रसरत्नसमुच्चय : अध्याय 10
- च्रुचिब्ले > स्य्नोन्य्म्स्
मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ।
पाचनी वह्निमित्रा च रसवादिभिरीर्यते ।। रस-१०.१ ।।
- च्रुचिब्ले > निरुक्ति
मुष्णाति दोषान् मूषा या सा मूषेति निगद्यते ।। रस-१०.२ ।।
- च्रुचिब्ले > मतेरिअल्
उपादानं भवेत्तस्या मृत्तिका लोहमेव च ।। रस-१०.३ ।।
मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग्लक्षम् अपि मानिनाम् ।। रस-१०.४ ।।
- संधिलेप
मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ।। रस-१०.५ ।।
- टोन्/ऌएह्म् fंर् टिएगेल्
मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थम् अतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते ।। रस-१०.६ ।।
या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर् वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात् खलु मूषिकार्थे ।। रस-१०.७ ।।
श्वेताश्मानस् तुषा दग्धाः शिखित्राः शणखर्परे ।
लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि ।। रस-१०.८ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- मूषार्थं प्रशस्तमृत्तिकामाह मृत्तिकेति ।। रसबोध-१०.८;१
- पाण्डुरस्थूला पाण्डुवर्णा स्थूला च ।। रसबोध-१०.८;२
- अथवा शोणपाण्डुरा रक्तपाण्डुमिश्रवर्णा चिराध्मानसहा दीर्घकालं व्याप्य अग्निसंतापं प्राप्यापि अविदारणशीला एवंविधा या शर्करा मृत्तिका कङ्कररूपा मृत्तिका ।। रसबोध-१०.८;३
- शर्करामृत्तिकाभावे ग्राह्यमृत्तिकामाह तदिति ।। रसबोध-१०.८;४
- वाल्मीकी कृमिशैलोद्भवा मृद् उइमाटी इति वङ्गभाषा ।। रसबोध-१०.८;५
- कौलाली कुम्भकारमृदित्यर्थः ।। रसबोध-१०.८;६
- हयलद्दिना अश्वपुरीषेन ।। रसबोध-१०.८;७
- उपादानान्तराण्याह श्वेताश्मान इति ।। रसबोध-१०.८;८
- श्वेताश्मानः श्वेतप्रस्तराः ।। रसबोध-१०.८;९
- खर्परः कपालखण्डः दग्धमृत्तिका इति यावत् ।। रसबोध-१०.८;१०
- शणखर्परे इत्यत्र शणकर्पटे इति पाठे कर्पटं छिन्नवस्त्रम् ।। रसबोध-१०.८;११
- लद्दिः हयलद्दिः ।। रसबोध-१०.८;१२
- किट्टं मण्डूरम् ।। रसबोध-१०.८;१३
- कृष्णमृत्स्ना कृष्णवर्णमृत्तिका ।। रसबोध-१०.८;१४
- मूषिकामृदा मूषार्थग्राह्यमृत्तिकया सहेत्यर्थः ।। रसबोध-१०.८;१५
$
- टीका रससरत्नसमुच्चयटीका:
- मूषार्थं प्रशस्तमृत्तिकाया लक्षणमाह मृत्तिकेति ।। रसटी-१०.८;१
- पाण्डुरा स्थूलकणा शोणमिश्रपाण्डुरकणा वा ।। रसटी-१०.८;२
- कौलाली कुलालभाण्डोत्पादनार्थम् उपादानमृत्तिका ।। रसटी-१०.८;३
- अथ सर्वमूषोपयोगिसाधारणमृत्तिकाम् आह या मृत्तिकेति ।। रसटी-१०.८;४
- दग्धतुषेति ।। रसटी-१०.८;५
- चतुर्थांशेन दग्धतुषयुक्ता प्रत्येकं तथा भागैः शिखित्रैः कोकिलैर् हयलद्दिनाश्वशकृता च युक्ता सा प्रशस्ता ।। रसटी-१०.८;६
- मूषिकामृदि चतुर्थांशेन संयोज्यद्रव्याण्याह श्वेताश्मान इति ।। रसटी-१०.८;७
- गारेत्यपरपर्यायाः ।। रसटी-१०.८;८
- ते च दग्धा एव ग्राह्याः ।। रसटी-१०.८;९
- वज्रमूषा
मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ।। रस-१०.९ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वज्रमूषामाह मृद इति ।। रसबोध-१०.९;१
- मृदः पूर्वोक्तरूपमृत्तिकायाः ।। रसबोध-१०.९;२
- शणलद्दिभागौ शणस्य लद्देश्च प्रत्येकं भागद्वयम् ।। रसबोध-१०.९;३
- परिखण्ड्य चूर्णयित्वा ।। रसबोध-१०.९;४
- योगमूषा
दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ।। रस-१०.१० ।।
तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः ।। रस-१०.११ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- योगमूषामाह दग्धेति ।। रसबोध-१०.११;१
- दग्धशब्दोऽत्र अङ्गारतुषाभ्यां प्रत्येकं सम्बध्यते ।। रसबोध-१०.११;२
- मृत्स्ना पाण्डुरस्थूलादिगुणोपेता शर्करामृत्तिकेत्यर्थः ।। रसबोध-१०.११;३
- तत्तद्विडसमायुक्ता सूतजारणार्थं प्राङ्निरूपितविडमिश्रिता ।। रसबोध-१०.११;४
- तत्तद्विडविलेपिता तेनैव विडेनालिप्ता ।। रसबोध-१०.११;५
- दग्धाङ्गारादिविडान्तं सर्वमेकत्र संनीय मूषां विरचय्य विडेन लिप्त्वा शुष्कीकृत्य गृह्णीयादिति ।। रसबोध-१०.११;६
$
- टीका रससरत्नसमुच्चयटीका:
- अथ योगमूषामाह दग्धगारेति ।। रसटी-१०.११;१
- दग्धा गारा वज्रप्रसवाः श्वेतपाषाणा दग्धं शालितुषं च प्रत्येकं चतुर्थांशेन तैस्तथा तत्तद्विडचूर्णैश्च मिश्रिता या प्रशस्ता वल्मीकमृत्तिका तया विहिता घटिता मूषा योगमूषेति कीर्त्यते ।। रसटी-१०.११;२
- इयं चाभ्रकसत्त्वादेर् जारणायां विशिष्टो यो यो विडस्तेन विलेपिता तेनैव कार्या ।। रसटी-१०.११;३
- अथ जारणायां सा पारदगर्भिता कोष्ठीयन्त्रे भस्त्रिकया ध्माता चेत्तया साधितो जारितताम्रसत्त्वादिः खोटादिरूपश्च पारदो गुणवत्तरो भवति ।। रसटी-१०.११;४
- एवं चेयं योगवाहिमूषा योगमूषेत्यन्वर्थनामिकेति भावः ।। रसटी-१०.११;५
- वज्रद्रावणिकमूषा
गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ।। रस-१०.१२ ।।
क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकोचिता ।। रस-१०.१३ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वज्रद्रावणोपयोगिमूषामाह गारेति ।। रसबोध-१०.१३;१
- गारशब्दोऽत्र कोष्ठागारिकार्थकः नामैकदेशेनापि नामसाकल्यग्रहणम् इति न्यायात् कोष्ठागारिका मृत्तिकाविशेषः कुमीरे पोकार मोटी इति भाषा ।। रसबोध-१०.१३;२
- भूनागशब्देनापि तन्मृत्तिका ग्राह्या एवं च गारभूनागधौताभ्यां धौतकोष्ठागारिकाकिञ्चुलूकमृद्भ्याम् ।। रसबोध-१०.१३;३
- मूषामृत् पूर्वोक्तशर्करावाल्मीकिकौलाल्यादीनाम् अन्यतमा ।। रसबोध-१०.१३;४
- गारादितुषान्तं सर्वं समम् मृत्तिका च सर्वैः समाना ग्राह्या ।। रसबोध-१०.१३;५
- क्रौञ्चिकेति ।। रसबोध-१०.१३;६
- यन्त्रमात्रे हि क्रौञ्चिका संज्ञा वर्तते सा हि बहुधा विविधप्रकारा इत्यन्वयः ।। रसबोध-१०.१३;७
$
