रसमञ्जरी

विकिस्रोतः तः
Jump to navigation Jump to search

अन्तर्विषयाः

रसमञ्जरी , १[सम्पाद्यताम्]

यद्गण्डमण्डलगलन्मधुवारि बिन्दुः पानालसाति निभृतां ललितालिमाला ।
यद्गुञ्जितेन विनिहन्ति नवेन्द्रनील शङ्कां स वो गणपतिः शिवमातनोतु ।। रम- १.१ ।।

इन्दीवरी भवति यच्च चरणारविन्दद्वन्द्वे पुरन्दरपुरःसरदेवतानाम् ।
वन्दारुता कलयतां सुकिरीटकोटिः श्री शारदा भवतु सा भवपारदाय ।। रम- १.२ ।।

हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं सूतेन्द्रं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
श्रीवैद्यनाथतनयः सुनयः सुशीलः श्रीशालिनाथ इति विश्रुतनामधेयः ।
तेनावलोक्य विधिवद् विविधप्रबन्धान् आरम्भते सुकृतिना रसमञ्जरीयम् ।। रम- १.३ ।।

सन्मधुव्रतं वृन्दानां सततं चित्तहारिणी ।
अनेकरसपूर्णेयं क्रियते रसमञ्जरी ।। रम- १.४ ।।

हरति सकलरोगान्मूर्छितो यो नराणां वितरति किल बद्धः खेचरत्वं जवेन ।
सकलसुरमुनीन्द्रैर् वन्दितं शम्भुबीजं स जयति भवसिन्धुः पारदः पारदोऽयम् ।। रम- १.५ ।।

शुष्केन्धनमहाराशिं यद्वद्दहति पावकः ।
तद्वद्दहति सूतोऽयं रोगान् दोषत्रयोद्भवान् ।। रम- १.६ ।।

तेजो मृगाङ्कमौले सोढुं यन्नैव तेजसां पुञ्जैः ।
अजरामरतां वितरति कल्पतरुं च रसेश्वरं वन्दे ।। रम- १.७ ।।

यो न वेत्ति कृपाराशिं रसहरिहरात्मकम् ।
वृथा चिकित्सां कुरुते स वैद्यो हास्यतां व्रजेत् ।। रम- १.८ ।।

गुरुसेवां विना कर्म यः कुर्यान्मूढचेतसः ।
स याति निष्फलत्वं हि स्वप्नलब्धधनं यथा ।। रम- १.९ ।।

विद्यां गृहीतुमिच्छन्ति चौर्यच्छद्मबलादिना ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ।। रम- १.१० ।।

मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ।। रम- १.११ ।।

सर्वशास्त्रार्थतत्त्वज्ञः कुशलो रसकर्मणि ।
एतल्लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ।। रम- १.१२ ।।

शिष्यो निजगुरोर्भक्तः सत्यवक्ता दृढव्रतः ।
निरालस्यः स्वधर्मज्ञो देव्याराधनतत्परः ।। रम- १.१३ ।।

पारदनामानि[सम्पाद्यताम्]

शिवबीजं सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ।। रम- १.१४ ।।

अन्तःसुनीलो बहिरुज्ज्वलो वा मध्याह्णसूर्यप्रतिमप्रकाशः ।
शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धये ।। रम- १.१५ ।।

दोषमुक्तो यदा सूतस्तदा मृत्युरुजापहः ।
साक्षादमृतम् एवैष दोषयुक्तो रसो विषम् ।। रम- १.१६ ।।

पारददोषाः[सम्पाद्यताम्]

नागो वङ्गोऽग्निचापल्यम् असह्यत्वं विषं गिरिः ।
मला ह्येते च विज्ञेया दोषाः पारदसंस्थिताः ।। रम- १.१७ ।।

जाड्यं कुष्ठं महादाहं वीर्यनाशं च मूर्च्छनाम् ।
मृत्युं स्फोटं रोगपुञ्जं कुर्वन्त्येते क्रमान्नृणाम् ।। रम- १.१८ ।।

पारदशोधन[सम्पाद्यताम्]

अथातः सम्प्रवक्ष्यामि पारदस्य च शोधनम् ।
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।। रम- १.१९ ।।

पञ्चाशत् पञ्चविंशद्वा दश पञ्चैकमेव वा ।
पलाद् ऊनं न कर्तव्यं रससंस्कारमुत्तमम् ।। रम- १.२० ।।

पारदशोधन (१)[सम्पाद्यताम्]

पलत्रयं चित्रकसर्षपाणां कुमारीकन्याबृहतीकषायैः ।
दिनत्रयं मर्दितसूतकस्तु विमुच्यते पञ्चमलादिदोषैः ।। रम- १.२१ ।।

पारदशोधन (२)[सम्पाद्यताम्]

इष्टिकारजनीचूर्णैः षोडशांशं रसस्य च ।
मर्दयेत्तं तथा खल्वे जम्बीरोत्थद्रवैर्दिनम् ।। रम- १.२२ ।।

सामान्यदोषशोधनम्[सम्पाद्यताम्]

काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ।। रम- १.२३ ।।

राजवृक्षो मलं हन्ति पावको हन्ति पावकम् ।
चापल्यं कृष्णधत्तूरस् त्रिफला विषनाशिनी ।। रम- १.२४ ।।

कटुत्रयं गिरिं हन्ति असह्यत्वं त्रिकण्टकः ।
प्रतिदोषं पलांशेन तत्र सूतं सकाञ्जिकम् ।। रम- १.२५ ।।

सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेत् सर्वकर्मसु ।। रम- १.२६ ।।

पारदशोधनम् (२)[सम्पाद्यताम्]

सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा विमर्दयेत् ।
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत् सुधीः ।। रम- १.२७ ।।

रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थद्रवैर् यामं पात्यं पातनयन्त्रके ।। रम- १.२८ ।।

पुनर् मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।। रम- १.२९ ।।

तप्तखल्व[सम्पाद्यताम्]

अजाशकृत्तुषाग्निं तु भूगर्भे त्रितयं क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं स्मृतम् ।। रम- १.३० ।।

पारदशोधनम्[सम्पाद्यताम्]

कुमार्याश्च निशाचूर्णैर् दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ।। रम- १.३१ ।।

पारदशोधन[सम्पाद्यताम्]

श्रीखण्डदेवदारुश्च काकतुण्डी जयाद्रवैः ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ।। रम- १.३२ ।।

दिनैकं मर्दयेत्पश्चाच्छुद्धं च विनियोजयेत् ।

पारदशोधन[सम्पाद्यताम्]

अथवा हिङ्गुलात् सूतं ग्राहयेत् तन्निगद्यते ।। रम- १.३३ ।।

जम्बीरनिम्बुनीरेण मर्दितं हिङ्गुलं दिनम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यः स्यान्निर्मलो रसः ।। रम- १.३४ ।।

कञ्चुकैर्नागवङ्गाद्यैर् निर्मुक्तो रसकर्मणि ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकर्मकृत् ।। रम- १.३५ ।।

सर्वसिद्धमतम् एतद् ईरितं सूतशुद्धिकरम् अद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ।। रम- १.३६ ।।

संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् ।
देहस्य नाशं विविधं च कुष्ठं कष्टं च रोगाञ्जनयेन्नराणाम् ।। रम- १.३७ ।।

रसमञ्जरी , २[सम्पाद्यताम्]

अथातः सम्प्रवक्ष्यामि रसजारणमुत्तमम् ।
अथाजीर्णम् अबीजं च सूतकं यस्तु घातयेत् ।। रम- २.१ ।।

ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ।। रम- २.२ ।।

पारदबलिजारणं[सम्पाद्यताम्]

प्रक्षिप्य तोयं मृत्कुण्डे तस्योपरि शरावकम् ।
संचूर्णमेखलायुक्तं स्थापयेत्तस्य चान्तरे ।। रम- २.३ ।।

रसं क्षिप्त्वा गन्धकस्य रजस्तस्योपरि क्षिपेत् ।
समं भागं ततो दद्याच्छरावेण पिधापयेत् ।। रम- २.४ ।।

लघ्वीयसीं भस्ममुद्रां ततः कुर्याद् भिषग्वरः ।
आरण्योपलकैः सम्यक् चतुर्भिः पुटमाचरेत् ।। रम- २.५ ।।

एवं पुनः पुनर् गन्धं दत्त्वा दत्त्वा भिषग्वरः ।
सम्यक् कुर्वीत सूतस्य देवि षड्गुणजारणम् ।। रम- २.६ ।।

पारदसुवर्णजारणं[सम्पाद्यताम्]

रसः स्यात् पटुशिग्रुतुत्थैः सराजिकैर्व्योषणकैस् त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनु सुवर्णमुख्यानयं खादति सर्वधातून् ।। रम- २.७ ।।

पारदजारण[सम्पाद्यताम्]

अथवा बिडयोगेन शिखिपित्तेन लेपितम् ।
चरेत् सुवर्णं रसराट् तप्तखल्वे यथासुखम् ।। रम- २.८ ।।

निर्दग्धशंखचूर्णं च रविक्षीरेण संप्लुतम् ।
पुटितं शतशो देवि प्रशस्तं जारणं विदुः ।। रम- २.९ ।।

स्वर्णाभ्रसर्वलोहानि यथेष्टानि च जारयेत् ।
अनेकविधिना सूतं चतुःषष्ट्यंशकादिना ।
द्वात्रिंशत् षोडशांशेन जारयेत् कनकं बुधः ।। रम- २.१० ।।

रसमारणं[सम्पाद्यताम्]

द्विपलं शुद्धसूतं च सूतार्धं शुद्धगन्धकम् ।
कन्यानीरेण संमर्द्य दिनमेकं निरन्तरम् ।। रम- २.११ ।।

रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटान् ।

रसमारण (२)[सम्पाद्यताम्]

भुजङ्गवल्लीनीरेण मर्दितं पारदं दृढम् ।। रम- २.१२ ।।

कर्कोटीकन्दमृन्मूषासम्पुटस्थं पुटे गजे ।
भस्म तद्योगवाहि स्यात्सर्वकर्मसु योजयेत् ।। रम- २.१३ ।।

रसमारण (३)[सम्पाद्यताम्]

श्वेताङ्कोलजटावारि मर्द्यः सूतो दिनत्रयम् ।
पुटितश्चान्धमूषायां सूतो भस्मत्वमाप्नुयात् ।। रम- २.१४ ।।

प्रत्यहं रक्तिकापञ्च भक्षयेन्मधु सर्पिषा ।
को वा तस्य गुणान् वक्तुं भुवि शक्नोति मानवः ।। रम- २.१५ ।।

रससिन्दूरनिर्माण (१)[सम्पाद्यताम्]

पलमत्र रसं शुद्धं तावन्मात्रं सुगन्धकम् ।
विधिवत् कज्जलीं कृत्वा न्यग्रोधाङ्कुरवारिभिः ।। रम- २.१६ ।।

भावनात्रितयं दत्त्वा स्थालीमध्ये निधापयेत् ।
विरच्य कवचीयन्त्रं वालुकाभिः प्रपूरयेत् ।। रम- २.१७ ।।

जायते रससिन्दूरं तरुणारुणसन्निभम् ।
अनुपानविशेषेण करोति विविधान् गुणान् ।। रम- २.१८ ।।

रससिन्दूर (२)[सम्पाद्यताम्]

गन्धकेन समः सूतो निर्गुण्डीरसमर्दितः ।
पाचितो वालुकायन्त्रे रक्तं भस्म प्रजायते ।। रम- २.१९ ।।

रससिन्दूर[सम्पाद्यताम्]

सूतार्द्धं गन्धकं शुद्धं माक्षिकोद्भूतसत्त्वकम् ।
गन्धतुल्यं विमर्द्याथ दिनं निर्गुण्डिकाद्रवैः ।। रम- २.२० ।।

स्थापयेद्वालुकायन्त्रे काचकूप्यां विपाचयेत् ।
अन्धमूषागतं वाथ वालुकायन्त्रके दिनम् ।। रम- २.२१ ।।

पक्वं संजायते भस्म दाडिमीकुसुमोपमम् ।

रससिन्दूर[सम्पाद्यताम्]

पृथक् समं समं कृत्वा पारदं गन्धकं तथा ।। रम- २.२२ ।।

नवसारं धूमसारं स्फटिकीं याममात्रके ।
निम्बुनीरेण संमर्द्य काचकुप्यां विपाचयेत् ।। रम- २.२३ ।।

मुखे पाषाणवटिकां दत्त्वा मुद्रां प्रलेपयेत् ।
सप्तभिर् मृत्तिकावस्त्रैः पृथक् संशोष्य वेष्टयेत् ।। रम- २.२४ ।।

सच्छिद्रायां मृदः स्थाल्यां कूपिकां संनिवेशयेत् ।
पूरयेत् सिकतापुरैर् आ गलं मतिमान् भिषक् ।। रम- २.२५ ।।

निवेश्य चुल्ल्यां दहनं मन्दमध्यखरं क्रमात् ।
प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतलम् उद्धरेत् ।। रम- २.२६ ।।

स्फोटयित्वा पुनः स्थालीमूर्ध्वगं गन्धकं त्यजेत् ।
अधस्थं रससिन्दूरं सर्वकर्मसु योजयेत् ।। रम- २.२७ ।।

रससिन्दूर[सम्पाद्यताम्]

गन्धकं धूम [... औ१ Zएइछेन्झ्] रं च शुद्धसूतं समं समम् ।
यामैकं मर्दयेत्खल्वे काचकुप्यां निवेशयेत् ।। रम- २.२८ ।।

रुद्ध्वा द्वादशयामं तु वालुकायन्त्रगं पचेत् ।
स्फोटयेत् स्वाङ्गशीतं तमूर्ध्वलग्नं तु तं त्यजेत् ।
अधस्थं मृतसूतं च सर्वयोगेषु योजयेत् ।। रम- २.२९ ।।

रससिन्दूर[सम्पाद्यताम्]

भागौ रसस्य त्रय एव भागा गन्धस्य भागं पवनासनस्य ।
संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते विदध्यात् ।। रम- २.३० ।।

संवेष्ट्य मृत्कर्पटकैः स्वयं तां मुखे सुचूर्णां खटिकां च कृत्वा ।
क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां ततः स्यात् ।। रम- २.३१ ।।

बन्धूकपुष्पारुणम् ईशजस्य भस्म प्रयोज्यं सकलामयेषु ।
निजानुपानैर् मरणं जरां च निहन्ति वल्लक्रमसेवनेन ।। रम- २.३२ ।।

रससिन्दूर[सम्पाद्यताम्]

पक्वमूषागतं सूतं गन्धकं चाधरोत्तरम् ।
तुल्यं सुचूर्णितं कृत्वा काकमाचीद्रवं पुनः ।। रम- २.३३ ।।

द्वाभ्यां चतुर्गुणं देयं द्रवं मूषां निरुध्य च ।
पाचयेद् वालुकायन्त्रे क्रमवृद्धाग्निना दिनम् ।
आरक्तं जायते भस्म सर्वयोगेषु योजयेत् ।। रम- २.३४ ।।

रससिन्दूर[सम्पाद्यताम्]

अश्वगन्धादिवर्गेण रसं स्वेद्यं प्रयत्नतः ।
रसतुल्यं गन्धकं च मर्दयेत् कुशलो भिषक् ।। रम- २.३५ ।।

पाचयेद्रससिन्दूरं जायतेऽरुणसन्निभम् ।
श्रेष्ठं सर्वरसानां हि पुष्टिकामबलप्रदम् ।। रम- २.३६ ।।

इदमेवायुषो वृद्धिं कर्तुं नान्यदलं भवेत् ।
विनापि स्वर्णराजेन मुनिभिः परिकीर्तितम् ।। रम- २.३७ ।।

रसकर्पूर[सम्पाद्यताम्]

टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।
मर्दयेद् भृङ्गजैर्द्रावैर्दिनैकं वा धमेत् पुनः ।। रम- २.३८ ।।

ध्मातो भस्मत्वमायाति शुद्धः कर्पूरसन्निभः ।

रसकर्पूर[सम्पाद्यताम्]

खटीष्टिगैरिकावल्मीमृत्तिका सैन्धवं समम् ।। रम- २.३९ ।।

भागद्वयमितो गन्धो रसभागद्वयं स्मृतम् ।
हण्डिकायां विनिःक्षिप्य पार्श्वे पार्श्वे च खर्पटान् ।। रम- २.४० ।।

दग्ध्वाथ हण्डिकां दत्त्वा द्विरष्टप्रहरं पचेत् ।
मृतसूतं तु गृह्णीयाच्छुद्धः कर्पूरसन्निभम् ।। रम- २.४१ ।।

कल्कादिवेष्टितं कृत्वा निर्गिलेद् उपदंशके ।

रसकर्पूर[सम्पाद्यताम्]

पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुनानेकशः सूतं धातुयुतं खटीकवलितं तं सम्पुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्णिं हठात् भस्म ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ।। रम- २.४२ ।।

तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रभुक्तं नृणाम् ऊर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् ।
एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ।। रम- २.४३ ।।

रसमूर्छन[सम्पाद्यताम्]

मेघनादवचाहिङ्गुलशुनैर् मर्दयेद् रसम् ।
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।। रम- २.४४ ।।

पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्णिना ।
ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण वेष्टयेत् ।। रम- २.४५ ।।

ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ।
जीर्णे गन्धे पुनर्देयं षड्भिर् वारैः समं समम् ।। रम- २.४६ ।।

षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ।

रसमूर्छन[सम्पाद्यताम्]

लोहपात्रेऽथवा ताम्रे पलैकं शुद्धगन्धकम् ।। रम- २.४७ ।।

मृद्वग्निना द्रुते तस्मिञ्छुद्धं सूतपलत्रयम् ।
क्षिप्त्वाथ चालयेत् किंचिल्लोहदर्व्या पुनः पुनः ।। रम- २.४८ ।।

गोमयं कदलीपत्रं तस्योपरि च ढालयेत् ।
इत्येवं गन्धबद्धं च सर्वरोगेषु योजयेत् ।। रम- २.४९ ।।

मारितो देहसिद्ध्यर्थं मूर्छितो व्याधिघातने ।
रसभस्म क्वचिद्रोगे देहार्थं मूर्छितं क्वचित् ।
बद्धो द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।। रम- २.५० ।।

बद्धपारदलक्षणानि[सम्पाद्यताम्]

अक्षयी च लघुर्द्रावी तेजस्वी निर्मलो गुरुः ।
स्फुटनं पुनरावृत्तिर्बद्धसूतस्य लक्षणम् ।। रम- २.५१ ।।

मूर्छितपारदलक्षणानि[सम्पाद्यताम्]

कज्जलाभो यदा सूतो विहाय घनचापलम् ।
दृश्यतेऽसौ तदा ज्ञेयो मूर्छितः सुतरां बुधैः ।। रम- २.५२ ।।

मृतपारदलक्षणानि[सम्पाद्यताम्]

आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ।। रम- २.५३ ।।

निर्बीजबद्धपारदः[सम्पाद्यताम्]

रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितं क्रमेण निर्बीजनामाखिलरोगहन्ता ।। रम- २.५४ ।।

सबीजबद्धपारदः[सम्पाद्यताम्]

बीजीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः सह साधितोऽयम् ।
पुनस्ततः षड्गुणगन्धचूर्णैः सबीजबद्धो ऽप्यधिकप्रभावः ।। रम- २.५५ ।।

रसवीर्यविपाकेषु विद्यात्सूतं सुधामयम् ।
सेवितोऽसौ सदा देहे रोगनाशाय कल्पते ।। रम- २.५६ ।।

ककाराष्टक[सम्पाद्यताम्]

कूष्माण्डं कर्कटीं चैव कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकं च कर्कोटीं कदलीं काकमाचिकाम् ।। रम- २.५७ ।।

ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
हितं मुद्गाम्बुदुग्धाज्यं शाल्यन्नं च विशेषतः ।। रम- २.५८ ।।

शाकं पुनर्नवायास्तु मेघनादं च चिल्लिकाम् ।
सैन्धवं नागरं मुस्तं पद्ममूलानि भक्षयेत् ।। रम- २.५९ ।।

अभ्यङ्गं मैथुनं स्नानं यथेष्टं च सुखाम्बुना ।
रूपयौवनसम्पन्नां सानुकूलां प्रियां भजेत् ।। रम- २.६० ।।

बुद्धिः प्रज्ञा बलं कान्तिः प्रभा चैवं वयस्तथा ।
वर्धन्ते सर्व एवैते रससेवाविधौ नृणाम् ।। रम- २.६१ ।।

यस्य रोगस्य यो योगस्तेनैव सह योजयेत् ।
रसेन्द्रो हरते रोगान्नरकुञ्जरवाजिनाम् ।। रम- २.६२ ।।


रसमञ्जरी , ३[सम्पाद्यताम्]

उपरसाः[सम्पाद्यताम्]

गन्धकं वज्रवैक्रान्तं गगनं तालकं शिलाम् ।
खर्परं शिखितुत्थं च विमला हेममाक्षिकम् ।। रम- ३.१ ।।

कासीसं कान्तपाषाणं वराटाञ्जनहिङ्गुलम् ।
कङ्कुष्ठं शंखभूनागं टङ्कणं तु शिलाजतु ।। रम- ३.२ ।।

एते उपरसाः प्रोक्ताः शोध्या द्राव्याश्च मारयेत् ।

गन्धक[सम्पाद्यताम्]

तत्रादौ गन्धकोत्पत्तिं शोधनं त्वथ कथ्यते ।। रम- ३.३ ।।

श्वेतद्वीपे पुरा देव्याः क्रीडन्त्याः प्रसृतं रजः ।
क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ।। रम- ३.४ ।।

धौतं यत् सलिले तस्मिन् गन्धवद्गन्धकं स्मृतम् ।
चतुर्धा गन्धकः प्रोक्तो रक्तपीतसितासितैः ।। रम- ३.५ ।।

रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने ।
व्रणादिलेपने श्वेतः श्रेष्ठः कृष्णस्तु दुर्लभः ।। रम- ३.६ ।।

अशुद्धगन्धः कुरुतेऽतिकुष्ठं तापं भ्रमं पित्तरुजं करोति ।
रूपं सुखं वीर्यबलं निहन्ति तस्मात् सुशुद्धं विनियोजनीयम् ।। रम- ३.७ ।।

गन्धकशोधनम् (१)[सम्पाद्यताम्]

साज्यभाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे गन्धकं क्षिप्त्वा शरावेणावरोधयेत् ।। रम- ३.८ ।।

भाण्डं निक्षिप्य भूम्यां तदूर्ध्वं देयं पुटं लघु ।
ततः क्षीरेण गन्धं च शुद्धं योगेषु योजयेत् ।। रम- ३.९ ।।

गन्धकशोधनम् (२)[सम्पाद्यताम्]

