रसरत्नसमुच्चय : अध्याय 08

विकिस्रोतः तः
Jump to navigation Jump to search

कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ।। रस-८.१ ।।

धन्वन्तरिभाग

अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिम् सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ।। रस-८.२ ।।

रुद्रभाग (डेf.)

भैषज्यक्रीणितद्रव्यभागोऽप्य् एकादशो हि यः ।
वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ।। रस-८.३ ।।

विश्वासघातक (बद् फ्य्सिचिअन्/अल्छेमिस्त्)

प्रगृह्याधिकरुद्रांशं योऽसमीचीनम् औषधम् ।
दापयेल्लुब्धधीर् वैद्यः स स्याद् विश्वासघातकः ।। रस-८.४ ।।

कज्जली

धातुभिर् गन्धकाद्यैश्च निर्द्रवैर् मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ।। रस-८.५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ कज्जलीलक्षणमाह धातुभिरिति ।। रसटी-८.५;१
  • धातवश्च ।
  • स्वर्णं रूप्यं च ताम्रं च रङ्गं जसदमेव च ।
  • सीसं लोहं च सप्तैते धातवो गिरिसंभवाः ।
  • इति ।। रसटी-८.५;२
  • आद्यशब्देन हरितालमनःशिलादिसंग्रहः ।। रसटी-८.५;३
  • चकारेणोपधातुसंग्रहः ।। रसटी-८.५;४
  • तेषां भागो रससमो विषमो वा यथोपदेशं ग्राह्यः ।। रसटी-८.५;५
  • सैव कज्जली द्रवं दत्त्वा मर्दिता चेद्रसपङ्कसंज्ञां लभते ।। रसटी-८.५;६
  • कज्जल्युपयोगश्च रससिन्दूरादिविधानार्थं बोध्यः ।। रसटी-८.५;७
  • रसपङ्कोपयोगं त्रैलोक्यसुन्दररसादिविधानार्थं वक्ष्यति ।। रसटी-८.५;८



रसपङ्क

सद्रवा मर्दिता सैव रसपङ्क इति स्मृता ।। रस-८.६ ।।

पिष्टी (१)

अर्कांशतुल्याद् रसतोऽथ गन्धान् निष्कार्धतुल्यात् त्रुटिशोऽभि खल्ले ।
अर्कातपे तीव्रतरे विमर्द्यात् पिष्टी भवेत् सा नवनीतरूपा ।। रस-८.७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ पिष्टीलक्षणमाह अर्कांशेति ।। रसटी-८.७;१
  • निष्कार्धतुल्यान्निष्कार्धरूपभागमिताद् इत्यर्थः ।। रसटी-८.७;२
  • गन्धकाद् अर्कांशतुल्याद् रसतोऽर्कशब्दो द्वादशसंख्याबोधकः ।। रसटी-८.७;३
  • तत्संख्याका येऽंशा भागा निष्कार्धात्मका भागास्तत्तुल्याद् रसात् पारदात् ।। रसटी-८.७;४
  • निष्कार्धेत्युपलक्षणं गृहीतकिंचिन्मानस्य ।। रसटी-८.७;५
  • तेन गन्धकस्य यो भागस्ततो द्वादशगुणितः पारदभागोऽत्र ग्राह्य इत्यर्थः ।। रसटी-८.७;६
  • यथोक्तभागम् उभयं पृथग्गृहीत्वा तीव्रेऽर्कातपे लोहे खल्वे त्रुटिश ईषन्मानेन पुनः पुनर्दत्त्वा मर्दनान्नवनीतरूपा मृदुला नवनीताख्या च पिष्टी भवति ।। रसटी-८.७;७
  • अत्र नवनीताख्यो गन्धको भक्ष्यः पारदश्च भक्षकः ।। रसटी-८.७;८
  • स तु नानारूपपिष्टीषु समान एव ।। रसटी-८.७;९
  • अतो भक्ष्यनाम्ना भेदबोधकेनेयं नवनीताख्येत्यभिधीयते ।। रसटी-८.७;१०
  • अस्या नामान्तरं गन्धकपिष्टीति ।। रसटी-८.७;११



पिष्टी (२)

खल्ले विमर्द्य गन्धेन दुग्धेन सह पारदम् ।
पेषणात् पिष्टतां याति सा पिष्टीति मता परैः ।। रस-८.८ ।।

पातनपिष्टी

चतुर्थांशसुवर्णेन रसेन घृष्टिषष्टिका ।
भवेत् पातनपिष्टी सा रसस्योत्तमसिद्धिदा ।। रस-८.९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ पातनपिष्टीलक्षणमाह चतुर्थांशेति ।। रसटी-८.९;१
  • चतुर्थांशं शुद्धं स्वर्णचूर्णं पारदमध्ये प्रक्षिप्य तप्तलोहखल्वेऽम्लरसेन जम्बीरादिजेन यामपर्यन्तं द्वियामपर्यन्तं वा मर्दनेन संजाता चूर्णरूपा सा हेमपिष्टिकापि पातनोपयोगेन सिद्धिकरत्वात् पातनपिष्टिर् इत्यभिधीयते ।। रसटी-८.९;२
  • तादृशीं पिष्टिं कृत्वा पातनायन्त्रेऽधस्थपात्रान्तस्तल ऊर्ध्वभाजने वा लिप्त्वा प्रहरचतुष्टयपर्यन्तम् अग्नियोगेनोर्ध्वं पारदं पातयेत् ।। रसटी-८.९;३
  • तदनन्तरं पारदात् पृथग्भूत्वाधोभागस्थतत्स्वर्णचूर्णम् ऊर्ध्वलग्नपारदं च यन्त्राद् बहिर्निष्कास्यैकीकृत्य पुनस्तप्तलोहखल्वेऽम्लेन रसेन पूर्ववन्मर्दयित्वा पूर्ववत् पातयेत् ।। रसटी-८.९;४
  • एवं शतधा पातनेन क्षीणो गतिरहितो निर्दोषः पारदः स्थिरोऽग्निसहो भवति ।। रसटी-८.९;५
  • ततश्च बीजादिजारणक्रमेणाल्पायासेनैव देहलोहकरत्वरूपोत्तमसिद्धिप्रदश्च भवतीत्यर्थः ।। रसटी-८.९;६



कृष्टी

रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।। रस-८.१० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जातरूपं सुवर्णम् ।। रसबोध-८.१०;१
  • समुत्थितम् इति अन्तर्भूतण्यर्थप्रयोगस् तेन समुत्थापितं शोषितमित्यर्थ ऊर्ध्वपातनायन्त्रे साधितमित्यर्थो वा ।। रसबोध-८.१०;२
  • सा उत्थापनक्रिया ।। रसबोध-८.१०;३
  • कृष्टीति ।। रसबोध-८.१०;४
  • स्वर्णरौप्ययोः सा क्रिया कृष्टीति बोध्यम् ।। रसबोध-८.१०;५
  • रसादिभिः सह स्वर्णं वा रौप्यं वा केनचिन्मारकद्रव्येण संमर्द्य बहुशः आतपे शोषयेद् अथवा रसगन्धादिभिर्मारितं स्वर्णं रौप्यं वा बहुवारम् ऊर्ध्वपातनयन्त्रेण समुत्थापयेत् सा क्रिया कृष्टी बोध्या ।। रसबोध-८.१०;६



पिष्टीं क्षिपेत् सुवर्णान्तर् न वर्णो हीयते तया ।। रस-८.११ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पूर्वरीत्या कृतया सुवर्णरौप्ययोर् अन्यतरकृष्ट्या सह सुवर्णं संमर्द्य पुटनेन स्वर्णस्य वर्णान्यता न जायते ।। रसबोध-८.११;१



स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ।। रस-८.१२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • बीजं निर्वापणविशेषेण इत्यादिना वक्ष्यमाणलक्षणो धातुविशेषाणां विचित्रसंस्कारविशेषः ।। रसबोध-८.१२;१
  • उक्तप्रकारेणैव कृतस्वर्णकृष्टीनिर्मितं बीजं पारदं रञ्जयेत् ।। रसबोध-८.१२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ कृष्टीलक्षणमाह रूप्यमिति ।। रसटी-८.१२;१
  • जातरूप्यं सुवर्णम् ।। रसटी-८.१२;२
  • आदिशब्देन माक्षिकहिङ्गुलादिपरिग्रहः ।। रसटी-८.१२;३
  • तैर्मारितं पुनः पुनः पञ्चमित्रसंस्कारेण प्रकृत्यवस्थापन्नं कृतम् ।। रसटी-८.१२;४
  • एवं सप्तवारं दशवारं वोत्थापितस्वर्णतारं च क्रमेण हेमकृष्टी तारकृष्टी चाभिधीयते ।। रसटी-८.१२;५
  • रसगन्धादियोगेन मलव्यपोहनाद् उज्ज्वलम् उत्कृष्टं सारूप्यं स्वर्णं तारं चेत्यर्थः ।। रसटी-८.१२;६
  • तां स्वर्णकृष्टीं द्रुते हीनवर्णस्वर्णे क्षिपेत् ।। रसटी-८.१२;७
  • तेन क्षेपेण वर्णो न हीयते तत्स्वर्णं हीनवर्णं न दृश्यते ।। रसटी-८.१२;८
  • पूर्णवर्णं दृश्यत इत्यर्थः ।। रसटी-८.१२;९
  • एवमेव हीनवर्णतारे तारकृष्ट्याः क्षेपेणापि तारं पूर्णवर्णं भवतीत्यर्थोऽपि बोध्यः ।। रसटी-८.१२;१०
  • कृतं कल्पितं संस्कृतम् इत्यर्थः ।। रसटी-८.१२;११
  • बीजं शुद्धं स्वर्णोत्पादकं लोहधात्वादिपारदस्य पीतवर्णत्वकरं भवेत् ।। रसटी-८.१२;१२
  • रसहृदयेऽष्टमावबोधे पारदस्य कृष्टिमपि पूज्यपादा उदाजह्रुः ।। रसटी-८.१२;१३



वरलोहकम्

ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।
सगन्धलकुचद्रावे निर्गतं वरलोहकम् ।। रस-८.१३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वरलोहप्रस्तुतप्रकारमाह ताम्रमिति ।। रसबोध-८.१३;१
  • तीक्ष्णसमायुक्तं तीक्ष्णलौहसंयुक्तम् ।। रसबोध-८.१३;२
  • भूरिशः सप्तवारान् इत्यर्थः ।। रसबोध-८.१३;३
  • तीक्ष्णलौहं ताम्रं च अग्निसंतापेन द्रवीकृत्य गन्धकचूर्णमिश्रितलकुचरसे निक्षिपेद् घनीभूतं तद्द्वयमुत्तोल्य पुनः द्रावयित्वा पूर्वरसे निक्षिपेद् एवं सप्तवारान् ।। रसबोध-८.१३;४
  • द्रुतमित्यत्र मृतम् इति पाठो मृतं भस्मीभूतम् ।। रसबोध-८.१३;५
  • एवं प्रक्रियया तस्माद् उत्कृष्टलौहं निर्गमिष्यतीति ।। रसबोध-८.१३;६



हेमरक्ती

तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृतम् ।। रस-८.१४ ।।

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी ।। रस-८.१५ ।।

ताररक्ती

एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ।। रस-८.१६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ हेमरक्तीताररक्त्योर् लक्षणं फलं चाह ताम्रमिति ।। रसटी-८.१६;१
  • तीक्ष्णलोहेन समभागेन संयुक्तम् एकीकृतं ताम्रं बहुवारं द्रुतं कृत्वा गन्धकसहिते लकुचरसे निर्वापयेत् ।। रसटी-८.१६;२
  • तद्वल्लोहमिति ख्यातं तारस्य रञ्जनी द्रुते तस्मिन्निक्षेपेणेत्यर्थः ।। रसटी-८.१६;३
  • ताररक्तीकरणार्थं तु वरलोहेन तारम् एव धमनेनैकीकृत्य रक्तीकृतं कार्यं सापि रूप्यस्य बीजानां च रञ्जनी रक्तवर्णोत्पादिका ।। रसटी-८.१६;४


दल

मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।
सितं च पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ।। रस-८.१७ ।।

मासकृतबद्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं च तद्दलम् ।। रस-८.१८ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति तारदलस्य स्वर्णदलस्य च लक्षणमाह मृतेनेति ।। रसटी-८.१८;१
  • मृतेन भस्मीभूतेन पारदेन येन केनचिद्द्रव्येण बद्धो यः पारदस्तेन बद्धपारदेन मृतेन लोहेन वा साधितं संस्कृतम् अन्यलोहं विजातीयं लोहं सितत्वम् उपागतं प्राप्तं श्वेतवर्णविशिष्टम् अथवा पीतत्वम् उपागतं प्राप्तं पीतवर्णविशिष्टं भवेत् ।। रसटी-८.१८;२
  • तत्क्रमेण चन्द्रदलम् अनलदलं स्वर्णदलं शास्त्रे प्रसिद्धम् ।। रसटी-८.१८;३
  • अनलः स्वर्णम् ।। रसटी-८.१८;४
  • कृत्रिमरजतं कृत्रिमस्वर्णं चेत्यर्थः ।। रसटी-८.१८;५
  • रवा इति नाम्ना लोके प्रसिद्धम् ।। रसटी-८.१८;६