- टीका रससरत्नसमुच्चयटीका:
- अथ हीनजातीयनातिकठिनवज्रप्रमुखकठिनपाषाणसत्त्वरत्नानां द्रावणकरीं मूषामाह गारेति ।। रसटी-१०.१३;१
- गाराः श्वेता वज्रोत्पादकाः पाषाणाः ।। रसटी-१०.१३;२
- भूनागधौतं परिभाषाध्यायोक्तं ग्राह्यम् ।। रसटी-१०.१३;३
- शणा दग्धतुषाश्चैते मिथः समाः ।। रसटी-१०.१३;४
- तैः समा समभागा प्रागुक्तलक्षणा मूषोपादानमृद् एकत्र कृत्वा महिषीदुग्धेन संमर्द्य संस्कृता चेयं मृत्क्रौञ्चिकापक्षमात्रं नानाविधमूषारूपो यो भागो यन्त्रतुल्यस्तन्निर्माणार्थं प्रशस्तत्वेन बहुषु ग्रन्थेषु कथिता ।। रसटी-१०.१३;५
- तद्धितमूषायाः सत्त्वाहरणादिकार्येष्वग्निना चिरकालपर्यन्तं दुर्भेद्यत्वात् ।। रसटी-१०.१३;६
- भूनागोपेतत्वेन शीघ्रद्रावणोपयोगित्वाच्च ।। रसटी-१०.१३;७
- तया संस्कृतया मृदा विहिता मूषा शास्त्रे वज्रद्रावणकेति ख्याता ।। रसटी-१०.१३;८
- गारमूषा
दुग्धषड्गुणगाराष्टकिट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।
यामयुग्मपरिध्मानान् नासौ द्रवति वह्निना ।। रस-१०.१४ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- गारमूषामाह दुग्धेति ।। रसबोध-१०.१४;१
- गारस्य षड्गुणत्वं किट्टाङ्गारशणानां च प्रत्येकम् अष्टगुणत्वं कृष्णमृदपेक्षया बोध्यम् ।। रसबोध-१०.१४;२
- दुग्धं च मर्दनयोग्यम् ।। रसबोध-१०.१४;३
$
- टीका रससरत्नसमुच्चयटीका:
- अथ गारमूषामाह दग्धेति ।। रसटी-१०.१४;१
- दग्धा ये मृत्तिकापेक्षया षड्गुणा गारास्तद्विशिष्टास्तथा लोहकिट्टा अङ्गारा निर्वाणाग्नयः कोकिलाः ।। रसटी-१०.१४;२
- तथा शणाः ताग इति ख्याताः ।। रसटी-१०.१४;३
- ते च प्रत्येकं चतुर्थांशमितास्तैर्युक्ता या कृष्णवर्णा मृत्तत्कृता मूषा शास्त्रे गारमूषेति परिकीर्तिता ।। रसटी-१०.१४;४
- तेषां पाषाणानामत्र साधकमध्ये ह्यधिकभागोपेतत्वादिति भावः ।। रसटी-१०.१४;५
- वरमूषा
वज्राङ्गारतुषास्तुल्यास् तच्चतुर्गुणमृत्तिका ।
गारा च मृत्तिकातुल्या सर्वैर् एतैर् विनिर्मिता ।
वरमूषेति निर्दिष्टा याममग्निं सहेत सा ।। रस-१०.१५ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वरमूषामाह वज्रेति ।। रसबोध-१०.१५;१
- वज्रं तदाख्यलौहं पूर्वोक्तसंगत्या तत्किट्टं वा बोध्यम् ।। रसबोध-१०.१५;२
$
- टीका रससरत्नसमुच्चयटीका:
- अथ वरमूषाम् आह वज्रेति ।। रसटी-१०.१५;१
- वज्रो हीरकः ।। रसटी-१०.१५;२
- तदलाभे वैक्रान्तं ग्राह्यम् ।। रसटी-१०.१५;३
- अङ्गारा हठान्मृत्तिकाधूलिप्रक्षेपेण निरग्नयः कोकिलाः ।। रसटी-१०.१५;४
- तथा दग्धतुषाः ।। रसटी-१०.१५;५
- सर्वे च मिथस्तुल्यभागाः ।। रसटी-१०.१५;६
- सर्वेभ्यश्चतुर्गुणा मृत्तिका तत्तुल्या गाराः श्वेतपाषाणाः ।। रसटी-१०.१५;७
- एतन्निर्मिता मूषा वरमूषेति कथ्यते ।। रसटी-१०.१५;८
- वरस्य श्रेष्ठस्य महामूल्यस्य हीरकस्यात्र घटकत्वात् ।। रसटी-१०.१५;९
- वर्णमूषा
पाषाणरहिता रक्ता रक्तवर्गानुसाधिता ।
मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।। रस-१०.१६ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वर्णमूषामाह पाषाणरहितेति ।। रसबोध-१०.१६;१
- रक्ता रक्तवर्णा ।। रसबोध-१०.१६;२
- रक्तवर्गानुसाधिता वक्ष्यमाणकुसुम्भादिमाक्षिकान्तवर्गक्वाथेन भाविता शृता वा ।। रसबोध-१०.१६;३
- क्षितिखेचरलेपिता क्षितिश्च खं च क्षितिखे तत्र चरतः इति क्षितिखेचरौ भूनागमृत् काशीशं च यद्वा क्षितिस्थः खेचरः काशीशमित्यर्थः ।। रसबोध-१०.१६;४
- वर्णोत्कर्षे प्रशस्तवर्णतापादने रक्तवर्णजनने इत्याशयः ।। रसबोध-१०.१६;५
$
- टीका रससरत्नसमुच्चयटीका:
- अथ वर्णमूषामाह पाषाणेति ।। रसटी-१०.१६;१
- पाषाणा रक्तपाषाणाः ।। रसटी-१०.१६;२
- समभागैश्च तैः सहिता या रक्ता रक्तवर्णा मृत्तिका तया साधिता विहिता मूषा वर्णमूषेति प्रोक्ता ।। रसटी-१०.१६;३
- यस्मादियं नियुज्यत उपयुज्यते निर्वाहणेन धातोः पारदस्य वा रक्तवर्णोत्पादनार्थम् ।। रसटी-१०.१६;४
- उक्तं च रसहृदये ।। रसटी-१०.१६;५
- निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णम् ।
- तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ।। रसटी-१०.१६;६
- तारे तन्निर्व्यूढं यावत् पीतं भवेद्रुचिरम् ।
- हेम्ना समेन मिलितं मात्रातुल्यं भवेत् कनकम् ।। रसटी-१०.१६;७
- इति ।। रसटी-१०.१६;८
- अत्र निर्वाहणं चास्यां मूषायां कार्यम् ।। रसटी-१०.१६;९
- रक्तवर्गः श्वेतवर्गश्चास्मिन्नेवाध्याये वक्ष्यमाणः ।। रसटी-१०.१६;१०
- रूप्यमूषा
पाषाणरहिता श्वेता श्वेतवर्गानुसाधिता ।
मृत् तया साधिता मूषा क्षितिखेचरलेपिता ।
रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।। रस-१०.१७ ।।
- विडमूषा
तत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ।। रस-१०.१८ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- विडमूषामाह तत्तदिति ।। रसबोध-१०.१८;१
- तत्तद्भेदमृदोद्भूता शर्करादीनाम् अन्यतममृदा रचिता इत्यर्थः ।। रसबोध-१०.१८;२
- तत्तद्भेदमृदोद्भूता इत्यत्र तत्तद्विडमृदोद्भूता इति पाठे पूर्वोक्तविडेन पूर्वोक्तमृदा च उद्भूता निर्मिता ।। रसबोध-१०.१८;३
- देहलोहार्थयोगार्थं देहस्य लौहवद् दार्ढ्यसम्पादनार्था ये योगाः तदर्थं तत्कर्मसम्पादनार्थम् इत्यर्थः ।। रसबोध-१०.१८;४
$
- टीका रससरत्नसमुच्चयटीका:
- अथ विडमूषामाह तत्तद्विडमृदुद्भूतेति ।। रसटी-१०.१८;१
- अभ्रसत्त्वजारणस्वर्णजारणोपयोगीनि यानि वडवानलादिविडानि यथोद्दिष्टरसादिभावितानि चूर्णानि तथा सर्वलोहादिजारणोपयोगिविडात्मकश्चूर्णः परिभाषाध्याये विडवर्णनावसरे प्रागुक्तः ।। रसटी-१०.१८;२
- तथा पूर्वोक्ता नानाविधा पाण्डुरादिमृत्तदुद्भूता तत्सिद्धा तथा तत्तद्विडैर् ग्रासजारणसाधनैर् विशिष्टैश्चूर्णैरन्तर्विलेपिता या मूषा सा विडमूषेत्युच्यते ।। रसटी-१०.१८;३
- इयं मूषा दृढकायकररसायनविधौ साधनत्वेन देहार्था देहोपयोगिनीत्यर्थः ।। रसटी-१०.१८;४