गन्धकं शोधयेद् दुग्धे दोलायन्त्रेण तत्त्ववित् ।
तेन शुद्धो भवत्येष धातूणां प्राणमूर्छकः ।। रम- ३.१० ।।

गन्धकशोधनम् (३)[सम्पाद्यताम्]

घृतयुक्तम् अयोदर्व्या गन्धं वह्णौ प्रगालयेत् ।
एकीभूतं ततो गन्धं दुग्धमध्ये परिक्षिपेत् ।। रम- ३.११ ।।

तेन शुद्धो भवेद्गन्धः सर्वयोगेषु योजयेत् ।
शोधितो रसराजः स्याज्जरामृत्युरुजापहः ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ।। रम- ३.१२ ।।

गन्धकतैल[सम्पाद्यताम्]

अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु तत् ।। रम- ३.१३ ।।

तद्वर्तिर्ज्वलिता वंशैर्धृता धार्या त्वधोमुखी ।। रम- ३.१४ ।।

तैलं पतत्यधो भाण्डे ग्राह्यं योगेषु योजयेत् ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ।। रम- ३.१५ ।।

हीरक[सम्पाद्यताम्]

श्वेतपीता रक्तकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकं चेति लक्षणेन तु लक्षयेत् ।। रम- ३.१६ ।।

वृत्ताः फलकसम्पूर्णास् तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ।। रम- ३.१७ ।।

रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।
त्रिकोणाः पत्रवद्दीर्घा विज्ञेयास्ते नपुंसकाः ।। रम- ३.१८ ।।

सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणं स्यान्नपुंसकम् ।। रम- ३.१९ ।।

विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादादौ वैश्यजातीयो वयःस्तम्भे तुरीयकः ।। रम- ३.२० ।।

स्त्री तु स्त्रिये प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ।। रम- ३.२१ ।।

पाण्डुरोगं पार्श्वपीडां किलासं दाहसन्ततिम् ।
रोगानीकं गुरुत्वं च धत्ते वज्रम् अशोधितम् ।। रम- ३.२२ ।।

वज्रशोधनम् (१)[सम्पाद्यताम्]

व्याघ्रीकन्दगतं वज्रं दोलायन्त्रे विपाचितम् ।
सप्ताहं कोद्रवक्वाथे कौलत्थे विमलं भवेत् ।। रम- ३.२३ ।।

वज्रशोधनम् (२)[सम्पाद्यताम्]

व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्चेत् कुलिशं विमलं भवेत् ।। रम- ३.२४ ।।

वज्रमारणं (१)[सम्पाद्यताम्]

त्रिवर्षारूढकार्पासमूलम् आदाय पेषयेत् ।
त्रिवर्षनागवल्ल्याश्च द्रावेण तं प्रपेषयेत् ।। रम- ३.२५ ।।

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटं कृत्वा कुलिशं म्रियते ध्रुवम् ।। रम- ३.२६ ।।

वज्रमारण (२)[सम्पाद्यताम्]

कांस्यपात्रे तु भेकस्य मूत्रे वज्रं सुभावयेत् ।
त्रिः सप्तकृत्वः संतप्तं वज्रमेव मृतं भवेत् ।। रम- ३.२७ ।।

वज्रमारण (३)[सम्पाद्यताम्]

त्रिः सप्तकृत्वः संतप्तं खरमूत्रेण सेचयेत् ।
मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ।। रम- ३.२८ ।।

प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै ।
भस्मीभवति तद्भुक्तं वज्रवत्कुरुते तनुम् ।। रम- ३.२९ ।।

आयुष्यं सौख्यजनकं बलदं रूपदं तथा ।
रोगघ्नं मृत्युहरणं वज्रभस्म भवत्यलम् ।। रम- ३.३० ।।

वैक्रान्त[सम्पाद्यताम्]

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ।। रम- ३.३१ ।।

श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ।। रम- ३.३२ ।।

वैक्रान्तशोधनम्[सम्पाद्यताम्]

वैक्रान्तं वज्रवच्छुद्धं ध्मातं तं हयमूत्रके ।
हितं तद्भस्म संयोज्यं वज्रस्थाने विचक्षणैः ।। रम- ३.३३ ।।

आयुःप्रदः सकलबन्धकरो ऽतिवृष्यः प्रज्ञाप्रदः सकलरोगसमूलहारी ।
दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ।। रम- ३.३४ ।।

वैक्रान्तसत्त्वपातनम्[सम्पाद्यताम्]

वैक्रान्तं वज्रकन्दे च पेषयेद् वज्रवारिणा ।
माहिषं नवनीतं च सक्षौद्रं पिण्डितं ततः ।। रम- ३.३५ ।।

शोषयित्वा धमेत् सत्त्वं इन्द्रगोपसमं भवेत् ।

अभ्रक[सम्पाद्यताम्]

पिनाकं दर्दुरं नागं वज्रमभ्रं चतुर्विधम् ।
ध्मातं वह्णौ दलचयं पिनाकं विसृजत्यलम् ।। रम- ३.३६ ।।

फूत्कारं नागवत् कुर्यात् दर्दुरं भेकशब्दवत् ।
चतुर्थं च वरं ज्ञेयं न चाग्नौ विकृतिं व्रजेत् ।। रम- ३.३७ ।।

तस्माद्वज्राभ्रकं ग्राह्यं व्याधिवार्धक्यमृत्युजित् ।
अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् ।। रम- ३.३८ ।।

अहतं छेदयेद्गात्रं मन्दाग्निकृमिवर्धनम् ।
अतः शुद्धाभ्रकं ग्राह्यं मन्दाग्निकृमिनाशनम् ।। रम- ३.३९ ।।

धान्याभ्रक[सम्पाद्यताम्]

पादांशशालिसंयुक्तम् अभ्रं बद्ध्वाथ कम्बले ।
त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेद् दृढम् ।। रम- ३.४० ।।

कम्बलाद्गलितं श्लक्ष्णं वालुकारहितं च यत् ।
तद्धान्याभ्रमिति प्रोक्तं सद्भिर्देहस्य सिद्धये ।। रम- ३.४१ ।।

धान्याभ्रककरण[सम्पाद्यताम्]

धमेद्वज्राभ्रकं वह्णौ ततः क्षीरेण सेचयेत् ।
भिन्नपत्रं तु तत्कृत्वा मेघनादाम्लयोर्द्रवैः ।
भावयेदष्टयामं तद्धान्याभ्रं कारयेत् सुधीः ।। रम- ३.४२ ।।

धान्याभ्र (३)[सम्पाद्यताम्]

अथवा बदरीक्वाथे ध्मातमभ्रं विनिक्षिपेत् ।
मर्दितं पाणिना शुष्कं धान्याभ्राद् अतिरिच्यते ।। रम- ३.४३ ।।

अभ्रकभस्म[सम्पाद्यताम्]

धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ।। रम- ३.४४ ।।

पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ।। रम- ३.४५ ।।

अभ्रमारण (१)[सम्पाद्यताम्]

धान्याभ्रकं दृढं मर्द्यम् अर्कक्षीरे दिनावधि ।
वेष्टयेद् भानुपत्रैश्च चक्राकारं तु कारयेत् ।। रम- ३.४६ ।।

कुञ्जराख्ये पुटे पाच्यं सप्तवारं पुनः पुनः ।
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ।। रम- ३.४७ ।।

म्रियते नाम सन्देहः सर्वरोगेषु योजयेत् ।

अभ्रमारण (२)[सम्पाद्यताम्]

धान्याभ्रकं समादाय मुस्तक्वाथैः पुटत्रये ।। रम- ३.४८ ।।

तद्वत्पुनर्नवानीरैः कासमर्दरसैस् तथा ।
नागवल्लीरसैर्युक्तं सूर्यक्षीरैः पृथक्पृथक् ।। रम- ३.४९ ।।

दिने दिने मर्दयित्वा क्वाथैर्वटजटोद्भवैः ।
दत्त्वा पुटत्रयं पश्चात् त्रिपुटं मुशलीजलैः ।। रम- ३.५० ।।

त्रिर् गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः ।
मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षकैः ।। रम- ३.५१ ।।

रसैः पुटेत्ततो धेनुः क्षारोदकं पुटं मुहुः ।
दध्ना घृतेन मधुना स्वच्छया सितया तथा ।। रम- ३.५२ ।।

एकमेकं पुटं दद्याद् अभ्रस्यैवं मृतिर्भवेत् ।
सर्वरोगहरं व्योम जायते योगवाहकम् ।। रम- ३.५३ ।।

कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपवाहिनाम् ।
वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ।। रम- ३.५४ ।।

अभ्रमारण (३)[सम्पाद्यताम्]

दुग्धत्रयं कुमार्यम्बु गंगापत्रं नृमूत्रकम् ।
वटाङ्कुरम् अजारक्तम् एभिरभ्रं सुमर्दितम् ।। रम- ३.५५ ।।

शतधा पुटितं भस्म जायते पद्मरागवत् ।
निश्चन्द्रकं भवेद् व्योम शुद्धदेहो रसायनम् ।। रम- ३.५६ ।।

निश्चन्द्रमारितं व्योम रूपं वीर्यं दृढां तनुम् ।
कुरुते नाशयेन्मृत्युं जरारोगकदम्बकम् ।। रम- ३.५७ ।।

अभ्रकसत्त्वपातनम्[सम्पाद्यताम्]

भावितं चूर्णितं त्वभ्रं दिनैकं काञ्जिकेन च ।
रम्भासूरणजैर् नीरैर् मूलकोत्थैश्च मेलयेत् ।। रम- ३.५८ ।।

तुर्यांशं टंकणेनेदं क्षुद्रमत्स्यैः समं पुनः ।
महिषीमलसम्मिश्रं विधायास्याथ गोलकम् ।। रम- ३.५९ ।।

खराग्निना धमेद्गाढं सत्त्वं मुञ्चन्ति कान्तिमत् ।
सत्त्वसेवी वयःस्तम्भं कृतशुद्धिर्लभेत्सुधीः ।। रम- ३.६० ।।

अभ्रकद्रावण[सम्पाद्यताम्]

अगस्तिपुष्पनिर्यासमर्दितं सूरणोदरे ।
गोष्ठभूस्थं नभोभासं जायते जलसन्निभम् ।। रम- ३.६१ ।।

सत्त्वपातन (अल्ल्गेम्.)[सम्पाद्यताम्]

गुडपुरस्तथा लाक्षा पिण्याकं टंकणं तथा ।
ऊर्णा सर्जरसं चैव क्षुद्रमीनसमन्वितम् ।। रम- ३.६२ ।।

एतत् सर्वं तु संचूर्णं छागीदुग्धेन पिण्डिकाम् ।
कृत्वा ध्माता खराङ्गारैः सर्वसत्त्वानि पातयेत् ।। रम- ३.६३ ।।

पाषाणमृत्तिकादीनि सर्वलोहगतानि च ।
अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ।। रम- ३.६४ ।।

यदोपरसभावोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं तद्गुणाधिक्यं रसज्ञत्वं यदीच्छसि ।। रम- ३.६५ ।।

भूनागसत्त्वपातन[सम्पाद्यताम्]

सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।
अथवा कुक्कुटं वीरं कृत्वा मन्दिरमाश्रितम् ।। रम- ३.६६ ।।

मलं मूत्रं गृहीत्वा च संत्यज्य प्रथमांशकम् ।
आलोड्य क्षीरमध्वाज्यं धमेत्सत्त्वार्थमादरात् ।। रम- ३.६७ ।।

मुञ्चन्ति ताम्रवत् सत्त्वं तन्मुद्राजलपानजः ।
नश्यन्ति जङ्गमविषाण्यशेषाणि न संशयः ।। रम- ३.६८ ।।

अशुद्धहरितालदोषाः[सम्पाद्यताम्]

अशुद्धं तालमायुर्घ्नं कफमारुतमेहकृत् ।
वान्तिस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ।। रम- ३.६९ ।।

हरिताल[सम्पाद्यताम्]

शुद्धःस्यात्तालकः स्विन्नः कूष्माण्डसलिले ततः ।
चूर्णोदके पृथक्तैले भस्मीभूतो न दोषकृत् ।। रम- ३.७० ।।

तालको हरते रोगान्कुष्ठं मृत्युरुजादिकान् ।
संशुद्धः कान्तिवीर्यं च कुरुते ह्यायुर्वर्धनम् ।। रम- ३.७१ ।।

हरितालमारणं[सम्पाद्यताम्]

पलमेकं शुद्धतालं कौमारीरसमर्दितम् ।
शरावसम्पुटे क्षिप्त्वा यामान्द्वादशकं पचेत् ।। रम- ३.७२ ।।

स्वाङ्गशीतं समादाय तालकं तु मृतं भवेत् ।
गलत्कुष्ठं हरेच्चैव तालकं च न संशयः ।। रम- ३.७३ ।।

मनःशिलाशोधन[सम्पाद्यताम्]

अगस्तिपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर् वापि विशुध्यति मनःशिला ।। रम- ३.७४ ।।

मनःशिलागुणाः[सम्पाद्यताम्]

कटुः स्निग्धा शिला तिक्ता कफघ्नी लेखनी परा ।
भूतावेशामयं हन्ति कासश्वासहरा शुभा ।। रम- ३.७५ ।।

रसकशोधनम्[सम्पाद्यताम्]

नृमूत्रैः खरमूत्रैश्च सप्ताहं रसकं पचेत् ।
दोलायन्त्रेन संशोध्य ततः कार्येषु योजयेत् ।। रम- ३.७६ ।।

तुत्थशोधन[सम्पाद्यताम्]

ओतोर्विष्ठासमं तुत्थं सक्षौद्रं टंकणाद्भिषक् ।
त्रिविधं पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ।। रम- ३.७७ ।।

तुत्थगुणाः[सम्पाद्यताम्]

तुत्थकं कटु सक्षारं कषायं विशदं लघु ।
लेखनं भेदी चक्षुष्यं कण्डूकृमिविषापहम् ।। रम- ३.७८ ।।

विमल[सम्पाद्यताम्]

जम्बीरस्य रसे स्विन्ना मेषशृङ्गीरसेऽथवा ।
रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ।। रम- ३.७९ ।।

माक्षिकशोधन (?)[सम्पाद्यताम्]

सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।
कृत्वा तदायसे पात्रे लोहदर्व्याथ चालयेत् ।। रम- ३.८० ।।

सिन्दूराभं भवेद् यावत् तावन्मृद्वग्निना पचेत् ।
सुभद्रं माक्षिकं विद्यात् सर्वयोगेषु योजयेत् ।। रम- ३.८१ ।।

माक्षिकमारणम्[सम्पाद्यताम्]

माक्षिकस्य चतुर्थांशं दत्त्वा गन्धं विमर्दयेत् ।
ऊरुबूकस्य तैलेन ततः कार्या सुचक्रिका ।। रम- ३.८२ ।।

शरावसम्पुटे कृत्वा पुटेद् गजपुटेन च ।
सिन्दूराभं भवेद् भस्म माक्षिकस्य न संशयः ।। रम- ३.८३ ।।

माक्षिकगुणाः[सम्पाद्यताम्]

माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ।। रम- ३.८४ ।।

कासीसशोधनम्[सम्पाद्यताम्]

सकृद् भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ।। रम- ३.८५ ।।

कासीसगुणाः[सम्पाद्यताम्]

कासीसं शीतलं स्निग्धं स्विन्नं नेत्ररुजापहम् ।
पित्तापस्मारशमनं रसवद् गुणकारकम् ।। रम- ३.८६ ।।

कान्तपाषाण[सम्पाद्यताम्]

लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।
अम्लवर्गयुते चादौ दिनम् अर्धं विभावयेत् ।। रम- ३.८७ ।।

तद्द्रवैर् दोलकायन्त्रे दिवसं पाचयेत् सुधीः ।
कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ।। रम- ३.८८ ।।

वराटिकाः[सम्पाद्यताम्]

पीताभा ग्रन्थिलाः पृष्ठे दीर्घवृत्ता वराटिकाः ।
सार्धनिष्कभराः श्रेष्ठा निष्कभाराश्च मध्यमाः ।। रम- ३.८९ ।।

पादोननिष्कभाराश्च कनिष्ठाः परिकीर्तिताः ।
रसवैद्यविनिर्दिष्टास् ताश् चराचरसंज्ञकाः ।। रम- ३.९० ।।

वराटाशोधनम्[सम्पाद्यताम्]

वराटा काञ्जिके स्विन्ना यामाच्छुद्धिम् अवाप्नुयात् ।

वराटगुणाः[सम्पाद्यताम्]

परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।। रम- ३.९१ ।।

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ।। रम- ३.९२ ।।

हिङ्गुलशोधन[सम्पाद्यताम्]

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।। रम- ३.९३ ।।

हिङ्गुलगुणाः[सम्पाद्यताम्]

तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ।
मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निदीपनम् ।। रम- ३.९४ ।।

शिलाजतुशोधन[सम्पाद्यताम्]

गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु ।
दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयः ।। रम- ३.९५ ।।

शिलाजतुगुणाः[सम्पाद्यताम्]

शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् ।
क्षयशोषोदरार्शांसि हन्ति बस्तिरुजो जयेत् ।। रम- ३.९६ ।।

सौवीरं टंकणं शंखं कङ्कुष्ठं गैरिकं तथा ।
एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ।। रम- ३.९७ ।।

रत्नशोधनम्[सम्पाद्यताम्]

शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ।। रम- ३.९८ ।।

पुष्परागं च सन्धानैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर् वज्रं नीलं नीलीरसेन च ।। रम- ३.९९ ।।

रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।

रत्नमारण[सम्पाद्यताम्]

वज्रं विनान्यरत्नानि म्रियन्ते ऽष्टपुटैः खलु ।। रम- ३.१०० ।।

मणिगुणाः[सम्पाद्यताम्]

मुक्ताविद्रुमवज्रेन्द्रवैदूर्यस्फटिकादिकम् ।। रम- ३.१०१ ।।

मणिरत्नं खरं शीतं कषायं स्वादु लेखनम् ।
चक्षुष्यं धारणात्तं तु पापालक्ष्मीविषापहम् ।। रम- ३.१०२ ।।


रसमञ्जरी , ४[सम्पाद्यताम्]

१८ विषानि[सम्पाद्यताम्]

अष्टादशविधं ज्ञेयं कन्दजं परिकीर्तितम् ।
कालकूटं मयूराख्यं बिन्दुकं सक्तुकं तथा ।। रम- ४.१ ।।

वालुकं वत्सनाभं च शङ्खनाभं सुमङ्गलम् ।
शृङ्गीं मर्कटकं मुस्तं कर्दमं पुष्करं शिखी ।। रम- ४.२ ।।

हारिद्रं हरितं चक्रं विषं हालाहलाह्वयम् ।

आउस्सेहेन् देर् ङिfते[सम्पाद्यताम्]

घनं रूक्षं च कठिनं भिन्नाञ्जनसमप्रभम् ।। रम- ४.३ ।।

कन्दाकारं समाख्यातं कालकूटं महाविषम् ।
मयूराभं मयूराख्यं बिन्दुवद् बिन्दुकः स्मृतः ।। रम- ४.४ ।।

चित्रम् उत्पलकन्दाभं शक्तुकं शक्तुवद् भवेत् ।
वालुकं वालुकाकारं वत्सनाभं तु पाण्डुरम् ।। रम- ४.५ ।।

शंखनाभं शंखवर्णं शुभ्रवर्णं सुमङ्गलम् ।
घनं गुरुं च निविडं शृङ्गाकारं तु शृङ्गिकम् ।। रम- ४.६ ।।

मर्कटं कपिवर्णाभं मुस्ताकारं तु मुस्तकम् ।
कर्दमं कर्दमाकारं सितं पीतं च कर्दमम् ।। रम- ४.७ ।।

पुष्करं पुष्कराकारं शिखि शिखिशिखाप्रभम् ।
हारिद्रकं हरिद्राभं हरितं हरितं स्मृतम् ।। रम- ४.८ ।।

चक्राकारं भवेच्चक्रं नीलवर्णं हलाहलम् ।
ब्राह्मणः पाण्डुरस्तत्र क्षत्रियो रक्तवर्णकः ।। रम- ४.९ ।।

वैश्यः पीतप्रभः शूद्रः कृष्णाभो निन्दितः स्मृतः ।
ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।
वैश्यो व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ।। रम- ४.१० ।।

विषमारण[सम्पाद्यताम्]

समटङ्कणकं पिष्टं तद्विषं मृतमुच्यते ।
योजयेत् सर्वरोगेषु न विकारं करोति हि ।। रम- ४.११ ।।

विषशोधन (?)[सम्पाद्यताम्]

विषभागांश्च कणवत् स्थूलान् कृत्वा तु भाजने ।
ततः गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ।। रम- ४.१२ ।।

शोषयेत् त्रिदिनादूर्ध्वं कृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ।। रम- ४.१३ ।।

विषसेवन[सम्पाद्यताम्]

विषस्य मारणं प्रोक्तमथ सेवां प्रवच्म्यहम् ।। रम- ४.१४ ।।

शरद्ग्रीष्मवसन्तेषु वर्षासु च प्रदापयेत् ।
चातुर्मास्ये हरेद् रोगान् कुष्ठलूतादिकानपि ।। रम- ४.१५ ।।

प्रथमे सर्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ।। रम- ४.१६ ।।

षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं भवेत् ।। रम- ४.१७ ।।

क्रमहानिं तथा पक्षे द्वितीयं सप्तकं विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ।। रम- ४.१८ ।।

वृद्ध्यां हान्यां च दातव्यं चतुर्थसप्तके तथा ।
यवमात्रं ग्रसेत् स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ।। रम- ४.१९ ।।

अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्मै न दातव्यं दत्तं चेद् दोषकारकम् ।। रम- ४.२० ।।

ददेद्वै सर्वरोगेषु मृताशिनि हिताशिनि ।
क्षीराशनं प्रयोक्तव्यं रसायनरते नरे ।। रम- ४.२१ ।।

ब्रह्मचर्यं प्रधानं हि विषकल्पे तदाचरेत् ।
पथ्ये स्वस्थमना भूत्वातदा सिद्धिर्न संशयः ।। रम- ४.२२ ।।

मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा तस्य जायन्ते नात्र संशयः ।। रम- ४.२३ ।।

प्रथमे वेग उद्वेगो द्वितीये वेपथुर्भवेत् ।
तृतीये घोरदाहः स्याच्चतुर्थे पतनं भुवि ।। रम- ४.२४ ।।

फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ।। रम- ४.२५ ।।

विषवेगांश्च विज्ञाय मन्त्रतन्त्रैर् विनाशयेत् ।
साधकानां हितार्थाय सदाशिवमुखोद्गतः ।। रम- ४.२६ ।।