शुल्बनाग

माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ।। रस-८.१९ ।।

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्वनागं प्रकीर्त्यते ।। रस-८.२० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • शुल्वनागमाह माक्षिकेणेति ।। रसबोध-८.२०;१
  • स्वर्णमाक्षिकेण सह मारितं ताम्रं तथा सीसकं च पृथक् पृथक् दशवारं समुत्थापितं कृत्वा तयोः प्रत्येकं चतुष्पलं आदाय एकीकुर्यात्ततः तदुभयं भूयः नीलाञ्जनेन सह भस्मीकृत्य सप्तवारं समुत्थापयेद् एवं च तयोः शुल्वनाग इति संज्ञा जायते इति ।। रसबोध-८.२०;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति शुल्बनागलक्षणमाह माक्षिकेणेति ।। रसटी-८.२०;१
  • समभागमाक्षिकेण मारितं ताम्रं पञ्चमित्रसंस्कारेण समुत्थितं कुर्यात् ।। रसटी-८.२०;२
  • एवं दशवारं कृत्वा तद्वत्ताम्रवन्माक्षिकेणैव मारितं विशुद्धं नागं तदुभयं मिथः समं चतुष्पलमितं गृहीत्वा पुनर् नीलाञ्जनेन समभागेन मारितं पञ्चमित्रसंस्कारेण पुनरुत्थापितं कुर्यात् ।। रसटी-८.२०;३
  • एवं सप्तवारं मारणपूर्वकोत्थापनेन संशुद्धम् एतद्द्रव्यद्वंद्वं रसशास्त्रे शुल्बनागमिति कीर्तितम् ।। रसटी-८.२०;४



साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहं विशेषतः ।। रस-८.२१ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • तदुपयोगमाह साधित इति ।। रसटी-८.२१;१
  • तच्चूर्णं पारदेन समभागेन शुद्धेन सहाजमूत्रेण संमर्द्य वज्रमूषायां ध्मानेन जातं खोटं शोधनगणेन सह ध्मानाच्छुद्धं कृत्वा तं खोटबद्धं पारदं मुखमध्ये यो धारयेत्तस्य मेहसमूहनाशो भवेत् ।। रसटी-८.२१;२



पथ्याशनस्य वर्षेण पलितवलिभिः सह ।
गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ।। रस-८.२२ ।।

पिञ्जरी

लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ।। रस-८.२३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पिञ्जरीलक्षणमाह लोहमिति ।। रसटी-८.२३;१
  • यथा जसदं मूषायां ताम्रे निक्षिप्य ध्मानेनैकीभूतं पत्रजाद्यौषधीरसे पीतवर्गजरसे वा निक्षेपात्पित्तलं भवति तद्वदन्यदपि तादृग्वर्णं संकीर्णलोहं पिञ्जरीवाच्यं भवति ।। रसटी-८.२३;२
  • सा ओषधीपत्रजा शब्दवाच्या ।। रसटी-८.२३;३
  • यस्या उत्पत्तौ कारणं बीजस्थाने पत्रमेव भवति ।। रसटी-८.२३;४
  • चीरितपत्त्रा ह्रस्वक्षुपविशेषरूपा चेयमुपवन उत्पद्यते ।। रसटी-८.२३;५



चन्द्रार्क

भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ।। रस-८.२४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • चन्द्रार्कसंज्ञामाह भागा इति ।। रसबोध-८.२४;१
  • भास्वतः ताम्रस्य ।। रसबोध-८.२४;२
  • एकत्रावर्तिताः एकस्मिन्नेव पात्रे युगपद् द्रवीकृत्य आलोडिताः ।। रसबोध-८.२४;३
  • तेन तथा आलोडनेन ।। रसबोध-८.२४;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • चन्द्रार्कं लक्षयति भागा इति ।। रसटी-८.२४;१
  • आवर्तिता ध्मानेनैकीभूतरसरूपा इत्यर्थः ।। रसटी-८.२४;२
  • भास्वतस्ताम्रस्य ।। रसटी-८.२४;३
  • चन्द्रार्कस्य खोटबद्धरसेन वेधात्कनकोत्पत्तिश्च रससारेऽभिहिता ।। रसटी-८.२४;४



निर्वापणम्

साध्यलोहेऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ।। रस-८.२५ ।।

क्षिपेन्निर्वापणं द्रव्यं निर्वाह्ये समभागिकम् ।
आवाह्यं वापनीये च भागे दृष्टे च दृष्टवत् ।। रस-८.२६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ निर्वाहलक्षणमाह साध्यलोह इति ।। रसटी-८.२६;१
  • यस्यां क्रियायां साध्यलोहे निर्वाह्ये लोहे द्रुते सति तस्मिंस्तत्रान्यलोहं वङ्कनालतः प्रक्षिप्तं वङ्कनालजध्मानेनैव द्रुतं कृत्वा प्रक्षिप्तं भवतीत्यर्थः ।। रसटी-८.२६;२
  • वङ्कनालेत्युक्त्या भस्त्रादिजध्मानव्यावृत्तिः ।। रसटी-८.२६;३
  • निर्वाहणम् एकीकरणमिति यावत् ।। रसटी-८.२६;४
  • निर्वापणं निर्वाहणं चेत्यनर्थान्तरम् ।। रसटी-८.२६;५
  • एकीकरणार्थकनिर्वापणशब्दप्रयोगस्तु संप्रति नोपलभ्यते ।। रसटी-८.२६;६
  • किंतु सर्वत्र तदर्थं निर्वाहणशब्द एव प्रयुक्तो दृश्यते ।। रसटी-८.२६;७
  • एतच्च निर्वाहणं प्रायो बीजादिसंस्कारार्थं क्रियते ।। रसटी-८.२६;८
  • यथा पारदोदरे बीजानां गर्भद्रावणयोग्यतासंपादनार्थं निर्वाहणसंस्कारं व्याजहार रसहृदये ।
  • मृतनागं मृतवङ्गं मृतवरशुल्बं मृतं तथा तीक्ष्णम् ।
  • एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च ।। रसटी-८.२६;९
  • इति ।। रसटी-८.२६;१०
  • एकगुणस्वर्णे नागाद्यन्यतमं शतगुणनिर्वाहितं कार्यम् इत्यर्थः ।। रसटी-८.२६;११
  • एवं संस्कृतं स्वर्णं वरबीजं भवति ।। रसटी-८.२६;१२
  • अथ निर्वापणद्रव्यभागानुक्तिस्थाने तद्द्रव्यस्य कियद्भागप्रक्षेपः कार्यस्तदाह क्षिपेदिति ।। रसटी-८.२६;१३
  • क्षिपेन्निर्वाहयेदित्यर्थः ।। रसटी-८.२६;१४
  • क्षेपसामान्याद् अनुक्तावावापद्रव्यमानम् अप्याह आवाप्यमिति ।। रसटी-८.२६;१५
  • आवापलक्षणम् अस्मिन्नेवाध्याये वक्ष्यति ।। रसटी-८.२६;१६
  • वापनीये लोहाद्ये द्रुते द्रव्ये ।। रसटी-८.२६;१७
  • तत्र भागे दृष्ट उक्ते तु दृष्टवदुक्तभागमितमेव तन्निर्वाहणद्रव्यम् आवापद्रव्यं च क्षिपेत् ।। रसटी-८.२६;१८



वारितरम्

मृतं तरति यत्तोये लोहं वारितरं हि तत् ।। रस-८.२७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • मृतलोहस्य बोधकानां विविधपारिभाषिकशब्दानां लक्षणान्याह मृतमिति ।। रसटी-८.२७;१
  • तल्लोहं वारितरम् उच्यते यन्मृतं सत्तोये प्रक्षिप्तं तरतीति ।। रसटी-८.२७;२



रेखपूर्ण

अङ्गुष्ठतर्जनीघृष्टं यत् तद् रेखान्तरे विशेत् ।
मृतलोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।। रस-८.२८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • रेखापूर्णलौहलक्षणमाह अङ्गुष्ठेति ।। रसबोध-८.२८;१
  • तद्रेखान्तरे तयोः तर्जन्यङ्गुष्ठयोः रेखान्तरे रेखावकाशे अङ्गुष्ठतर्जनीभ्यां घर्षणे कृते यत्र लौहे तयोरङ्गुल्योः रेखासमूहः अङ्कितो भवेदित्यर्थः ।। रसबोध-८.२८;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • तल्लोहं रेखापूर्णमुच्यते यन्मृतम् अङ्गुष्ठतर्जनीमध्ये संमर्दितं तयोः सूक्ष्मरेखान्तरं प्रविशेदिति ।। रसटी-८.२८;१



अपुनर्भव

गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।
नायाति प्रकृतिं ध्मानाद् अपुनर्भवम् उच्यते ।। रस-८.२९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निरुत्थलौहलक्षणमाह गुडेति ।। रसबोध-८.२९;१
  • सुखस्पर्शः टङ्कणं निरुत्थीकारकमित्रपञ्चकवर्गे टङ्कणशब्दग्रहणात् यदुक्तं रसेन्द्रसारे ।
  • मधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा ।
  • मित्रपञ्चकमेतत्तु गणितं धातुमेलने ।। रसबोध-८.२९;२
  • इति ।। रसबोध-८.२९;३
  • मित्रपञ्चकोक्तगुग्गुलोः कार्यमत्र गुडेन संपादनीयमिति ।। रसबोध-८.२९;४
  • प्रकृतिं स्वरूपम् ।। रसबोध-८.२९;५
  • अपुनर्भवम् अपुनरुत्थानं निरुत्थमिति यावत् ।। रसबोध-८.२९;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ पूर्णमृतं तल्लोहम् अपुनर्भवम् उच्यते ।। रसटी-८.२९;१
  • यत् प्रत्येकं समभागैर् गुडादिभिः समस्तैः सह मिश्रितं पिण्डीकृतं मूषामध्ये प्रक्षिप्य ध्मानेन प्रकृतिं पूर्वावस्थाम् आमलोहभावं न प्राप्नुयादिति ।। रसटी-८.२९;२



ऊनम, उत्तम

तस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्ध्रुवम् ।
हंसवत् तीर्यते वारिण्युत्तमं परिकीर्तितम् ।। रस-८.३० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथोत्तमाख्यमृतलोहलक्षणमाह यद्वा पूर्णमृतं यल्लोहं वारितरं स्वपृष्ठ उपनीतं धान्यं धारयति ।। रसटी-८.३०;१
  • धान्यभारं सहत इत्यर्थः ।। रसटी-८.३०;२
  • तत्र लोहे तद्धान्यं कथं तरति तदुपमयाह यथा जले हंसविशेषास्तरन्ति तद्वत् तथा धान्यभारसहं तन्मृतलोहम् उत्तमम् इति नाम्ना शास्त्रे कीर्तितम् ।। रसटी-८.३०;३
  • अत्र बहुषु पुस्तकेषु ऊनमं परिकीर्तितम् इत्यपि पाठः ।। रसटी-८.३०;४
  • तस्य स्वयम् ऊनम् ऊनभारं लघ्वपि यल्लोहं स्वापेक्षया गुरुद्रव्यं गुरुधान्यं वा माति सहत इति व्युत्पत्त्या क्लिष्टार्थबोधकः स पाठो नातिप्रियः ।। रसटी-८.३०;५



निरुत्थापुनर्भव

रौप्येण सह संयुक्तं ध्मातं रौप्येण चेल् लगेत् ।
तदा निरुत्थमित्युक्तं लोहं तद् अपुनर्भवम् ।। रस-८.३१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • निरुत्थस्य लक्षणान्तरमाह रौप्येणेति ।। रसबोध-८.३१;१
  • रौप्यं लौहं च एकत्र संस्थाप्य भस्त्रया ध्मापनेन यदि परस्परं मिश्रीभवेत् तदापि निरुत्थं ज्ञेयम् ।। रसबोध-८.३१;२

$


  • टीका रससरत्नसमुच्चयटीका:
  • अथापुनर्भवाख्यमृतलोहस्यैव निरुत्थसंज्ञाप्रापकं लक्षणमाह रौप्येणेति ।। रसटी-८.३१;१
  • संयुक्तं मेलापकमध्वाज्यं दत्त्वा मूषायां संयोजितं न लगेत् न सज्जेतैकीभावं न प्राप्नुयाद् इत्यर्थः ।। रसटी-८.३१;२
  • एकीभावश्च रौप्यमानवृद्ध्या बोध्यः ।। रसटी-८.३१;३
  • स्पष्टीकृतं चैतद् रससंकेतकलिकायाम् ।
  • लोहमध्वाज्यगं तारं स्वप्रमाणं भवेद्यदा ।
  • तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ।। रसटी-८.३१;४
  • इति ।। रसटी-८.३१;५
  • तारं शुद्धतारम् ।। रसटी-८.३१;६