- तथा लोहमारणोपयोगिनी ।। रसटी-१०.१८;५
- अत एव लोहार्था ।। रसटी-१०.१८;६
- तथा अर्थो धनं तथा सुवर्णाद्युत्पादनविधौ धातुवादे साधनत्वेनार्थार्था ।। रसटी-१०.१८;७
- तथा कासघ्नरत्नकरण्डकरसार्शोनाशकसर्वलोकाश्रयरसप्रभृतिनानाविधरोगघ्नरसविधौ साधनत्वेन योगार्था चेतीयं चतुर्विधकार्योपयोगिनी भवति ।। रसटी-१०.१८;८
- वज्रद्रावणिकमूषा (२)
गारभूनागधौताभ्यां तुषमृष्टशणेन च ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ।। रस-१०.१९ ।।
क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ।। रस-१०.२० ।।
बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका ।
सहतेऽग्निं चतुर्यामं द्रवेण व्याधिता सती ।। रस-१०.२१ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- पूर्वोक्तवज्रद्रावणोपयोगिमूषायाः प्रकारान्तरमाह गारेति ।। रसबोध-१०.२१;१
- मत्कुणः छारपोका इति ख्यातः क्रिमिविशेषः तस्य शोणितैः ।। रसबोध-१०.२१;२
- अब्दध्वनिः वनतण्डुलीयकः कांटानटे इति भाषा बालाब्दध्वनिमूलैः नवोत्पन्नतण्डुलीयमूलैः यद्वा वालः अश्वपुच्छकेशः तथा अब्दध्वनिमूलं तैः लिप्ता इत्यनेनान्वयः ।। रसबोध-१०.२१;३
- द्रवेण व्याधिता विद्धा स्पृष्टा इत्यर्थः द्रवपूर्णा इत्याशयः ।। रसबोध-१०.२१;४
$
- टीका रससरत्नसमुच्चयटीका:
- अथाव्यभिचारेण वज्रमात्रद्रावणार्थं वज्रमूषामाह गारेति ।। रसटी-१०.२१;१
- वालाब्देति ।। रसटी-१०.२१;२
- वाला नरकेशाः ।। रसटी-१०.२१;३
- अब्दध्वनिमूलं तन्दुलीयकमूलम् ।। रसटी-१०.२१;४
- इयं मूषा द्रवद्रवेण व्यथिता सती अन्तःस्थतैजसद्रव्ययोगसंयोगेन बाह्याग्निसंयोगेन च संततं पीडिता सत्यप्यग्निं सहते ।। रसटी-१०.२१;५
- मूषाप्यायन
द्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत्तन्मूषाप्यायनम् उच्यते ।। रस-१०.२२ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- मूषाप्यायनमाह द्रवे इति ।। रसबोध-१०.२२;१
- ध्मायते अनेनेति ध्मानमग्निः तद्योगतः अग्निसंयोगाद् द्रवे द्रावणोपयोगिनि द्रव्ये द्रवीभावमुखे द्रवीभवितुम् आरब्धे मूषाया यत् क्षणम् उद्धरणम् अग्नितः उत्तोलनम् अवतारणमित्यर्थः तद् आप्यायनं तर्पणं स्थायित्वसम्पादनम् इत्यर्थः ।। रसबोध-१०.२२;२
- वृन्ताकमूषा
वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।
धत्तूरपुष्पवच् चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ।। रस-१०.२३ ।।
अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ।। रस-१०.२४ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वृन्ताकमूषामाह वृन्ताकेति ।। रसबोध-१०.२४;१
- वृन्ताकं वार्त्ताकुः वार्त्ताकुफलसदृशाकारां मूषां कृत्वा तत्र द्वादशाङ्गुलदीर्घं नालं योजयेत् नालाग्रभागं च धुस्तूरपुष्पवद् उपर्यधो युग्मरूपावस्थितम् अष्टाङ्गुलं सच्छिद्रं च कुर्यात् ।। रसबोध-१०.२४;२
$
- टीका रससरत्नसमुच्चयटीका:
- वृन्ताकमूषामाह वृन्ताकाकारेति ।। रसटी-१०.२४;१
- द्वादशकाङ्गुलम् ।। रसटी-१०.२४;२
- द्वादशाङ्गुलं दीर्घम् ऊर्ध्वम् उत्तानमूषाया ऊर्ध्वतनमुखभागो धत्तूरपुष्पवत् क्रमेण विस्तीर्णस्तद्वदेव च संश्लेषेण त्रिचतुष्कोणयुतो ध्मानावसरे पिहितेऽपि मुखे सति तत्कोणमार्गेणान्तःस्थधूमस्य बहिर्निर्गमनार्थं कोणघटनेनैव तन्मुखं सच्छिद्रं भवति ।। रसटी-१०.२४;३
- तच्च मुखम् अष्टाङ्गुलविस्तृतं वर्तुलसूत्रवेष्टनेनाष्टाङ्गुलमितम् इत्यर्थः ।। रसटी-१०.२४;४
- गोस्तनमूषा
मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ।। रस-१०.२५ ।।
- टीका रससरत्नसमुच्चयटीका:
- अथ गोस्तनमूषामाह मूषाया इति ।। रसटी-१०.२५;१
- शिखायुक्तेति ।। रसटी-१०.२५;२
- शिखराकारपिधानकसहितेयमेव चान्धमूषाभिधीयते ।। रसटी-१०.२५;३
- द्वंद्वितबीजमेलापादिविधावस्या उपयोगो बोध्यः ।। रसटी-१०.२५;४
- यत्र तु न्युब्जया तयाच्छादनं क्रियते तत्र पिधानरहिता ग्राह्या ।। रसटी-१०.२५;५
- यथा नाभियन्त्रे प्रागुक्तम् ।
- ततश्चाच्छादयेत् सम्यग्गोस्तनाकारमूषया ।
- इति ।। रसटी-१०.२५;६
- मल्लमूषा
निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ।। रस-१०.२६ ।।
- टीका रससरत्नसमुच्चयटीका:
- मल्लमूषामाह निर्दिष्टेति ।। रसटी-१०.२६;१
- मल्लं पिधानोपयोगि विस्तीर्णं किंचिद् गभीरोदरं मृन्मयं पात्रं शरावेति लोके प्रसिद्धम् ।। रसटी-१०.२६;२
- सप्तविंशतितमेऽध्यायेऽस्या उपयोगं वक्ष्यति मदनसंजीवनरसविधौ ।। रसटी-१०.२६;३
- अन्यत्रापि प्रभूतस्थले चैषोपयुज्यते ।। रसटी-१०.२६;४
- तदेवोच्यते पर्पट्यादीति ।। रसटी-१०.२६;५
- पक्वमूषा
कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ।। रस-१०.२७ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- पक्वमूषामाह कुलालेति ।। रसबोध-१०.२७;१
- घटकपालयोः पृथक् पृथक् निर्माणार्थं यः प्रतिरूपः सः कुलालभाण्डशब्देनोच्यते तद्रूपा इत्यर्थः ।। रसबोध-१०.२७;२
- पोटल्यादिविपाचने रत्नगर्भपोटल्यादिपाके इत्यर्थः ।। रसबोध-१०.२७;३
$
- टीका रससरत्नसमुच्चयटीका:
- त्रयोदशाध्यायोक्तपर्पटीप्रभृतिरसानाम् अल्पस्वेदसाध्यानां पक्वमूषामाह कुलालेति ।। रसटी-१०.२७;१
- वस्त्रमयपोटलीव भेषजगर्भितं भेषजमयमूषा कपर्दिकाशङ्खादि भूमौ गजपुटादिना पाचयितुम् यत्र पात्रान्तरे ध्रियते पाकोत्तरम् आच्छादनसहितं च गृह्यते ।। रसटी-१०.२७;२
- यथा राजयक्ष्मचिकित्सायां मृगाङ्कपोटलीविधौ स रसः पोटलीत्युच्यते ।। रसटी-१०.२७;३
- गोलमूषा
निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी ।। रस-१०.२८ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- गोलमूषामाह निर्वक्त्रेति ।। रसबोध-१०.२८;१
- मुखविरहितगोलाकारा इत्यर्थः ।। रसबोध-१०.२८;२
- सत्वरद्रवरोधिनी द्रवपदार्थस्रावनिवारिणी इत्यर्थः ।। रसबोध-१०.२८;३
- मध्यस्थितपुटनद्रव्या सम्यङ्निरुद्धानना गोलाकृतिमूषा गोलमूषा बोध्या ।। रसबोध-१०.२८;४