सर्वविषविनाशार्थं प्रोच्यते मन्त्र उत्तमः ।। रम- ४.२७ ।।

ओं नमो भगवते घोणेयन् हर हर दर दर पर पर तर तर बर बर वध वध वः वः लः लः रं रं लां लां लां हरलां हर हर भव सर रां रां क्षीं क्षीं हीं हीं भगवति श्रीघोणेयन् सं सं सं वर वर रसः ध वर वर खण्ड च रूप ह्रीं वर विहंगम मानुष योगक्षेमं वद शेषारे शेषारे षषः स्वाहा ।। रम- ४.२८ ।।

विद्यैषा स्मृतिमात्रेण नश्यन्ते गुत्थकादयः ।
सप्त जप्तेन तोयेन प्रोक्षयेत् कालचोदितम् ।। रम- ४.२९ ।।

उत्तिष्ठति सवेगेन शिखाबन्धेन धारयेत् ।
त्रिमन्त्रितेन शंखेन दुन्दुभिर् वादयेद् यदि ।। रम- ४.३० ।।

देशान्तरे शरीरेऽपि निर्विषं कुरुते क्षणात् ।
विषं दृष्ट्वा यदा मन्त्री मन्त्रमावर्तयेत्सकृत् ।
दृष्ट्वा निर्विषतां याति अपि मारशतानि च ।। रम- ४.३१ ।।

गोघृतपानाद्धरते विविधं गरलं च वन्ध्यकर्कोटी ।
सकलविषदोषशमनी त्रिशूलिका सुरभिजिह्वा च ।। रम- ४.३२ ।।

विषमारण[सम्पाद्यताम्]

तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
अतिमात्रं तदा भुङ्क्ते तदाज्यं टङ्कणं पिबेत् ।। रम- ४.३३ ।।

न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारणम् ।। रम- ४.३४ ।।


रसमञ्जरी , ५[सम्पाद्यताम्]

हेमादिलोहकिट्टान्तं शोधनं मारणं गुणम् ।
वक्ष्ये सप्रत्ययं योगं यथागुरुमुखोदितम् ।। रम- ५.१ ।।

धातु (metals) : शोधन[सम्पाद्यताम्]

तैले तक्रे गवां मूत्रे क्वाथे कौलत्थकाञ्जिके ।
तप्तं तप्तं निषेचेत्तु तत्तद्द्रावे तु सप्तधा ।। रम- ५.२ ।।

स्वर्णादिलोहपर्यन्तं शुद्धिर्भवति निश्चितम् ।
शोधनं मारणं चैव कथ्यते च मयाधुना ।। रम- ५.३ ।।

स्वर्ण शोधन[सम्पाद्यताम्]

मृत्तिकामातुलुङ्गाम्लैः पञ्चवासरभाविता ।
सभस्मलवणं हेम शोधयेत् पुटपाकतः ।। रम- ५.४ ।।

स्वर्णभस्म[सम्पाद्यताम्]

शुद्धसूतसमं हेम खल्वे कुर्याच्च गोलकम् ।
अधोर्ध्वं गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ।। रम- ५.५ ।।

त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ।। रम- ५.६ ।।

स्वर्णभस्म[सम्पाद्यताम्]

कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
लुङ्गाम्बुभस्मसूतेन म्रियते दशभिः पुटैः ।। रम- ५.७ ।।

स्वर्णभस्म[सम्पाद्यताम्]

रसस्य भस्मना वाथ रसैर्वा लेपयेद्दलम् ।
हिङ्गुहिङ्गुलसिन्दूरैः शिलासाम्येन लेपयेत् ।। रम- ५.८ ।।

संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाथ गोलकम् ।
तं भाण्डस्य तले धृत्वा भस्मना पूरयेद्दृढम् ।। रम- ५.९ ।।

अग्निं प्रज्वालयेद्गाढं द्विनिशं स्वाङ्गशीतलम् ।
उद्धृत्य सावशेषं च पुनर्देयं पुटत्रयम् ।। रम- ५.१० ।।

अनेन विधिना स्वर्णं निरुत्थं जायतेऽमितम् ।
एतद्रसायनं बल्यं वृष्यं शीतं क्षयादिहृत् ।। रम- ५.११ ।।

स्वर्णभस्म[सम्पाद्यताम्]

गलितस्य सुवर्णस्य षोडशांशेन सीसकम् ।
योजयित्वा समुद्धृत्य निम्बुनीरेण मर्दयेत् ।। रम- ५.१२ ।।

तद्गोलकसमं गन्धं चूर्णं दद्यादधोपरि ।
शरावसम्पुटे धृत्वा पुटेद्विंशद्वनोपलैः ।। रम- ५.१३ ।।

एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ।

स्वर्णभस्म[सम्पाद्यताम्]

माक्षिकं नागचूर्णं च पिष्टमर्करसे पुनः ।। रम- ५.१४ ।।

हेमपत्रं च तेनैव म्रियते क्षणमात्रतः ।

स्वर्ण गुणा:[सम्पाद्यताम्]

कषायतिक्तमधुरं सुवर्णं गुरु लेखनम् ।। रम- ५.१५ ।।

वृष्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ।
आयुर्मेदोवयःस्थैर्यवाग्विशुद्धिस्मृतिप्रदम् ।। रम- ५.१६ ।।

क्षयोन्मादगदार्तानां शमनं परमुच्यते ।

रजतशोधनम्[सम्पाद्यताम्]

भागेन क्षारराजेन द्रावितं शुद्धिमिच्छता ।। रम- ५.१७ ।।

रजतभस्म[सम्पाद्यताम्]

तारपत्रं चतुर्भागं भागैकं शुद्धतालकम् ।
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।। रम- ५.१८ ।।

रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोपलैः ।
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ।। रम- ५.१९ ।।

रजतभस्म[सम्पाद्यताम्]

स्वर्णमाक्षिकगन्धस्य समं भागं तु कारयेत् ।
अर्कक्षीरेण सम्पिष्टं तारपत्रं प्रलिप्य च ।। रम- ५.२० ।।

पुटेन जारयेत्तारं मृतं भवति निश्चितम् ।

रजत : मारण (३)[सम्पाद्यताम्]

विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ।। रम- ५.२१ ।।

तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः ।
द्वित्रैः पुटैः भवेद्भस्म योज्यमेव रसादिषु ।। रम- ५.२२ ।।

रजतस्य आयुष्य गुणा:[सम्पाद्यताम्]

शीतं कषायं मधुरमम्लं वातप्रकोपजित् ।
दीपनं बलकृत् स्निग्धं गाढाजीर्णविनाशनम् ।
आयुष्यं दीर्घरोगघ्नं रजतं लेखनं परम् ।। रम- ५.२३ ।।

ताम्र[सम्पाद्यताम्]

न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते ।

ताम्र ८ दोषस्[सम्पाद्यताम्]

एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ।। रम- ५.२४ ।।

भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः ।
अरुचिश्चित्तसन्ताप एते दोषा विषोपमाः ।। रम- ५.२५ ।।

तस्माद्विशुद्धं संग्राह्यं ताम्रं रोगप्रशान्तये ।

ताम्रे शोधन[सम्पाद्यताम्]

लवणैर् वज्रदुग्धेन ताम्रपत्रं विलेपयेत् ।। रम- ५.२६ ।।

अग्नौ संताप्य निर्गुण्डीरसैः सिक्तं च सप्तधा ।
स्नुह्यर्कस्वरसेऽप्येवं शुल्बशुद्धिर्भविष्यति ।। रम- ५.२७ ।।

ताम्रे शोधन[सम्पाद्यताम्]

गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं वाप्यथोच्यते ।। रम- ५.२८ ।।

ताम्रभस्म[सम्पाद्यताम्]

सूतमेकं द्विधा गन्धं यामं कन्यां विमर्दयेत् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्या गर्भं निरोधयेत् ।। रम- ५.२९ ।।

सम्यङ् मृल्लवणैः सार्द्धं पार्श्वे भस्म निधाय च ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमये ।। रम- ५.३० ।।

जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् ।
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ।। रम- ५.३१ ।।

ताम्रभस्म[सम्पाद्यताम्]

चतुर्थांशेन सूतेन ताम्रपत्राणि लेपयेत् ।
अम्लपिष्टं द्विगुणितमधोर्ध्वं दापयेद् बलिम् ।। रम- ५.३२ ।।

चाङ्गेरीकल्कगर्भे तद्भाण्डे यामं पचेद्दृढम् ।
भस्मीभूतं ताम्रपत्रं सर्वयोगेषु योजयेत् ।। रम- ५.३३ ।।

ताम्रभस्म[सम्पाद्यताम्]

जम्बीररससम्पिष्टं रसगन्धकलेपितम् ।
शुल्बपत्रं शरावस्थं त्रिपुटैर्याति पञ्चताम् ।। रम- ५.३४ ।।

ताम्रभस्मगुणाः[सम्पाद्यताम्]

ताम्रं तिक्ताम्लमधुरं कषायं शीतलं परम् ।। रम- ५.३५ ।।

कफपित्तक्षयं धातुकुष्ठघ्नं च रसायनम् ।
नाशयेच्छूलम् अर्शांसि वृक्षमिन्द्राशनिर्यथा ।। रम- ५.३६ ।।

राजरीति-, घोषशोधन, -मारण[सम्पाद्यताम्]

राजरीतिस्तथा घोषं ताम्रवन्मारयेत् पृथक् ।
ताम्रवच्छोधनं तेषां ताम्रवद् गुणकारकम् ।। रम- ५.३७ ।।

नागवङ्गशोधनम्[सम्पाद्यताम्]

नागवङ्गौ च गलितौ रविदुग्धेन सेचयेत् ।
त्रिवारं शुद्धिमायाति सच्छिद्रे हण्डिकान्तरे ।। रम- ५.३८ ।।

नाग (Lead) मारण (१)[सम्पाद्यताम्]

त्रिभिः कुम्भपुटैर्नागो वासास्वरसमर्दितः ।
सा शिला भस्मतामेति तद्रजः सर्वमेहहृत् ।। रम- ५.३९ ।।

नागभस्म[सम्पाद्यताम्]

भूभुजङ्गम् अगस्तिं च पिष्ट्वा पात्रं विलेपयेत् ।
तद्रसं विद्रुते नागे वासापामार्गसम्भवम् ।। रम- ५.४० ।।

क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः ।
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या च घट्टिता ।। रम- ५.४१ ।।

तत उद्धृत्य तच्चूर्णं वासानीरे विमर्दयेत् ।
पुटेत् पुनः समुद्धृत्य तेनैव परिमर्दयेत् ।। रम- ५.४२ ।।

एवं सप्त पुटं नागं सिन्दूरं जायते ध्रुवम् ।

नागभस्मगुणाः[सम्पाद्यताम्]

तारस्थो रञ्जनो नागो वातपित्तकफापहः ।। रम- ५.४३ ।।

ग्रहणीकुष्ठमेहार्शःप्राणशोषविषापहः ।

वङ्गं (tin) मारण (१)[सम्पाद्यताम्]

आभीरं शोधयेदादौ द्रावयेद्धण्डिकान्तरे ।। रम- ५.४४ ।।

अपामार्गचतुर्थांशं चूर्णितं मेलयेत्ततः ।
स्थूलाग्रया लोहदर्व्या शनैस्तद् अवचालयेत् ।। रम- ५.४५ ।।

यावद्भस्मत्वमायाति तावन्मर्द्यं च पूर्ववत् ।
तत एकीकृतं सर्वं भवेदङ्गारवर्णकम् ।। रम- ५.४६ ।।

नूतनेन शरावेण रोधयेदन्तरे भिषक् ।
पश्चात्तीव्राग्निना पक्वं वङ्गभस्म भवेद्ध्रुवम् ।। रम- ५.४७ ।।

वङ्गं (tin) मारण (२)[सम्पाद्यताम्]

वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन तं पुटेत् ।
शुष्काश्वत्थभवैर्वल्कैः सप्तधा भस्मतां व्रजेत् ।। रम- ५.४८ ।।

वङ्गभस्मगुणाः[सम्पाद्यताम्]

वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपनम् ।
मेहश्लेष्मामयघ्नं च कृमिघ्नं मोहनाशनम् ।। रम- ५.४९ ।।

लोह अद्रि[सम्पाद्यताम्]

त्रिफलादष्टगुणे तोये त्रिफला षोडशं पलम् ।
तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ।। रम- ५.५० ।।

कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ।। रम- ५.५१ ।।

लोहभस्म[सम्पाद्यताम्]

शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं सारचूर्णं मर्दयेत् कन्यकाम्बुना ।। रम- ५.५२ ।।

यामद्वयं ततो गोलं स्थापयेत्ताम्रभाजने ।
आच्छाद्यैरण्डजैः पत्रैरुष्णो यामद्वयं भवेत् ।। रम- ५.५३ ।।

त्रिदिनं धान्यराशिस्थं तं ततो मर्दयेद् दृढम् ।
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ।। रम- ५.५४ ।।

तीक्ष्णं मुण्डं कान्तलोहं निरुत्थं जायते मृतम् ।
त्रिफलामधुसंयुक्तम् एतत्सेव्यं रसायनम् ।। रम- ५.५५ ।।

लोहभस्म[सम्पाद्यताम्]

द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् ।
कन्यानीरेण संमर्द्य यामयुग्मं तु तत्पुटेत् ।
पुटेदेवं लोहचूर्णं सप्तधा मरणं व्रजेत् ।। रम- ५.५६ ।।

लोहभस्म[सम्पाद्यताम्]

काकोदुम्बरिकानीरे लोहपत्राणि सेचयेत् ।
तप्ततप्तानि षड्वारं कुट्टयेत्तद् उदूखले ।। रम- ५.५७ ।।

तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् ।
कुमारीनीरतस् तीक्ष्णं पुटे गजपुटे तथा ।। रम- ५.५८ ।।

त्रिवारं त्रिफलाक्वाथैस्तत्संख्याकैरतन्द्रितः ।
एवं चतुर्दशपुटैर्लोहं वारितरं भवेत् ।। रम- ५.५९ ।।

लोहभस्म[सम्पाद्यताम्]

तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ।
धारयेत् कांस्यपात्रेण दिनैकेन पुटत्यलम् ।। रम- ५.६० ।।

लेपं पुनः पुनः कुर्याद् दिनान्ते तत्प्रपेषयेत् ।
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतिर्भवेत् ।। रम- ५.६१ ।।

लोहभस्म[सम्पाद्यताम्]

लोहं पत्रमतीव तप्तमसकृत्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमतो भवेत् त्रिफलजे क्वाथे पचेत् गोजले ।
मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं भस्म भवेद् आयसम् ।। रम- ५.६२ ।।

लोह : वारितर स्थित्या: परीक्षणम्[सम्पाद्यताम्]

सर्वमेतन्मृतं लोहं ध्मातव्यं मृतपञ्चके ।
यद्येव स्यान्निरुत्थानं सत्यं वारितरं भवेत् ।। रम- ५.६३ ।।

लोहनिरुत्थभस्म[सम्पाद्यताम्]

गन्धकं तुत्थकं लोहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ।
इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ।। रम- ५.६४ ।।

लोहभस्मगुणाः[सम्पाद्यताम्]

कृष्णायसोऽथ शूलार्शःकुष्ठपाण्डुत्वमेहनुत् ।
वयःस्थं गुरु चक्षुष्यं सरं मेदोगदापहम् ।। रम- ५.६५ ।।

आयुःप्रदाता बलवीर्यकर्ता रोगस्य हर्ता मदनस्य कर्ता ।
अयःसमानं नहि किंचिद् अन्यद् रसायनं श्रेष्ठतमं हि जन्तो ।। रम- ५.६६ ।।

कूष्माण्डं तिलतैलं च माषान्नं राजकं तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ।। रम- ५.६७ ।।

मुण्ड[सम्पाद्यताम्]

ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै नियोजयेत् ।। रम- ५.६८ ।।

शतोत्थमुत्तमं किट्टं मध्यमाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ।। रम- ५.६९ ।।

दग्धाक्षकाष्ठैर् मलम् आयसं तु गोमूत्रनिर्वापितमष्टवारान् ।
विचूर्ण्य लीढं मधुनाचिरेण नृणां क्षयं पाण्डुगदं निहन्ति ।। रम- ५.७० ।।

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ।। रम- ५.७१ ।।

रसमञ्जरी , ६[सम्पाद्यताम्]

क्षीराब्धेरुत्थितं देवं पीतवस्त्रं चतुर्भुजम् ।
वन्दे धन्वन्तरिं नित्यं नानागदनिषूदनम् ।। रम- ६.१ ।।

यथा गुरुमुखं श्रुत्वा सानुभूतं च तद्रसम् ।
स रसः प्रोच्यते ह्यत्र व्याधिनाशनहेतवे ।। रम- ६.२ ।।

मुक्त्वैकं रसवैद्यं च लाभपूजायशस्विनम् ।
तृणकाष्ठौषधैर् वैद्यः को लभेत वराटिकाम् ।। रम- ६.३ ।।

यस्य रोगस्य यो योगो मुनिभिः परिकीर्तितः ।
तत्तद्योगसमायुक्तं भिषक् सूतं प्रयोजयेत् ।। रम- ६.४ ।।

मात्राधिकं न सेवेत रसं वा विषम् औषधम् ।
त्र्याधिबद्धं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ।। रम- ६.५ ।।

रत्नगर्भपटोली[सम्पाद्यताम्]

रसं वज्रं हेम तारं नागं लोहं च ताम्रकम् ।
तुल्यांशमारिते योज्यं मुक्तामाक्षिकविद्रुमम् ।। रम- ६.६ ।।

शंखं च तुल्यतुल्यांशं सप्ताहं चित्रकद्रवैः ।
मर्दयित्वा विचूर्ण्याथ तेनापूर्य वराटिकाम् ।। रम- ६.७ ।।

टङ्कणं रविदुग्धेन पिष्ट्वा मूषां च बन्धयेत् ।
मृद्भाण्डे च निरुध्याथ सम्यग्गजपुटे पचेत् ।। रम- ६.८ ।।

स्वाङ्गशीतं समुद्धृत्य सूक्ष्मचूर्णानि कारयेत् ।
आदाय चूर्णयेत्सर्वं निर्गुण्ड्याः सप्तभावनाः ।। रम- ६.९ ।।

आर्द्रकस्य रसैः सप्त चित्रकस्यैकविंशतिः ।
द्रवैर्भाव्यं ततः शोष्यं देयं गुञ्जाचतुष्टयम् ।। रम- ६.१० ।।

क्षयरोगं निहन्त्याशु साध्यासाध्यं न संशयः ।
योजयेत् पिप्पलीक्षौद्रैः सघृतैर्मरिचेन च ।। रम- ६.११ ।।

महारोगाष्टके कासे ज्वरे श्वासेऽतिसारके ।
पोटलीरत्नगर्भोऽयं योगवाहेषु योजयेत् ।। रम- ६.१२ ।।

मृगाङ्करसः[सम्पाद्यताम्]

स्याद्रसेन समं हेम मौक्तिकं द्विगुणं भवेत् ।
गन्धकं च समं तेन रसपादस्तु टंकणम् ।। रम- ६.१३ ।।

सर्वं तद्गोलकं कृत्वा काञ्जिकेनावशोषयेत् ।
भाण्डे लवणपूर्णे च पचेद्यामचतुष्टयम् ।। रम- ६.१४ ।।

मृगाङ्कसंज्ञको ज्ञेयो राजयोगनिकृन्तनः ।
गुञ्जाचतुष्टयं चास्य मरिचैर्भक्षयेद्भिषक् ।। रम- ६.१५ ।।

पिप्पलीदशकैर्वापि मधुना लेहयेद् बुधः ।
पथ्यं सुलघुमांसेन प्रायेणास्य प्रयोजयेत् ।। रम- ६.१६ ।।

दध्याज्यगव्यं तक्रं वा क्षीरं वाजं प्रयोजयेत् ।
व्यञ्जनैर् मृतपक्वैश्च नातिक्षारैर् अहिङ्गुकैः ।। रम- ६.१७ ।।

एलाजम्बीरमरिचैः संस्कृतैरविदाहिभिः ।
वृन्ताकतैलबिल्वानि कारवेल्लं च वर्जयेत् ।। रम- ६.१८ ।।

स्त्रियं परिहरेद् दूरात् कोपं चापि परित्यजेत् ।
वल्ली तुम्बरिकानाम तन्मूलं क्वाथयेत्पलम् ।। रम- ६.१९ ।।

कटुकत्रयसंयुक्तं पाययेत्कासशान्तये ।
त्रिशूली या समाख्याता तन्मूलं क्वाथयेद् वलम् ।। रम- ६.२० ।।

ईषद्धिङ्गुसमायुक्तं काकिणी चित्रकं वचा ।
भक्षयेत्पथ्यभोज्यं च सर्वरोगप्रशान्तये ।। रम- ६.२१ ।।

मर्कटीपत्रचूर्णस्य गुटिकां मधुना कृताम् ।
धारयेत् सततं वक्त्रे कासविष्टम्भनाशिनीम् ।। रम- ६.२२ ।।

छागमांसं पयश्छागं छागं सर्पिः सनागरम् ।
छागोपसेवासहनं छागमध्ये तु यक्ष्मनुत् ।। रम- ६.२३ ।।

मलायत्तं बलं पुंसां शुक्रायत्तं च जीवितम् ।
अतो विशेषतो रक्षेद्यक्ष्मिणो मलरेतसी ।। रम- ६.२४ ।।

लोकनाथरसः[सम्पाद्यताम्]

पलं कपर्दचूर्णस्य पलं पारदगन्धयोः ।
माषोऽपि टंकणस्यैको जम्बीरेण विमर्दयेत् ।। रम- ६.२५ ।।

पुटेल्लोकेश्वरो नाम लोकनाथोऽयमुत्तमः ।
जयेत्कुष्ठं रक्तपित्तमन्यरोगं क्षयं नयेत् ।। रम- ६.२६ ।।

पुष्टवीर्यप्रदाता च कान्तिलावण्यदः परः ।
कोऽस्ति लोकेश्वराद् अन्यो नृणां शम्भुमुखोद्गतात् ।। रम- ६.२७ ।।

लोकेश्वरपटोलीरसः[सम्पाद्यताम्]

रसस्य भस्मना हेम पादांशेन प्रकल्पयेत् ।
द्विगुणं गन्धकं दत्त्वा मर्दयेच्चित्रकाम्बुना ।। रम- ६.२८ ।।

वराटकांश्च सम्पूर्य टङ्कणेन निरुध्य च ।
भाण्डे चूर्णं प्रतिलिखेत्क्षिप्त्वा रुन्धीत मृन्मये ।। रम- ६.२९ ।।

शोषयित्वा पुटेद्गर्भे वह्निं दत्त्वा पराह्निके ।
स्वांगशीतं समुद्धृत्य चूर्णयित्वाथ विन्यसेत् ।। रम- ६.३० ।।