बीज

निर्वापणविशेषेण तत्तद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ।। रस-८.३२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • बीजमाह निर्वापणेति ।। रसबोध-८.३२;१
  • पूर्वनिर्दिष्टसाध्यलोहे तत्तल्लोहमारकान्यलोहनिक्षेपरूपनिर्वाहणाख्यसंस्कारविशेषेण यदा साध्यलोहं प्रक्षिप्तलौहवर्णं भवेत् तदा मृदुलं सुखस्पर्शं चित्रसंस्कारम् आहितापूर्वगुणान्तरं तत् बीजमिति ज्ञेयम् ।। रसबोध-८.३२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ जारणासंस्कारे प्रक्षेपार्हस्य बीजस्य लक्षणमाह निर्वाहणेति ।। रसटी-८.३२;१
  • निर्वाह्यते प्रक्षेपेणैकीक्रियतेऽनेनेति व्युत्पत्त्या निर्वाहणशब्देन निर्वाहकं द्रव्यं ग्राह्यम् ।। रसटी-८.३२;२
  • प्रक्षेपेण गुणविशेषोत्पादनपूर्वकैकीभावसामान्याच्च तेन शब्देन वापनद्रव्यस्यापि संग्रहः कार्यः ।। रसटी-८.३२;३
  • एतदभिप्रायेणैव निर्वापणविशेषेणेत्यपि पाठो दृश्यते ।। रसटी-८.३२;४
  • तेन निर्वाहणेन निर्व्यूढं यद्बीजोपादानरसलोहादि तत्तद्वर्णं निर्वाहणद्रव्यस्य समानवर्णं शास्त्रनिर्दिष्टवर्णं च भवति ।। रसटी-८.३२;५
  • वापनद्रव्येण मृदु च भवेत्तथा सत्त्वभस्मोत्पादकविधिभ्यां च प्राप्तमार्दवम् ।। रसटी-८.३२;६
  • तथा कृतो विचित्रसंस्कारो गर्भद्रावको रक्तवर्गकषाये निषेचनरूपो मेलापकद्रव्यसंयोगादिश्च यस्येत्येवंगुणविशिष्टं रसशास्त्रे सिद्धबीजमित्यभिधीयते ।। रसटी-८.३२;७
  • बीजं द्विविधं पीतं सितं चेति भेदात् ।। रसटी-८.३२;८
  • तदपि प्रत्येकं द्विविधम् ।। रसटी-८.३२;९
  • अकृत्रिमं कृत्रिमं च ।। रसटी-८.३२;१०
  • यद्धि खनिसम्भूतं शुद्धं स्वर्णं रजतं वा तद् अकृत्रिमम् ।। रसटी-८.३२;११
  • यत्तु धातुरसोपरससंयोगक्रियाविशेषजनितस्वर्णरजतोत्पादनयोग्यतासंपन्नं पीतं स्वर्णरीत्यादि श्वेतं वङ्गादि तत्कृत्रिमम् इत्याचक्षते ।। रसटी-८.३२;१२
  • तदपि प्रत्येकं द्विविधम् ।। रसटी-८.३२;१३
  • शुद्धं मिश्रं च ।। रसटी-८.३२;१४
  • शुद्धमेकैकं मिश्रं मिथः संकीर्णम् ।। रसटी-८.३२;१५
  • पुनरपि सर्वम् एतत्त्रिधा भवति ।। रसटी-८.३२;१६
  • कल्पितं रञ्जितं पक्वं च ।। रसटी-८.३२;१७
  • तत्र तत्कल्पितशब्दवाच्यं यच्छुद्धरसोपरसशुद्धमारितं मिथः संयुक्तं मिश्रं वा लोहादिद्वंद्वीकृतम् एकैकं सत्त्वकरणविधिना निर्वाहणेन द्वंद्वमेलापकविधिना च मिलितं शुद्धं जातमार्दवं तद् एवैकीभावं व्रजति च रक्तादिवर्गेषु सेचनेन प्राप्तवर्णं रञ्जितसंज्ञकं भवति ।। रसटी-८.३२;१८
  • निर्वाहणेन हेमशेषकृतं तारशेषकृतं वा यद्बीजं भूधरयन्त्रादिषु पुटितं तत्पक्वबीजं वदन्ति ।। रसटी-८.३२;१९
  • एवं चेदमुक्तलक्षणं सर्वबीजानां संग्राहकं बोध्यम् ।। रसटी-८.३२;२०
  • अत्र रसोपरसानां शोधनं तु सूर्यावर्तादिगणेन कुर्यात् ।। रसटी-८.३२;२१
  • शशरक्तभावनया कान्तं शुध्यति ।। रसटी-८.३२;२२
  • सौवर्णं राजतं पत्रं च लवणक्षाराम्लरविस्नुहीक्षीरैर् लिप्तं ध्मातं पश्चान्निर्गुण्डीरसे बहुवारं निषेचितं सच्छुध्यति ।। रसटी-८.३२;२३
  • नागवङ्गघोषताम्राणि तु प्रतप्तानि निर्गुण्डीरससेकैस् तन्मूलरजःप्रवापैश्च शुध्यन्ति ।। रसटी-८.३२;२४
  • सर्वोऽपि लोहः प्रतप्तो माक्षीकदरदवापेन बहुवारं कृतेन शुध्यति ।। रसटी-८.३२;२५
  • रसोपरसानां सत्त्वानि मूलोक्तविधिना पातयेत् ।। रसटी-८.३२;२६
  • संप्रति बीजनिर्वाहणविधिं रसहृदयोक्तं वक्ष्यामि ।। रसटी-८.३२;२७


उत्तरण

इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।
संस्पृष्टलोहयोरेकलोहस्य परिनाशनम् ।। रस-८.३३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • उत्तरणमाह इदमिति ।। रसबोध-८.३३;१
  • इदं संसृष्टलोहयोर् इत्यादिना वक्ष्यमाणरूपम् इत्यर्थः ।। रसबोध-८.३३;२
  • उत्तरणमिति संज्ञाविशेषः ।। रसबोध-८.३३;३
  • संसृष्टेति मिश्रितलौहयोः एकलोहस्य परिनाशनं ध्मापनादिक्रियाविशेषेण एकस्मात् अन्यत् पृथक्कृत्य भस्मीकरणम् एकस्माद् अन्यस्य बहिर्निष्काशनं वा ।। रसबोध-८.३३;४



ताडन

प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ।। रस-८.३४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • ताडनमाह प्रध्मातमिति ।। रसबोध-८.३४;१
  • तत् उत्तरणक्रियानिष्पन्नं संसृष्टलौहयोरेकलोहम् ।। रसबोध-८.३४;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ ताडनसंज्ञामाह संसृष्टेति ।। रसटी-८.३४;१
  • परिसाधनं ध्मानेनावशेषकारकं यद्वङ्कनालेन प्रध्मातं प्रकर्षेण ध्मानं क्रियते तद्रसशास्त्रे ताडनशब्देन कथितम् ।। रसटी-८.३४;२
  • यथा घोषाद्वङ्गं विनाश्य ताम्रस्यावशेषार्थं ध्मानं तच्च गाराकोष्ठ्यां कार्यम् ।। रसटी-८.३४;३



धान्याभ्र

चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ।। रस-८.३५ ।।

सत्त्व

क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ।। रस-८.३६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • सत्त्वमाह क्षारेति ।। रसबोध-८.३६;१
  • क्षारः टङ्कणं लौहशोधकत्वात् अम्लः काञ्जिकादिकं द्रावकः गुञ्जाटङ्कणमध्वाज्यगुडाः द्रावकपञ्चकाः इत्युक्तस्वरूपः तैः ।। रसबोध-८.३६;२
  • आकरकोष्ठिके कोष्ठिकायन्त्रे ।। रसबोध-८.३६;३
  • सारः स्थिरांशः प्रसादभाग इति यावत् ।। रसबोध-८.३६;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • सत्त्वलक्षणमाह क्षाराम्लेति ।। रसटी-८.३६;१
  • क्षारो यवक्षारादिः ।। रसटी-८.३६;२
  • अम्लं जम्बीररसादि ।। रसटी-८.३६;३
  • द्रावकं गुडगुग्गुलुगुञ्जादि ।। रसटी-८.३६;४
  • द्रावको गणो वक्ष्यमाणः ।। रसटी-८.३६;५
  • पञ्चाजं पञ्चगव्यादि ।। रसटी-८.३६;६
  • मत्स्यादिपिण्डीद्रव्यं च तद्युक्तं तेन पिण्डीकृतं रसोपरसादि द्रव्यम् ।। रसटी-८.३६;७
  • आकरकोष्ठक आकरो वक्ष्यमाणः ।। रसटी-८.३६;८
  • कोष्ठिका वर्णनस्थानग्रन्थः ।। रसटी-८.३६;९
  • तत्रोक्ते योग्ये कोष्ठे कोष्ठयन्त्रेऽङ्गारकोष्ठ्यादौ च मूषायां प्रक्षिप्य यदा भस्त्रावङ्कनालादिना ध्मातं स्यात्तदा ततो द्रव्याद् द्रवरूपो यः सारो निर्गच्छति पृथगाकारेण निपतति तत्सत्त्वमुच्यते ।। रसटी-८.३६;१०



(एक)कोलीसक

कोष्ठिकाशिखरापूर्णैः कोकिलैर् ध्मानयोगतः ।
आकण्ठमनुप्राप्तैर् एककोलीसको मतः ।। रस-८.३७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • एककोलीसकमाह कोष्ठिकेति ।। रसबोध-८.३७;१
  • कोष्ठिकायन्त्राग्रभागपर्यन्तम् अङ्गारैरापूर्य ध्मापनवशात् मारणीयद्रव्यैः मूषाकण्ठपर्यन्तमागतैः उपलक्षितो यत् कर्म एककोलीसकाख्यः क्रियाविशेषो मतः ।। रसबोध-८.३७;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ ध्मानक्रियाया मानविशेषज्ञानार्थं कृतायाः कोलीसकसंज्ञाया लक्षणमाह कोष्ठिकाशिखरेति ।। रसटी-८.३७;१
  • शिखरपर्यन्तं परिपूर्णकोकिलानां ध्मानेन मूषाकण्ठपर्यन्तं यदापचयो भवति तावद्ध्मानस्यैककोलीसक इति संज्ञा ।। रसटी-८.३७;२
  • अस्या एव नालिशकेति पर्यायान्तरम् ।। रसटी-८.३७;३



पस्सेन्देस् ःोल्श् füर् ःोल्श्कोह्ले

द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।
दुर्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ।। रस-८.३८ ।।

हिङ्गुलाकृष्ट

विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रावमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ।। रस-८.३९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ हिङ्गुलाकृष्टरसमाह विद्याधरेति ।। रसटी-८.३९;१
  • विद्याधरयन्त्रं द्विविधं निर्जलं सजलं च ।। रसटी-८.३९;२
  • तत्र प्रथमं कनकसुन्दरप्रभृतिरसानाम् ऊर्ध्वभागे पुटनार्थम् उपयुज्यते ।। रसटी-८.३९;३
  • तच्च न्युब्जोर्ध्वपात्रेण संपुटितम् ।। रसटी-८.३९;४
  • यत्तु द्वितीयम् उत्तानपात्रघटितं तदत्र विद्याधरशब्देन ग्राह्यम् ।। रसटी-८.३९;५
  • आर्द्रकमर्दिताद् इत्यस्याग्रे हिङ्गुलादिति शेषः ।। रसटी-८.३९;६



घोषाकृष्ट

स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तरङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम् ।। रस-८.४० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • घोषाकृष्टस्य लक्षणमाह स्वल्पेति ।। रसटी-८.४०;१
  • ताडितं परिध्मातम् ।। रसटी-८.४०;२
  • अत्र तालः स्वल्पशब्देन कांस्यस्य चतुर्थांशेन ग्राह्यः ।। रसटी-८.४०;३
  • रङ्गस्य ताम्रात्पृथग्भूत्वा विनाशार्थं तदुपयोगो बोध्यः ।। रसटी-८.४०;४



वरनाग

तीक्ष्णनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ।
कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।। रस-८.४१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वरनागलक्षणमाह तीक्ष्णेति ।। रसबोध-८.४१;१
  • अत्र विशेष्यपदोल्लेखाभावेऽपि वरनाग इति संज्ञाबलादेव तीक्ष्णनीलाञ्जनोपेतमित्यत्र नागमिति विशेष्यपदं शेषः बोध्यः ।। रसबोध-८.४१;२
  • तीक्ष्णलौहनीलाञ्जनसंयुक्तं यत् सीसकं बहुवारं दृढम् आध्मातं सत् सुकोमलं कृष्णवर्णं द्रुतद्रावं च स्यात् तत् सीसकं वरनागं बोध्यम् ।। रसबोध-८.४१;३
  • तीक्ष्णमिति पृथक् पाठे नीलाञ्जनं तीक्ष्णलौहं च इत्यर्थः ।। रसबोध-८.४१;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • वरनागस्य लक्षणमाह तीक्ष्णमिति ।। रसटी-८.४१;१
  • समभागनीलाञ्जनसंयुतं तीक्ष्णलोहं समभागेन टङ्कणं दत्त्वान्धमूषायां दृढं ध्मातं सद्यदा नागापेक्षयाप्यतिमृदु कृष्णवर्णं शीघ्रद्रावं च भवेत्तदैतद् वरनागम् उच्यते ।। रसटी-८.४१;२
  • अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।। रसटी-८.४१;३
  • तद्वस्त्रगालितं ग्राह्यं स्वच्छतोयं तदातपे ।। रसटी-८.४१;४
  • मृदुकृष्टं द्रुतद्रावमिति पाठे ध्मात्वा मूषातः कृष्टं बहिराकृष्टं शीतं सदपि संजातमार्दवम् अग्नियोगेन शीघ्रद्रावं च भवेदित्यर्थः ।। रसटी-८.४१;५
  • नागाद्वरं श्रेष्ठम् एतद् वरनागम् इति ।। रसटी-८.४१;६
  • उत्तरपदस्य पूर्वनिपातेन सिद्धोऽयं शब्दः ।। रसटी-८.४१;७
  • अस्योपयोगं त्वस्थिराणां खर्परादिसत्त्वानां स्थिरीकरणार्थं पूज्यपादा उदाजह्रू रससारे ।। रसटी-८.४१;८
  • तत्प्रकारस्तु द्वितीयाध्यायेऽत्र रसकसत्त्वविधिव्याख्यायां प्रकाशित एव ।। रसटी-८.४१;९
  • नागं नीलाञ्जनोपेतमिति पाठस्तु प्रामादिक एव ।। रसटी-८.४१;१०
  • सत्त्वानां हि स्थिरीकरणे नागस्यानुपयोगादिति बोध्यम् ।। रसटी-८.४१;११