$
- टीका रससरत्नसमुच्चयटीका:
- अथ गोलमूषामाह निर्वक्त्रेति ।। रसटी-१०.२८;१
- गत्वरद्रव्यं पारदरसकमनःशिलाहरितालप्रभृति मध्ये दत्त्वा कुलालेन या निर्मुखैव विधीयते एतत्समा ताम्रमूषा रसहृदयेऽष्टादशावबोधेऽभिहिता ।। रसटी-१०.२८;२
- अत एव तदुदाहरणमत्र नोपयोगि ।। रसटी-१०.२८;३
- मृन्मयोदाहरणप्रयोगो नोपलभ्यते ।। रसटी-१०.२८;४
- महामूषा
तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत् स्थूला महामूषेत्यसौ स्मृता ।
सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ।। रस-१०.२९ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- महामूषामाह तले इति ।। रसबोध-१०.२९;१
- कूर्पराकारा कूर्परः कफोणिः भुजमध्यसन्धिर् इत्यर्थः तदाकारा ।। रसबोध-१०.२९;२
$
- टीका रससरत्नसमुच्चयटीका:
- अथ महामूषामाह तल इति ।। रसटी-१०.२९;१
- अयोऽभ्रकेति ।। रसटी-१०.२९;२
- अत्रायःशब्देन कान्तं ग्राह्यम् ।। रसटी-१०.२९;३
- तस्यान्तःपीतरेखाविशिष्टस्य छागरक्तेन भावनया शुद्धस्य ।। रसटी-१०.२९;४
- पिण्डीबद्धस्य कोष्ठयन्त्रोदरे मूषायां लघुभस्त्रया धमनाद्भवति सत्त्वनिपातनम् ।। रसटी-१०.२९;५
- मण्डूकमूषा
मण्डूकाकारा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ।। रस-१०.३० ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- मण्डूकमूषामाह मण्डूकेति ।। रसबोध-१०.३०;१
- मण्डूकः भेकः तदाकारा ।। रसबोध-१०.३०;२
- षडङ्गुलप्रमाणेन निम्नतायामविस्तरा षडङ्गुलप्रमाणगभीरतादैर्घ्यविस्तारयुक्ता ।। रसबोध-१०.३०;३
$
- टीका रससरत्नसमुच्चयटीका:
- मण्डूकमूषामाह मण्डूकेति ।। रसटी-१०.३०;१
- तदाकारमूषाया गाम्भीर्यदैर्घ्यपरिणाहाः षडङ्गुलमिताः कार्याः ।। रसटी-१०.३०;२
- उपरि मृत्तिकया ताम् चतुरङ्गुलमितम् आच्छाद्य भूमिपृष्ठोपरीत्यर्थः ।। रसटी-१०.३०;३
- मूसल-/मुशलमूषा
मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता ।। रस-१०.३१ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- मुषलमूषामाह मूषेति ।। रसबोध-१०.३१;१
- वर्तुला मूलाद् ऊर्ध्वमिति बोध्यम् ।। रसबोध-१०.३१;२
- चक्रिबद्धरसे स्त्रीरोगाधिकारोक्त औषधविशेषः ।। रसबोध-१०.३१;३
$
- टीका रससरत्नसमुच्चयटीका:
- मुशलमूषामाह मूषेति ।। रसटी-१०.३१;१
- चक्रिबद्धरसो द्वाविंशाध्याये वक्ष्यमाणः ।। रसटी-१०.३१;२
- कोष्ठी (गेनेरल् देfइनितिओन्)
सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणम् उच्यते ।। रस-१०.३२ ।।
- टीका रससरत्नसमुच्चयटीका:
- अल्पाग्निसाध्यस्य द्रव्यपाकस्य साधनाय मूषा नानाविधा उक्ताः ।। रसटी-१०.३२;१
- संप्रति प्रभूताग्निसाध्यस्य द्रव्यपाकस्य साधनार्थं विविधाः कोष्ठीर् वक्तुकामः प्रथमं तासां प्रयोजनमाह सत्त्वानामिति ।। रसटी-१०.३२;२
- मूषामृदैव कोष्ठीर् विदध्याद् इत्यभिप्रायेणैवात्र कोष्ठीनां मृद्विशेषो नोक्तः ।। रसटी-१०.३२;३
- रसरत्नाकरे तु मृत्तिकाद्रव्याणां प्रमाणमपि स्पष्टं कृत्वाभिहितम् ।। रसटी-१०.३२;४
- तथा च तद्ग्रन्थः ।
- गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका ।
- अजाश्वानां मलं दग्धं यावत् तत् कृष्णतां गतम् ।। रसटी-१०.३२;५
- पाषाणभेदपत्राणि कृष्णा मृच्च समं समम् ।
- वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा पेषयेद्दृढम् ।। रसटी-१०.३२;६
- तेन कोष्ठीर् वङ्कनाला वज्रमूषाश्च कारयेत् ।
- मृन्मयकोशस्य कोष्ठीति नाम प्रसिद्धम् ।। रसटी-१०.३२;७
- सा च द्विविधा ।। रसटी-१०.३२;८
- भूमिकोष्ठी चलत्कोष्ठी च ।। रसटी-१०.३२;९
- यत्कोष्ठीयन्त्रं प्रागुदितं सा चलत्कोष्ठीति निगद्यते ।। रसटी-१०.३२;१०
- इदानीम् उच्यमानास्तु सर्वा भूमिकोष्ठ्यः ।। रसटी-१०.३२;११
- ताश्च द्विविधाः ।। रसटी-१०.३२;१२
- प्रकाशकोष्ठी सपिधानकोष्ठी चेति भेदेन ।। रसटी-१०.३२;१३
- अङ्गारकोष्ठी
राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च ।। रस-१०.३३ ।।
एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ।। रस-१०.३४ ।।
देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिर् उत्तरङ्गस्य चोर्ध्वतः ।। रस-१०.३५ ।।
द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ।। रस-१०.३६ ।।
शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ।। रस-१०.३७ ।।
सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेद् अङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ।। रस-१०.३८ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- अङ्गारकोष्ठिकालक्षणमाह राजहस्तेति ।। रसबोध-१०.३८;१
- राजहस्तसमुत्सेधा हस्तद्वयोन्नता ।। रसबोध-१०.३८;२
- राजहस्तस्य विस्तृतव्याख्या गजपुटव्याख्यायां द्रष्टव्या ।। रसबोध-१०.३८;३
- चतुरस्रा चतुष्कोणा ।। रसबोध-१०.३८;४
- वितस्त्याभोगसंयुतं द्वादशाङ्गुलविस्तृतम् ।। रसबोध-१०.३८;५
- द्वारं सार्धवितस्त्या च इत्यस्य देहल्यधः इत्यनेन संबन्धः ।। रसबोध-१०.३८;६
- देहली द्वारनिम्ने पिण्डिका ।। रसबोध-१०.३८;७
- प्रादेशप्रमिता अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते इत्युक्तलक्षणा तर्जनीसहितविस्तृताङ्गुष्ठप्रमाणा ।। रसबोध-१०.३८;८
- उत्तरङ्गस्य द्वारोर्ध्वस्थदारुणः ।। रसबोध-१०.३८;९
- हस्तद्वयोत्सेधं हस्तमितायामविस्तारं चतुष्कोणं समन्तात् मृन्मयभित्तिवेष्टितं च चुल्ल्याकारमेकं मार्त्तिकं यन्त्रं कृत्वा तस्य एकभित्तौ वितस्तिविस्तरं द्वारं द्वारपिण्डिकाधः अष्टादशाङ्गुलमानं द्वारान्तरं च कुर्यात् ।। रसबोध-१०.३८;१०
- द्वारोर्ध्वभागे अङ्गुष्ठतर्जन्योर् मध्यवत् विस्तृतां भित्तिं स्थापयित्वा तदुपरि तद्वद्विस्तृतं द्वारमन्यत् विदध्यात् ततः इष्टकया द्वारसन्धिं रुद्ध्वा आलिप्य च कोष्ठीमङ्गारैः परिपूर्य द्वाभ्यां भस्त्राभ्यां धमेत् ।। रसबोध-१०.३८;११