एष लोकेश्वरो नाम वीर्यपुष्टिविवर्द्धनः ।
गुञ्जाचतुष्टयं चास्य पिप्पलीमधुसंयुतम् ।। रम- ६.३१ ।।

खादयेत्परया भक्त्या लोकेशः सर्वसिद्धिदः ।
अङ्गकार्श्येऽग्निमान्द्ये च कासपित्ते रसस्त्वयम् ।। रम- ६.३२ ।।

मरिचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् ।
लवणं वर्जयेत्तत्र शयीतोत्तानपादतः ।। रम- ६.३३ ।।

एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् ।
पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ।। रम- ६.३४ ।।

ये शुष्का विषमानिलैः क्षयरुजा व्याप्ताश्च ये कुष्ठिनो ये पाण्डुत्वहताः कुवैद्यविधिना ये शोषिणो दुर्भगाः ।
ये तप्ता विविधैर् ज्वरैर् भ्रममदोन्मादैः प्रमादं गतास्ते सर्वे विगतामया हतरुजः स्युः पोटलीसेवया ।। रम- ६.३५ ।।

राजमृगाङ्करसः[सम्पाद्यताम्]

रसभस्म त्रयो भागा भागैकं हेमभस्मकम् ।
मृतताम्रस्य भागैकं शिलागन्धकतालकम् ।। रम- ६.३६ ।।

प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् ।
वराटीः पूरयेत्तेन ह्यजाक्षीरेण टंकणम् ।। रम- ६.३७ ।।

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे च निरोधयेत् ।
शुष्कं गजपुटे पाच्यं चूर्णयेत्स्वाङ्गशीतलम् ।। रम- ६.३८ ।।

रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः कफापहः ।
दशभिः पिप्पलीक्षौद्रैर्मरिचैकोनविंशतिः ।
सघृतैर्दापयेत्क्वाथं वातश्लेष्मोद्भवे क्षये ।। रम- ६.३९ ।।

रत्नगिरिरसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं मृतं स्वर्णाभ्रताम्रकम् ।
प्रत्येकं सूततुल्यं स्यात्सूतार्द्धं मृतलोहकम् ।। रम- ६.४० ।।

लोहार्द्धं मृतवैक्रान्तं मर्दयेद्भृङ्गजैर्द्रवैः ।
पर्पटीरसवत्पाच्यं चूर्णितं भावयेत्पृथक् ।। रम- ६.४१ ।।

शिग्रुवासकनिर्गुण्डीवचासोमाग्निभृङ्गजैः ।
क्षुद्रामृताजयन्तीभिर् मुनिब्राह्मीसुतिक्तकैः ।। रम- ६.४२ ।।

कन्याद्रावैश्च संभाव्य प्रतिद्रावैस्त्रिधा त्रिधा ।
रुद्ध्वा लघुपुटे पाच्यं भूधरे तं समुद्धरेत् ।। रम- ६.४३ ।।

इमं नवज्वरे दद्यान्माषमात्रं रसस्य तु ।। रम- ६.४४ ।।

कृष्णाधान्यकसम्मिश्रं मुहूर्ताद्विज्वरो भवेत् ।
अयं रत्नगिरिर्नाम रसो योगस्य वाहकः ।। रम- ६.४५ ।।

हिङ्गुलेश्वररसः (?)[सम्पाद्यताम्]

तुल्यांशं चूर्णयेत् खल्वे पिप्पलीं हिङ्गुलं विषम् ।
द्विगुंजं मधुना देयं वातज्वरनिवृत्तये ।। रम- ६.४६ ।।

शीतभञ्जीरसः[सम्पाद्यताम्]

पारदं रसकं तालं तुत्थं टङ्कणगन्धकम् ।
सर्वमेतत्समं शुद्धं कारवेल्ल्या द्रवैर्दिनम् ।। रम- ६.४७ ।।

मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिपेत् ।
अङ्गुल्यर्धप्रमाणेन पचेत्तत्सिकताह्वये ।। रम- ६.४८ ।।

यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः ।
ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद्भिषक् ।। रम- ६.४९ ।।

शीतभञ्जीरसो नाम चूर्णयेन्मरिचैः समम् ।
माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् ।
त्रिदिनैर् विषमं तीव्रमेकद्वित्रिचतुर्थकम् ।। रम- ६.५० ।।

शीतभञ्जीरसः[सम्पाद्यताम्]

रसहिङ्गुलगन्धं च जैपालं च त्रिभिः समम् ।
दन्तीक्वाथेन संमर्द्य रसो ज्वरहरः स्मृतः ।। रम- ६.५१ ।।

आर्द्रकस्य रसेनाथ दापयेद्रक्तिकाद्वयम् ।
नवज्वरं महाघोरं नाशयेद्याममात्रतः ।। रम- ६.५२ ।।

शर्करा दधिभक्तं च पथ्यं देयं प्रयत्नतः ।
शीततोयं पिबेच्चानु इक्षुमुद्गरसो हितः ।
शीतभञ्जीरसो नाम सर्वज्वरविनाशकः ।। रम- ६.५३ ।।

शीतारिरसः[सम्पाद्यताम्]

सूतकं टङ्कणं गन्धं शुल्बचूर्णं समं समम् ।
सूताद्द्विगुणितं देयं जैपालं तुषवर्जितम् ।। रम- ६.५४ ।।

सैन्धवं मरिचं चिञ्चात्वग्भस्मापि च शर्कराः ।
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर् मर्दयेद् दिनम् ।। रम- ६.५५ ।।

द्विगुञ्जं तप्ततोयेन वातश्लेष्मज्वरापहम् ।
रसः शीतारिनामायं शीतज्वरहरः परः ।। रम- ६.५६ ।।

ज्वरराजरसः[सम्पाद्यताम्]

भागैकं रसराजस्य भागस्यार्धेन माक्षिका ।। रम- ६.५७ ।।

भागद्वयं शिलायाश्च गन्धकस्य त्रयो मताः ।
तालकाष्टादश भागाः शुल्बस्य भागपञ्चकम् ।। रम- ६.५८ ।।

भल्लातकत्रयो भागाः सर्वमेकत्र चूर्णयेत् ।
वज्रीक्षीरप्लुतं कृत्वा दृढे मृन्मयभाजने ।। रम- ६.५९ ।।

विधाय सुदृढं मुद्रां पचेद्यामचतुष्टयम् ।
स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सुदृढं पुनः ।। रम- ६.६० ।।

गुञ्जाचतुष्टयं चास्य पर्णखण्डेन दापयेत् ।
ज्वरराजः प्रसिद्धोऽयमष्टज्वरविनाशकः ।। रम- ६.६१ ।।

प्रातःकाले प्रभुज्यैनं पथ्यं तक्रौदनं हितम् ।
भागेन तुत्थसंयुक्तं चातुर्थिकनिवारणम् ।। रम- ६.६२ ।।

महाज्वराङ्कुशरसः[सम्पाद्यताम्]

सूतं गन्धं विषं तुल्यं धूर्तबीजं त्रिभिः समम् ।
तच्चूर्णाद्द्विगुणं व्योषचूर्णं गुञ्जाद्वयं हितम् ।। रम- ६.६३ ।।

जम्बीरकस्य मज्जाभिरार्द्रकस्य रसैर्युतः ।
महाज्वराङ्कुशो नाम ज्वराष्टकनिकृन्तनः ।। रम- ६.६४ ।।

ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ।
विषमं च त्रिदोषोत्थं हन्ति सर्वं न संशयः ।। रम- ६.६५ ।।

व्यायामं च व्यवायं च स्नानं चङ्क्रमणं तथा ।
ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत् ।। रम- ६.६६ ।।

प्राणेश्वररसः[सम्पाद्यताम्]

शुद्धसूतं तथा गन्धं मृताभ्रं विषसंयुतम् ।। रम- ६.६७ ।।

समं तन्मर्दयेत्तालमूलीनीरैस् त्र्यहं बुधः ।
पूरयेत्कुपिकां तेन मुद्रयित्वा विशोषयेत् ।। रम- ६.६८ ।।

सप्तभिर्मृत्तिकावस्त्रैर्वेष्टयित्वाथ शोषयेत् ।
पुटेत् कुम्भप्रमाणेन स्वाङ्गशीतं समुद्धरेत् ।। रम- ६.६९ ।।

गृहीत्वा कुपिकामध्यान्मर्दयेच्च दिनं ततः ।
अजाजीचित्रकं हिङ्गु स्वर्जिका टङ्कणं च यत् ।। रम- ६.७० ।।

गुग्गुलुः पञ्चलवणं यवक्षारो यवानिका ।
मरिचं पिप्पली चैव प्रत्येकं च समानतः ।। रम- ६.७१ ।।

एषां कषायेण पुनर्भावयेत्सप्तधातपे ।
नागवल्लीदलयुतः पञ्चगुञ्जो रसेश्वरः ।। रम- ६.७२ ।।

दद्यान्नवज्वरे तीव्रे सोष्णं वारि पिबेदनु ।
प्राणेश्वरो रसो नाम सन्निपातप्रकोपनुत् ।। रम- ६.७३ ।।

शीतज्वरे दाहपूर्वे गुल्मे शूले त्रिदोषजे ।
वाञ्छितं भोजनं दद्यात् कुर्याच्चन्दनलेपनम् ।। रम- ६.७४ ।।

तापोद्रेकस्य शमनं बालाभाषणगायनैः ।
प्रभवेन्नात्र सन्देहः स्वास्थ्यं च लभते नरः ।। रम- ६.७५ ।।

नवज्वरेभसिंहरसः[सम्पाद्यताम्]

शुद्धं सूतं तथा गन्धं लोहं ताम्रं च सीसकम् ।
मरिचं पिप्पलीं विश्वं समभागानि चूर्णयेत् ।। रम- ६.७६ ।।

अर्द्धभागं विषं दत्त्वा मर्दयेद्वासरद्वयम् ।
शृङ्गवेरानुपानेन दद्याद् गुञ्जाद्वयं भिषक् ।। रम- ६.७७ ।।

नवज्वरे महाघोरे वाते संग्रहणीगदे ।
नवज्वरेभसिंहोऽयं सर्वरोगेषु योजयेत् ।। रम- ६.७८ ।।

पञ्चाननज्वराङ्कुशरसः[सम्पाद्यताम्]

शम्भोः कण्ठविभूषणं समरिचं मारारिरक्तं रविः पक्षौ सागरलोचनं शशियुतं भागोऽर्कसंख्यान्वितम् ।
खल्वे तं खलु मर्दितं रविजलैर् गुञ्जैकमात्रं ततः सिद्धोऽयं ज्वरदन्तदर्पदलनः पञ्चाननाख्यो रसः ।। रम- ६.७९ ।।

पथ्यं च देयं दधितक्रभक्तं सिन्धूत्थयुक्तं सितया समेतम् ।
गन्धानुलेपो हिमतोयपानं दुग्धं च देयं शुभदाडिमं च ।। रम- ६.८० ।।

पञ्चाननरसः[सम्पाद्यताम्]

सूतं गन्धकचित्रकं त्रिकटुकं मुस्ता विषं त्रैफलम् एतेभ्यो द्विगुणां गुडेन गुटिकां गुंजाप्रमाणां हरेत् ।
कुष्ठाष्टादश वायुशूलमुदरं शोषप्रमेहादिकं रोगानीककरीन्द्रदर्पदलने ख्यातो हि पञ्चाननः ।। रम- ६.८१ ।।

मृतसंजीवनीरसः[सम्पाद्यताम्]

म्लेच्छस्य भागाश्चत्वारो जैपालस्य त्रयो मताः ।
द्वौ भागौ टङ्कणस्यैव भागैकममृतस्य च ।। रम- ६.८२ ।।

तत्सर्वं मर्दयेत् सूक्ष्मं शुष्कं यामं भिषग्वरः ।
शृङ्गवेराम्बुना देयो व्योषचित्रकसैन्धवैः ।
गुञ्जाद्वयमितस्तापं हरत्येष विनिश्चयः ।। रम- ६.८३ ।।

घनसारेण युक्तेन चन्दनेन विलेपयेत् ।। रम- ६.८४ ।।

विदध्यात्कांस्यपात्रेण जीवयेद्रोगिणं भिषक् ।
शाल्यन्नं तक्रसहितं भोजयेद् बिल्वसंयुतम् ।। रम- ६.८५ ।।

सन्निपाते महाघोरे त्रिदोषे विषमज्वरे ।
आमवाते वातशूले गुल्मे प्लीह्नि जलोदरे ।। रम- ६.८६ ।।

शीतपूर्वे दाहपूर्वे विषमे सततज्वरे ।
अग्निमांद्ये च वाते च प्रयोज्योऽयं रसेश्वरः ।। रम- ६.८७ ।।

मृतसंजीवनं नाम ख्यातोऽयं रससागरे ।। रम- ६.८८ ।।

रविसुन्दररसः[सम्पाद्यताम्]

द्विभागतालेन हतं च ताम्रं रसं च गन्धं च विषं समं स्यात् ।
जयपालबीजं द्विगुणं च दद्यात् त्रिसप्तवारेण दिवाकरांशौ ।। रम- ६.८९ ।।

विमर्द्य निम्बस्वरसेन चूर्णं गुञ्जैकमानं सितया समेतम् ।
ज्वराङ्कुशोऽयं रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान् समग्रान् ।। रम- ६.९० ।।

सन्निपातभैरवरसः[सम्पाद्यताम्]

ताम्रगन्धरसश्वेतस्पन्दामरिचपूतनाः ।
समीनपित्तजैपालास्तुल्या एकत्र मर्दिताः ।। रम- ६.९१ ।।

गुञ्जाचतुष्टयं चास्या नवज्वरहरः परः ।
ज्वराङ्कुशः संनिपातभैरवोऽयं प्रकाशितः ।। रम- ६.९२ ।।

भस्मेश्वररसः[सम्पाद्यताम्]

भस्मषोडशनिष्कं स्यादारण्योपलकोद्भवम् ।
निष्कत्रयं च मरिचं विषं निष्कं च चूर्णयेत् ।। रम- ६.९३ ।।

अयं भस्मेश्वरो नाम सन्निपातनिकृन्तनः ।
पञ्चगुञ्जामितो भक्षेदार्द्रकस्य रसेन च ।। रम- ६.९४ ।।

प्रतापलङ्केश्वररसः[सम्पाद्यताम्]

अपामार्गस्य मूलस्य चूर्णं चित्रकमूलजैः ।
वल्कलैर्मर्दयित्वा च रसं वस्त्रेण गालयेत् ।। रम- ६.९५ ।।

तेन सूतसमं गन्धमभ्रकं दरदं विषम् ।
टङ्कणं तालकं चैव मर्दयेद् दिनसप्तकम् ।। रम- ६.९६ ।।

त्रिदिनं मुशलीकन्दैर्भावयेद् घर्मरक्षितम् ।
मूषां च गोस्तनाकारामापूर्य परिढक्कयेत् ।। रम- ६.९७ ।।

सप्तभिर् मृत्तिकावस्त्रैर् वेष्टयित्वा पुटेल्लघु ।
रसतुल्यं लोहवङ्गौ रजतं ताम्रकं तथा ।। रम- ६.९८ ।।

मधूकसारजलदौ रेणुका गुग्गुलुः शिला ।
चव्यकं च समांशं स्याद्भागार्द्धं शोधितं विषम् ।। रम- ६.९९ ।।

तत्सर्वं मर्दयेत्खल्वे भावयेद्विषनीरतः ।
आतपे सप्तधा तीव्रे मर्दयेद् घटिकाद्वयम् ।। रम- ६.१०० ।।

कटुत्रयकषायेण कनकस्य रसेन च ।
फलत्रयकषायेण मुनिपुष्परसेन च ।। रम- ६.१०१ ।।

समुद्रफलनीरेण विजयावारिणा तथा ।
चित्रकस्य कषायेण ज्वालामुख्या रसेन च ।। रम- ६.१०२ ।।

प्रत्येकं सप्तधा भाव्यं तद्वत्पिष्टं च भावयेत् ।
सर्वस्य समभागेन विषेण परिधूपयेत् ।। रम- ६.१०३ ।।

दिनं विमर्दयित्वाथ रक्षयेत्कूपिकान्तरे ।
गुञ्जैकं वह्णिनीरेण शृङ्गवेररसेन वा ।। रम- ६.१०४ ।।

प्रदद्याद्रोगिणे तीव्रमोहविस्मृतिशान्तये ।
शस्त्रेण तालुमाहत्य मर्दयेदार्द्रनीरतः ।। रम- ६.१०५ ।।

नोद्घटन्ते यदा दन्तास्तदा कुर्यादमुं विधिम् ।
सेचयेन्मन्त्रयित्वाथ वारां कुम्भशतैर् मुहुः ।। रम- ६.१०६ ।।

भोजनेच्छा यदा तस्य जायते रोगिणस्तदा ।
दध्योदनं सितायुक्तं दद्यात्तक्रं सजीरकम् ।। रम- ६.१०७ ।।

पाने पानं सितायुक्तं यदीच्छति तदा ददेत् ।
एवं कृते न शान्तिः स्यात्तापस्य रसजस्य च ।। रम- ६.१०८ ।।

सचन्द्रचन्दनरसोल्लेपनं कुरु शीतलम् ।
तूलिकामल्लिकाजातीपुन्नागबकुलावृताम् ।। रम- ६.१०९ ।।

विधाय शय्यां तत्रस्थं लेपयेच्चन्दनैर् मुहुः ।
हावभावविलासोक्तिकटाक्षचञ्चलेक्षणैः ।। रम- ६.११० ।।

पीनोत्तुङ्गकुचोत्पीडैः कामिनीपरिरम्भणैः ।
रम्यवीणानिनादाद्यैर् गायनैः श्रवणामृतैः ।। रम- ६.१११ ।।

पुण्यश्लोकपुराणानां कथासम्भाषणैः शुभैः ।
एभिः प्रकारैस्तापस्य जायते शमनं परम् ।। रम- ६.११२ ।।

वर्जयेन्मैथुनं तावद्यावन्नो बलवान् भवेत् ।
दद्याद्वातादिरोगेषु सिन्धुगुग्गुलवह्णिभिः ।। रम- ६.११३ ।।

दद्यात्कणामाक्षिकाभ्यां कामलाक्षयपाण्डुषु ।
तत्तद्रोगानुपानेन सर्वरोगेषु योजयेत् ।। रम- ६.११४ ।।

अयं प्रतापलङ्केशः सन्निपातनिकृन्तनः ।। रम- ६.११५ ।।

महोदधिरसः[सम्पाद्यताम्]

सूतकं गन्धकं लोहं विषं चापि वराटकम् ।
ताम्रकं वङ्गभस्माथ अभ्रकं च समांशकम् ।। रम- ६.११६ ।।

त्रिकटु पत्रमुस्तं च विडङ्गं नागकेशरम् ।
रेणुकामलकं चैव पिप्पलीमूलमेव च ।। रम- ६.११७ ।।

एषां च द्विगुणं भागं मर्दयित्वा प्रयत्नतः ।
भावना तत्र दातव्या गजपिप्पलिकाम्बुना ।। रम- ६.११८ ।।

मात्रा चणकमाना तु वटिकेयं प्रकीर्तिता ।
श्वासं हन्ति तथा कासम् अर्शांसि च भगन्दरम् ।। रम- ६.११९ ।।

हृच्छूलं पार्श्वशूलं च कर्णरोगं कपालिकम् ।
हरेत्संग्रहणीरोगमष्टौ च जाठराणि च ।
प्रमेहविंशतिं चैव अश्मरीं च चतुर्विधाम् ।। रम- ६.१२० ।।

न चान्नपाने परिहारमस्ति न शीतवाताध्वनि मैथुने च ।
यथेष्टचेष्टाभिरतः प्रयोगे नरो भवेत्काञ्चनराशिगौरः ।। रम- ६.१२१ ।।

मदोदधिवटी[सम्पाद्यताम्]

एकैकं विषसूतं च जाती टङ्कं द्विकं द्विकम् ।
कृष्णात्रिकं विश्वषट्कं दग्धं कपर्दिकाद्विकम् ।। रम- ६.१२२ ।।

देवपुष्पं बाणमितं सर्वं संमर्द्य यत्नतः ।
महोदध्याख्यवटिका नष्टस्याग्नेश्च दीपनी ।। रम- ६.१२३ ।।

उन्मत्तरसः[सम्पाद्यताम्]

रसं च गन्धकं चैव धत्तूरफलजैर् द्रवैः ।
मर्दयेद् दिनमेकं च तुल्यं त्रिकटुकं क्षिपेत् ।। रम- ६.१२४ ।।

उन्मत्ताख्यरसो नाम सन्निपातनिकृन्तनः ।
कस्तेन न कृतो धर्मः कां च पूजां न सोऽर्हति ।
सन्निपातार्णवे मग्नं योऽभ्युद्धरति देहिनम् ।। रम- ६.१२५ ।।

संज्ञाकरणरसः[सम्पाद्यताम्]

वचा रसोनकटुकं सैन्धवं बृहतीफलम् ।
रुद्राक्षं मधुसारं च फलं सामुद्रकामृतम् ।। रम- ६.१२६ ।।

समभागानि चैतानि ह्यर्कक्षीरेण भावयेत् ।
भावयेन्मत्स्यपित्तेन त्रिवारं चूर्णयेत्ततः ।। रम- ६.१२७ ।।

धमनं कथितं श्रेष्ठं सन्निपाते सुदारुणे ।
कफोल्वणेऽतिवाते च अपस्मारे हलीमके ।। रम- ६.१२८ ।।

शिरोरोगे कर्णरोगे नेत्ररोगे विधानतः ।
दापयेद्घ्राणछिद्राभ्यां संज्ञाकरणम् उत्तमम् ।। रम- ६.१२९ ।।

चन्द्रशेखररसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं मरिचं टङ्कणं तथा ।। रम- ६.१३० ।।

चतुस्तुल्या सिता योज्या मत्स्यपित्तेन भावयेत् ।
त्रिदिनं मर्दयेत्तेन रसोऽयं चन्द्रशेखरः ।। रम- ६.१३१ ।।

द्विगुञ्जमार्द्रकद्रावैर्देयं शीतोदकं पुनः ।
तक्रभक्तं च वृन्ताकं पथ्यं तत्र निधापयेत् ।। रम- ६.१३२ ।।

कनकसुन्दररसः[सम्पाद्यताम्]

हिङ्गुलं मरिचं गन्धं पिप्पलीं टङ्कणं विषम् ।। रम- ६.१३३ ।।

कनकस्य च बीजानि समांशं विजयारसैः ।
मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ।। रम- ६.१३४ ।।

भक्षणाद्ग्रहणीं हन्याद्रसः कनकसुन्दरः ।
अग्निमांद्यं ज्वरं तीव्रमतिसारं च नाशयेत् ।। रम- ६.१३५ ।।