उत्थापन

मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया ।। रस-८.४२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • उत्थापनशब्दार्थमाह मृतस्येति ।। रसटी-८.४२;१
  • पारदरसोपरसलोहादीनाम् अतिमूर्छितानां प्राकृतगुणक्रियासहितानां वा पुनरुद्भूतिः पुनः पूर्ववत् स्थानापन्नत्वम् उत्थापनम् इत्यभिधीयते ।। रसटी-८.४२;२

$


  • टीका रससरत्नसमुच्चयबोधिनी:
  • उत्थापनामाह मृतस्येति ।। रसबोध-८.४२;१
  • पुनरुद्भूतिः यन्त्रादियोगेन स्वरूपापादनम् इत्यर्थः ।। रसबोध-८.४२;२



ढालन

द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ।। रस-८.४३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • ढालनसंज्ञां लक्षयति द्रुतद्रव्यस्येति ।। रसटी-८.४३;१
  • यथा वरलोहकविधौ सतीक्ष्णताम्रस्य ध्मानेन द्रुतस्य लकुचद्रावे निक्षेपोऽत्राध्याये प्रागुक्तः स ढालनशब्देन परिभाष्यते ।। रसटी-८.४३;२
  • अथ चपलो द्विविधः ।। रसटी-८.४३;३
  • पाषाणविशेषः कृत्रिमो धातुरूपश्च ।। रसटी-८.४३;४
  • तत्र पाषाणविशेषो द्वितीयाध्याय उक्तः ।। रसटी-८.४३;५



चपल औस् Bलेइ

त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ।
विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम् ।। रस-८.४४ ।।

न तत्पुटसहस्रेण क्षयमायाति सर्वथा ।
चपलोऽयं समादिष्टो वार्त्तिकैर् नागसम्भवः ।। रस-८.४५ ।।

चपल औस् Zइन्न्

इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ।। रस-८.४६ ।।

चपल fंर् रसबन्ध

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।। रस-८.४७ ।।

स रसो धातुवादेषु शस्यते न रसायने ।
अयं हि खर्वणाख्येन लोकनाथेन कीर्तितः ।। रस-८.४८ ।।

धौत

भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ।। रस-८.४९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • धौतमाह भूभुजंगेति ।। रसबोध-८.४९;१
  • अपहृतम् अपचितं निःसारितमित्यर्थः ।। रसबोध-८.४९;२
  • रजः पुटनादिकाले तत्संलग्नाङ्गारादिचूर्णम् ।। रसबोध-८.४९;३
  • तत् चपलीभूतं नागं वङ्गं च ।। रसबोध-८.४९;४
  • भूनागमलरसैः तन्मलमिश्रजलैर्वा परिशोधितमलादिकं कृष्णवर्णं चपलीभूतं नागं वङ्गं च धौतनागं धौतवङ्गं च प्रोक्तम् इति निष्कर्षः ।। रसबोध-८.४९;५

$

  • टीका रससरत्नसमुच्चयटीका:
  • धौतस्य लक्षणमाह भूभुजङ्गेति ।। रसटी-८.४९;१
  • भूभुजङ्गा भूनागाः ।। रसटी-८.४९;२
  • तेषां शकृन्मृद्विशेषरूपमेव तत्संनिधावुपलभ्यते ।। रसटी-८.४९;३
  • एतस्योपयोगस्तु खरसत्त्वोत्पादनार्थं पञ्चमाध्याये प्रागभिहित एव ।। रसटी-८.४९;४



द्वंद्वान

द्रव्ययोर् मर्दनाध्मानाद् द्वंद्वानं परिकीर्तितम् ।। रस-८.५० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • द्वन्द्वानम् आह द्रव्ययोर् इति ।। रसबोध-८.५०;१
  • संसृष्टद्रव्यद्वयं मर्दयित्वा ध्मापनेन द्वन्द्वानसंज्ञा जायते ।। रसबोध-८.५०;२
  • द्वन्द्वानम् इत्यत्र बन्धनम् इति पाठान्तरम् ।। रसबोध-८.५०;३



भञ्जिनी

भागाद् द्रव्याधिकक्षेपम् अनु वर्णसुवर्णके ।
द्रवैर्वा वह्निकाग्रासो भञ्जनी वादिभिर् मता ।। रस-८.५१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • भञ्जनीमाह भागादिति ।। रसबोध-८.५१;१
  • वर्णेन सुवर्ण इव तस्मिन् वर्णसुवर्णके राजपित्तले भागात् मारणार्थनिर्दिष्टप्रक्षेप्यभागम् अपेक्ष्य द्रव्याधिकक्षेपं द्रव्याणां प्रक्षेप्यद्रव्याणाम् अधिकक्षेपम् अधिकप्रक्षेपम् अनु पश्चाद् अधिकप्रक्षेपानन्तरम् इत्यर्थः यः वह्निकाग्रासः मारणीयद्रव्यगतवह्निनिर्वापणं वाथवा द्रवैर् जलादिभिः यः वह्निकाग्रासः स भञ्जनीति संज्ञया वादिभिः रसवादिभिः मता कथिता ।। रसबोध-८.५१;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • भजनीलक्षणमाह भागाद्रूप्याधिकेति ।। रसटी-८.५१;१
  • अनुवर्णसुवर्णके हीनवर्णसुवर्णे हेमकृष्टिं दत्त्वा शतांशविधिना रक्तपीतवर्णोत्कर्षार्थं यतमानेन साधकेन प्रमादात्कारणान्तरेण वा यदा रूप्यस्य यो भागः शास्त्र उक्तस्तं विहाय प्रमाणापेक्षयाधिकः क्षिप्यते तादृशक्षेपं कृत्वा यदा वर्णिकाह्रासे प्रागवस्थितपीतवर्णस्यापि ह्रासः क्षयो भवति ।। रसटी-८.५१;२
  • अथवा द्रव्यैर् वेधादावनुपदिष्टद्रव्यैर् वङ्गनीलाञ्जनादिभिः संमीलनेनापि यो वर्णिकाह्रासः सा रसशास्त्रे भञ्जनीति कथ्यते ।। रसटी-८.५१;३
  • हेमकृष्टेर्लक्षणं तु ।। रसटी-८.५१;४
  • रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
  • समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।। रसटी-८.५१;५
  • इति प्रागुक्तमेव ।। रसटी-८.५१;६
  • अत्र विधौ हेमकृष्टिः ।। रसटी-८.५१;७
  • रसदरदताप्यगन्धकमनःशिलाराजवर्तकं विमलम् ।
  • पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियम् ।। रसटी-८.५१;८
  • इति ।। रसटी-८.५१;९
  • रसदरदादीनां पुटेन मृतं यच्छुल्बं तत्तारे निर्वाहितं कुर्यात् ।। रसटी-८.५१;१०
  • शतांशविधिश्च ।
  • अष्टानवतिर् भागास्तारस्त्वेकोऽपि कनकभागः स्यात् ।
  • सूतस्यैको भागः शतांशविधिरेष विख्यातः ।। रसटी-८.५१;११
  • इति रसहृदये ।। रसटी-८.५१;१२
  • तत्र निर्व्यूढतारभागस्याधिकक्षेपेणानु वर्णसुवर्णे वर्णनाशः स्पष्ट एव ।। रसटी-८.५१;१३



चुल्लका

पतङ्गीकल्कतो जाता लोहे तारे च हेमता ।
दिनानि कतिचित्स्थित्वा यात्यसौ चुल्लका मता ।। रस-८.५२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • चुल्लकामाह पतङ्गीति ।। रसबोध-८.५२;१
  • पतङ्गीकल्कतः पतङ्गीकल्कान्तर् इत्यर्थः कतिचिद्दिनानि स्थित्वा लौहं तारं चेति शेषः तत्र लौहे विशेषतः तारे च या हेमता स्वर्णसादृश्यं जाता असौ हेमता चुल्लका याति चुल्लका इति संज्ञां लभते इत्यर्थः इति मता ।। रसबोध-८.५२;२
  • चुल्लका गिल्टी इति लोके ।। रसबोध-८.५२;३
  • यद्वा लक्षणद्वयमिदं तेन पतङ्गीत्यारभ्य हेमता इत्यन्तेन श्लोकार्धेन हेमतालक्षणम् दिनानीत्यादिश्लोकार्धेन च चुल्लकालवणं ज्ञेयम् ।। रसबोध-८.५२;४
  • अस्मिन् पक्षे वक्ष्यमाणपतङ्गीरागाख्यरञ्जकद्रव्यविशेषस्य कल्कलेपनेन सर्वलौहे विशेषतः रौप्ये हेमता इति संज्ञा जायते ।। रसबोध-८.५२;५
  • हेम्नो भावः इति हेमता स्वर्णसादृश्यम् ।। रसबोध-८.५२;६
  • तथा असौ लौहतारयोर् हेमता कतिचिद्दिनानि स्थित्वा पतङ्गीकल्के इत्याशयः चुल्लका याति चुल्लकेत्याख्यया ख्यातिं यातीत्यर्थः ।। रसबोध-८.५२;७

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ चुल्लिकालक्षणमाह पतङ्गीकल्कत इति ।। रसटी-८.५२;१
  • पतङ्गी अशुद्धरसोपरसादिकृतबीजजीर्णः पारदस्तद्घटितो यः कल्कस्तेन जातं यल्लोहे ताम्रादौ गौरवतेजस्वित्वादिगुणसहितं तारत्वं हेमता वा किंचित्कालपर्यन्तं स्थित्वा नश्यति सा क्रिया चुल्लिकेति मता ।। रसटी-८.५२;२
  • उक्तं च रसहृदये ।
  • यः पुनरेतैः कुरुते कर्माशुद्धैर् भवेद् रसस्तस्य ।
  • अव्यापकः पतङ्गी न रसे रसायने योज्यः ।। रसटी-८.५२;३
  • इति ।। रसटी-८.५२;४
  • एतै रसोपरसैः ।। रसटी-८.५२;५
  • कर्म जारणादिकर्म ।। रसटी-८.५२;६
  • पतङ्गी पक्षिवद् ऊर्ध्वगामी ।। रसटी-८.५२;७
  • पारदघटितकल्कस्तु योगतरङ्गिण्यादिग्रन्थोक्तो बोध्यः ।। रसटी-८.५२;८
  • तथा चोक्तं तरङ्गिण्याम् ।
  • पारदष्टङ्क एकस्या द्विपलं पीतखर्परम् ।
  • मर्दयेत्सुदृढं तावद् रसो यावद् विलीयते ।। रसटी-८.५२;९
  • पुनर् जम्बीरनीरेण गुडेन च समन्वितम् ।
  • शोषयेच्चातपे पिष्ट्वा श्लक्ष्णं कृत्वा च धार्यते ।। रसटी-८.५२;१०
  • अर्कदुग्धस्य दातव्या भावनास्ता यथा तथा ।
  • अस्य कल्कस्य सिद्धस्य भाग एकश्च टङ्कणः ।। रसटी-८.५२;११
  • ताम्रं भागत्रयं दत्त्वा धाम्यताम् अन्धमूषया ।
  • सुवर्णं दिव्यतेजः स्यात् कुङ्कुमाद् अतिरिच्यते ।। रसटी-८.५२;१२
  • इति ।। रसटी-८.५२;१३
  • एवं नागार्जुनादिग्रन्थे तारत्वोत्पादककल्कोऽपि द्रष्टव्यः ।। रसटी-८.५२;१४



पतंगीराग

रञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिरकालतः ।
विनिर्यासः स निर्दिष्टः पतङ्गीरागसंज्ञकः ।। रस-८.५३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति क्रियाविशेषसिद्धस्याचिरविनाशिनो लोहस्थस्य रागस्य संज्ञामाह रञ्जितादिति ।। रसटी-८.५३;१
  • अत्रापि पतङ्गिकल्कत इत्यनुवर्तनीयम् ।। रसटी-८.५३;२
  • तादृशकल्केन रञ्जिताल्लोहाद्ध्मानादियत्नेन विना कालान्तरे ध्मानेन सद्यो वा यो रागो विनिर्याति वियुज्य निर्गच्छति स पतङ्गीरागसंज्ञको रसशास्त्रे ख्यातः ।। रसटी-८.५३;३