- भस्मीभूते च अङ्गारे पुनरपि अङ्गारं सत्त्वपातनगोलादिकं च पञ्च पञ्च कृत्वा ऊर्ध्वद्वारेण पुनः पुनः निक्षिपेत् ।। रसबोध-१०.३८;१२
- इयम् अङ्गारकोष्ठी खरद्रव्याणां सत्त्वपातने शुभा ज्ञेया ।। रसबोध-१०.३८;१३
$
- टीका रससरत्नसमुच्चयटीका:
- प्रथमं सपिधानकोष्ठीमाह राजहस्तेति ।। रसटी-१०.३८;१
- सपादहस्तस्त्रिंशदङ्गुलात्मकस्तन्मित उत्सेध उच्छ्रयो यस्यास्तथोक्ता ।। रसटी-१०.३८;२
- तदर्धमात्रौ दैर्घ्यविस्तारौ यस्यास्तथोक्ता ।। रसटी-१०.३८;३
- तथा चतुरस्रा चतुष्कोणा सर्वतो दार्ढ्याय मृन्मयेन कुड्येन भित्त्या बहिर्वेष्टिता कार्या ।। रसटी-१०.३८;४
- तेन चतसृषु दिक्षु चतस्रो भित्तयः सम्भवन्ति ।। रसटी-१०.३८;५
- एकभित्ताविति सामान्यत उक्तमपि योग्यतया पूर्वभित्तौ पश्चिमभित्तौ वेति विशेषार्थे पर्यवस्यति ।। रसटी-१०.३८;६
- तस्यां दिशि स्थितायां भित्तौ द्वारं वितस्त्या संमितं कार्यम् ।। रसटी-१०.३८;७
- यद्वितस्तिमितं दीर्घं सूत्रं तद्वर्तुलं निधायान्तरवकाशो यावान् सम्भवति तन्मितं वर्तुलं चतुरङ्गुलमितम् इत्यर्थः ।। रसटी-१०.३८;८
- अन्तःस्थितज्वालायाः सत्त्वनिर्गमकालबोधिकायाः परीक्षार्थं चरेत् कुर्यात् ।। रसटी-१०.३८;९
- तदर्थं प्रकाश आवश्यकः ।। रसटी-१०.३८;१०
- स तु प्राच्यां प्रतीच्यां वाधिक्येन लभ्यत इति प्रकाशयोग्यत्वाद् विशिष्टा दिगेवात्र गृहीता ।। रसटी-१०.३८;११
- तद्द्वारस्याधोभागो देहली द्वारदेहसंरक्षिका सा द्वित्र्यङ्गुलमिता कार्या ।। रसटी-१०.३८;१२
- तादृग्देहल्या अधोभागे भूतलं संलग्नं पूर्ववदेव सार्धवितस्तिमितसूत्रेण परिच्छिन्नम् अर्थात् षडङ्गुलं वर्तुलं द्वारं भस्त्रायोजनाय कार्यम् ।। रसटी-१०.३८;१३
- अत्र वितस्तिदीर्घा तावद् भित्तिरेव सार्धवितस्तिदीर्घा च द्वारद्वयार्थं पर्याप्ता न भवति ।। रसटी-१०.३८;१४
- अत उक्तं सूत्रमितं वर्तुलं चेति ।। रसटी-१०.३८;१५
- केचित्तु क्रमनिम्नभूमिनिखाततिर्यग्गर्ताभागोऽपि सार्धवितस्तिमानार्थं संग्राह्य इति नोक्तसूत्रदैर्घ्यमानापेक्षा लोहकाराणां तथैव संप्रदायोऽपि संप्रति ध्मानविधौ दृश्यत इति वदन्ति ।। रसटी-१०.३८;१६
- तत्तु नोचितम् ।। रसटी-१०.३८;१७
- तादृशगर्ताभागस्य पातालकोष्ठिकायां वक्ष्यमाणत्वात् ।। रसटी-१०.३८;१८
- ऊर्ध्वभागे कोष्ठिकाया उत्तराङ्गस्योर्ध्वाङ्गस्य च कर्तव्या या भित्तिः सा चतुर्विधापि प्रादेशप्रमिता दशाङ्गुलमितैवार्थाच्छिखाकारवत् संकुचिता कार्या ।। रसटी-१०.३८;१९
- शिखास्थान ऊर्ध्वं द्वारं तु प्रादेशमितायामविस्तारम् एव कार्यम् ।। रसटी-१०.३८;२०
- ततस्तद्द्वारं चेष्टिकया रुद्ध्वा प्रागुक्तवितस्तिमितं द्वारं च कोकिलैः समापूर्य धमेत् ।। रसटी-१०.३८;२१
- किं कृत्वा रुद्ध्वा धमेत्तदाह प्रथमं शिखित्रान् कोकिलान् ध्मानार्हम् अभ्रकादिद्रवं चोर्ध्वद्वारेण क्रमेण निक्षिपेत् ।। रसटी-१०.३८;२२
- किं तद् ध्मानद्रव्यं पिण्डीकृतं भागशः सकृदेव वा निक्षिपेद् इत्याकाङ्क्षायामाह सत्त्वपातनगोलान् इति ।। रसटी-१०.३८;२३
- पुनः पुनः प्रतिप्रक्षेपकालावसरं संततं ध्मात्वा यदाङ्गाराः कार्श्यं प्राप्नुयुः श्वेतभस्मावृताश्च भवेयुस्तदा पुनः कोकिलान् दत्त्वा पुनर्धमनं कार्यम् ।। रसटी-१०.३८;२४
- एवं भस्त्राद्वयेन प्रहरपर्यन्तं संततं ध्मानेन प्रायः कठिनद्रव्याणां सत्त्वनिर्गमनकालः समुपजायते ।। रसटी-१०.३८;२५
- परं तु नायं कालः सत्त्वनिर्गमनज्ञापकः स्वातन्त्रेण किंतु शुक्ला वह्निज्वालैव ज्ञायमाना ।। रसटी-१०.३८;२६
- उक्तं हि परिभाषाध्याये ।
- यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
- शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।
- इति ।। रसटी-१०.३८;२७
- तदा स्फुटिपिण्डीर् बहिर् निष्कास्य किट्टं पृथक्कृत्य गुरुमार्गेण सत्त्वमात्रं ग्राह्यम् ।। रसटी-१०.३८;२८
- अथ द्वितीयः सत्त्वपिण्डानां प्रक्षेपकालः प्राप्नोतीति बोध्यम् ।। रसटी-१०.३८;२९
- अथ मृदुद्रव्याणां सत्त्वपातार्थम् अल्पध्मानापेक्षा ।। रसटी-१०.३८;३०
- पातालकोष्ठी
दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ।। रस-१०.३९ ।।
चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ।। रस-१०.४० ।।
किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् ।
मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत् ।। रस-१०.४१ ।।
आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा मृदूनां सत्त्वपातिनी ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ।। रस-१०.४२ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- पातालकोष्ठिकामाह दृढभूमाविति ।। रसबोध-१०.४२;१
- कठिनमृत्तिकायां वितस्तिमानं वर्तुलं गर्तम् एकं कृत्वा तन्मध्ये चतुरङ्गुलविस्तारं चतुरङ्गुलगभीरं गर्ताद् भूपृष्ठपर्यन्तयायिवक्राकृतिनालसंयुक्तम् ईषदुच्छ्रितं च गर्तमन्यं कुर्यात् ।। रसबोध-१०.४२;२
- ततः अभ्यन्तरगर्तमध्ये पञ्चरन्ध्रसंयुक्तां मृच्चक्रीं स्थापयित्वा अङ्गारैः कोष्ठीं परिपूर्य च एकभस्त्रया प्रधमेत् ।। रसबोध-१०.४२;३
- मृदुद्रव्याणां सत्त्वपातनार्थम् इयं पातालकोष्ठीति ज्ञेयमिति निष्कर्षः ।। रसबोध-१०.४२;४
$
- टीका रससरत्नसमुच्चयटीका:
- अतस्तदुपयोगिकोष्ठीविशेषमाह दृढभूमाविति ।। रसटी-१०.४२;१
- तत्र द्वादशाङ्गुलं गर्तं विधाय तत्तलमध्ये चतुरङ्गुलगाम्भीर्यविस्तारम् अन्यं वर्तुलं गर्तं कृत्वा गर्भगर्ततलम् आरभ्य पृष्ठभागपर्यन्तं बाह्यगर्ताभिमुखं तत्सल्लग्नं किंचित्समुन्नतं तिर्यङ्नालसमन्वितं द्वारं विधाय गर्भगर्तोपरि मृच्चक्रीं पञ्चरन्ध्रविशिष्टां वायोर् ऊर्ध्वगमनार्थं क्षिपेत् ।। रसटी-१०.४२;२
- तदुपर्यङ्गारांस्तदुपरि सत्त्वपातनगोलांश्च निक्षिप्य सर्वां कोष्ठीं कोकिलैः पूरयित्वैकभस्त्रया धमेत् ।। रसटी-१०.४२;३
- एषा पातालकोष्ठिकेत्युच्यते ।। रसटी-१०.४२;४
- गारकोष्ठी