ग्रहणीदोषिणां तक्रं दीपनं ग्राहिलाघवम् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपनम् ।। रम- ६.१३६ ।।

राववाणरसः[सम्पाद्यताम्]

सूतकं गन्धकं चैव शाणं शाणं च गृह्यते ।। रम- ६.१३७ ।।

दरदं टङ्कणं चैव मरिचं च विषं तथा ।
चत्वार औषधयः सर्वे द्विद्विटङ्कं च कथ्यते ।। रम- ६.१३८ ।।

जैपालबीजं संयोज्यं टङ्कं च दिक्प्रमाणतः ।
तिन्तिडीरससंमर्द्यं गुञ्जामात्रवटी कृता ।। रम- ६.१३९ ।।

तुलसीपत्रसंयुक्ता सर्वे च विषमज्वराः ।
ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ।। रम- ६.१४० ।।

शीतदाह्यादिकं सर्वं नाशयति च वेगतः ।
पथ्यं दुग्धौदनं देयं दधिभक्तं च भोजनम् ।। रम- ६.१४१ ।।

रामवाणरसो नाम सर्वरोगप्रणाशकः ।। रम- ६.१४२ ।।

चन्द्रप्रभावटी[सम्पाद्यताम्]

मृतं सूतं मृतं ताम्रं मृतं स्वर्णं समं समम् ।
तुल्यं च खादिरं सारं तथा मोचरसं क्षिपेत् ।। रम- ६.१४३ ।।

द्रवैः शाल्मलिमूलोत्थैर् मर्दयेत् प्रहरद्वयम् ।
चणमात्रां वटीं भक्षेन्निष्कैकं जीरकैः सह ।
त्रिदोषोत्थमतीसारं सज्वरं नाशयेद्ध्रुवम् ।। रम- ६.१४४ ।।

चित्राम्बररसः[सम्पाद्यताम्]

शुद्धसूतं मृतं चाभ्रं गन्धकं मर्दयेत्समम् ।
लोहपात्रे घृताभ्यक्ते यामं मृद्वग्निना पचेत् ।। रम- ६.१४५ ।।

चालयेल्लोहदण्डेन ह्यवतार्य विभावयेत् ।
त्रिदिनं जीरकैः क्वाथैर् मासैकं भक्षयेन्नरः ।। रम- ६.१४६ ।।

रसश् चित्राम्बरो नाम ग्रहणीं रक्तसंयुताम् ।
शमयेदनुपानेन आमशूलं प्रवाहिकाम् ।। रम- ६.१४७ ।।

ग्रहणीकपाटरसः[सम्पाद्यताम्]

तारमौक्तिकहेमायः सारश् चैकैकभागिकाः ।
द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेद्दिनम् ।। रम- ६.१४८ ।।

कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत् ।
पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् ।। रम- ६.१४९ ।।

बलारसैः सप्तधैवम् अपामार्गरसैस् त्रिधा ।
लोध्रप्रतिविषामुस्ताधातकीन्द्रयवामृताः ।। रम- ६.१५० ।।

प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा ।
माषमात्ररसो देयो मधुना मरिचैः सह ।। रम- ६.१५१ ।।

हन्यात्सर्वानतीसारान्ग्रहणीं पञ्चधापि च ।
कपाटो ग्रहणीनाम रसोऽयं चाग्निदीपनः ।। रम- ६.१५२ ।।

ग्रहणीकपाटरसः[सम्पाद्यताम्]

मुक्तासुवर्णं रसगन्धटङ्कणं घनं कपर्दोऽमृततुल्यभागम् ।
सर्वैः समं शङ्खकचूर्णयुक्तं खल्वे च भाव्योऽतिविषाद्रवेण ।। रम- ६.१५३ ।।

गोलं च कृत्वा मृत्कर्पटस्थं संरुध्य भाण्डे हि पचेद् दिनार्धम् ।
सुस्वाङ्गशीतो रस एष भाव्यो धत्तूरवह्णिमुशलीद्रवैश्च ।। रम- ६.१५४ ।।

लोहस्य पात्रे परिपाचितश्च सिद्धो भवेत् संग्रहणीकपाटः ।
वातोत्तरायां मरिचाज्ययुक्तः पित्तोत्तरायां मधुपिप्पलीभिः ।। रम- ६.१५५ ।।

श्लेष्मोत्तरायां विजयारसेन कटुत्रयेणापि युतो ग्रहण्याम् ।। रम- ६.१५६ ।।

क्षये ज्वरेऽप्यर्शसि विड्विकारे सामातिसारेऽरुचिपीनसे च ।
मोहे च कृच्छ्रे गतधातुवृद्धौ गुञ्जाद्वयं चापि महामयघ्नम् ।। रम- ६.१५७ ।।

वज्रकपाटरसः[सम्पाद्यताम्]

मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् ।। रम- ६.१५८ ।।

अग्निमन्थं वचां कुर्यात् सूततुल्याम् इमां सुधीः ।
ततो जयन्तीजम्बीरभृङ्गद्रावैर् विमर्दयेत् ।। रम- ६.१५९ ।।

त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् ।
लोहपात्रे च लवणं अथोपरि निधापयेत् ।। रम- ६.१६० ।।

अधोवह्निं शनैः कुर्याद् यामार्धं च तद् उद्धरेत् ।
रसतुल्यामतिविषां दद्यान्मोचरसं तथा ।। रम- ६.१६१ ।।

कपित्थविजयाद्रावैर्भावयेत् सप्तधा भिषक् ।
धातकीन्द्रयवमुस्तालोध्रबिल्वगुडूचिकाः ।। रम- ६.१६२ ।।

एतद्रसैर्भावयित्वा वारैकं च विशोषयेत् ।
रसवज्रं कपाटाख्यं माषैकं मधुना लिहेत् ।। रम- ६.१६३ ।।

वह्निः शुण्ठी विडङ्गापि बिल्वं च लवणं समम् ।
पिबेद् उष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् ।। रम- ६.१६४ ।।

विजयभैरवरसः[सम्पाद्यताम्]

सूतकं गन्धकं लोहं विषं चित्रकमभ्रकम् ।
विडङ्गं रेणुका मुस्ता एला केशरपत्रकम् ।
फलत्रयं त्रिकटुकं शुल्बभस्म तथैव च ।। रम- ६.१६५ ।।

एतानि समभागानि द्विगुणो दीयते गुडः ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ।। रम- ६.१६६ ।।

सूतायां ग्रहणीमांद्ये शूले पाण्ड्वामये तथा ।
हस्तपादादिरोगेषु गुटिकेयं प्रशस्यते ।। रम- ६.१६७ ।।

आनन्दभैरवरसः[सम्पाद्यताम्]

दरदं वत्सनाभं च मरिचं टङ्कणं कणा ।। रम- ६.१६८ ।।

चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः ।
गुञ्जैकं तु द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत् ।। रम- ६.१६९ ।।

मधुना लेहयेच्चानु कुटजस्य फलत्वचम् ।
चूर्णितं कर्षमात्रं तु त्रिदोषस्यातिसारजित् ।। रम- ६.१७० ।।

दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव च ।
पिपासायां जलं शीतं हिता च विजया निशि ।। रम- ६.१७१ ।।

मेघडम्बररसः[सम्पाद्यताम्]

तण्डुलीयजलैः पिष्टं सूततुल्यं च गन्धकम् ।
अन्धमूषागतं पक्त्वा भूधरे भस्मतां नयेत् ।। रम- ६.१७२ ।।

दशमूलकषायेण भावयेत्प्रहरद्वयम् ।
गुञ्जाद्वयं हरत्याशु हिक्कां कासं ज्वरं तथा ।
अनुपानेन दातव्यो रसोऽयं मेघडम्बरः ।। रम- ६.१७३ ।।

त्रिगुणाख्यरसः[सम्पाद्यताम्]

गन्धकाद् द्विगुणं सूतं शुद्धं मृद्वग्निना क्षणम् ।। रम- ६.१७४ ।।

पक्त्वावतार्य संचूर्ण्य चूर्णतुल्याभयायुतम् ।
सप्तगुञ्जामितं खादेद्वर्धयेच्च दिने दिने ।। रम- ६.१७५ ।।

गुञ्जैकं च क्रमेणैव यावत्स्याद् एकविंशतिः ।
क्षीराज्यशर्करामिश्रं शाल्यन्नं पथ्यमाचरेत् ।। रम- ६.१७६ ।।

कम्पवातप्रशान्त्यर्थं निर्वाते निवसेत्सदा ।
त्रिगुणाख्यो रसो नाम त्रिपक्षात्कम्पवातनुत् ।। रम- ६.१७७ ।।

वातरिपुरसः[सम्पाद्यताम्]

सूतहाटकवज्राणि तारं लोहं च माक्षिकम् ।
तालं नीलाञ्जनं तुत्थमब्धिफेनं समांशकम् ।। रम- ६.१७८ ।।

पञ्चानां लवणानां च भागमेकं विमर्दयेत् ।
वज्रक्षीरैर् दिनैकं तु रुद्ध्वा तं भूधरे पुटेत् ।। रम- ६.१७९ ।।

माषैकमार्द्रकद्रावैर् लेहयेद् वातनाशनम् ।
पिप्पलीमूलजं क्वाथं सकृष्णमनुपाययेत् ।। रम- ६.१८० ।।

सर्ववातविकारांस्तु निहन्त्याक्षेपकादिकान् ।
रसः सर्वत्र विख्यातो नाम वातरिपुः स्मृतः ।। रम- ६.१८१ ।।

वातगजाङ्कुशरसः[सम्पाद्यताम्]

मृतं लोहं सूतगन्धं ताम्रतालकमाक्षिकम् ।
पथ्यां शृङ्गीविषं त्र्यूषम् अग्निमन्थं च टङ्कणम् ।। रम- ६.१८२ ।।

तुल्यं खल्वे दिनं मर्द्य मुण्डीनिर्गुण्डिजैर् द्रवैः ।
द्विगुञ्जां वटिकां खादेत्सर्ववातप्रशान्तये ।
साध्यासाध्यं निहन्त्याशु रसो वातगजाङ्कुशः ।। रम- ६.१८३ ।।

अम्लपित्तान्तकरसः[सम्पाद्यताम्]

मृतसूताभ्रलोहानां तुल्यां पथ्यां विचूर्णयेत् ।
माषत्रयं लिहेत्क्षौद्रैरम्लपित्तप्रशान्तये ।। रम- ६.१८४ ।।

अग्निकुमाररसः[सम्पाद्यताम्]

सूतं गन्धं च नागानां चूर्णं हंसाङ्घ्रिवारिणा ।
दिनं घर्मे विमर्द्याथ गोलिकां तस्य योजयेत् ।। रम- ६.१८५ ।।

काचकुप्यां च संवेष्ट्य तां त्रिभिर् मृत्पुटैर् दृढम् ।
मुखं संरुध्य संशोष्य स्थापयेत्सिकताह्वये ।। रम- ६.१८६ ।।

सार्धं दिनं क्रमेणाग्निं ज्वालयेत् तदधस्ततः ।
स्वांगशीतं समुद्धृत्य षडंशेनामृतं क्षिपेत् ।। रम- ६.१८७ ।।

मरिचान्यर्द्धभागेन समं वास्याथ मर्दयेत् ।
अयमग्निकुमाराख्यो रसो मात्रास्य रक्तिका ।। रम- ६.१८८ ।।

ताम्बूलीरससंयुक्तो हन्ति रोगानमून् अयम् ।
वातरोगान् क्षयं श्वासं कासं पाण्डुकफोल्बणम् ।। रम- ६.१८९ ।।

अग्निमांद्यं सन्निपातं पथ्यं शाल्यादिकं लघु ।
जलयोगप्रयोगोऽपि शस्तस्तापप्रशान्तये ।। रम- ६.१९० ।।

अग्निकुमाररसः[सम्पाद्यताम्]

टङ्कणं रसगन्धौ च समभागं त्रयो विषम् ।
कपर्दिसर्जिकाक्षारमागधीविश्वभेषजम् ।। रम- ६.१९१ ।।

पृथक्पृथक् कर्षमात्रं त्वष्टभागं मरीचकम् ।
जम्बीराम्लैर्दिनं पिष्टं भवेदग्निकुमारकः ।
विषूचिशूलवातादिवह्णिमांद्यप्रशान्तये ।। रम- ६.१९२ ।।

लीलाविलासरसः[सम्पाद्यताम्]

रसो रविर्व्योम बलिः सुलोहं धात्र्यक्षनीरैस्त्रिदिनं विमर्द्य ।
तदल्पघृष्टं मृदुमार्कवेण संमर्दयेद् अस्य च वल्लयुग्मम् ।। रम- ६.१९३ ।।

हन्त्यम्लपित्तं मधुनावलीढं लीलाविलासो रसराज एषः ।
दुग्धं सकूष्माण्डरसं सधात्रीफलं शनैस्तत्सहितं भजेद्वा ।। रम- ६.१९४ ।।

मन्थानभैरवरसः[सम्पाद्यताम्]

मृतं सूतं मृतं ताम्रं हिङ्गुपुष्करमूलकम् ।
सैन्धवं गन्धकं तालं टङ्कणं चूर्णयेत्समम् ।। रम- ६.१९५ ।।

पुनर्नवादेवदारुनिर्गुण्डीतण्डुलीयकैः ।
तिक्तकोशातकीद्रावैर्दिनैकं मर्दयेद् दृढम् ।। रम- ६.१९६ ।।

माषमात्रं लिहेत्क्षौद्रै रसो मन्थानभैरवः ।
कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ।। रम- ६.१९७ ।।

क्रव्यादरसः[सम्पाद्यताम्]

पलं रसस्य द्विपलं बलेः स्याच्छुल्वायसी चार्धपलप्रमाणे ।
संचूर्ण्य सर्वं द्रुतम् अग्नियोगाद् एरण्डपत्रेषु निवेशनीयम् ।। रम- ६.१९८ ।।

पिष्ट्वाथ तां पर्पटिकां निदध्याल्लोहस्य पात्रे वरपूतम् अस्मिन् ।
जम्बीरजं पक्वरसं पलानां शतं नियोज्याग्निमथाम्लमात्रम् ।। रम- ६.१९९ ।।

जीर्णे रसे भावितमेतदेतैः सपञ्चकोलोद्भववारिपूरैः ।
सवेतसाम्लैः शतमत्र योज्यं समं रजष् टंकणजं सुभृष्टम् ।। रम- ६.२०० ।।

विडं ददर्धं मरिचं समं च तत्सप्तधार्द्रं चणकाम्लवारि ।
क्रव्यादनामा भवति प्रसिद्धो रसः सुमन्थानकभैरवोक्तः ।
माषद्वयं सैन्धवतक्रपीतम् एतसुधन्यं खलु भोजनान्ते ।। रम- ६.२०१ ।।

गुरूणि मांसानि पयांसि पिष्टीघृतानि खाद्यानि फलानि वेगात् ।
मात्रातिरिक्तान्यपि सेवितानि यामद्वयाज्जारयति प्रसिद्धः ।। रम- ६.२०२ ।।

अग्नितुण्डीवटी[सम्पाद्यताम्]

शुद्धं सूतं विषं गन्धमजमोदाफलत्रयम् ।
सर्जिक्षारं यवक्षारं वह्णिसैन्धवजीरकम् ।। रम- ६.२०३ ।।

सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।
विषमुष्टिं सर्वतुल्यं जम्बीराम्लेन मर्दयेत् ।। रम- ६.२०४ ।।

मरिचाभां वटीं खादेद्वह्णिमांद्यप्रशान्तये ।। रम- ६.२०५ ।।

आनन्दोदयरसः[सम्पाद्यताम्]

पारदं गन्धकं लोहमभ्रकं विषमेव च ।
समांशं मरिचं चाष्टौ टङ्कणं च चतुर्गुणम् ।। रम- ६.२०६ ।।

भृङ्गराजरसैः सप्त भावनाश्चाम्लदाडिमैः ।
गुञ्जाद्वयं पर्णखण्डैर्हन्ति सायं तु भक्षितः ।। रम- ६.२०७ ।।

वातश्लेष्मोद्भवान्रोगान्मन्दाग्निग्रहणीज्वरान् ।
अरुचिं पाण्डुतां चैव जयेदचिरसेवनात् ।। रम- ६.२०८ ।।

चिन्तामणिरसः[सम्पाद्यताम्]

रसं गन्धं मृतं शुल्बं मृतमभ्रं फलत्रिकम् ।
त्र्यूषणं बीजजैपालं समं खल्वे विमर्दयेत् ।। रम- ६.२०९ ।।

द्रोणपुष्पीरसैर्भाव्यं शुष्कं तद्वस्त्रगालितम् ।
चिन्तामणिरसोऽप्येष अजीर्णानां प्रशस्यते ।। रम- ६.२१० ।।

ज्वरम् अष्टविधं हन्ति सर्वशूलेषु शस्यते ।
गुञ्जैको वा द्विगुंजो वा आमरोगहरः परः ।। रम- ६.२११ ।।

राजवल्लभरसः[सम्पाद्यताम्]

रसनिष्कैकगन्धैकं निष्कमात्रः प्रदीपनः ।। रम- ६.२१२ ।।

सार्धं पलं प्रदातव्यं चूलिकालवणं भिषक् ।
खल्वे संमर्दयेत्तत्तु शुष्कवस्त्रेण गालयेत् ।। रम- ६.२१३ ।।

माषमात्रं प्रदातव्यो मुक्तमांसादिजारकः ।
अजीर्णेषु त्रिदोषेषु देयोऽयं राजवल्लभः ।। रम- ६.२१४ ।।

त्रिनेत्राख्यरसः[सम्पाद्यताम्]

टङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम् ।
दिनैकमार्द्रकद्रावैर्मर्द्य रुद्ध्वा पुटे पचेत् ।। रम- ६.२१५ ।।

त्रिनेत्राख्यो रसो नाम्ना माषैकं मधुसर्पिषा ।
सैन्धवं जीरकं हिङ्गुमध्वाज्याभ्यां लिहेदनु ।
पक्तिशूलहरं ख्यातं याममात्रान्न संशयः ।। रम- ६.२१६ ।।

मेहवज्ररसः[सम्पाद्यताम्]

भस्म सूतं मृतं कान्तं शुल्बभस्म शिलाजतु ।
शुद्धताप्यं शिला व्योषं त्रिफलाङ्कोलबीजकम् ।। रम- ६.२१७ ।।

कपित्थरजनीचूर्णं भृङ्गराजेन भावयेत् ।
विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ।। रम- ६.२१८ ।।

निष्कमात्रं लिहेन्मेही मेहवज्रो महारसः ।
महानिम्बस्य बीजानि पिष्ट्वा कर्षमितानि च ।। रम- ६.२१९ ।।

पलं तण्डुलतोयेन घृतनिष्कद्वयेन च ।
एकीकृत्य पिबेत्तोयं हन्ति मेहं चिरोत्थितम् ।। रम- ६.२२० ।।

इन्द्रवटीरसः[सम्पाद्यताम्]

मृतं सूतं मृतं वंगमर्जुनस्य त्वचान्वितम् ।
तुल्यांशं मर्दयेत् खल्वे शाल्मल्या मूलजैर् द्रवैः ।। रम- ६.२२१ ।।

दिनान्ते वटिका कार्या माषमात्रा प्रमेहहा ।
एषा इन्द्रवटी नाम्ना मधुमेहप्रशान्तये ।। रम- ६.२२२ ।।

रसेन्द्रमङ्गलरसः[सम्पाद्यताम्]

तालसत्त्वं मृतं ताम्रं मृतं लोहं मृतं रसम् ।
हतमभ्रं हतं तारं गन्धं तुत्थं मनःशिला ।। रम- ६.२२३ ।।

सौवीराञ्जनकासीसं नीलीभल्लातकानि च ।
शिलाजत्वर्कमूलं तु कदलीकन्दचित्रकम् ।। रम- ६.२२४ ।।

त्वचम् अङ्कोलजां कृष्णां कृष्णधत्तूरमूलकम् ।
अवल्गुजानि बीजानि गौरीमाध्वीफलानि च ।। रम- ६.२२५ ।।

हेमाह्वां फेनजात्यां च फलिनीं विषतिन्दुकम् ।
तैलिन्यो लोहकिट्टं च पुराणममृतं च तत् ।। रम- ६.२२६ ।।

त्वचा च मीनकाक्षस्य पुनरुक्तं पलं पृथक् ।
तैलिन्यो वटकास्तासु सर्वमेकत्र चूर्णयेत् ।। रम- ६.२२७ ।।

खल्वे निधाय दातव्या पुनरेषां च भावना ।
ब्रह्मदण्डी शिखापुङ्खा देवदाली च नीलिका ।। रम- ६.२२८ ।।

वाणशोना नृपतरु निम्बसारो विभीतकः ।
करञ्जो भृङ्गराजश्च गायत्री तिन्तडीफलम् ।। रम- ६.२२९ ।।

मलयूमूलमेतेषां तिस्रस्तिस्रस्तु भावनाः ।
दातव्या कुप्पिकां कृत्वा सम्यक् संशोष्य चातपे ।। रम- ६.२३० ।।

भाण्डे तद्धारयेद्भाण्डं मुद्रितं चाथ कारयेत् ।
यामं मन्दाग्निना पच्यात् पुटमध्ये ह्यसौ रसः ।। रम- ६.२३१ ।।

पुण्डरीकं निहन्त्येव नात्र कार्या विचारणा ।
द्विमासाभ्यन्तरे पुंसामपथ्यं न तु भोजयेत् ।। रम- ६.२३२ ।।

रोगाः सर्वे विलीयन्ते कुष्ठानि सकलानि च ।
भानुभक्तिप्रवृत्तानां गुरुभक्तिकृतां सदा ।। रम- ६.२३३ ।।

रसेन्द्रमंगलो नाम्ना रसोऽयं प्रकटीकृतः ।
अनुग्रहाय भक्तानां शिवेन करुणात्मना ।। रम- ६.२३४ ।।

सर्वेश्वररसः[सम्पाद्यताम्]

मृतताम्राभ्रलोहानां हिङ्गुलं च पलं पलम् ।
जम्बीरोन्मत्तभार्गीभिः स्नुह्यर्कविषमुष्टिभिः ।। रम- ६.२३५ ।।

मर्द्यं हयारिजैर् द्रावैः प्रत्येकं च दिनं दिनम् ।
एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् ।। रम- ६.२३६ ।।

वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्णिना ।
आदाय चूर्णयेत् सर्वं पलैकं योजयेद्विषम् ।। रम- ६.२३७ ।।

द्विपलं पिप्पलीचूर्णमिश्रं सर्वेश्वरं रसम् ।
द्विगुञ्जं लेहयेत् क्षौद्रैर् मुनिमण्डलकुष्ठनुत् ।। रम- ६.२३८ ।।