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • पूर्वश्लोके पतङ्गी इत्युक्तम् अतः तामेव विवृणोति रञ्जितादिति ।। रसबोध-८.५३;१
  • चिराद्दीर्घकालं व्याप्य रञ्जिताद् वक्ष्यमाणरक्तादिवर्गान्यतमवर्गेण रागपरिप्राप्ताद् यस्मात् कस्मादपि लौहाद् अथवा चिरकालतः सुदीर्घकालं ध्मानाद्ध्मापिताद् यस्मात् कस्मादपि रञ्जितलौहाद् यः विनिर्यासः निःस्रवः सत्त्वमिति यावत् निर्गच्छतीति शेषः स पतङ्गीरागसंज्ञकः निर्दिष्टः ।। रसबोध-८.५३;२



आवाप, प्रतीवाप, आच्छादन

द्रुते द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः ।
स आवापः प्रतीवापस् तदेवाच्छादनं मतम् ।। रस-८.५४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • द्रुत इति ।। रसटी-८.५४;१
  • एतदुदाहरणं यथा ।
  • सुरदालिभस्म गलितं त्रिःसप्तकृत्वोऽथ गोजलं शुष्कम् ।
  • वापेन सलिलसदृशं करोति मूषागतं तीक्ष्णम् ।। रसटी-८.५४;२
  • इति ।। रसटी-८.५४;३
  • तथा ।
  • सुरगोपकदेहरजः सुरदालिफलैः समांशकैर् देयः ।
  • वापो द्रुते सुवर्णे द्रुतमास्ते तद्रसप्रख्यम् ।। रसटी-८.५४;४
  • इति ।। रसटी-८.५४;५
  • रसप्रख्यं जलसदृशम् इत्यर्थः ।। रसटी-८.५४;६



अभिषेक

द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।। रस-८.५५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अभिषेकमाह द्रुते इति ।। रसबोध-८.५५;१
  • वह्निस्थिते प्रज्वलितचुल्ल्युपरि एव अवस्थिते ।। रसबोध-८.५५;२
  • अष्टनिमेषकम् अष्टवारम् अक्ष्णोर् निमीलनोन्मीलनात्मकं कालं विरम्य द्रवीभवनानन्तरम् अपेक्ष्य ।। रसबोध-८.५५;३



निर्वाप

तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ।। रस-८.५६ ।।

Zएइत्पुन्क्त् fंर् आवाप उस्w.

प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले ।। रस-८.५७ ।।

शुद्धावर्त

यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
शुद्धावर्तस् तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।। रस-८.५८ ।।

बीजावर्त

द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।
द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ।। रस-८.५९ ।।

स्वङ्गशीतल

वह्निस्थम् एव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ।। रस-८.६० ।।

बहिःशीत

अग्नेराकृष्य शीतं यत्तद् बहिःशीतमुच्यते ।। रस-८.६१ ।।

स्वेदन

क्षाराम्लैर् औषधैर्वापि दोलायन्त्रे स्थितस्य हि ।
पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।। रस-८.६२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • स्वेदनमाह क्षाराम्लैरिति ।। रसबोध-८.६२;१
  • औषधैः तत्तल्लौहशोधकद्रव्याणां स्वरसादिभिर् इत्यर्थः ।। रसबोध-८.६२;२
  • मलशैथिल्यकारकं स्वेदनेन मार्दवे जाते अन्तर्मलानां पृथक्करणं वीकरणं वा ।। रसबोध-८.६२;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • इदानीम् अष्टादशसंस्काराणां क्रमेण लक्षणमाह क्षाराम्लैरिति ।। रसटी-८.६२;१
  • क्षारा यवक्षारसर्जनटङ्कणाः ।। रसटी-८.६२;२
  • अम्लं काञ्जिकादि ।। रसटी-८.६२;३
  • औषधैस्त्र्यूषणादिभिः सर्पाक्ष्यादिभिश्च ।। रसटी-८.६२;४
  • तास्तु रसरत्नाकरे परिगणिता एव स्वेदनाद्युपयोगिकाञ्जिकविधौ ।। रसटी-८.६२;५
  • तथा च तद्ग्रन्थः ।
  • नानाधान्यैर् यथाप्राप्तैस्तुषवर्ज्यैर् जलान्वितैः ।
  • मृद्भाण्डे पूरितं रक्ष यावद् अम्लत्वम् आप्नुयात् ।। रसटी-८.६२;६
  • तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।
  • मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ।। रसटी-८.६२;७
  • त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।
  • समूलं कण्डयित्वा तु यथालाभं निवेशयेत् ।। रसटी-८.६२;८
  • पूर्वाम्लभाण्डमध्ये तु धान्याम्लकम् इदं स्मृतम् ।
  • स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।। रसटी-८.६२;९
  • इति ।। रसटी-८.६२;१०
  • स्थितस्य त्र्यूषणादिकल्कलिप्तवस्त्रावृतभूर्जपत्रपोटलिकामध्ये स्थितस्य पारदयेत्यर्थः ।। रसटी-८.६२;११
  • त्र्यूषणादिकल्कोऽपि रसरत्नाकरेऽभिहितः ।
  • त्र्यूषणं लवणं राजी रजनी त्रिफलाद्रवम् ।
  • महाबला नागबला मेघनादा पुनर्नवा ।। रसटी-८.६२;१२
  • मेषशृङ्गी चित्रकं च नवसारं समं समम् ।
  • एतत् समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् ।। रसटी-८.६२;१३
  • तत्कल्केन लिपेद्वस्त्रं यावद् अङ्गुलमात्रकम् ।
  • तन्मध्ये निक्षिपेत् सूतं बद्ध्वा पच्याद् दिनत्रयम् ।। रसटी-८.६२;१४
  • दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ।
  • प्रक्षाल्य काञ्जिकैः सोष्णैस्तम् आदाय विमर्दयेत् ।। रसटी-८.६२;१५
  • इति ।। रसटी-८.६२;१६
  • मलशैथिल्यकारकं मलाश्च द्वादश दोषाः ।। रसटी-८.६२;१७
  • तच्छैथिल्यजनकम् ।। रसटी-८.६२;१८
  • शिथिलानाम् एव हि तेषाम् मोचयितुम् शक्यत्वात् ।। रसटी-८.६२;१९
  • द्वादश दोषाश्च विषं वह्निर् मलश्चेति नैसर्गिकास्त्रयः ।। रसटी-८.६२;२०
  • नागज एकः ।। रसटी-८.६२;२१
  • वङ्गज एकः ।। रसटी-८.६२;२२
  • तथा भूमिजो गिरिजो वार्जः ।। रसटी-८.६२;२३
  • नागजौ द्वौ ।। रसटी-८.६२;२४
  • वङ्गजौ च द्वौ ।। रसटी-८.६२;२५
  • इति सप्त कञ्चुकाख्या इत्येवं द्वादश दोषा देवैः प्रार्थितमहेश्वरेण पारदे संयोजिता भवन्ति ।। रसटी-८.६२;२६



मर्दन

उदितैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ।। रस-८.६३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मर्दनमाह उदितैरिति ।। रसबोध-८.६३;१
  • उदितैरौषधैः तत्र तत्रोक्तभेषजद्रव्याणां स्वरसैः क्वाथैर्वा इत्यर्थः ।। रसबोध-८.६३;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • उदितैरिति ।। रसटी-८.६३;१
  • वक्ष्यमाणमर्दनविध्युक्तैर् गृहधूमाद्यौषधैः सर्वाम्लैरम्लवेतसप्रमुखैर् अम्लवर्गोक्तैर्द्रव्यैः ।। रसटी-८.६३;२
  • तेषां रसेनेत्यर्थः ।। रसटी-८.६३;३
  • तथा काञ्जिकैरपि पारदस्य यत्पेषणं त्रिदिनपर्यन्तं कृतं तद् बहिर्मलविनाशनं भवति ।। रसटी-८.६३;४
  • बहिर्मलः स्वेदेनान्तर्विश्लिष्टो भूत्वा पारददेहाद्बहिः संश्लिष्टो रागतो नैसर्गिकदोषं विहाय नवविधो यो मलस्तद्विनाशको भवतीति ।। रसटी-८.६३;५
  • केवलं स्वेदमर्दनाभ्यां न सर्वथा भुजकञ्चुकदोषनाशनं भवति ।। रसटी-८.६३;६



मूर्छन

मर्दनादिष्टभैषज्यैर् नष्टपिष्टत्वकारकम् ।
तन्मूर्छनं हि वङ्गाहिभुजकञ्चुकनाशनम् ।। रस-८.६४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अतो मर्दनपूर्वकम् अग्नियोगेन नाशं कृत्वा पारदस्य यत् पिष्टत्वोत्पादनं तन्मूर्छनसंस्कारनाम्नाह मर्दनादिष्टेति ।। रसटी-८.६४;१
  • मर्दनार्थं वक्ष्यमाणमूर्छनसंस्कारविधौ कथितैर् गृहकन्यादिभिर् नष्टपिष्टत्वकारकं यत् कर्म मर्दनपूर्वकपाचनरूपं तन्मूर्छनम् इत्यभिधीयते ।। रसटी-८.६४;२
  • समासतो लक्षणं तु दत्तग्रासस्य ग्रासरहितस्य वा गालनपातनव्यक्तिरेकेण पूर्वावस्थापन्नत्वम् ।। रसटी-८.६४;३
  • तच्च मर्दनपाकाभ्यां भवतीति मर्दनोत्तरं यन्त्रपुटान्यतरेण पाकोऽप्यङ्गत्वेन बोध्य इति द्वौ यौगिकौ ।। रसटी-८.६४;४
  • भूजशब्देन भूजदोषप्रभृतीत्यर्थो बोध्यः ।। रसटी-८.६४;५
  • ते च कञ्चुका आवरकाः सप्त दोषा वङ्गाहिदोषप्रमुखाः ।। रसटी-८.६४;६
  • ते च मर्दनाग्निभ्यां नश्यन्ति ।। रसटी-८.६४;७
  • वङ्गशब्देन वङ्गजदोषो ग्राह्यः ।। रसटी-८.६४;८
  • अहिशब्देन नागजदोषश्च ।। रसटी-८.६४;९
  • दोषाणां नानात्वेन विविधदृढशिथिलसंसर्गतारतम्येन तन्नाशार्थं विविधोपायप्रदर्शनम् उचितम् एवेति न मर्दनसंस्कारेण मूर्छनस्य गतार्थतेति शङ्क्यमिति भावः ।। रसटी-८.६४;१०
  • तन्मूर्छनं हि वङ्गाहिभूजकञ्चुकनाशनम् इति पाठं गृहीत्वेयं व्याख्या ।। रसटी-८.६४;११
  • दोषत्रयविनाशनमिति पाठे तु नैसर्गिकदोषनाशे सुतरां बहिर्दोषनाश इत्यभिप्रायः ।। रसटी-८.६४;१२
  • अत एवायं पाठो रसहृदयटीकायां चतुर्भुजमिश्रितैर् आदृतः ।। रसटी-८.६४;१३
  • नैसर्गिकदोषेतरदोषाणां वारणाय पूर्वोक्तमर्दनसंस्कारो नैसर्गिकदोषवारणायायम् इति व्यवस्थायाः सुकरत्वात् ।। रसटी-८.६४;१४
  • एवं च वङ्गाहिभूजकञ्चुकनाशनम् इति पाठो न मनोरम इति बोध्यम् ।। रसटी-८.६४;१५

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • मूर्छनमाह मर्दनादिति ।। रसबोध-८.६४;१
  • इष्टभैषज्यैः शोधकादित्वेन अभिमतौषधैः ।। रसबोध-८.६४;२
  • नष्टपिष्टत्वकारकं पेषणेन स्वरूपनाशात् यन्मूर्तिबद्धत्वम् ।। रसबोध-८.६४;३
  • वङ्गेति ।। रसबोध-८.६४;४
  • नागवङ्गादिदोषनाशनम् ।। रसबोध-८.६४;५
  • एतत्तु रसम् उद्दिश्य उक्तं धात्वन्तराणाम् अपि स्वस्वदोषनाशनम् इति आदिपदेन बोध्यम् ।। रसबोध-८.६४;६



उत्थापन

स्वेदातपादियोगेन स्वरूपापादनं हि यत् ।
तदुत्थापनम् इत्युक्तं मूर्छाव्यापत्तिनाशनम् ।। रस-८.६५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • उत्थापनमाह स्वेदेति ।। रसबोध-८.६५;१
  • स्वेदः ऊर्ध्वपातनादिना स्वेदनम् आतपः रौद्रसंतापः आदिना मर्दनादीनाम् ग्रहणम् ।। रसबोध-८.६५;२
  • स्वरूपापादनं प्रकृत्यवस्थापनम् ।। रसबोध-८.६५;३
  • मूर्छाव्यापत्तिनाशनं मूर्छनक्रियाजनितस्वरूपध्वंसरूपविपत्तिवारणम् ।। रसबोध-८.६५;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • स्वेदेति ।। रसटी-८.६५;१
  • स्वेदः काञ्जिकया क्षाराम्ललवणैश्च दोलायन्त्रे स्वेदनम् ।। रसटी-८.६५;२
  • आतपयोगः काञ्जिकादिमर्दितरसस्य काचपात्रे सूर्यतापस्थे धारणम् ।। रसटी-८.६५;३
  • आदिशब्देन साग्निकचुल्लीस्थे कटाहे वा पारदस्य तस्य धारणमित्यादि ।। रसटी-८.६५;४
  • तेन पारदस्य मूर्छितस्य यच्चाञ्चल्यतेजस्वित्वगौरवविशिष्टत्वरूपम् आत्मरूपं तत्प्रतिप्रापणं तदुत्थापनम् इत्युच्यते ।। रसटी-८.६५;५



