित्यमतोऽन्यतः ।। रस-११.१३१ ।।

उद्गारे सति दध्यन्नं कृष्णमीनं सजीरकम् ।
अभ्यङ्गम् अनिलक्षोभे तैलैर् नारायणादिभिः ।। रस-११.१३२ ।।

अरतौ शीततोयेन मस्तकोपरि सेचनम् ।
तृष्णायां नारिकेलाम्बु मुद्गं सशर्करम् ।। रस-११.१३३ ।।

द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् ।
रसवीर्यविवृद्ध्यर्थं दधिक्षीरेक्षुशर्कराः ।
शीतोपचारम् अन्यं च रसत्यागविधौ पुनः ।। रस-११.१३४ ।।

भक्षयेद् बृहतीं बिल्वं सकृत्साधारणो विधिः ।। रस-११.१३५ ।।