वाकुची चैव दारू च कर्षमात्रं विचूर्णितम् ।
लिहेद् एरण्डतैलेन ह्यनुपानं सुखावहम् ।। रम- ६.२३९ ।।

रक्ताधिक्ये सिरामोक्षः पादे बाहौ ललाटके ।
कर्तव्यो दृष्टिरोगेषु कुष्ठिनां च विशेषतः ।। रम- ६.२४० ।।

बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः ।
एतत्प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ।। रम- ६.२४१ ।।

व्यभ्रे वर्षासु विद्यात्तु ग्रीष्मकाले तु शीतले ।
हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ।। रम- ६.२४२ ।।

तलेश्वररसः (१)[सम्पाद्यताम्]

कर्षा द्वादश तालस्य कूष्माण्डरससंभृते ।
स्वेदयेद् दोलिकायन्त्रे यावत्तोयं न विद्यते ।। रम- ६.२४३ ।।

पश्चात्तं शोषयेत्खल्वे सूतं कर्षद्वयं क्षिपेत् ।
घर्षयेद् बहुधा तत्तु यावत्कज्जलिका भवेत् ।। रम- ६.२४४ ।।

स्नुहीक्षीरं रविक्षीरं छागी गोक्षुरवाकुची ।
पातालगरुडाङ्कोलचक्रमर्दकहिज्जलाः ।। रम- ६.२४५ ।।

कुमार्युन्मत्तभल्लातत्रिफलाम्बुपुनर्नवाः ।
निम्बत्वग् एभिर् भैषज्यैः पुटनाच्च त्रयं त्रयम् ।। रम- ६.२४६ ।।

षट्कर्षं कलिकाचूर्णं हण्डिकायां तु धारयेत् ।
चतुर्थांशमधः स्थाप्यं मध्ये स्थाप्यं तु तालकम् ।। रम- ६.२४७ ।।

पश्चादुपरिचूर्णं तु सर्वं स्थाप्यं प्रयत्नतः ।
हण्डिकां कण्ठपर्यन्तां कुमारीरसयोगतः ।। रम- ६.२४८ ।।

पूरयेच्च ततो मुद्रां दृढां कुर्यात्प्रयत्नतः ।
तस्योपरि शिलां दत्त्वा दृढा न च चलेद्यथा ।। रम- ६.२४९ ।।

दीपाग्ना चतुर्यामं विंशद्यामं हठाग्निना ।
स्वाङ्गशीतलमुद्धृत्य कुष्ठे तालेश्वरो रसः ।। रम- ६.२५० ।।

कुष्ठनाशः परः ख्यातो भैरवानन्दयोगिना ।
पथ्यं मुद्गाम्बुशाल्यन्नं भिषगत्र प्रयोजयेत् ।। रम- ६.२५१ ।।

तालेश्वररसः (२)[सम्पाद्यताम्]

सूतो द्वौ वल्गुजा त्रीणि कणा विश्वा त्रिकं त्रिकम् ।। रम- ६.२५२ ।।

सार्धैकं ब्रह्मपुत्रस्य मरिचस्य चतुष्टयम् ।
एकैकं निम्बधत्तूरबीजतो गन्धकत्रयम् ।। रम- ६.२५३ ।।

जातीटङ्कणतालाया भागा दश दश स्मृताः ।
युक्त्या सर्वं विमर्द्याथामृतास्वरसभाविताः ।। रम- ६.२५४ ।।

सप्तधा शोषयित्वाथ धत्तूरस्यैव दापयेत् ।
संमर्द्य गोलकं सार्द्रं धत्तूरैर् वेष्टयेद्दलैः ।। रम- ६.२५५ ।।

गोमये वेष्टयेत्तच्च कुक्कुटाख्यपुटे पचेत् ।
रसः कुष्ठहरः सेव्यः सर्वदा भोजनप्रियैः ।। रम- ६.२५६ ।।

स्वर्णक्षीरीरसः[सम्पाद्यताम्]

हेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत् ।
तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् ।। रम- ६.२५७ ।।

क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत् ।
चूर्णितं तत्पञ्चपलं मरिचानां पलद्वयम् ।। रम- ६.२५८ ।।

पलैकं मूर्छितं सूतम् एकीकृत्वा च भक्षयेत् ।
निष्कैकं सुप्तिकुष्ठार्तः स्वर्णक्षीरीरसो ह्ययम् ।। रम- ६.२५९ ।।

शूलगजकेसरीरसः[सम्पाद्यताम्]

शुद्धसूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम् ।
ताम्रभस्म द्वयोस्तुल्यं सम्पुटे तं निरोधयेत् ।। रम- ६.२६० ।।

ऊर्ध्वाधोलवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक् ।
ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।। रम- ६.२६१ ।।

सम्पुटं चूर्णयेत् सूक्ष्मं पर्णखण्डे द्विगुञ्जके ।
भक्षयेच्छूलपीडार्थे हिङ्गुशुण्ठीसजीरकम् ।। रम- ६.२६२ ।।

वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत् ।
असाध्यं साधयेच्छूलं रसः स्याच्छूलकेसरी ।। रम- ६.२६३ ।।

व्यायामं मैथुनं मद्यं लवणं कटुकानि च ।
वेगरोधं शुक्ररोधं वर्जयेच्छूलवान्नरः ।। रम- ६.२६४ ।।

ब्रह्मरसः[सम्पाद्यताम्]

भागैकं मूर्छितं सूतं गन्धावल्गुजचित्रकान् ।
चूर्णं तु ब्रह्मबीजानां प्रतिद्वादशभागिकम् ।। रम- ६.२६५ ।।

भागांस्त्रिंशद्गुडस्यापि क्षौद्रेण गुटिका कृता ।
अयं ब्रह्मरसो नाम्ना ब्रह्महत्याविनाशनः ।। रम- ६.२६६ ।।

द्विनिष्कभक्षणाद्धन्ति प्रसुप्तिं कुष्ठमण्डलम् ।
पातालगरुडीमूलं जले पिष्ट्वा पिबेदनु ।। रम- ६.२६७ ।।

इन्दुधररसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं तुत्थं च मृतताम्रकम् ।
मर्दितं वाकुचीक्वाथैर्दिनैकं वटकीकृतम् ।। रम- ६.२६८ ।।

निष्कमात्रं सदा खादेच्छ्वेतघ्नेन्दुधरो रसः ।
वाकुचीतैलकर्षैकं सक्षौद्रमनुपाययेत् ।। रम- ६.२६९ ।।

पारिभद्ररसः[सम्पाद्यताम्]

मूर्छितं सूतकं धात्रीफलं निम्बस्य चाहरेत् ।
तुल्यांशं खादिरक्वाथैर्दिनं मर्द्यं च भक्षयेत् ।
निष्कैकं दद्रुकुष्ठघ्नः पारिभद्राह्वयो रसः ।। रम- ६.२७० ।।

श्वेतारिरसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं त्रिफलाभ्रं च वाकुची ।
भल्लातं च शिला कृष्णा निम्बबीजं समं समम् ।। रम- ६.२७१ ।।

मर्दयेद्भृङ्गजद्रावैः पेष्यं शोष्यं पुनः पुनः ।
इत्थं कुर्यात् त्रिसप्ताहं रसं श्वेतारिको भवेत् ।। रम- ६.२७२ ।।

मध्वाज्यैः खादयेन्निष्कं श्वेतकुष्ठं विनाशयेत् ।। रम- ६.२७३ ।।

कालाग्निरुद्ररसः[सम्पाद्यताम्]

सूताभ्रं ताम्रतीक्ष्णानां भस्म माक्षिकगन्धकम् ।
वन्ध्याकर्कोटकीद्रावै रसो मर्द्यो दिनावधि ।। रम- ६.२७४ ।।

वन्ध्याकर्कोटकीकन्दे क्षिप्त्वा लिप्त्वा मृदा बहिः ।
भूधराख्ये पुटे पाच्यं दिनैकं तु विचूर्णयेत् ।। रम- ६.२७५ ।।

दशमांशं विषं योज्यं माषमात्रं च भक्षयेत् ।
रसः कालाग्निरुद्रोऽयं दशाहेन विसर्पनुत् ।। रम- ६.२७६ ।।

पिप्पलीमधुसंयुक्तं ह्यनुपानं प्रकल्पयेत् ।

मकरध्वजरसः[सम्पाद्यताम्]

स्वर्णादष्टगुणं सूतं मर्दयेद् द्वित्वगन्धकम् ।। रम- ६.२७७ ।।

रक्तकार्पासकुसुमैः कुमार्यास्त्रिदिनं ततः ।
शुष्कं काचघटे रुद्ध्वा वालुकायन्त्रगं हठात् ।। रम- ६.२७८ ।।

भस्म कुर्याद्रसेन्द्रस्य नवार्ककिरणोपमम् ।
भागोऽस्य भागाश्चत्वारः कर्पूरस्य सुशोभनाः ।। रम- ६.२७९ ।।

लवङ्गं मरिचं जातीफलं कर्पूरमात्रया ।
मेलयेन्मृगनाभिं च गद्याणकमितां ततः ।। रम- ६.२८० ।।

श्लक्ष्णपिष्टो रसः श्रीमाञ्जायते मकरध्वजः ।
वल्लं वल्लद्वयं वास्य ताम्बूलदलसंयुतम् ।। रम- ६.२८१ ।।

भक्षयेन्मधुरं स्निग्धं लघुमांसमवातुलम् ।
शृतं शीतं सितायुक्तं दुग्धं गोधूमम् आज्यकम् ।। रम- ६.२८२ ।।

माषाश्च पिष्टमपरं मद्यानि विविधानि च ।
करोत्यग्निबलं पुंसां वलीपलितनाशनः ।। रम- ६.२८३ ।।

मेधायुःकान्तिजनकः कामोद्दीपनकृन्महान् ।
अभ्यासात् साधकः स्त्रीणां शतं जयति नित्यशः ।। रम- ६.२८४ ।।

रतिकाले रतान्ते वा पुनः सेव्यो रसोत्तमः ।
मदहानिं करोत्येष प्रमदानां सुनिश्चितम् ।। रम- ६.२८५ ।।

कृत्रिमं स्थावरविषं जंगमं विषवारिजम् ।
न विकाराय भवति साधकानां च वत्सरात् ।। रम- ६.२८६ ।।

मृत्युञ्जयो यथाभ्यासान्मृत्युं जयति देहिनाम् ।
तथायं साधकेन्द्रस्य जरामरणनाशनः ।। रम- ६.२८७ ।।

मदनकामदेवरसः[सम्पाद्यताम्]

तारं वज्रं सुवर्णं च ताम्रं च सूतगन्धकम् ।
लोहं च क्रमवृद्धानि कुर्यादेतानि मात्रया ।। रम- ६.२८८ ।।

विमर्द्य कन्यकाद्रावैर्न्यसेत्काचमये घटे ।
मुद्रितं पिठरीमध्ये धारयेत्सैन्धवैर्भृते ।। रम- ६.२८९ ।।

पिठरीं मुद्रयेत्सम्यक् ततश् चुल्ल्यां निवेशयेत् ।
वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् ।। रम- ६.२९० ।।

स्वाङ्गशीतं च संचूर्ण्य भावयेदर्कदुग्धकैः ।
अश्वगन्धा च कङ्कोली वानरी मुशलीक्षुरः ।। रम- ६.२९१ ।।

त्रिवारं स्वरसं भाव्यं शतावर्या विभावयेत् ।
पद्मकन्दकसेरूणां रसैर् भाव्यं तु एकधा ।। रम- ६.२९२ ।।

कस्तूरीव्योषकपूरैः कङ्कोलैलालवंगकम् ।
पूर्वचूर्णादष्टमांशमितचूर्णं विमिश्रयेत् ।। रम- ६.२९३ ।।

सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं ददेत् ।
गोदुग्धद्विपलेनैव मधुराहारसेविनः ।। रम- ६.२९४ ।।

अस्य प्रभावात् सौन्दर्य्यं बलं तेजो विवर्धते ।
तरुणी रमते बह्वीर्वीर्यहानिर्न जायते ।। रम- ६.२९५ ।।

पूर्णेन्दुरसः[सम्पाद्यताम्]

शाल्मल्युत्थैर् द्रवैर् मर्द्य पक्षैकं शुद्धसूतकम् ।
यामद्वयं पचेदाज्ये वस्त्रे बद्ध्वाथ मर्दयेत् ।। रम- ६.२९६ ।।

दिनैकं शाल्मलिद्रावैर् मर्दयित्वा वटीं कृताम् ।
वेष्टयेन्नागवल्ल्या च निःक्षिपेत् काचभाजने ।। रम- ६.२९७ ।।

भाजनं शाल्मलीद्रावैः पूर्णं यामद्वयं पचेत् ।
वालुकायंत्रमध्ये तु द्रवे जीर्णे समुद्धरेत् ।। रम- ६.२९८ ।।

द्विगुञ्जं भक्षयेत्प्रातर्नागवल्लीदलान्तरे ।
मुशलीं ससितां क्षीरैः पलैकं पाययेदनु ।। रम- ६.२९९ ।।

रसः पूर्णेन्दुनामायं सम्यग् वीर्यकरो भवेत् ।
कामिनीनां सहस्रैकं नरः कामयते ध्रुवम् ।। रम- ६.३०० ।।

कामिनीमदभञ्जनरसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं त्र्यहं कह्लारजद्रवैः ।
मर्दितं वालुकायन्त्रे यामैः कूपीगतं पचेत् ।। रम- ६.३०१ ।।

रक्ताङ्गस्य द्रवैर्भाव्यं दिनैकं तु सितायुतम् ।
यथेष्टं भक्षयेच्चानु कामयेत्कामिनीशतम् ।। रम- ६.३०२ ।।

मदनोदयरस[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं पूर्वाद् अर्धं विनिष्क्षिपेत् ।। रम- ६.३०३ ।।

दिनैकं मर्दयेत्तत्तु पुनर्गन्धं च मर्दयेत् ।
पूर्वद्रावैर्दिनैकं तु काचकुप्यां निरुध्य च ।। रम- ६.३०४ ।।

दिनैकं वालुकायन्त्रे पक्वम् उद्धृत्य भक्षयेत् ।
पञ्चगुञ्जा सिता सार्द्धं रसोऽयं मदनोदयः ।। रम- ६.३०५ ।।

समूलं वानरीबीजं मुशली शर्करासमम् ।
गवां क्षीरेण तत्पेयं पलार्द्धमनुपानकम् ।। रम- ६.३०६ ।।

अनङ्गसुन्दररसः[सम्पाद्यताम्]

पलद्वयं द्वयं शुद्धं पारदं गन्धकं तथा ।
मृतहेम्नस्तु कर्षैकं पलैकं मृतताम्रकम् ।। रम- ६.३०७ ।।

मृततारं चतुर्निष्कं मर्द्यं पञ्चामृतैर्दिनम् ।
रुद्ध्वा तु वै पुटे पश्चाद्दिनैकं तु समुद्धरेत् ।। रम- ६.३०८ ।।

पिष्ट्वा पञ्चामृतैः कुर्याद्वटिकां बदराकृतिम् ।
अनङ्गसुन्दरो नाम परं पुष्टिप्रदायकः ।। रम- ६.३०९ ।।

कामेश्वररसः[सम्पाद्यताम्]

सम्यङ्मारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं क्षूरकम् ।
रम्भाकन्दशतावरी ह्यजमुदा माषास्तिला धान्यकं यष्टी नागबला कचूरमदनं जातीफलं सैन्धवम् ।। रम- ६.३१० ।।

भार्ङ्गी कर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवा गजकणा द्राक्षा शटी वासकम् ।
शाल्मल्यन्ध्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्ययोः पिण्डितम् ।। रम- ६.३११ ।।

कर्षार्द्धा गुटिकावलेहम् अथवा सेव्यं सदा सर्वथा पेयं क्षीरसिता तु वीर्यकरणं स्तम्भोऽप्ययं कामिनी ।
रामावश्यकरं सुखातिसुखदं प्रौढाङ्गनाद्रावकम् क्षीणे पुष्टिकरं क्षये क्षयहरं सर्वामयध्वंसनम् ।। रम- ६.३१२ ।।

कासश्वासमहातिसारशमनं मन्दाग्निसंदीपनं धातोर्वृद्धिकरं रसायनवरं नास्त्यन्यदस्मात्परम् ।
अर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिरक्तप्रणुन् नित्यानन्दकरं विशेषविदुषां वाचां विलासोद्भवम् ।। रम- ६.३१३ ।।

अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीवैद्यनाथेन यः ।
वृद्धानां मदनोदयोदयकरः प्रौढाङ्गनासङ्गमे सिंहोऽयं समदृष्टिः प्रत्ययकरो भूपैः सदा सेव्यताम् ।। रम- ६.३१४ ।।

अजीर्णकण्टकरसः[सम्पाद्यताम्]

शुद्धं सूतं विषं गन्धं समचूर्णं विचूर्णयेत् ।
मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्रवैः ।। रम- ६.३१५ ।।

मर्दयेद्भावयेत्सर्वानेकविंशतिवारकान् ।
वटीं गुञ्जात्रयां खादेत्सर्वाजीर्णप्रशान्तये ।। रम- ६.३१६ ।।

उदयभास्कररसः[सम्पाद्यताम्]

गन्धकेन मृतं ताम्रं दशभागं समुद्धरेत् ।
ऊषणं पञ्चभागं स्यादमृतं च द्विभागकम् ।। रम- ६.३१७ ।।

श्लक्ष्णचूर्णीकृतं सर्वं रक्तिकैकप्रमाणतः ।
दातव्यं कुष्ठिने सम्यगनुपानस्य योगतः ।। रम- ६.३१८ ।।

गलिते स्फुटिते चैव विषूच्यां मण्डले तथा ।
विचर्चिकादद्रुपामाकुष्ठाष्टकप्रशान्तये ।। रम- ६.३१९ ।।

रौद्ररसः[सम्पाद्यताम्]

शुद्धं सूतं समं गन्धं मर्द्यं यामचतुष्टयम् ।
नागवल्लीरसैर्युक्तं मेघनादपुनर्नवैः ।। रम- ६.३२० ।।

गोमूत्रे पिप्पलीयुक्ते मर्द्यं रुद्ध्वा पुटेल्लघु ।
लिहेत्क्षौद्रे रसो रौद्रो गुञ्जामात्रोऽर्बुदं जयेत् ।। रम- ६.३२१ ।।

नित्योदितरसः[सम्पाद्यताम्]

मृतसूतार्कलोहाभ्रविषगन्धं समं समम् ।
सर्वतुल्यांशभल्लातफलमेकत्र चूर्णयेत् ।। रम- ६.३२२ ।।

द्रवैः सूरणकन्दोत्थैः खल्वे मर्द्यं दिनत्रयम् ।
माषमात्रं लिहेदाज्ये रसश्चार्शांसि नाशयेत् ।। रम- ६.३२३ ।।

रसो नित्योदितो नाम्ना गुदोद्भवकुलान्तकः ।
हस्ते पादे मुखे नाभ्यां गुदवृषणयोस्तथा ।। रम- ६.३२४ ।।

शोथो हृत्पार्श्वशूलं च यस्यासाध्यार्शसां हितः ।
असाध्यस्यापि कर्तव्या चिकित्सा शङ्करोदिता ।। रम- ६.३२५ ।।

अर्शकुठाररसः[सम्पाद्यताम्]

शुद्धसूतं पलैकं तु द्विपलं शुद्धगन्धकम् ।
मृतं ताम्रं मृतं लोहं प्रत्येकं तु पलत्रयम् ।। रम- ६.३२६ ।।

त्र्यूषणं लाङ्गली दन्ती पीलुकं चित्रकं तथा ।
प्रत्येकं द्विपलं योज्यं यवक्षारं च टङ्कणम् ।। रम- ६.३२७ ।।

उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् ।
द्वाविंशत्पलगोमूत्रं स्नुहीक्षीरं च तत्समम् ।। रम- ६.३२८ ।।

मृद्वग्निना पचेत्सर्वं स्थाल्यां यावत्सुपिण्डितम् ।
माषद्वयं सदा खादेद्रसोऽप्यर्शःकुठारकः ।। रम- ६.३२९ ।।

विद्याधररसः[सम्पाद्यताम्]

गन्धकं तालकं ताप्यं मृतं ताम्रं मनःशिला ।
शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद्दिनम् ।। रम- ६.३३० ।।

पिप्पल्याश्च कषायेण वज्रीक्षीरेण भावयेत् ।
वल्लं च भक्षयेत् क्षौद्रैः प्लीहगुल्मादिकं जयेत् ।। रम- ६.३३१ ।।

रसो विद्याधरो नाम गोदुग्धं च पिबेदनु ।

वङ्गेश्वररसः[सम्पाद्यताम्]

भस्मसूतं भस्मवङ्गं भागैकैकं प्रकल्पयेत् ।। रम- ६.३३२ ।।

गन्धकं मृतताम्रं च प्रत्येकं च चतुर्गुणम् ।
अर्कक्षीरैर्दिनं मर्द्यं सर्वं तद्गोलकीकृतम् ।। रम- ६.३३३ ।।

रुद्ध्वा तद्भूधरे पाच्यं पुटैकेन समुद्धरेत् ।
एवं वङ्गेश्वरो नाम्ना प्लीहगुल्मोदरं जयेत् ।। रम- ६.३३४ ।।

घृतैर् गुञ्जाद्वयं लिह्यान्निष्कं श्वेतपुनर्नवाम् ।
गवां मूत्रैः पिबेच्चानु रजनी वा गवां जलैः ।। रम- ६.३३५ ।।

उदरारिरसः[सम्पाद्यताम्]

पारदं शिखितुत्थं च जैपालं पिप्पलीसमम् ।
आरग्वधफलान्मज्जा वज्रीदुग्धेन मर्दयेत् ।। रम- ६.३३६ ।।

माषमात्रां वटीं खादेद्धरेत्स्त्रीणां जलोदरम् ।
चिञ्चाफलरसं चानु पथ्यं दध्योदनं हितम् ।
जलोदरहरं चैव तीव्रेण रेचनेन तु ।। रम- ६.३३७ ।।

जलोदरारिरसः[सम्पाद्यताम्]

पिप्पलीमरिचं ताम्रं काञ्चनीचूर्णसंयुतम् ।। रम- ६.३३८ ।।

स्नुहीक्षीरैर्दिनं मर्द्यं तुत्थं जैपालबीजकम् ।
निष्कं खादेद् विरेकं स्यात् सद्यो हन्ति जलोदरम् ।। रम- ६.३३९ ।।

रेचनानां च सर्वेषां दध्यन्नं स्तम्भनं हितम् ।
दिनान्ते च प्रदातव्यमन्नं वा मुद्गयूषकम् ।। रम- ६.३४० ।।

नाराचरसः[सम्पाद्यताम्]