द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ।। रस-१०.४३ ।।
भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद् वङ्कनालतः ।
गारकोष्ठीयम् आख्याता मृष्टलोहविनाशिनी ।। रस-१०.४४ ।।
- टीका रससरत्नसमुच्चयटीका:
- अधोध्मानविशिष्टां कोष्ठीमुक्तोर्ध्वधमनविशिष्टां कोष्ठीमाह द्वादशेति ।। रसटी-१०.४४;१
- प्रादेशायामविस्तारा कोष्ठी भूतलोपरि कार्या ।। रसटी-१०.४४;२
- सा च तलभागम् आरभ्योपरि चतुरङ्गुलभागं विहाय तदुपरि वलयेन कटकेन समन्वितां तां कृत्वा वलयोपरि प्रभूतच्छिद्रयुक्तां चक्रीं निक्षिप्य तत्र कोकिलांश्च दत्त्वा वङ्कनालतः प्रधमेत् ।। रसटी-१०.४४;३
- मृत्तिकापेक्षया अधिकगारभागमिश्रितमृदुपादानेयं कोष्ठी गारकोष्ठीत्युच्यते ।। रसटी-१०.४४;४
- इयं कांस्यरीतिप्रमुखं यत्सृष्टलोहं तन्मध्ये संसर्गघटकयोर् मध्य एकस्यावशेषकरी द्वितीयं विनाश्येत्यर्थः ।। रसटी-१०.४४;५
$
- टीका रससरत्नसमुच्चयबोधिनी:
- गारकोष्ठीमाह द्वादशेति ।। रसबोध-१०.४४;१
- द्वादशाङ्गुलगभीरा प्रादेशप्रमाणविस्तारविशिष्टा कोष्ठी एका कार्या तस्या ऊर्ध्वं चतुरङ्गुले वलयाकारम् आलवालम् एकं दत्त्वा तदुपरि बहुच्छिद्रां चक्रीं निधाय अङ्गारं निक्षिप्य च वङ्कनालेन प्रधमेत् इति ।। रसबोध-१०.४४;२
- मृष्टलोहविनाशिनी शोधितलौहमारिणी इत्यर्थः ।। रसबोध-१०.४४;३
- वङ्कनाल
मूषामृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ।
वङ्कनालम् इदं प्रोक्तं दृढध्मानाय कीर्तितम् ।। रस-१०.४५ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- गारकोष्ठिकायां वङ्कनालम् इत्युक्तं किं तत् वङ्कनालम् इत्याशंसायामाह मूषामृद्भिरिति ।। रसबोध-१०.४५;१
- शर्करादीनाम् अन्यतमाभिः मूषोपयोगिमृद्भिः अरत्निप्रमितं दृढं नालं कृत्वा तन्मुखे पञ्चाङ्गुलप्रमाणम् अधोमुखं नालम् एकं योजयेत् दृढध्मानाय तद् वङ्कनालं वेदितव्यम् ।। रसबोध-१०.४५;२
- मूषाकोष्ठी/तिर्यक्प्रधमनकोष्ठी
कोष्ठी सिद्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी ।। रस-१०.४६ ।।
- टीका रससरत्नसमुच्चयटीका:
- अथ सिद्धरसानां खोटबद्धादीनाम् अभ्रकादिसत्त्वानां च काचटङ्कणसौवीरादिना शोधयितुं साधनभूतां कोष्ठीमाह द्वादशाङ्गुलेति ।। रसटी-१०.४६;१
- अस्यां कोष्ठ्यां स्थापितमूषामध्ये सिद्धरसादि प्रक्षिप्य संततध्मानावसरेऽन्तरान्तरा मुहुः काचचूर्णादि दत्त्वा धमेत् ।। रसटी-१०.४६;२
- मृदुद्रव्यं सत्त्वादि ।। रसटी-१०.४६;३
- इयं कोष्ठी बुध्नभागमारभ्य मुखभागपर्यन्तं क्रमविस्तृता प्रादेशप्रमितवर्तुलमुखी कार्येत्यनुक्तमपि बोध्यम् ।। रसटी-१०.४६;४
- पूर्वस्यास्तथामानमुखस्योक्तत्वात् ।। रसटी-१०.४६;५
- पुट
रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितम् औषधम् ।। रस-१०.४७ ।।
लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।
अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ।। रस-१०.४८ ।।
पुटाद् ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः ।। रस-१०.४९ ।।
यथाश्मनि विशेद् वह्निर् बहिःस्थपुटयोगतः ।
चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ।। रस-१०.५० ।।
- टीका रससरत्नसमुच्चयटीका:
- संप्रति मूषाकोष्ठ्यपेक्ष्याधिकतराग्निजनकपुटान् वक्तुं तेषां प्रयोजनमाह रसेति ।। रसटी-१०.५०;१
- रसलोहप्रभृतिकठोरद्रव्याणां सम्यक्पाको भेषजार्थमपेक्ष्यते ।। रसटी-१०.५०;२
- स च पाकः क्रियारूपस्तुलया परिमाणेन वा परिच्छेत्तुं न शक्यते ।। रसटी-१०.५०;३
- सुपाकस्य प्रमाणबोधकं पुटम् एवाग्निदीपकोपलतुषगोर्वरसंपूर्यगर्तादिविशेष एव सम्भवति ।। रसटी-१०.५०;४
- एतद्गर्तापूरितोपलाग्निनैकः सुपाकोऽभवदिति तत्पुटविशेषावृत्तिः कार्या ।। रसटी-१०.५०;५
- यथोक्तगुणलाभपर्यन्तमिति भावः ।। रसटी-१०.५०;६
- न्यूनपाकेन गन्धवर्णरसस्पर्शः सम्यङ्न जायते ।। रसटी-१०.५०;७
- अधिपाकेन तु द्रव्यं निःसारं दग्धं भवत्योदनवत् ।। रसटी-१०.५०;८
- अथ पुटस्य योगतो गुणांल्लोहस्थान् आह लोहादेरिति ।। रसटी-१०.५०;९
- अपुनर्भावो न प्राकृतस्वरूपापादनं पञ्चमित्रसंस्कारेणापि ।। रसटी-१०.५०;१०
- गुणाधिक्यमामावस्थापन्ने तस्मिन् भक्षिते जाठराग्न्यपाकेन रोगवारका गुणास्तथा पुष्ट्यादयो मार्दवादयश्चानुद्भूतास्तेषाम् उद्भवेनाधिक्याभासः ।। रसटी-१०.५०;११
- तेन चाग्रता श्रेष्ठताधिकमूल्यता ।। रसटी-१०.५०;१२
- तथाप्सु प्रक्षिप्तस्य तस्य न मज्जनम् उपरितरणम् ।। रसटी-१०.५०;१३
- अङ्गुलिभ्यां पीडितस्य तस्य सूक्ष्माङ्गुलिरेखासु प्रविष्टत्वं च ।। रसटी-१०.५०;१४
- अभ्रकवज्रहरितालादिरूपपाषाणविशेषेषु तु लघुत्वादयो गुणाः पुटात्प्रादुर्भवन्ति ।। रसटी-१०.५०;१५
- किं बहुना गुणवर्णनेन ।। रसटी-१०.५०;१६
- यत्र गुणाः सर्वे सम्भूयोत्कटा निवसन्ति तस्मात् पारदादपि जीर्णरसोपरसमणिलोहात् सुसिद्धानां लोहानां गुणा यथाविधिसेविनो नरस्य शरीरेऽधिका एव ।। रसटी-१०.५०;१७
- भूरिफलयुतोऽपि सिद्धरसस्य हि क्रामणार्थं किंचित्स्फुटितयौवना कामिनी संनिहितापेक्ष्यते भाषणचुम्बनालिङ्गनार्थं तत्स्तनाभ्यामङ्गमर्दनार्थं च ।। रसटी-१०.५०;१८
- तदसंनिधौ सर्वशरीरे क्रामणाभावेन न मन्मथः ।। रसटी-१०.५०;१९
- सांनिध्ये तु प्रमादेन मैथुनम् ।। रसटी-१०.५०;२०
- ततश्च मारणम् आपद्यते ।। रसटी-१०.५०;२१
- किंच रससेविनो वर्षपर्यन्तं परिहारविशेषः ।। रसटी-१०.५०;२२
- आदौ क्षेत्रीकरणं चावश्यकम् ।। रसटी-१०.५०;२३
- पारदसिद्धावनुभूतसर्वक्रियासाधकः प्रभूतद्रव्यादिसंपच्चापेक्ष्यते ।। रसटी-१०.५०;२४
- अत एव नातिनिरपायस्य लोहस्य गुणानाम् आधिक्यमुपचर्यते ।। रसटी-१०.५०;२५
- ननु पाषाणतोऽपि कठिनाणां लोहविशेषाणां नावयवविश्लेष इति कथम् उक्तलाभ इत्याशङ्क्य निदर्शनेन पुनर्लोहगुणान् दृढीकरोति यथाश्मनीति ।। रसटी-१०.५०;२६
- अन्तरग्निप्रवेशेन सर्वं सम्भवतीति भावः ।। रसटी-१०.५०;२७
- महापुट