नष्टपिष्टि

स्वरूपस्य विनाशेन पिष्टत्वाद् बन्धनं हि तत् ।
विद्वद्भिर्निर्जितः सूतो नष्टपिष्टिः स उच्यते ।। रस-८.६६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • बन्धनमाह स्वरूपस्येति ।। रसबोध-८.६६;१
  • पिष्टम् इष्टभैषज्यैः पेषणं पिष्टमिति भावोक्तः तस्य भावः ।। रसबोध-८.६६;२
  • तत्त्वात् स्वरूपस्य विनाशेन स्वकीयशुभ्रत्वचपलत्वादिरूपापायेन यद् रूपापादनम् इति शेषस्तद् बन्धनं वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम् इति वा ज्ञेयम् इति शेषः ।। रसबोध-८.६६;३
  • अस्यैव नष्टपिष्टिर् इति संज्ञान्तरमाह विद्वद्भिरिति ।। रसबोध-८.६६;४
  • निर्जितो बन्धनेन नष्टस्वरूपः यद्वा निर्जितो मृतः स सूतः विद्वद्भिर् नष्टपिष्टिर् उच्यते ।। रसबोध-८.६६;५



पातन

उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वम् अधश् च तिर्यक् ।
निर्यातनं पातनसंज्ञम् उक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ।। रस-८.६७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पातनात्रयमाह उक्तौषधैरिति ।। रसबोध-८.६७;१
  • निर्यातनं शोधनाद्यर्थं यत् कदर्थनमित्यर्थः ।। रसबोध-८.६७;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ पातनसंस्कारस्य लक्षणमाह उक्तौषधैरिति ।। रसटी-८.६७;१
  • वक्ष्यमाणपातनविधौ निर्दिष्टत्रिफलादिभेषजैः सह मर्दितपारदस्य तत ऊर्ध्वपातनादियन्त्रस्थितस्य यन्निर्यापणम् ऊर्ध्वाधस्तिर्यक्प्रापणं तत् पातनम् उच्यते ।। रसटी-८.६७;२
  • तेन वङ्गनागजा यौगिकदोषा भूजादिसप्तकञ्चुकाश्च सर्वथा नश्यन्ति ।। रसटी-८.६७;३



रोधन

जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।
स्थितिर् आस्थापनी कुम्भे यासौ रोधनमुच्यते ।। रस-८.६८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • रोधनमाह जलेति ।। रसबोध-८.६८;१
  • जलसैन्धवाभ्यां सह कुम्भमध्ये दिवसत्रयं रसस्य या आस्थापनी आ सम्यक् स्थापनी षण्ढदोषनाशनपूर्वकं स्ववीर्ये स्थापनकारिणी क्रियेति शेषः असौ स्थितिः स्थापनं रोधनमित्युच्यते ।। रसबोध-८.६८;२
  • इदं हि स्वेदनादिक्रियाजनितकदर्थनेन षण्ढभावप्राप्तस्य रसस्य तद्दोषनाशपूर्वकवीर्यप्रकर्षाधानार्थं ज्ञातव्यम् ।। रसबोध-८.६८;३
  • ग्रन्थान्तरेऽस्य बोधनम् इति संज्ञा निर्दिष्टा ।। रसबोध-८.६८;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • रोधनं लक्षयति जलेति ।। रसटी-८.६८;१
  • कुम्भे वक्ष्यमाणे घटयन्त्रे ।। रसटी-८.६८;२
  • आप्यायनी पुष्टिकरी ।। रसटी-८.६८;३
  • अत्र सैन्धवमयमूषासंपुटितं कृत्वैकविंशतिदिनपर्यन्तं भूधरपुटनं सृष्ट्यम्बुजैः सह मर्दनं च कृत्वा ततः परम् इति वाक्यशेषो बोध्यः ।। रसटी-८.६८;४



नियमन

रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत् ।। रस-८.६९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • नियमनमाह रोधनादिति ।। रसबोध-८.६९;१
  • स्वेदः स्वेदनम् ।। रसबोध-८.६९;२
  • यद्यप्यत्र स्वेदनार्थं द्रव्यनिर्देशो न कृतः तथापि अध्येतॄणां विज्ञानार्थं ग्रन्थान्तरोक्तं तन्निर्दिश्यते तथा च रसेन्द्रचिन्तामणौ ।
  • सर्पाक्षीचिञ्चिकाकन्याभृङ्गारकनकाम्बुभिः ।
  • दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ।। रसबोध-८.६९;३
  • इति ।। रसबोध-८.६९;४
  • नियमनं चपलत्वपरिहारपूर्वकस्थिरत्वसंपादनम् ।। रसबोध-८.६९;५

$

  • टीका रससरत्नसमुच्चयटीका:
  • लब्धवीर्यस्य पारदस्येति शेषः ।। रसटी-८.६९;१
  • स्वेदः पारदगर्भितमूषां भूमिमध्ये गूढां कृत्वा भूम्युपरि करीषाग्निर् इत्यर्थः ।। रसटी-८.६९;२



दीपन

धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।
ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।। रस-८.७० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • दीपनमाह धात्विति ।। रसबोध-८.७०;१
  • ग्रासार्थं घनहेमादीनाम् इति शेषः ।। रसबोध-८.७०;२
  • स्वेदः दोलायन्त्रे काञ्जिकादिना रसस्य इति शेषः ।। रसबोध-८.७०;३
  • दीपनं ग्रासशक्तिसंजननक्रियाविशेषः ।। रसबोध-८.७०;४
  • रसेन्द्रचिन्तामणिकारेण दीपनद्रव्याणि अन्यविधान्युक्तानि यथा ।
  • कासीसं पञ्चलवणं राजिका मरिचानि च ।
  • भूशिग्रुबीजम् एकत्र टङ्गणेन समन्वितम् ।। रसबोध-८.७०;५
  • आलोड्य काञ्जिके दोलायन्त्रे पाकाद् दिनैस्त्रिभिः ।
  • दीपनं जायते सम्यक् सूतराजस्य जारणे ।। रसबोध-८.७०;६
  • अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।। रसबोध-८.७०;७
  • इति ।। रसबोध-८.७०;८

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ दीपनसंस्कारं लक्षयति धातुपाषाणेति ।। रसटी-८.७०;१
  • धातवस्ताम्रपत्रादयः ।। रसटी-८.७०;२
  • पाषाणाः स्फटिका मयूरतुत्थकासीसादयः ।। रसटी-८.७०;३
  • मूलानि सर्पाक्ष्यादिमूलिकाः ।। रसटी-८.७०;४
  • आद्यशब्देन क्षारलवणोदकादि ग्राह्यम् ।। रसटी-८.७०;५
  • घटमध्यगो घटयन्त्रमध्यगः पारदस्त्रिदिनपर्यन्तं स्वेद्यो भवति यस्मिन् कर्मणि तद् दीपनम् इति ख्यातम् ।। रसटी-८.७०;६
  • अथ जारणायाम् अयथाबलम् अयथाक्रमं च ग्रासदानेनाजीर्णदोषात् पारदे विक्रिया स्याद् इति ग्रासमानविचारोऽवश्यं कार्यः ।। रसटी-८.७०;७



ग्रासमान

इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानं समीरितम् ।। रस-८.७१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • ग्रासमानमाह इयन्मानस्येति ।। रसबोध-८.७१;१
  • इयन्मानस्य एतावत्परिमाणस्य सूतस्य संबन्धविवक्षया षष्ठी इयन्मिते सूते इत्यर्थः या इयती मितिः एतावत्परिमाणं भोज्यद्रव्याणाम् इति शेषः इति उच्यते भोज्यद्रव्यात्मिका ग्रसनीयस्वर्णादिद्रव्याणां माननिर्देशरूपा असौ उक्तिः ग्रासमानं समीरितम् इयन्मानः सूतः इयन्मानं स्वर्णादिद्रव्यं ग्रसितुं समर्थः एवंरूपमाननिर्देशः ग्रासमानं ज्ञेयम् ।। रसबोध-८.७१;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अतो ग्रासमानाख्यसंस्कारस्य लक्षणमाह इयन्मानस्येति ।। रसटी-८.७१;१
  • इयच्छब्दोऽत्र संस्कार्यपारदस्य गृहीतमानविशेषपलादिवाचकः ।। रसटी-८.७१;२
  • तादृशमानमितपारदस्येयच्चतुःषष्ट्यंशादिमिताभ्रकसत्त्वबीजाद्यात्मकं द्रव्यं भक्षणाय दत्तं चेत् सुखेन चीर्णं जीर्णं च स्यादिति निश्चिता या बीजादेर् मितिस् तद्ग्रासमानं ख्यातम् ।। रसटी-८.७१;३



जारणा

ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ।। रस-८.७२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जारणात्रयमाह ग्रासस्येति ।। रसबोध-८.७२;१
  • ग्रासस्य ग्रासयोग्यस्य स्वर्णादेरित्यर्थं चारणं रसान्तः क्षेपणं गर्भे द्रावणं रसान्तः तरलीभवनं जारणं विडयन्त्रादियोगेन द्रवीभूतग्रासस्य पाकः ।। रसबोध-८.७२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ जारणां लिलक्षयिषुः प्रथमं साधारणांस्तदवस्थाभेदान् सलक्षणान् समासत आह ग्रासस्येति ।। रसटी-८.७२;१
  • श्रेष्ठै रसवार्त्ताकुशलैः सर्वविधा जारणा त्रिरूपा त्रिप्रकारा कथिता भवति ।। रसटी-८.७२;२
  • तत्र ग्रासस्य चारणं पारदकर्तृकग्रासभक्षणकरणम् ।। रसटी-८.७२;३
  • गर्भद्रावणं ग्रस्तबीजादेः पारदोदरे द्रुतिकरणम् ।। रसटी-८.७२;४
  • जारणं च पारद एकीभावोऽनन्तदृढसंबन्धेन ।। रसटी-८.७२;५
  • एषां लक्षणान्यनुपदं वक्ष्यति ।। रसटी-८.७२;६



जारण > सुब्त्य्पेस् > ग्रास, ...

ग्रासः पिण्डः परिणामस्तिस्रश्चाख्याः परा पुनः ।। रस-८.७३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जारणाया अपरं त्रैविध्यमाह ग्रास इति ।। रसबोध-८.७३;१
  • ग्रासः कवलीकरणरूपजारणा पिण्डः कर्दमवत् पिण्डीभवनरूपजारणा ।। रसबोध-८.७३;२
  • परीणामः अवस्थान्तरप्रापणरूपजारणा ।। रसबोध-८.७३;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • पुनरपि जारणाया अवस्थाकृतनामान्तराणि त्रीण्याह ग्रासः पिष्टिः परीणामश्चेति ।। रसटी-८.७३;१
  • तत्र ग्रासो ग्रसनम् ।। रसटी-८.७३;२
  • पिष्टिः स्वेदनमर्दनाग्न्यादिभिः पारदोदरे द्रुतग्रासस्य पारदसहितस्य शुष्कश्चूर्णः ।। रसटी-८.७३;३
  • परिणामार्थस्तु प्रागुक्त एव ।। रसटी-८.७३;४
  • पुनर् जारणा द्विविधा भवति ।। रसटी-८.७३;५
  • समुखा निर्मुखा चेति भेदेन ।। रसटी-८.७३;६



समुखा निर्मुखा चेति जारणा द्विविधा पुनः ।। रस-८.७४ ।।

निर्मुखजारणा

निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ।। रस-८.७५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तत्रादौ निर्मुखजारणामाह निर्मुखेति ।। रसबोध-८.७५;१
  • निः नास्ति मुखं वक्ष्यमाणचतुःषष्ट्यंशः बीजप्रक्षेपरूपमुखलक्षणं यत्र जारणायां तादृशी ।। रसबोध-८.७५;२
  • बीजेति ।। रसबोध-८.७५;३
  • भागतः यथाभागं तत्तद्द्रव्यजारणायां निर्दिष्टभागम् अनतिक्रम्य वक्ष्यमाणचतुःषष्टिभागात् न्यूनतया अधिकतया वा इत्यर्थः बीजादानेन शुद्धस्वर्णरौप्यात्मकबीजग्रहणम् ।। रसबोध-८.७५;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • तत्राल्पवक्तव्यत्वात् प्रथमं निर्मुखाया एव लक्षणमाह निर्मुखेति ।। रसटी-८.७५;१
  • चतुःषष्टिभागमितं बीजं प्रथमं यत्र पारदोदरे न दीयते किंतु केवलं शुद्धधात्वादिग्रास एव सृष्टित्रयनीरकणावासनौषधिमर्दनाद्युपायैर् जार्यते सा जारणा निर्मुखेत्युच्यते ।। रसटी-८.७५;२
  • रसोपरसादिमृदुद्रव्यजारणे तस्या उपयोगः कार्यः ।। रसटी-८.७५;३



बीज (देf.)