सूतटङ्कणतुल्यांशं मरिचं सूततुल्यकम् ।
गन्धकं पिप्पली शुण्ठी द्वौ द्वौ भागौ विचूर्णयेत् ।। रम- ६.३४१ ।।

सर्वतुल्यं क्षिपेद्दन्तीबीजानि निस्तुषाणि च ।
द्विगुञ्जं रेचने सिद्धं नाराचोऽयं महारसः ।
गुल्मप्लीहोदरं हन्ति पिबेत्तमुष्णवारिणा ।। रम- ६.३४२ ।।

इच्छाभेदीरसः[सम्पाद्यताम्]

शुण्ठीमरिचसंयुक्तं रसगन्धकटङ्कणम् ।
जैपालस्त्रिगुणः प्रोक्तः सर्वमेकत्र चूर्णयेत् ।। रम- ६.३४३ ।।

इच्छाभेदी द्विगुञ्जः स्यात्सितया सह दापयेत् ।
पिबेच्च चुल्लिकान् यावत् तावद्वारान्विरेचयेत् ।। रम- ६.३४४ ।।

तक्रौदनं प्रदातव्यमिच्छाभेदी यथेच्छया ।
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः ।। रम- ६.३४५ ।।


रसमञ्जरी , ७[सम्पाद्यताम्]

प्रणम्य निर्भयं नाथं खेन्द्रदेवं जगत्पतिम् ।
दिगम्बरं त्रिनेत्रं च जरामृत्युविनाशनम् ।। रम- ७.१ ।।

अमृतं च विषं चैव शिवेनोक्तं रसायनम् ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ।। रम- ७.२ ।।

रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ।
मृताभ्रं भक्षयेदादौ मासमेकं विचक्षणः ।। रम- ७.३ ।।

पश्चात्तु योजयेद् देहे क्षेत्रीकरणमिच्छतः ।
यत्क्षेत्रीकरणे सूतस्त्वमृतोऽपि विषं भवेत् ।। रम- ७.४ ।।

फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ।
न क्षेत्रकरणाद्देवि किंचित् कुर्याद्रसायनम् ।
कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ।। रम- ७.५ ।।

भस्मसूतं द्विधा गन्धं क्षणं कन्याविमर्दितम् ।
रुद्ध्वा लघुपुटे पच्याद् उद्धृत्य मधुसर्पिषा ।। रम- ७.६ ।।

निष्कं खादेज्जरामृत्युं हन्ति गन्धामृतो रसः ।
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।। रम- ७.७ ।।

तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।
पलैकं भक्षयेच्चानु तच्च मृत्युरुजापहम् ।। रम- ७.८ ।।

हेमसुन्दररसः[सम्पाद्यताम्]

मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ।। रम- ७.९ ।।

क्षीराज्यं मधुना युक्तं माषैकं कांस्यपात्रके ।
लेहयेन्मासषट्कं तु जरामृत्युविनाशनम् ।। रम- ७.१० ।।

वाकुचीचूर्णकर्षैकं धात्रीरसपरिप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ।। रम- ७.११ ।।

मृतसंजीवनी गुटीका[सम्पाद्यताम्]

शुद्धसूतं वज्रभस्म सत्त्वमभ्रकताप्ययोः ।
कान्तलोहसमं हेम जम्बीरे मर्दयेद् दृढम् ।। रम- ७.१२ ।।

सप्ताहं सर्वतुल्यांशं गोलं कृत्वा समुद्धरेत् ।
गोजिह्वावायसीवन्ध्यानिर्गुण्डीमधुसैन्धवैः ।। रम- ७.१३ ।।

लेपयेद्वज्रमूषान्ते गोलकं तत्र निक्षिपेत् ।
तत्कल्कैश्छादितं कृत्वा पक्षैकं भूधरे पचेत् ।। रम- ७.१४ ।।

यामं यामं समुद्धृत्य लिप्त्वामूषां पुनः पुनः ।
रुद्ध्वाथ पूर्ववत्पाच्यमेनं पक्षात्समुद्धरेत् ।। रम- ७.१५ ।।

यवचिञ्चापलाशाख्यराजीकार्पासतण्डुलैः ।
एतैः प्रलेपयेन्मूषां गुटिकां तत्र निक्षिपेत् ।। रम- ७.१६ ।।

टङ्कणं श्वेतकाचं च दत्त्वा यामे दृढं दृढम् ।
खदिराङ्गारयोगेन द्रुतो ऽयं जायते रसः ।। रम- ७.१७ ।।

मूषायां बिडयोगेन समं हेम च जारयेत् ।
ततस्त्रियामकैर्मर्द्यं सगोमूत्रं दिनैकतः ।। रम- ७.१८ ।।

अन्धमूषागतो ध्मातो बद्धो भवति वज्रवत् ।
मृतसंजीवनी नाम गुटिका वक्रमध्यगा ।। रम- ७.१९ ।।

कर्षमात्रा जरां मृत्युं हन्ति सत्यं शिवोदितम् ।
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्भवते नरः ।। रम- ७.२० ।।

वीर्यरोधिनीगुटिका[सम्पाद्यताम्]

नागवल्लीदलद्रावैः सप्ताहं शुद्धसूतकम् ।
मर्दयेत् क्षालयेद् अम्लैश्चतुर्निष्कप्रमाणकम् ।। रम- ७.२१ ।।

विषकन्दगतं कृत्वा विषेणैव निरोधयेत् ।
ततः शूकरमांसस्य गर्भे कृत्वाथ सिञ्चयेत् ।। रम- ७.२२ ।।

संध्याकाले बलिं दत्त्वा कुक्कुटीवारुणीयुतम् ।
ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसंयुते ।। रम- ७.२३ ।।

क्षिप्त्वा त्रिंशत्पले पाच्यं तद्रसं मांसपिण्डकम् ।
संध्याम् आरभ्य मन्दाग्नौ यावत्सूर्योदयं पचेत् ।। रम- ७.२४ ।।

हठाज्जागरणं कुर्यादन्यथा तन्नसिद्धिभाक् ।
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।। रम- ७.२५ ।।

तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययकारकम् ।
रतिकाले मुखे धार्या गुटिका वीर्यरोधिनी ।। रम- ७.२६ ।।

क्षीरं पीत्वा रमेद्रामां कामाकुलकुलान्विताम् ।
स्वमुखाद्धारयेद्धस्ते तदा वीर्यं विमुञ्चति ।। रम- ७.२७ ।।


रसमञ्जरी , ८[सम्पाद्यताम्]

अथ सम्पक्वदोषस्य प्रोक्तमञ्जनमाचरेत् ।
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ।। रम- ८.१ ।।

पूर्वाह्ने चापराह्णे च ग्रीष्मे शरदि चेष्यते ।
वर्षासु कुर्यादत्युष्णे वा वसन्ते सदैव हि ।। रम- ८.२ ।।

श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे ।
अजीर्णे वेगघाते च अञ्जनं न प्रशस्यते ।। रम- ८.३ ।।

हरेणुमात्रां कुर्वीत वर्तिं तीक्ष्णाञ्जने भिषक् ।
प्रमाणं मध्यमं सार्धं द्विगुणं च मृदौ भवेत् ।। रम- ८.४ ।।

सूतकं गन्धकः पेतं चाङ्गेरीरससंमूर्छितम् ।
अञ्जनं दृष्टिदं नृणां नेत्रामयविनाशनम् ।। रम- ८.५ ।।

रसेन्द्रभुजगौ तुल्यौ ताभ्यां द्विगुणमञ्जनम् ।
सूततुर्यांशं कर्पूरमञ्जनं नयनामृतम् ।। रम- ८.६ ।।

कृष्णसर्पवसा शंखः कतकं कट्फलमञ्जनम् ।
रस एव मरीचेन अन्धानां दर्शनं परम् ।। रम- ८.७ ।।

शंखस्य भागाश्चत्वारस् तदर्धेन मनःशिला ।
मनःशिलार्धं मरिचं मरिचार्द्धेन पिप्पली ।। रम- ८.८ ।।

वारिणा तिमिरं हन्ति अर्बुदं हन्ति मस्तुना ।
चिपिटं मधुना हन्ति स्त्रीक्षीरेण च पुष्पकम् ।। रम- ८.९ ।।

अपामार्गशिखां घृष्ट्वा मधुना सैन्धवेन च ।
ताम्रपात्रे कृता नेत्रे हन्ति पीडां सुविस्तरात् ।। रम- ८.१० ।।

दन्तैर्दन्तिवराहोष्ट्रगोहयाजखरोद्भवैः ।
शङ्खमुक्ताम्भोधिफेनयुतैः सर्वैर् विचूर्णयेत् ।
हन्ति वर्तिः कृता श्लक्ष्णं शुक्राणां नाशिनी परम् ।। रम- ८.११ ।।

तुत्थमाक्षिकसिन्धूत्थशिवाशंखमनःशिला ।
गैरिकोदकफेनं च मरिचं चेति चूर्णयेत् ।। रम- ८.१२ ।।

संयोज्य मधुना कुर्यादन्धानां सा रसक्रिया ।
वर्त्मरोगं च तिमिरं काचशुक्रहरं परम् ।। रम- ८.१३ ।।

शङ्खनाभिविभीतस्य मज्जा पथ्या मनःशिला ।
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ।। रम- ८.१४ ।।

छागीक्षीरेण संपिष्ट्वा वर्तिं कृत्वा यथोन्मिताम् ।
हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ।। रम- ८.१५ ।।

तिमिरं मांसवृद्धिं च काचं पटलम् अर्बुदम् ।
राज्यन्धं वार्षिकं पुष्पं वर्तिचन्द्रोदया जयेत् ।। रम- ८.१६ ।।

शुद्धे नागे द्रुते तुल्यं शुद्धसूतं विनिक्षिपेत् ।
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ।। रम- ८.१७ ।।

दशमांशेन कर्पूरमस्मिंश्चूर्णे प्रदापयेत् ।
एतत् प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् ।। रम- ८.१८ ।।

भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर् यदि दीयते ।
जाता रोगाः प्रणश्यन्ति न भवन्ति कदाचन ।। रम- ८.१९ ।।

त्रिफलायाः कषायेण प्रातर्नयनधावनात् ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ।। रम- ८.२० ।।

त्रिफला लौहचूर्णं तु वारिणा पेषयेत् समम् ।
द्वयोस्तुल्येन तैलेन पचेन्मृद्वग्निना क्षणम् ।। रम- ८.२१ ।।

तैलतुल्ये भृङ्गरसे तत्तैलं तु विपाचयेत् ।
स्निग्धभाण्डगतं भूमौ स्थित्वा मासात्समुद्धरेत् ।। रम- ८.२२ ।।

सप्ताहं लेपयेद्वेष्ट्य कदल्याश्च दलैः शिरः ।
निर्वाते क्षीरभोजी स्यात् छालयेत् त्रिफलाजलैः ।। रम- ८.२३ ।।

नित्यमेव प्रकर्तव्यं सप्ताहं रञ्जनं भवेत् ।
यावज्जीवं न सन्देहः कचाः स्युर्भ्रमरोपमाः ।। रम- ८.२४ ।।

काकमाची यवा जाती समं कृष्णतिलं ततः ।
तत्तैलं ग्राहयेद्यन्त्रे तेन स्यात् केशरञ्जनम् ।। रम- ८.२५ ।।

लोहमलामलकल्कः सजपा कुसुमैर्नरः सदा स्नायी ।
पलितानीह निहन्याद् गङ्गास्नायीव नरकौघम् ।। रम- ८.२६ ।।

काश्मर्या मूलमादौ सहचरकुसुमं केतकीनां च मूलं लौहं चूर्णं सभृङ्गं त्रिफलजलयुतं तैलमेभिर् विपक्वम् ।
कृत्वा वै लोहभाण्डे क्षितितलनिहितं मासम् एकं निधाय केशाः काशप्रकाशा भ्रमरकुलनिभा लेपनाद् एव कृष्णाः ।। रम- ८.२७ ।।

वज्रीक्षीरेण सप्ताहं सुश्वेतान् भावयेत्तिलान् ।
तैलेन लिप्ताः केशाः स्युः शुक्ला वै नात्र संशयः ।। रम- ८.२८ ।।


रसमञ्जरी , ९[सम्पाद्यताम्]

कर्पूरं टङ्कणं सूतं तुल्यं मुनिरसं मधु ।
मर्दयित्वा लिपेल्लिङ्गं स्थित्वा यामं तथैव च ।। रम- ९.१ ।।

ततः प्रक्षालयेल्लिङ्गं रमेद्रामां यथोचिताम् ।
वीर्यस्तम्भकरं पुंसां सम्यङ् नागार्जुनोदितम् ।। रम- ९.२ ।।

कृकलासस्य पुच्छाग्रं मुद्रिका प्रोततन्तुभिः ।
वेष्ट्या कनिष्ठिका धार्या नरो वीर्यं न मुञ्चति ।। रम- ९.३ ।।

मधुना पद्मबीजानि पिष्ट्वा नाभिं प्रलेपयेत् ।
यावत्तिष्ठत्यसौ लेपस्तावद्वीर्यं न मुञ्चति ।। रम- ९.४ ।।

चटकाण्डं तु संग्राह्य नवनीतेन पेषयेत् ।
तेन प्रलेपयेत् पादौ शुक्रस्तम्भः प्रजायते ।
यावन्न स्पृशते भूमिं तावद्वीर्यं न मुञ्चति ।। रम- ९.५ ।।

वनक्रोडस्य दंष्ट्राग्रं दक्षिणं च समाहरेत् ।
कट्यामुपरि यद् बद्ध्वा शुक्रस्तम्भः प्रजायते ।। रम- ९.६ ।।

डुण्डुभो नामतः सर्पः कृष्णवर्णस्तमाहरेत् ।। रम- ९.७ ।।

तस्यास्थि धारयेत् कट्यां नरो वीर्यं न मुञ्चति ।
विमुञ्चति विमुक्तेन सिद्धयोग उदाहृतः ।। रम- ९.८ ।।

रक्तापामार्गमूलं तु सोमवाराभिमन्त्रितम् ।
भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा न वीर्यमुक् ।। रम- ९.९ ।।

खसपलं शुण्ठीक्वाथः षोडशांशेन गुडेन निशि पीतः ।
कुरुते रतौ न पुंसो रेतः पतनं विनाम्लेन ।। रम- ९.१० ।।

सूरणं तुलसीमूलं ताम्बूलेन तु भक्षयेत् ।
न मुञ्चति नरो वीर्यमेकैकेन न संशयः ।। रम- ९.११ ।।

वराहवसया लिङ्गं मधुना सह लेपयेत् ।
स्थूलं दृढं च दीर्घं च पुंसो लिङ्गं प्रजायते ।। रम- ९.१२ ।।

क्षौद्रेण च समं पृष्टं पुण्डरीकस्य केशरम् ।
ध्वस्तं कुर्यात्ततो मेढ्रं रत्यन्यत्राप्यसंशयः ।। रम- ९.१३ ।।

अनुराधासुनक्षत्रे लाङ्गलीमूलिका ध्रुवम् ।
निखाता मैथुनस्थाने पुंसत्त्वखण्डकारिणी ।। रम- ९.१४ ।।

निशा षट्तिन्दुचूर्णेन भावितेनाजवारिणा ।
पानाशनं प्रयुक्तेन षण्ढत्वं जायते नृणाम् ।। रम- ९.१५ ।।

तिलगोक्षुरयोश्चूर्णं छागीदुग्धेन पाचितम् ।
शीतलं मधुना युक्तं भुक्तं षण्ढत्वनाशनम् ।। रम- ९.१६ ।।

ऊर्णनाभिस्तु यो जीवो मधुना सह लेपयेत् ।
तेन लेपयतो नाभिं बद्धषण्ढ्यं विमुच्यते ।। रम- ९.१७ ।।

एक एव महाद्रावी मालतीसम्भवो रसः ।
किं पुनर्यदि युज्यते मधुकर्पूरपारदैः ।। रम- ९.१८ ।।

आर्द्रकं गन्धकं चैव राजिकं चाथ टङ्कणम् ।
सम्पिष्टा सममात्राणि क्षेपयेन्निम्बुजे जले ।। रम- ९.१९ ।।

स्थापयेद्घटिकां तिस्रो हस्ते वा धारयेत्ततः ।
यावन्त्यो ललनाः पञ्च आजिघ्रन्ति द्रवन्ति वै ।। रम- ९.२० ।।

चूर्णिते मधुसंयुक्ते महारिष्टफलछदैः ।
लिङ्गलेपेन सुरते द्रवो भवति योषिताम् ।। रम- ९.२१ ।।

मधुसैन्धवसंयुक्तं पारावतमलान्वितम् ।
एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ।। रम- ९.२२ ।।

कपीन्द्रियं शशी सूतं कुङ्कुमं कनकं मधु ।
एतल्लिप्तेन्द्रियो रामां दासीवत् कुरुते रतौ ।। रम- ९.२३ ।।

वृत्तमध्यस्थितं नाम तद्बाह्ये ह्रीं चतुष्टयम् ।
तद्बहिः क्लीं चतुष्कं च लिखित्वा शिलयाखिलम् ।। रम- ९.२४ ।।

शुभनक्षत्रसंयोगे स्थापितं मधुनि ध्रुवम् ।
स्त्रियम् आकर्षति क्षिप्रं यन्त्रमेतन्न संशयः ।। रम- ९.२५ ।।

चन्दनं तगरं कुष्ठं प्रियङ्गुं नागकेशरम् ।
कृष्णां तिन्तिडिकं चैव समभागानि कारयेत् ।। रम- ९.२६ ।।

दापयेच्चैव सप्ताहमात्मपञ्चमलेन तु ।
खाने पाने प्रदातव्यं स्त्रियं वा पुरुषं तथा ।। रम- ९.२७ ।।

शंखपुष्पी मधुपुष्पी तथा कुञ्चिकिपत्रिका ।
श्वेतगिरिसमायुक्ता समभागानि कारयेत् ।। रम- ९.२८ ।।

सप्ताहं दापयेद्युक्ता ह्यात्मपञ्चमलेन च ।
खाने पाने प्रदातव्यं वशीकरणमुत्तमम् ।। रम- ९.२९ ।।

पूर्वोक्तमन्त्रेण सप्तभिःकृत्वा मन्त्रितदापयेत् ।
गर्दभस्य रजो गृह्य लुलितं गात्रसम्भवम् ।
मृतकस्य तथा भस्म नारीरजःसमन्वितम् ।। रम- ९.३० ।।

एकीकृत्य क्षिपेद्रात्रौ शय्यायामासनेऽपि वा ।
नूनं संजायते द्वेषः कथितो मालतीमते ।। रम- ९.३१ ।।

अन्यद् योगवरं वक्ष्ये विद्वेषकरणं परम् ।
युध्यमानावुभौ श्वानौ परस्परविरोधिनौ ।। रम- ९.३२ ।।

तयोर् धूलिं समादाय हन्यते योषितां रतिः ।
सत्यं भवति विद्वेषं नात्र कार्या विचारणा ।। रम- ९.३३ ।।

प्रक्षालने भगे नित्यं कृते चामलवल्कलैः ।
वृद्धापि कामिनी कामं बालेव कुरुते रतिम् ।। रम- ९.३४ ।।

सपद्मबीजं सितया भक्षितं पद्मवारिणा ।
दृढं स्त्रीणां स्तनद्वन्द्वं मासेन कुरुते भृशम् ।। रम- ९.३५ ।।

मुण्डीचूर्णकषायेण युतं तैलं विपाचितम् ।
पतितं यौवनं यस्यास्तस्याः स्तनोन्नतिर्भवेत् ।। रम- ९.३६ ।।

हरितालचूर्णकलिका लेपात् तेनैव वारिणा सद्यः ।
निपतन्ति केशनिचयाः कौतुकमिदम् अद्भुतं कुरुते ।। रम- ९.३७ ।।

पलाशचिञ्चातिलमाषशंखं दहेदपामार्गसपिप्पलोऽपि ।
मनःशिलातालकचूर्णलेपात् करोति निर्लोमशिरः क्षणात् ।। रम- ९.३८ ।।

तण्डुलीयकमूलानि पिष्ट्वा तण्डुलवारिणा ।
ऋत्वन्ते त्र्यहपीतानि वन्ध्यां कुर्वन्ति योषितम् ।। रम- ९.३९ ।।

काञ्जिकेन जपापुष्पं पिष्ट्वा पिबति याङ्गना ।
ऋतौ त्र्यहं निपीतानि वन्ध्यां कुर्वन्ति योषितम् ।। रम- ९.४० ।।

धूपिते योनिरन्ध्रे तु निम्बकाष्ठेन युक्तितः ।
ऋत्वन्ते रमते सा स्त्री गर्भदुःखविवर्जिता ।। रम- ९.४१ ।।

धत्तूरं मल्लिकापुष्पं गृहीत्वा कटिसंस्थितम् ।
गर्भं निवारयत्येव रण्डावेश्यादियोषिताम् ।। रम- ९.४२ ।।

नागकेशरपुष्पाणां चूर्णं गोसर्पिषा सह ।
सेवनाल्लभते पुत्रमृतौ दुग्धान्नभोजिनी ।। रम- ९.४३ ।।

बीजानि मातुलुङ्गस्य दुग्धस्विन्ना ससर्पिषा ।
सगर्भामिति कुर्वन्ति पानाद्वन्ध्यामपि स्त्रियम् ।। रम- ९.४४ ।।

मातुलुङ्गस्य बीजानि कुमार्या सह पेषयेत् ।
क्षीरेण सह दातव्यं गर्भमाप्नोत्यसंशयम् ।। रम- ९.४५ ।।

पिप्पली शृङ्गवेरं च मरिचं केशरं तथा ।
घृतेन सह पातव्यं वन्ध्यागर्भप्रदं परम् ।। रम- ९.४६ ।।

पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यका ।
ऋत्वन्ते घृतदुग्धाभ्यां पीत्वा गर्भमवाप्नुयात् ।। रम- ९.४७ ।।

अन्यद् योगवरं वक्ष्ये येन सा सफला भवेत् ।
उशीरमधुयष्टी च लोध्रमिन्द्रयवानपि ।। रम- ९.४८ ।।

घृतं सर्जरसं चैव माक्षिकं त्रायमाणकम् ।
शोभाञ्जनकमूलानि समभागानि कारयेत् ।। रम- ९.४९ ।।

पेषयित्वा ततो द्रव्यमजाक्षीरेण पाचयेत् ।
सप्तरात्रं पिबेन्नारी यावत्तिष्ठति शोणितम् ।। रम- ९.५० ।।

ततो योनौ विशुद्धायां पश्चाद्दद्यान्महौषधम् ।
कुमारीक्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ।। रम- ९.५१ ।।

तेन सा लभते पुत्रं सत्यं चैव सुरार्चितम् ।
लशुनं क्षीरसंयुक्तं नस्ये पाने प्रदापयेत् ।। रम- ९.५२ ।।