निम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोत्पलसहस्रेण पूरिते पुटनौषधम् ।। रस-१०.५१ ।।
क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ।
वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ।। रस-१०.५२ ।।
- टीका रससरत्नसमुच्चयटीका:
- संप्रति गर्ताविशेषं महापुटमाह भूमिमध्य इष्टिकादिभिः कृते कुड्ये कुड्यमये गर्ते गाम्भीर्यविस्ताराभ्यां द्विहस्ते तथा चतुष्कोणे तादृग्गर्ते वन्यच्छगणैः सहस्रसंख्याकैः पूरिते सति शरावसंपुटितं भेषजं पिष्टिकोपरि पूरितच्छगणोपरि स्थापयेत् ।। रसटी-१०.५२;१
- तादृशमूषिकोपर्यर्धसहस्रं छगणानां पूरयेत् ।। रसटी-१०.५२;२
- ततो दीपयेत् ।। रसटी-१०.५२;३
- गजपुट
राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ।
पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत् ।। रस-१०.५३ ।।
विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।
पूर्णच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम् ।। रस-१०.५४ ।।
- टीका रससरत्नसमुच्चयटीका:
- अथ गजपुटमाह राजहस्तेति ।। रसटी-१०.५४;१
- राजहस्तस्त्रिंशदङ्गुलिमितः ।। रसटी-१०.५४;२
- तन्मितं निम्नं गम्भीरं तन्मितविस्तारं च गर्तं बोध्यं ।। रसटी-१०.५४;३
- निम्नमित्यत्र विस्तारशब्दो लुप्तनिर्दिष्टः ।। रसटी-१०.५४;४
- तदुपलशाठीभिः कण्ठपर्यन्तं पूरयेत् ।। रसटी-१०.५४;५
- उपलाः कठिना महान्तो वन्यच्छगणास्ततोऽल्पदेहाः शाठ्यः ।। रसटी-१०.५४;६
- तत्र मूषां भेषजगर्भितां विन्यस्य पूर्वविन्यस्तच्छगणतोऽर्धमानानि गिरिण्डानि वन्यच्छगणानि विनिक्षिपेत् इत्येतद्गजपुटाख्यं मतम् ।। रसटी-१०.५४;७
- वाराहपुट
इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ।। रस-१०.५५ ।।
- कुक्कुटपुट
पुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ।। रस-१०.५६ ।।
- टीका रससरत्नसमुच्चयटीका:
- अथ कुक्कुटपुटमाह ।। रसटी-१०.५६;१
- भूमिपृष्ठभागे कुड्येन निर्मितं चतुर्विंशत्यङ्गुलोच्छ्रायं तावन्मानमेव तले मुखे च विस्तृतमेतादृशं यद्गर्तं भेषजं पक्तुमुपलादिभिः पूर्यते तत्कुक्कुटपुटसंज्ञं भवति ।। रसटी-१०.५६;२
$
- टीका रससरत्नसमुच्चयबोधिनी:
- कुक्कुटपुटमाह पुटमिति ।। रसबोध-१०.५६;१
- वितस्तिद्वितयोच्छ्रयं हस्तप्रमाणोन्नतम् ।। रसबोध-१०.५६;२
- तावच्च तलविस्तीर्णं अधोभागेऽपि हस्तप्रमाणविस्तृतम् ।। रसबोध-१०.५६;३
- एतत्तु भूमेरुपरि एव कार्यं न तु गर्तं खनित्वा ।। रसबोध-१०.५६;४
- कपोतपुट
यत्पुटं दीयते भूमाव् अष्टसंख्यैर् वनोपलैः ।
बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते ।। रस-१०.५७ ।।
- टीका रससरत्नसमुच्चयटीका:
- यच्च गर्तं भूमितले मृदादिभिः कृतमष्टसंख्यैर्वनोपलैर्दीयते ज्वालया प्रज्वलितं क्रियते बद्धपारदस्य भस्मकरणार्थं तत्कपोतपुटमुच्यते ।। रसटी-१०.५७;१
$
- टीका रससरत्नसमुच्चयबोधिनी:
- बद्ध्वा मूषायां रुद्ध्वेत्यर्थः ।। रसबोध-१०.५७;१
- सूतार्कभस्मार्थं रसभस्मार्थं ताम्रभस्मार्थं च ।। रसबोध-१०.५७;२
- गोवर
गोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने ।। रस-१०.५८ ।।
- गोवरपुट
गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ।। रस-१०.५९ ।।
- टीका रससरत्नसमुच्चयटीका:
- गोर्वरैस्तुषैर्वा यत्र गजपुटगर्तायां पुटं दीयते भेषजं पक्वं क्रियते तद्गोर्वरपुटमुच्यते ।। रसटी-१०.५९;१
- भाण्डपुट
स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ।। रस-१०.६० ।।
- वालुकापुट
अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ।। रस-१०.६१ ।।
- भूधरपुट
वह्निमित्राः क्षितौ सम्यङ्निखन्याद् द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद् भूधराह्वयम् ।। रस-१०.६२ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- वह्निमित्राः मूषाः दीर्घकालं वह्निना सहावस्थानात् अस्या वह्निमित्रत्वं ज्ञातव्यम् ।। रसबोध-१०.६२;१
- स्पष्टमन्यत् ।। रसबोध-१०.६२;२
$
- टीका रससरत्नसमुच्चयटीका:
- अथ भूधरपुटमाह वह्निमित्रामिति ।। रसटी-१०.६२;१
- वह्निमित्रा मूषा शराव इति यावत् ।। रसटी-१०.६२;२
- जयसुन्दरादिरसविधावस्या उपयोगो बोध्यः ।। रसटी-१०.६२;३
- लावकपुट
ऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने ।। रस-१०.६३ ।।
- टीका रससरत्नसमुच्चयटीका:
- अथ लावकपुटमाह ऊर्ध्वमिति ।। रसटी-१०.६३;१
- शरावाकारमूषां संपुटितां भूमौ निधाय तदुपरि षोडशवनोपलमितैस् तुषैर् गोर्वरैर् वा यत्पुटं दीयते पाकः क्रियते तल्लावकम् इति ख्यातम् ।। रसटी-१०.६३;२
- षोडश एव षोडशिका ।। रसटी-१०.६३;३
- सा संख्या चात्र वन्योपलानामेव ग्राह्या ।। रसटी-१०.६३;४
- तन्मात्रैस् तद्वन्यच्छगणतुलितैर् इत्यर्थः ।। रसटी-१०.६३;५
- पुट > देfऔल्त् दिमेन्सिओन्स्
अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यम् ऊहापोहविचक्षणैः ।। रस-१०.६४ ।।
- टीका रससरत्नसमुच्चयटीका:
- पुटानां हि प्रायो वन्यच्छगणसाध्यत्वात्तदुपस्थितिः ।। रसटी-१०.६४;१
- अथ कुम्भपुटं ग्रन्थान्तरोक्तं वक्ष्यामि ।
- मृद्घटे बहुरन्ध्राणि कृत्वाङ्गुलसमानि वै ।
- चत्वारिंशत्ततस्तस्मिञ्शीतमुल्मुकचूर्णकम् ।। रसटी-१०.६४;२
- अर्धम् आपूरयित्वा च मुखे दद्याच्छरावकम् ।
- कर्पटेन मृदा लिप्त्वा छायाशुष्कं च कारयेत् ।। रसटी-१०.६४;३
- तस्मिन्नङ्गारकान् क्षिप्त्वा चुल्ल्यां वा चेष्टिकासु च ।
- निधाय त्रिदिनाच्छीतं गृहीत्वौषधिमाहरेत् ।। रसटी-१०.६४;४
- एतत् कुम्भपुटं ज्ञेयं कथितं शास्त्रदर्शिभिः ।
- इति ।। रसटी-१०.६४;५
- स्य्नोन्य्म्स् fओर् उपल
पिष्टकं छगणं छाणम् उत्पलं चोपलं तथा ।
गिरिण्डोपलसाठी च वराटी छगणाभिधाः ।। रस-१०.६५ ।।
- (अ-)कृत्रिमलोहानि
सुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसम् ।
षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ ।। रस-१०.६६ ।।