शुद्धं स्वर्णं च रूप्यं च बीजम् इत्यभिधीयते ।। रस-८.७६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • मुखकरणोपयोगिबीजशब्दार्थमाह शुद्धमिति ।। रसटी-८.७६;१
  • शुद्धम् अकृत्रिमम् उत्तमं खनिजं स्वर्णं रूप्यं वैतच्छास्त्रोक्तशुद्ध्या सुशुद्धं कृत्वात्र ग्राह्यम् ।। रसटी-८.७६;२
  • एतेन कृत्रिमनिर्व्यूढमहाबीजादिव्यावृत्तिः कृता ।। रसटी-८.७६;३



समुखजारणा

चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ।। रस-८.७७ ।।

समुखरस/-जारणा

एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ।
इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ।। रस-८.७८ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • उक्तबीजस्य यथाक्रमं स्वर्णोत्पादार्थं रौप्यजननार्थं च पारदस्य चतुःषष्ट्यंशेन पारदोदरे जारणारम्भे प्रक्षेपः कार्यः ।। रसटी-८.७८;१
  • एवं कृते तस्मिन् बीजे पारदोदरे यथाविधि चीर्णे जीर्णे च सति पारदः सत्वरं ग्रासभक्षणं करोतीति शास्त्रे स रसो मुखवानित्युच्यते ।। रसटी-८.७८;२
  • तत्कृतं यत् कठिनलोहादिभक्षणं सा जारणा समुखेत्युक्ता ।। रसटी-८.७८;३
  • मृगचारिणा मृगसहितं वने चरति संसारं विहाय विरिक्तेन केनचिद्वरवार्तिकेन ।। रसटी-८.७८;४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • समुखजारणाम् आह एवमिति ।। रसबोध-८.७८;१
  • एवं कृते चतुःषष्ट्यंशतो बीजप्रक्षेपे कृते ।। रसबोध-८.७८;२
  • मुखवान् समुखः ।। रसबोध-८.७८;३
  • मृगचारिणा तदाख्येन केनचिद् रसतन्त्रकृता ।। रसबोध-८.७८;४



राक्षसवक्त्रवत्

दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ।
भुञ्जीताखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ।। रस-८.७९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • राक्षसमुखरसम् आह दिव्यौषधीति ।। रसबोध-८.७९;१
  • दिव्यौषधिः मनःशिला ।। रसबोध-८.७९;२
  • प्रकटकोष्ठिषु विवृताननकोष्ठिकायन्त्रेषु ।। रसबोध-८.७९;३
  • भुञ्जीत ग्रसेत् ।। रसबोध-८.७९;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ महामुखपारदस्य लक्षणमाह दिव्यौषधीति ।। रसटी-८.७९;१
  • सोमलतादिकाश्चतुःषष्टिदिव्यौषध्यस् तत्समायोगस् तद्रसेन कृतमर्दनादिना कृतसंस्कारः ।। रसटी-८.७९;२
  • तेन प्रकाशमूषास्वपि स्थितोऽग्निसहः पारदो ध्मानेन कठिनं मृदु सर्वं लोहादि यदा भुनक्ति असौ महामुखवान् इत्युच्यते ।। रसटी-८.७९;३



चारणा

रसस्य जठरे ग्रासक्षपणं चारणा मता ।। रस-८.८० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जारणाभेदचारणालक्षणमाह रसस्येति ।। रसबोध-८.८०;१
  • जठरे मध्ये इत्यर्थः ग्रासक्षपणं ग्रासस्य ग्रासार्हलौहादेः क्षपणं क्षयमापादनं रसेन सह एकीकरणमित्यर्थः ।। रसबोध-८.८०;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • पूर्वोक्तचारणादीनां लक्षणमाह रसस्येति ।। रसटी-८.८०;१



गर्भद्रुति

ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिर् उदाहृता ।। रस-८.८१ ।।

बाह्यद्रुति

बहिरेव द्रुतिं कृत्वा घनसत्त्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ।। रस-८.८२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गर्भद्रुतिप्रसङ्गेन बाह्यद्रुतिम् आह बहिर् इति ।। रसबोध-८.८२;१
  • बहिर् एव चुल्ल्युपरिस्थकटाहादौ न तु रसगर्भे इत्यर्थः ।। रसबोध-८.८२;२
  • घनसत्त्वादिकम् अभ्रसत्त्वादिकम् अत्रादिपदेन स्वर्णसत्त्वादीनां ग्रहणं बोध्यम् ।। रसबोध-८.८२;३

$


  • टीका रससरत्नसमुच्चयटीका:
  • बहिरेव द्रुतीकृत्येति ।। रसटी-८.८२;१
  • अभ्रकसत्त्वद्रुतिः प्रागुक्तैव द्वितीयाध्याये ।। रसटी-८.८२;२
  • जारणाय तप्तखल्वमध्ये दीयत इति वाक्यशेषः ।। रसटी-८.८२;३



द्रुति (सुब्स्तन्चे)

निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा ।
असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ।। रस-८.८३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • द्रुतेः पञ्चधाभेदानाह निर्लेपत्वमिति ।। रसबोध-८.८३;१
  • निर्लेपत्वं निः निश्चयेन निःशेषेण वा लेपत्वं लिप्तत्वं द्रावान्तरेण सह निःशेषेण एकीभवनमित्यर्थः यद्वा निः निर्गतः लेपः लिप्तपदार्थः मलादिर्यस्मात् तत्त्वं पृथग्भूतमलादिकम् इत्यर्थः ।। रसबोध-८.८३;२
  • द्रुतत्वं विशेषेण द्रवीभवनम् ।। रसबोध-८.८३;३
  • तेजस्त्वं स्वरूपापेक्षया तेजोभूयस्त्वम् ।। रसबोध-८.८३;४
  • लघुता स्वाभाविकगुरुत्वमपेक्ष्य लाघवम् ।। रसबोध-८.८३;५
  • असंयोगश्च सूतेन पारदेन सह पृथक्तया अवस्थानम् ।। रसबोध-८.८३;६



द्रुति (प्रोचेस्स्)

औषधाध्मानयोगेन लोहधात्वादिकं तथा ।
संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ।। रस-८.८४ ।।

जारणा (संस्कार)

द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।। रस-८.८५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जारणाभेदजारणामाह द्रुतेति ।। रसबोध-८.८५;१
  • विडः वक्ष्यमाणलक्षणलक्षितः यन्त्रं कोष्ठिकादिकं तदादियोगतः अत्रादिपदेन मूषापुटादीनां ग्रहणं द्रुतस्य गर्भे तरलितस्य ग्रासस्य स्वर्णादेः परीणामः परिपाकः स्वात्मनि अभेदरूपेण परिणमनम् ।। रसबोध-८.८५;२
  • रसेन्द्रचिन्तामणौ तु जारणा हि पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकं पूर्वावस्थापन्नत्वम् इत्यनेन यत् प्रकारान्तरं जारणालक्षणमुक्तं तत् चारणाख्यजारणाभिप्रायेण बोध्यम् ।। रसबोध-८.८५;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ जारणालक्षणम् आह द्रुतग्रासेति ।। रसटी-८.८५;१
  • बिडयन्त्रादियोगेन पारदोदरे द्रवीभूतस्य ग्रासस्य बीजादेर् यः परीणामोऽविनाशिदृढतरसंबन्धेन पारदेन सहैकीभावः सा जारणेत्युच्यते ।। रसटी-८.८५;२
  • तस्याः प्रकाराः कोटिशोऽतिबहवः सन्ति ।। रसटी-८.८५;३
  • यन्त्रादीनां बहुविधत्वात् ।। रसटी-८.८५;४
  • ते च प्रकाराः पत्रजारणासत्त्वजारणाद्रुतिजारणाबीजजारणामहाबीजजारणासिद्धबीजजारणासधूमजारणानिर्धूमजारणाबालजारणावृद्धजारणाबद्धजारणाभूचरीजारणाखेचरीजारणाप्रभृतयो रसार्णवादौ सविस्तरं बोध्याः ।। रसटी-८.८५;५
  • दोलायन्त्रसोमानलयन्त्रचक्रराजयन्त्रवालुकायन्त्रजलकूर्मयन्त्रस्थलकूर्मयन्त्रमूषाप्रभृतीनि जारणयन्त्रादीनि विद्यात् ।। रसटी-८.८५;६
  • तप्तखल्वे मर्दनं तु सर्वत्र प्राक्कार्यम् एव ।। रसटी-८.८५;७
  • आदिशब्देन षड्बिन्दुकीटसहितमर्दनसृष्टित्रयादिसंग्रहाः ।। रसटी-८.८५;८



विड

क्षारैरम्लैश्च गन्धाद्यैर् मूत्रैश्च पटुभिस् तथा ।
रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ।। रस-८.८६ ।।

रञ्जन

सुसिद्धबीजधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम् ।। रस-८.८७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अतोऽभ्रपत्त्रजारणोत्तरं रागसंस्कारं लक्षयति सुसिद्धबीजेति ।। रसटी-८.८७;१
  • सुसिद्धं यथाविधि साधितं यद् बीजम् अभ्रकसत्त्वधात्वादिचूर्णं तज्जारणेन पारदस्य या बीजधात्वाद्यनुरूपा वर्णोत्पत्तिस् तद् रञ्जनम् ।। रसटी-८.८७;२
  • तत्र बीजसाधनविधिस्तु सिद्धबीजलक्षणव्याख्यायां प्रागुक्त एव ।। रसटी-८.८७;३
  • जारणाविधिस्तु त्रिंशत्तमेऽध्याये स्फुटीभविष्यति ।। रसटी-८.८७;४
  • आदिशब्दो मणिरसोपरसादिपरिग्रहः ।। रसटी-८.८७;५
  • रागद्रव्योदाहरणं विधिश्च रसहृदये ।। रसटी-८.८७;६
  • यथा ।
  • जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायाम् ।
  • कृष्णां रक्तां पीतां सीतां तथा संकरैर्मिश्राम् ।। रसटी-८.८७;७
  • तथा ।
  • क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते क्षणाद्ग्रासः ।
  • हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ।। रसटी-८.८७;८
  • तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् ।
  • वासितमपि वासनया घनवच्चार्यं च जार्यं च ।
  • वासनया वासनौषधेन वासितं भावितमित्यर्थः ।। रसटी-८.८७;९
  • तथा ।
  • कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनाम् ।
  • एकतमं सर्वं वा रसरञ्जने संकरोऽपीष्टः ।। रसटी-८.८७;१०
  • काञ्चीं स्वर्णमाक्षिकम् ।। रसटी-८.८७;११
  • आदिशब्देन हीरकचपलादय उपधातवश्चैकत्र मिलिता अपीष्टाः ।। रसटी-८.८७;१२
  • कुटिले बलमधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः ।। रसटी-८.८७;१३
  • रागस्नेहबलानि तु कमले शंसन्ति धातुविदः ।। रसटी-८.८७;१४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • रञ्जनमाह सुसिद्धेति ।। रसबोध-८.८७;१
  • शोधितस्वर्णरौप्याभ्यां तथा जीर्णताम्रादियोगेन क्रियाविशेषम् आश्रित्य रसस्य यत् पीतादिरागजननम् इत्यन्वयः ।। रसबोध-८.८७;२



सारणा

सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।
वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।। रस-८.८८ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • सारणालक्षणमाह सूत इति ।। रसटी-८.८८;१
  • सारणाख्यतैलेनार्धांशं संभृतं यत् सारणायन्त्रं तत्र स्थिते पारदे यत् स्वर्णादिक्षेपणं स्वर्णादिबीजनागवङ्गानां यत् क्षेपणं वेधाधिक्यसिद्ध्यर्थं क्रियते सा सारणेति रसशास्त्र उक्ता ।। रसटी-८.८८;२
  • प्रतिसारणानुसारणेति च तद्भेदौ ।। रसटी-८.८८;३
  • उक्तं चैतद् रसहृदये ।
  • सारितवर्तितसूतः समानबीजेन मिलति यः सार्यः ।
  • द्विगुणेन प्रतीसार्यः स चानुसार्यश्च त्रिगुणेन ।। रसटी-८.८८;४
  • इति ।। रसटी-८.८८;५
  • द्विगुणमपि सुवर्णमेव ।। रसटी-८.८८;६
  • वेधाधिक्यं वेधो भित्त्वान्तःप्रवेशः सोऽधिको भवति ।। रसटी-८.८८;७
  • पारदस्य ताम्रदलादौ शरीरस्थधात्वादिषु च सर्वतो व्याप्तिः ।। रसटी-८.८८;८
  • सारणातैलं पञ्चमाध्यायव्याख्यायां प्रागुक्तमेव ।। रसटी-८.८८;९
  • यन्त्राध्याये सारणायन्त्रं सारणाविधिश्च स्फुटीभविष्यति ।। रसटी-८.८८;१०