अश्वगन्धाकृतं चूर्णमजाक्षीरेण दापयेत् ।
यवक्षारं विडङ्गं च गुडूची च हरेणुका ।। रम- ९.५३ ।।

सर्वाणि समभागानि कृत्वा च वरचूर्णितान् ।
एतत्पीत्वा लभेत् पुत्रं सा नारी नात्र संशयः ।। रम- ९.५४ ।।

हिङ्गुं च शतवीर्या च दाडिमं सैन्धवं तथा ।
त्रिकटुः शतपुष्पा च नागपुष्पं शतावरी ।। रम- ९.५५ ।।

मधुकं सुमना चैव कार्षकाणि प्रदापयेत् ।
क्षीरेण सह दातव्या नार्याश्च पुरुषस्य च ।। रम- ९.५६ ।।

दिनत्रयं तु भुञ्जीत शालितण्डुलदुग्धकम् ।
भुक्तं तु लभते गर्भं नारीणां नात्र संशयः ।। रम- ९.५७ ।।

अर्कमूलं प्रियङ्गुं च कुसुम्भं नागकेशरम् ।
बला चातिबला छागीक्षीरं पीतं दिनत्रयम् ।। रम- ९.५८ ।।

विशोधयन्ति योनिं च ततो दद्यान्महौषधम् ।
उत्पलं तगरं कुष्ठं यष्टीमधु सचन्दनम् ।। रम- ९.५९ ।।

अजाक्षीरेण पिष्टानि दापयेत् पञ्चवासरम् ।
लक्ष्मणागोपयोयुक्ता तस्यै पाने प्रदापयेत् ।। रम- ९.६० ।।

तेन सा लभते पुत्रं लक्षणाढ्यं सुपण्डितम् ।
गते रक्ते भगे शुद्धे सक्षीरा लक्ष्मणा तथा ।। रम- ९.६१ ।।

नस्ये पाने प्रदातव्या लभते सुतमङ्गना ।
श्वेतार्कक्षुद्रणीश्वेता श्वेता च गिरिकर्णिका ।। रम- ९.६२ ।।

लक्ष्मणा वन्ध्यकर्कोटी देयं गोक्षीरसंयुतम् ।
नस्ये पाने कृते गर्भं लभते रतिसंगमात् ।। रम- ९.६३ ।।

पतन्तं स्तम्भयेद् गर्भं कुलालकरमृत्तिका ।
मधुच्छागीपयः पीत्वा किंवा श्वेताद्रिकर्णिका ।। रम- ९.६४ ।।

ललना शर्करा पाठा कन्दश्च मधुनान्वितः ।
भक्षितो वारयत्येव पतन्तं गर्भसंस्थितम् ।। रम- ९.६५ ।।

समभागं सितायुक्तं शालितण्डुलचूर्णकम् ।
उदुम्बरशिफाक्वाथे पीतं गर्भं सुरक्षति ।। रम- ९.६६ ।।

मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ।
घृतेन सह पातव्यं सुखं नारी प्रसूयते ।। रम- ९.६७ ।।

तुषाम्बुपरिघृष्टेन कन्देन परिलेपयेत् ।
लाङ्गल्याश्चरणौ सूतिं क्षिप्रमाप्नोति गर्भिणी ।। रम- ९.६८ ।।

यासां पुष्पागमो नास्ति ऋतुकाले च योषिताम् ।
तासां कुर्याच्चिकित्सेयं पुनः पुष्पागमो भवेत् ।। रम- ९.६९ ।।

पिप्पलीं च यवक्षारं विडङ्गं मन्मथफलम् ।
तिक्तं तु तुम्बिनीबीजं गुटिकां कारयेद्भिषक् ।। रम- ९.७० ।।

मुण्डी च क्षीरसंयुक्ता योनिद्वारेऽङ्गना शुभा ।
त्रिपञ्चसप्तरात्रेण पुष्पं भवति नान्यथा ।। रम- ९.७१ ।।

बालतन्त्रं प्रवक्ष्यामि समासाद् रावणोदितम् ।
पूजाद्रव्यं दिशो भागं मन्त्रं तद्ग्राह्यलक्षणम् ।। रम- ९.७२ ।।

प्रथमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
मन्दानाम्नी समाख्याता योगिणी तस्य लक्षणम् ।। रम- ९.७३ ।।

द्वितीये दिवसे मासे वर्षे गृह्णाति बालकम् ।
सुनन्दा योगिनी नाम प्रथमं जायते ज्वरः ।। रम- ९.७४ ।।

संकोचो हस्तपादानामक्षिरोगोऽतिछर्दनम् ।
सभयत्वं कृशत्वं च तद्ग्रस्त इति लक्षणम् ।। रम- ९.७५ ।।

तृतीये दिवसे मासे वर्षे गृह्णाति बालकम् ।
पूतना योगिनी नाम गात्रभङ्गो ज्वरोऽरुचिः ।। रम- ९.७६ ।।

प्रलापं कन्धराशोथच्छर्दिरित्यादिलक्षणम् ।
अपराह्ने च वारुण्यां पञ्चरात्रं बलिं क्षिपेत् ।। रम- ९.७७ ।।

चतुर्थे दिवसे मासे वर्षे गृह्णाति बालकम् ।
बिडाली नाम तद्ग्रस्ते चक्षुःशूलं ज्वरोऽरुचिः ।। रम- ९.७८ ।।

गात्रमाटेनम् इत्यादि विवर्णेन बलिं क्षिपेत् ।
पञ्चमे दिवसे मासे वर्षे गृह्णाति बालकम् ।। रम- ९.७९ ।।

नर्तकीति समाख्याता योगिनी तस्य लक्षणम् ।
अथ षष्ठदिने मासे वर्षे गृह्णाति बालकम् ।। रम- ९.८० ।।

योगिनी शकुनी नाम कासश्वासोऽरुचिर्ज्वरः ।
हस्तपादादिसंकोचश् चक्षुःपीडेति लक्षणम् ।। रम- ९.८१ ।।

पञ्चरात्रं बलिं तस्यै वारुण्यां दिशि निक्षिपेत् ।
सप्तमे दिवसे मासे वर्षे शुष्काशिवा शिशुम् ।। रम- ९.८२ ।।

गृह्णाति रोदनं कम्पो ज्वरशोषादिलक्षणम् ।
पश्चिमायां दिशि पञ्च बलौ दत्ते शिशुः सुखी ।। रम- ९.८३ ।।

अष्टमे दिवसे मासे वर्षे गृह्णाति जृम्भका ।
तया गृहीतमात्रस्य प्रथमं जायते ज्वरः ।। रम- ९.८४ ।।

शिरःपीडाक्षिरोगश्च चक्षुरुत्पाटचेष्टितम् ।
दक्षिणां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ।। रम- ९.८५ ।।

नवमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
अचिन्ता योगिनी नाम गात्रभङ्गः शिरोऽक्षिरुक् ।। रम- ९.८६ ।।

छर्दिः प्रलाप इत्यादि तद्गृहीतस्य लक्षणम् ।
उत्तरां दिशिम् आश्रित्य बलिं तस्यै प्रदापयेत् ।। रम- ९.८७ ।।

दशमे दिवसे मासे वर्षे गृह्णाति बालकम् ।
नाम्ना कापालिका ख्याता योगिनी तस्य लक्षणम् ।। रम- ९.८८ ।।

रोदनं कम्पनं छर्दिर्ज्वरो दुर्बलताक्षिरुक् ।
पूर्वां दिशं समाश्रित्य पञ्चरात्रं बलिं क्षिपेत् ।। रम- ९.८९ ।।

एकादशे दिने मासे वर्षे गृह्णाति लिप्सिता ।
गात्रकम्पो ज्वरस्तीव्रस्तद्गृहीतस्य लक्षणम् ।। रम- ९.९० ।।

भानुसंख्ये दिने मासे वर्षे गृह्णाति बालकम् ।
पीतली योगिनी नाम रोदनं वेदना ज्वरः ।। रम- ९.९१ ।।

निद्रा क्षीणस्वरः पीतो वमनाहारशून्यता ।
उत्तरां दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् ।। रम- ९.९२ ।।

कामसंख्ये दिने मासे वर्षे गृह्णति बालकम् ।
भद्रकाली ज्वरो नाम वामहस्तस्य कम्पम् ।। रम- ९.९३ ।।

वेदनारुचिनिःश्वासाः कायः पीतो विचेष्टितम् ।
पूर्वां दिशः समाश्रित्य बलिं तस्यै प्रदापयेत् ।। रम- ९.९४ ।।

पुरन्दरदिने मासे वर्षे गृह्णाति बालकम् ।
तारा हि योगिनी नाम ज्वरः शोषोऽरुचिर्भृशम् ।। रम- ९.९५ ।।

चक्षुःपीडेङ्गितं तस्यै पश्चिमे बलिमाहरेत् ।
पक्षे च दिवसे मासे वर्षे गृह्णाति बालकम् ।। रम- ९.९६ ।।

योगिनी शर्वरी नाम श्वासः कासोऽरुचिर्ज्वरः ।
तद्ग्रस्ते चिह्नम् इत्यादि दक्षिणस्यां बलिं क्षिपेत् ।। रम- ९.९७ ।।

विकारदिवसे मासे वर्षे गृह्णति योगिनी ।
कुमारी नयनोद्वेगो ज्वरशोषादिचेष्टितम् ।। रम- ९.९८ ।।

नैरृतीं दिशिमाश्रित्य सप्तरात्रं बलिं क्षिपेत् ।
बालं च स्नपयेत्पश्चाच्छान्तितोयेन मन्त्रवित् ।। रम- ९.९९ ।।

नदीतीरद्वयाकृष्टमृदा देवीस्वरूपकम् ।
कृत्वा पूजा च कर्तव्या भूपपुष्पाक्षतादिभिः ।। रम- ९.१०० ।।

वटका लड्डुकापूपा अग्रभक्तं गुडं दधि ।
चातुर्वर्ण्यपताकाश्च प्रदीप्ताः पुष्पचन्दनम् ।। रम- ९.१०१ ।।

पूजयेत्सर्वरोगाणामपराह्ने यथाबलि ।
सर्वत्र नामभेदेन बलिदानं प्रजायते ।। रम- ९.१०२ ।।


रसमञ्जरी , १०[सम्पाद्यताम्]

अथ कालस्य विज्ञानं प्रवक्ष्यामि यथासुखम् ।
जीवितं मरणं योगी यतो जानाति निश्चयात् ।। रम- १०.१ ।।

कालग्रहस्य यस्येदं दंष्ट्रासम्पुटके जगत् ।
अद्यैव वा प्रभाते वा सोऽवश्यं भविष्यति ।। रम- १०.२ ।।

रसं रसायनं योगं कालं ज्ञात्वा समाचरेत् ।
यस्माज्ज्ञानं विना व्यर्थं तत्तस्मात्प्रोच्यतेऽधुना ।। रम- १०.३ ।।

दूतो रक्तकषायकृष्णवसनो दन्ती जरामर्दितस् तैलाभ्यक्तशरीरकायुधकरो दीनाश्रुपूर्णाननः ।
भस्माङ्गारकपालपांशुमुशलः सूर्यास्तसूर्योदये यः सूर्यस्वरसंस्थितो गदवतां कालाय स स्यादसौ ।। रम- १०.४ ।।

अकस्माच्चित्तविकृतिरकस्मात्पुरुषोत्तमः ।
अकस्मादिन्द्रियोत्पत्तिः सन्निपातस्य लक्षणम् ।। रम- १०.५ ।।

शरीरं शीतलं यस्य प्रकृतेर् विकृतिर् भवेत् ।
तत्रारिष्टं समासेन व्याप्तं तत्र निबोध मे ।। रम- १०.६ ।।

दुष्टशब्देन रमते साधुशब्देन कुप्यति ।
यश्चाकस्मान्न शृणुते तं गतायुषमादिशेत् ।। रम- १०.७ ।।

यो वा गन्धं न गृह्णाति दीपे शान्ते च मानवः ।
दिवाज्योतींषि यश्चापि ज्वलितानि च पश्यति ।। रम- १०.८ ।।

चन्द्रं सूर्यप्रभं पश्येत् सूर्यं वा चन्द्रवर्चसम् ।
तडिद्वातोषितान् मेघान् निर्मले गगने चरान् ।। रम- १०.९ ।।

विमानयानप्रासादैर्यश्च संकुलमम्बरम् ।
यश्च नीलं मूर्तिमन्तम् अन्तरिक्षं च पश्यति ।। रम- १०.१० ।।

यस्तूष्णम् इव गृह्णाति शीतमुष्णं च शीतवत् ।
संजातः संशयो यस्य तं वदन्ति गतायुषम् ।। रम- १०.११ ।।

विपरीतेन गृह्णाति भावानन्यांश्च यो नरः ।
धूमनीहारवासोभिरावृतामिव मेदिनीम् ।। रम- १०.१२ ।।

प्रदीप्तमिव लोकं च योऽवलुप्तमिवाम्भसा ।
भूमिम् अष्टादशाकारां लेखाभिर्यस्तु पश्यति ।। रम- १०.१३ ।।

ज्योत्स्नादर्शे हि तोयेषु छायां यश्च न पश्यति ।
पश्यत्येकाङ्गहीनां च वैकृतं चापि पश्यति ।। रम- १०.१४ ।।

श्वकाककङ्कगृध्राणां प्रयातं यक्षराक्षसाम् ।
पिशाचोरगनागानां विकृतामपि यो नरः ।। रम- १०.१५ ।।

ह्रीश्रियौ यस्य नश्येतां तेज ओजः स्मृतिस् तथा ।
अकस्माज्जृम्भते यश्च स परासुरसंशयम् ।। रम- १०.१६ ।।

यस्याधरोष्ठः पतति स्थितश्चोर्ध्वं तथोत्तरम् ।
पाशशङ्का भवेद्यस्य दुर्लभं तस्य जीवितम् ।। रम- १०.१७ ।।

कुटिला स्फुटिता वापि सुप्ता यस्य च नासिका ।
अवस्फूर्यति मग्ना वा स परासुरसंशयम् ।। रम- १०.१८ ।।

स्वरूपं परनेत्रेषु पुत्तिकां यो न पश्यति ।
यदा हि पटुदृष्टिश्च तदा मृत्युर् अदूरतः ।। रम- १०.१९ ।।

कर्णहीनं यदात्मानं पश्यत्यात्मा कथंचन ।
न स जीवति लोकेऽस्मिन् कालेन कवलीकृतः ।। रम- १०.२० ।।

रात्रौ दाहो भवेद्यस्य दिवा शीतं च जायते ।
कफपूरितकण्ठस्य मृत्युश्चैव न संशयः ।। रम- १०.२१ ।।

चरणौ शीतलौ यस्य शीतलं नाभिमण्डलम् ।
शिरस्तापो भवेद्यस्य तस्य मृत्युर्न संशयः ।। रम- १०.२२ ।।

हुङ्कारः शीतलो यस्य फुत्कारो वह्णिसन्निभः ।
सदा दाहो भवेद्यस्य तस्य मृत्युर्न संशयः ।। रम- १०.२३ ।।

अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च ।
हीनायुधो न पश्यन्ति चतुर्थं मातृमण्डलम् ।। रम- १०.२४ ।।

अरश्मिबिम्बं सूर्यस्य वह्नेश्चैवांशुवर्जितम् ।
दृष्ट्वैकादशमासास्तु नरश्चोर्ध्वं न जीवति ।। रम- १०.२५ ।।

वातं मूत्रं पुरीषं यः सुवर्णं रजतं तथा ।
प्रत्यक्षमथवा स्वप्ने दशमासं न जीवति ।। रम- १०.२६ ।।

क्वचित् पश्यति यो दीप्तं स्वर्णवत् काननं नरः ।
विरूपाणि च भूतानि नवमासं न जीवति ।। रम- १०.२७ ।।

स्थूलाङ्गोऽपि कृशः कृशोऽपि सहसा स्थूलत्वमालम्बते श्यामो वा कनकप्रभो यदि भवेद्गौरोऽपि कृष्णच्छविः ।
धीरो धीरतयार्थधर्मनिपुणः शान्तोपकारी पुमान् इत्येवं प्रकृते तु शान्तचलनं मास्यष्टमे मृत्युदम् ।। रम- १०.२८ ।।

पीडा भवेत्पाणितले च जिह्वामूलं समूलं रुधिरं च कृष्णम् ।
वृद्धिं नरः कामपि यन्न दृष्ट्वा जीवेन्मनुष्यः स हि सप्तमासान् ।। रम- १०.२९ ।।

मध्याङ्गुलीनां त्रितयं विरक्तं रोगं विना शुष्यति यस्य कण्ठः ।
मुहुर्मुहुः प्रस्रवणं च जाड्यं षष्ठे च मासे प्रलयं प्रयाति ।। रम- १०.३० ।।

यस्य न स्फुरणं किंचिद् विद्यते यस्य कर्मणि ।
सोऽवश्यं पञ्चमे मासि स्कन्धारूढो गमिष्यति ।। रम- १०.३१ ।।

यस्य न स्फुरते ज्योतिः पीडिते नयनद्वये ।
मरणं तस्य निर्दिष्टं चतुर्थे मासि निश्चितम् ।। रम- १०.३२ ।।

स्पन्दते वृषणो यस्य न किंचिदपि पीडितः ।
तृतीये मासि सोऽवश्यं यमलोके गमिष्यति ।। रम- १०.३३ ।।

तारा दिवा चन्द्रप्रभं निशान्ते यो विद्युतं पश्यति चैव श्वभ्रे ।
इन्द्रायुधं वा स्वयमेव रात्रौ मासद्वये तस्य वदन्ति नाशम् ।। रम- १०.३४ ।।

यस्य जानुगतं मर्म न किंचिदपि चेष्टितम् ।
मासान्ते मरणं तस्य न केनापि विलम्ब्यते ।। रम- १०.३५ ।।

कनिष्ठाङ्गुलिपर्व स्यात् कृष्णं च मध्यमं यदा ।
गतायुः प्रोच्यते पुंसाम् अष्टादशदिनावधिः ।। रम- १०.३६ ।।

घृते तैले जले वापि दर्पणे यस्य दृश्यते ।
शिरोरहितमात्मानं पक्षमेकं स जीवति ।। रम- १०.३७ ।।

शैत्यं दध्यन्नपानानि यस्य तापकराणि च ।
शीतरश्मि भवेच्चारुहासं चाथ सुनिर्मलम् ।। रम- १०.३८ ।।

न वेत्ति वै चारुहितं न चोष्णं वेत्ति यो नरः ।
कालज्ञानेन सम्प्रोक्तं पक्षमेकं स जीवति ।। रम- १०.३९ ।।

स्नातमात्रस्य यस्यैते त्रयः शुष्यन्ति तत्क्षणात् ।
हृदयं हस्तपादौ च दशरात्रं स जीवति ।। रम- १०.४० ।।

नासाग्रं रसनाग्रं च चक्षुश्चैवौष्ठसम्पुटम् ।
यो न पश्येत्पुरादृष्टं सप्तरात्रं स जीवति ।। रम- १०.४१ ।।

धारा बिन्दुसमा यस्य पतते च महीतले ।
सप्ताहाज्जायते मृत्युः कालज्ञानेन कथ्यते ।। रम- १०.४२ ।।

अथातः सम्प्रवक्ष्यामि छायापुरुषलक्षणम् ।
यस्य विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः ।। रम- १०.४३ ।।

कालो दूरस्थितोऽस्यापि येनोपायेन लक्ष्यते ।
तं वदन्ति समासेन यथोद्दिष्टं शिवागमे ।। रम- १०.४४ ।।

एकान्ते विजने गत्वा कृत्वादित्यं स्वपृष्ठतः ।
संनिरीक्ष्य निजच्छायां कण्ठदेशसमाहिताम् ।। रम- १०.४५ ।।

ततश्चाकाशमीक्षेत ततः पश्यति शंकरम् ।
अष्टोत्तरशतं जप्त्वा ततो वै दृश्यते शुभम् ।। रम- १०.४६ ।।

शुद्धस्फटिकसंकाशं नानारूपधरो हरम् ।
षण्मासाभ्यासयोगेन भूचराणां पतिर्भवेत् ।। रम- १०.४७ ।।

वर्षद्वयेन हे नाथ कर्ता हर्ता स्वयं प्रभुः ।
त्रिकालज्ञत्वम् आप्नोति स योगी नात्र संशयः ।। रम- १०.४८ ।।

यत्कृताभ्यासयोगेन नास्ति किंचित् सुदुर्लभम् ।
तद्रूपं कृष्णवर्णं च पश्यति व्योम्नि निर्मले ।। रम- १०.४९ ।।

षण्मासान् मृत्युमाप्नोति स योगी नात्र संशयः ।
पीतो व्याधिभयं रक्तो नीलो हत्यां विनिर्दिशेत् ।। रम- १०.५० ।।

नानावर्णे स्वरूपेऽस्मिनुद्वेगो जायते महान् ।
पादौ गुल्फं च जठरं विनाशकृशता भवेत् ।। रम- १०.५१ ।।

अर्धवर्षेण वर्षे वा जीवन्वर्षद्वयेन न वा ।
विनाशो दक्षिणे बाहौ स्वबन्धुर् म्रियते ध्रुवम् ।। रम- १०.५२ ।।

वामबाहौ तथा भार्या विनश्यति न संशयः ।
शिरो दक्षिणबाहुभ्यां विनाशो मृत्युमादिशेत् ।। रम- १०.५३ ।।

अशिरो मासमरणं विना जङ्घे दिवा नव ।
अष्टभिः स्कन्धनाशेन छायालुप्तेन तत्क्षणात् ।। रम- १०.५४ ।।

तीर्थस्नानेन दानेन तपसा सुकृतेन वा ।
जपेन ज्ञानयोगेन जायते कालबन्धनम् ।। रम- १०.५५ ।।

रसायनं च पूर्वोक्तं गुटिका मृतजीवनी ।
नरैः सेव्या यथोक्तं च परं कालस्य बन्धनम् ।। रम- १०.५६ ।।

रक्षणीयमतो देहं यतो धर्मादिसाधनम् ।
शरीरं नाशयन्त्येते दोषा धातुमलाश्रयाः ।। रम- १०.५७ ।।

वैद्यनाथतनूजेन शालिनाथेन धीमता ।
शास्त्रमालोक्य चाकृष्य रचिता रसमञ्जरी ।। रम- १०.५८ ।।


आधारः[सम्पाद्यताम्]

उपरोक्त सामग्री

  • यहाँ से रोमन यूनिकोड में ली गयी
    और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (09-02-2008)
"https://sa.wikisource.org/w/index.php?title=रसमञ्जरी&oldid=184954" इत्यस्माद् पुनः प्राप्तिः