- षड्लवण
लवणानि षड् उच्यन्ते सामुद्रं सैन्धवं विडम् ।
सौवर्चलं रोमकं च चूलिकालवणं तथा ।। रस-१०.६७ ।।
- क्षारत्रय
क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ।। रस-१०.६८ ।।
- क्षारपञ्चक
पलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका ।
तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम् ।। रस-१०.६९ ।।
- मधुरत्रय
घृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम् ।। रस-१०.७० ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- तुम्बिनी कटुतुम्बी सरलकाष्ठं वा ।। रसबोध-१०.७०;१
- ओइल् > fओर् संस्कारस्
कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् ।
कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम् ।। रस-१०.७१ ।।
अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात् ।। रस-१०.७२ ।।
अङ्कोलोन्मत्तभल्लातपलाशेभ्यस् तथैव च ।
एतेभ्यस्तैलमादाय रसकर्मणि योजयेत् ।। रस-१०.७३ ।।
- वसावर्ग
जम्बूकमण्डूकवसा वसा कच्छपसम्भवा ।
कर्कटीशिशुमारी च गोशूकरनरोद्भवा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ।। रस-१०.७४ ।।
- मूत्रवर्ग
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ।। रस-१०.७५ ।।
- पञ्चमाहिष
माहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः ।
- छागलपञ्चक
तत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम् ।। रस-१०.७६ ।।
- अम्लवर्ग
अम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् ।
- टीका रससरत्नसमुच्चयबोधिनी:
- अम्लीकं तिन्तिडीफलम् ।। रसबोध-१०.७७कख;१
चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम् ।। रस-१०.७७ ।।
अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका ।
- टीका रससरत्नसमुच्चयबोधिनी:
- रसपत्त्रिका कपित्थाम्लम् ।। रसबोध-१०.७८कख;१
करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः ।। रस-१०.७८ ।।
चणकाम्लश्च सर्वेषामेक एव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ।
- अम्लवर्ग > उसे
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम् ।। रस-१०.७९ ।।
- अम्लपञ्चक
कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः ।
पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ।। रस-१०.८० ।।
- पञ्चमृत्तिका
इष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका ।
रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ।। रस-१०.८१ ।।
- विषवर्ग
शृङ्गीकं कालकूटं च वत्सनाभं सकृत्रिमम् ।
पित्तं च विषवर्गोऽयं स वरः परिकीर्तितः ।। रस-१०.८२ ।।
रसकर्मणि शस्तोऽयं तद्भेदनविधाव् अपि ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ।। रस-१०.८३ ।।
- उपविष
लाङ्गली विषमुष्टिश्च करवीरं जया तथा ।
- टीका रससरत्नसमुच्चयबोधिनी:
- नीलकः भल्लातकः ।। रसबोध-१०.८४कख;१
नीलकः कनकोऽर्कश्च वर्गो ह्य् उपविषात्मकः ।। रस-१०.८४ ।।
- दुग्धवर्ग
हस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका ।
उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम् ।। रस-१०.८५ ।।
दुग्धिका स्नुग्गुणश् चैव तथैवोत्तमकण्टिका ।
- टीका रससरत्नसमुच्चयबोधिनी:
- उत्तमकण्टिका एरण्डविशेषः वागा भेरेण्डा जामालगोटा इति च भाषा यद्वा उत्तमकण्टिका ।। रसबोध-१०.८६कख;१
एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ।। रस-१०.८६ ।।
- विष्ठावर्ग
पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ।
- विड्वर्ग > उसे
शोधनं सर्वलोहानां पुटनाल्लेपनात् खलु ।। रस-१०.८७ ।।
- रक्तवर्ग
कुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।
अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी ।
- टीका रससरत्नसमुच्चयबोधिनी:
- कर्पूरगन्धिनी कर्पूरगन्धिहरिद्राविशेषः ।। रसबोध-१०.८८अ-द्;१
माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ।। रस-१०.८८ ।।
- पीतवर्ग
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमादिष्टो रसराजस्य कर्मणि ।। रस-१०.८९ ।।
- श्वेतवर्ग
तगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा ।
सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ।। रस-१०.९० ।।
- कृष्णवर्ग
कदली कारवेल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ।। रस-१०.९१ ।।
- रञ्जन wइथ् चोलोउरिन्ग् वर्गस्
रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ।। रस-१०.९२ ।।
- टीका रससरत्नसमुच्चयबोधिनी:
- काचः मृत्तिकाविशेषः स च क्षाररसः उष्णवीर्यः अञ्जनाद्दृष्टिकारकः विडाख्यलवणो वा ।। रसबोध-१०.९२;१
- शिप्रा शुक्तिविशेषः इत्यर्थः ।। रसबोध-१०.९२;२
- शोधनीयवर्ग
काचटङ्कणशिप्राभिः शोधनीयो गणो मतः ।। रस-१०.९३ ।।
सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालीकङ्गुणध्वंसी रसवादिभिर् उच्यते ।। रस-१०.९४ ।।
- टीका रससरत्नसमुच्चयटीका:
- शोधनीगणं तदुपयोगं चाह काचटङ्कणसौवीरैरिति ।। रसटी-१०.९४;१
- सौवीरं अञ्जनविशेषम् ।। रसटी-१०.९४;२
- अयं गणः सूतस्य खोटबद्धादिरूपस्याभ्रकसत्त्वादीनां च यो गुणो वङ्गकापालिका नागकापालिका कालिकादिर् दोषात्मकस्तद्ध्वंसी ।। रसटी-१०.९४;३
- अत एवायं रसवादिभिर् इष्यते ।। रसटी-१०.९४;४
- वर्ग > रेमोविन्ग् हर्द्नेस्स् ओf मेतल्स्
महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् ।
शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ।। रस-१०.९५ ।।
- वर्ग > मेल्तिन्ग् ओf मेतल्स्
गुडगुग्गुलुगुञ्जाज्यसारघैष् टङ्गणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणाय गणो मतः ।। रस-१०.९६ ।।
क्षाराः सर्वे मलं हन्युर् अम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ।। रस-१०.९७ ।।