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • सारणामाह सूते इति ।। रसबोध-८.८८;१
  • सतैलयन्त्रस्थे तैलपूर्णान्धमूषामध्यस्थिते सूते रसे यत् स्वर्णादिक्षेपणं स्वर्णादिप्रक्षेपः लोहे ताम्रादौ इत्यर्थः वेधाधिक्यकरं वेधस्य स्वर्णादिजननरूपवेधशक्तेः आधिक्यकरम् आतिशय्यजनकम् ।। रसबोध-८.८८;२
  • उक्तं च रसेन्द्रचिन्तामणौ ।
  • अथ सारणोच्यते ।। रसबोध-८.८८;३
  • अन्धमूषा तु कर्तव्या गोस्तनाकारसंनिभा ।। रसबोध-८.८८;४
  • सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता ।। रसबोध-८.८८;५
  • अस्याम् एव मूषायां तत्तैलम् अपगतकल्कविमलम् आपूर्यम् अस्मिन्नधिकम् अधस्ताद् द्रुतबीजप्रक्षेपसमकालम् एव समावर्जनीयः सूतवरस्तदनु सद्यो मूषाननम् आच्छादनीयम् ।। रसबोध-८.८८;६
  • एतत् तैलाक्तखण्डग्रन्थिबन्धेन अरुणासितबीजाभ्याम् अश्वनासारकर्मणा मिलितश्चेत् सारितः सम्यक् संयमितः विज्ञातव्यः ।। रसबोध-८.८८;७
  • सारणार्थं तैलमपि तत्रैवान्वेष्टव्यं विस्तरभयान्नोद्धृतम् इति ।। रसबोध-८.८८;८



वेध

व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।। रस-८.८९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • सारणालक्षणे वेधाधिक्यकरम् इत्युक्तं कस्तावत् वेध इत्यपेक्षायामाह व्यवायीति नागवल्लीकुमारिकाधुस्तूरादिव्यवायिगुणवद्भेषजसंयुक्तः इत्यर्थः ।। रसबोध-८.८९;१
  • व्यवायिलक्षणं शार्ङ्गधरे यथा ।
  • पूर्वं व्याप्याखिलं कायं ततः पाकं च गच्छति ।
  • व्यवायि तद्यथा भङ्गा फेनं चाहिसमुद्भवम् ।
  • इति ।। रसबोध-८.८९;२
  • द्रव्ये स्वर्णादिरूपेण परिणिनमयिषौ लोहे ।। रसबोध-८.८९;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ क्रामणस्य द्रव्यस्य सर्वदा वेधसहोपयोगित्वेन समासतो विशेषणमुखेन क्रामणलक्षणसहितं वेधलक्षणम् एकेन श्लोकेनाह व्यवायीति ।। रसटी-८.८९;१
  • द्रव्ये शतवेधादौ यथाभागं गृहीते मूषायां द्रुते कृते प्रतप्तमात्रे वा ताम्ररजतादौ साध्यद्रव्ये क्षिप्तो रसः पारदो यस्मिन् कर्मणि स वेध इत्युच्यते ।। रसटी-८.८९;२
  • स च पारदः कीदृशः ।। रसटी-८.८९;३
  • व्यवायिभेषजोपेतः ।। रसटी-८.८९;४
  • यत् सेवितमात्रं तत्क्षण एव शरीरान्तःस्थसर्वधातुषु सहसा सबाह्याभ्यन्तरं व्याप्नोति पश्चात् पाकं प्राप्नोति तद्व्यवायि क्रामणेत्यपरपर्यायं च बोध्यम् ।। रसटी-८.८९;५
  • तादृशभेषजोपेतो योगवाही पारदोऽपि सेवितश्चेत् सहसा सर्वं देहं सान्तरं व्याप्नोति न केवलं कोष्ठ एव स्थितिं करोति ।। रसटी-८.८९;६
  • न वा धातुषु कथंचित् प्राप्तोऽपि बहिः संलग्न एव तिष्ठतीति ।। रसटी-८.८९;७
  • लोहान्तः प्रविशेद् येन द्रव्ययोगेन पारदः ।
  • सद्यस् तत्क्रामणम् इति कथितं रससिद्धिदम् ।
  • इति क्रामणलक्षणपार्थक्येन बोध्यम् ।। रसटी-८.८९;८



वेधभेदाः

लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ।। रस-८.९० ।।

लेपवेध

लेपनं कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौरकम् ।। रस-८.९१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तेषु लेपवेधलक्षणमाह लेपनमिति ।। रसबोध-८.९१;१
  • लेपनं वेधसामर्थ्यापादकक्रियाविशेषसिद्धरसेनेत्य् आशयः ।। रसबोध-८.९१;२
  • अत्र लेपवेधे ।। रसबोध-८.९१;३
  • सौरकं पुटं दद्यादिति शेषः सूर्यपक्वं कुर्यादित्यर्थः ।। रसबोध-८.९१;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ वेधभेदानाह लेप इति ।। रसटी-८.९१;१
  • लेपेनेति ।। रसटी-८.९१;२
  • यस्मिन्वेधे पारदो लेपेन लोहं पत्त्रीकृतं तीक्ष्णताम्रादि स्वर्णं करोति रजतं वा करोति स लेपवेध इत्युक्तः ।। रसटी-८.९१;३
  • अत्र लेपोत्तरं वर्णोत्कर्षार्थं यत् पुटं देयं भवति तत् पुटं सौकरं वराहपुटं कार्यम् ।। रसटी-८.९१;४
  • अस्मिन् संस्कारे जीर्णचतुर्थांशार्धांशसमादिभागैर् जीर्णबीज एव सारितो रस उपयोक्तव्यः ।। रसटी-८.९१;५



क्षेपवेध

प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः ।। रस-८.९२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • क्षेपवेधलक्षणमाह प्रक्षेपणमिति ।। रसबोध-८.९२;१
  • गलितस्वर्णेतरलौहे रसप्रक्षेपेण यत् सुवर्णीकरणं स क्षेपाख्यवेधो ज्ञेयः ।। रसबोध-८.९२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ क्षेपवेधम् आह प्रक्षेपणम् इति ।। रसटी-८.९२;१
  • ध्मानेन मूषायां लोहे ताम्रादौ द्रुते सति क्रामणद्रव्यकल्कसहितस्य पारदस्य यत् प्रक्षेपणं स वेधः क्षेप इति ख्यातः ।। रसटी-८.९२;२
  • अत्र पक्षान्तरम् अप्युक्तं रससारे क्रामणकल्कसहितलोहे धाम्यमाने केवलं पारदं क्षिपेत्तत्रेति ।। रसटी-८.९२;३



कुन्तवेध

संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।
सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते ।। रस-८.९३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • कुन्तवेधमाह संदंशेति ।। रसबोध-८.९३;१
  • संदंशः सांडाशी इति ख्यातः संदंशयन्त्रेण मूर्तिबद्धसूतं धृत्वा द्रुतलौहे निमज्जनेन तत्सम्पर्कात् स्वर्णादिरूपेण परिणतस्य लौहस्य यदाहरणं स कुन्तवेधसंज्ञको ज्ञेयः ।। रसबोध-८.९३;२



धूमवेध

वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः ।
स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते ।। रस-८.९४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • धूमवेधमाह वह्नाविति ।। रसबोध-८.९४;१
  • सधूमवह्निमध्ये वेधसमर्थरसनिक्षेपेण यो धूमः निर्गच्छति तत्सम्पर्काद् यत् किंचिल्लोहस्य स्वर्णादिरूपेण या परिणतिः स धूमवेधः ।। रसबोध-८.९४;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • धूमवेधलक्षणमाह वह्नाविति ।। रसटी-८.९४;१
  • धूमायमाने वह्नावन्तर्मूषान्तःस्थतद्वह्निमध्ये प्रक्षिप्तो यो रसः पारदस् तत्संबन्धिधूमस्योर्ध्वस्थापितताम्रादिपत्रे संपर्काद् यत् स्वर्णरजतापादनं स धूमवेध इत्यभिधीयते ।। रसटी-८.९४;२



शब्दवेध

मुखस्थितरसेनाल्पलोहस्य धमनात् खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।। रस-८.९५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • शब्दवेधमाह मुखेति ।। रसबोध-८.९५;१
  • धमनात् शब्दोच्चारणादित्यर्थः फुत्कारादित्यर्थो वा ।। रसबोध-८.९५;२
  • धम ध्वाने इत्यस्मात् ल्युः ।। रसबोध-८.९५;३
  • मुखमध्ये वेधसमर्थरसगुटिकां संस्थाप्य पुरो लौहखण्डम् एकं धृत्वा शब्दोच्चारणे कृते फुत्कारे दत्ते वा तत् लौहखण्डं स्वर्णादिरूपेण परिणतम् ।। रसबोध-८.९५;४
  • धमनात् इत्यत्र दमनात् इति पाठे मुखमध्ये वेधसमर्थरसगुटिकां संस्थाप्य क्षुद्रलौहखण्डं तन्निम्ने निधाय च पीडने कृते अधःस्थलौहखण्डं यत्र वेधे स्वर्णादिरूपेण परिणमेत् स शब्दवेधः इत्यर्थः ।। रसबोध-८.९५;५



उद्घाटन

सिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।
प्रकाशनं च वर्णस्य तदुद्घाटनम् ईरितम् ।। रस-८.९६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • उद्घाटनम् आह सिद्धद्रव्यस्येति ।। रसबोध-८.९६;१
  • सिद्धद्रव्यस्य मृतलौहादेर् इत्यर्थः सूतेन क्रियाविशेषनिष्पन्नसूतसंयोगेन यत् कालुष्यादिनिवारणं मालिन्यादिप्रोञ्छनं वर्णस्य च प्रकाशनम् औज्ज्वल्यसंपादनं यद्वा सूतेन सूतसंयोगेन सिद्धद्रव्यस्य मारितलोहादेः कालुष्यादिनिवारणं यया क्रियया द्रव्यान्तरसंयोगजनितमालिन्यादिनाशनं स्यादित्येवं योजनीयम् ।। रसबोध-८.९६;२
  • सिद्धद्रव्यस्य सूतेन इत्यत्र सिद्धद्रव्येण सूतस्य इति पाठे मृतलौहादिसंयोगद्वारा सूतस्य यत् कालुष्यादिनिवारणम् इत्यर्थः ।। रसबोध-८.९६;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • सूतेन सबाह्याभ्यन्तरव्याप्त्यैकीभूतस्य सिद्धद्रव्यस्य सुवर्णत्वादिप्राप्तस्य ताम्रादिलोहात्मकद्रव्यस्य तदेकीभूतसूतस्य च यथासम्भवं यत् कालुष्यादि तन्निवारकं दशांशेन यच्चूर्णप्रक्षेपादि कर्म तद् उद्घाटनम् इतीरितम् ।। रसटी-८.९६;१
  • कालुष्यं मलसंकीर्णत्वम् ।। रसटी-८.९६;२
  • आदिशब्देन छत्त्रित्वपतङ्गित्वदुर्द्रावित्वदुर्मेलित्वादिदोषः संग्राह्यः ।। रसटी-८.९६;३



स्वेदन

क्षाराम्लैरौषधैः सार्द्धं भाण्डं रुद्ध्वातियत्नतः ।
भूमौ निखन्यते यत्नात्स्वेदनं संप्रकीर्तितम् ।। रस-८.९७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • स्वेदनमाह क्षाराम्लैरिति ।। रसबोध-८.९७;१
  • औषधैः स्वेदनीयौषधैः ।। रसबोध-८.९७;२
  • भाण्डं रसपूर्णभाण्डमित्यर्थः ।। रसबोध-८.९७;३
  • अत्र उष्णवीर्यैः क्षाराम्लैः सह भूम्यधःस्थापनेन तदुष्मणा अनग्निस्वेदो बोध्यः ।। रसबोध-८.९७;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • सारणोत्तरं रसायनं कर्तुं कामयमानेन साधकेन पारदस्य कर्तव्यौ स्वेदसंन्यासाख्यसंस्कारौ लक्षयति क्षाराम्लैरिति ।। रसटी-८.९७;१
  • औषधैर् भृङ्गराङ्मुण्डी विष्णुक्रान्ता इत्यादिभिः स्वेदलक्षणवर्णनावसरे प्रागुक्तैः ।। रसटी-८.९७;२
  • तैश्च सार्धं सह पारदं भाण्डमध्ये पिधानसंधिरोधनादियत्नेन रुद्ध्वा तद्भाण्डं भूमिमध्ये निखन्यते यस्मिन् कर्मणि तत् स्वेदनं संप्रकीर्तितम् ।। रसटी-८.९७;३



संन्यास

रसस्यौषधयुक्तस्य भाण्डरुद्धस्य यत्नतः ।
मन्दाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ।। रस-८.९८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • संन्यासम् आह रसस्येति ।। रसबोध-८.९८;१
  • औषधयुक्तस्य क्षाराम्लौषधयुक्तस्येत्यर्थः ।। रसबोध-८.९८;२
  • मन्दाग्नियुतचुल्ल्यन्तः मृद्वग्निविशिष्टचुल्लीमध्ये न तु तीव्राग्नियुतचुल्ल्याम् इत्यर्थः ।। रसबोध-८.९८;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथौषधयुक्तस्य पारदस्य मृन्मयभाण्डसंपुटितस्य मन्दवह्नियुक्तचुल्लीमध्ये क्षिप्त्वा यत् पुटनं स संन्यास इत्युच्यते ।। रसटी-८.९८;१



स्वेदनसंन्यासगुणाः

द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।
गुणप्रभावजनकौ शीघ्रव्याप्तिकरौ तथा ।। रस-८.९९ ।।

रसनिगममहाब्धेः सोमदेवः समन्तात् स्फुटतरपरिभाषानामरत्नानि हृत्वा ।
व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयतु भिषगग्र्यो मण्डनार्थं सभायाम् ।। रस-८.१०० ।।

भवेत्पठितवारोऽयमध्यायो रसवादिनाम् ।
रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ।। रस-८.१०१ ।।