रम्भा-शुक संवादः

विकिस्रोतः तः
Jump to navigation Jump to search

रम्भा:
मार्गे मार्गे नूतनं चूतखण्डं
खण्डे खण्डे कोकिलानां विरावः ।
रावे रावे मानिनीमानभंगो
भंगे भंगे मन्मथः पञ्चबाणः ॥
शुक:
मार्गे मार्गे जायते साधुसङ्गः
सङ्गे सङ्गे श्रूयते कृष्णकीर्तिः ।
कीर्तौ कीर्तौ नस्तदाकारवृत्तिः
वृत्तौ वृत्तौ सच्चिदानन्द भासः ॥
तीर्थे तीर्थे निर्मलं ब्रह्मवृन्दं
वृन्दे वृन्दे तत्त्व चिन्तानुवादः ।
वादे वादे जायते तत्त्वबोधो
बोधे बोधे भासते चन्द्रचूडः ॥
रम्भा:
गेहे गेहे जङ्गमा हेमवल्ली
वल्यां वल्यां पार्वणं चन्द्रबिम्बम् ।
बिम्बे बिम्बे दृश्यते मीन युग्मं
युग्मे युग्मे पञ्चबाणप्रचारः ॥
शुकः
स्थाने स्थाने दृश्यते रत्नवेदी
वेद्यां वेद्यां सिद्धगन्धर्वगोष्ठी ।
गोष्ठयां गोष्ठयां किन्नरद्वन्द्वगीतं
गीते गीते गीयते रामचन्द्रः ॥
रम्भा:
पीनस्तनी चन्दनचर्चिताङ्गी
विलोलनेत्रा तरुणी सुशीला ।
नाऽऽलिङ्गिता प्रेमभरेण येन
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
अचिन्त्य रूपो भगवान्निरञ्जनो
विश्वम्भरो ज्ञानमयश्चिदात्मा ।
विशोधितो येन ह्रदि क्षणं नो
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भाः
कामातुरा पूर्णशशांक वक्त्रा
बिम्बाधरा कोमलनाल गौरा ।
नाऽऽलिङ्गिता स्वे ह्र्दये भुजाभ्यां
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
चतुर्भुजः चक्रधरो गदायुधः
पीताम्बरः कौस्तुभमालया लसन् ।
ध्याने धृतो येन न बोधकाले
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
विचित्रवेषा नवयौवनाढ्या
लवङ्गकर्पूर सुवासिदेहा ।
नाऽऽलिङ्गिता येन दृढं भुजाभ्यां
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
नारायणः पङ्कजलोचनः प्रभुः
केयूरवान् कुण्डल मण्डिताननः ।
भक्त्या स्तुतो येन न शुद्धचेतसा
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
प्रियवंदा चम्पकहेमवर्णा
हारावलीमण्डितनाभिदेशा ।
सम्भोगशीला रमिता न येन
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
श्रीवत्सलक्षाङ्कितह्रत्प्रदेशः
तार्क्ष्यध्वजः शार्ङ्गधरः परात्मा ।
न सेवितो येन नृजन्मनाऽपि
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
चलत्कटी नूपुरमञ्जुघोषा
नासाग्रमुक्ता नयनाभिरामा ।
न सेविता येन भुजङ्गवेणी
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
विश्वम्भरो ज्ञानमयः परेशः
जगन्मयोऽनन्तगुण प्रकाशी ।
आराधितो नापि वृतो न योगे
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
ताम्बूलरागैः कुसुम प्रकर्षैः
सुगन्धितैलेन च वासितायाः ।
न मर्दितौ येन कुचौ निशायां
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
ब्रह्मादि देवोऽखिल विश्वदेवो
मोक्षप्रदोऽतीतगुणः प्रशान्तः ।
धृतो न योगेन हृदि स्वकीये
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भाः
कस्तूरिकाकुंकुम चन्दनैश्च
सुचर्चिता याऽगुरु धूपिकाम्बरा ।
उरः स्थले नो लुठिता निशायां
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
आनन्दरूपो निजबोधरूपः
दिव्यस्वरूपो बहुनामरूपः ।
तपः समाधौ मिलितो न येन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
कठोर पीनस्तन भारनम्रा
सुमध्यमा चञ्जलखञ्जनाक्षी ।
हेमन्तकाले रमिता न येन
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
तपोमयो ज्ञानमयो विजन्मा
विद्यामयो योगमयः परात्मा ।
चित्ते धृतो नो तपसि स्थितेन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भाः
सुलक्षणा मानवती गुणाढ्या
प्रसन्नवक्त्रा मृदुभाषिणी या ।
नो चुम्बिता येन सुनाभिदेशे
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
पल्यार्जितं सर्वसुखं विनश्वरं
दुःखप्रदं कामिनिभोग सेवितम् ।
एवं विदित्वा न धृतो हि योगो
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
विशालवेणी नयनाभिरामा
कन्दर्प सम्पूर्ण निधानरुपा ।
भुक्ता न येनैव वसन्तकाले
वृथा गतं तस्य नरस्य जीवितम् ॥
शुकः
मायाकरण्डी नरकस्य हण्डी
तपोविखण्डी सुकृतस्य भण्डी ।
नृणां विखण्डी चिरसेविता चेत्
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भाः
समस्तशृङ्गार विनोदशीला
लीलावती कोकिल कण्ठमाला ।
विलासिता नो नवयौवनेन
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
समाधि ह्रंत्री जनमोहयित्री
धर्मे कुमन्त्री कपटस्य तन्त्री ।
सत्कर्म हन्त्री कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
बिल्वस्तनी कोमलिता सुशीला
सुगन्धयुक्ता ललिता च गौरी ।
नाऽऽश्लेषिता येन च कण्ठदेशे
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
चिन्ताव्यथादुःखमया सदोषा
संसारपाशा जनमोहकर्त्री ।
सन्तापकोशा भजिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
आनन्द कन्दर्पनिधान रुपा
झणत्क्वणत्कं कण नूपुराढ्या ।
नाऽस्वादिता येन सुधाधरस्था
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
कापट्यवेषा जनवञ्चिका सा
विण्मूत्र दुर्गन्धदरी दुराशा ।
संसेविता येन सदा मलाढ्या
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भाः
चन्द्रानना सुन्दरगौरवर्णा
व्यक्तस्तनीभोगविलास दक्षा ।
नाऽऽन्दोलिता वै शयनेषु येन
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
उन्मत्तवेषा मदिरासु मत्ता
पापप्रदा लोकविडम्बनीया ।
योगच्छला येन विभाजिता च
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
आनन्दरूपा तरुणी नगाङ्गी
सद्धर्मसंसाधन सृष्टिरूपा ।
कामार्थदा यस्य गृहे न नारी
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
अशौचदेहा पतित स्वभावा
वपुःप्रगल्भा बललोभशीला ।
मृषा वदन्ती कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
क्षामोदरी हंसगतिः प्रमत्ता
सौंदर्यसौभाग्यवती प्रलोला ।
न पीडिता येन रतौ यथेच्छं
वृथा गतं तस्य नरस्य जीवितम् ॥
शुक:
संसारसद्भावन भक्तिहीना
चित्तस्य चौरा हृदि निर्दया च ।
विहाय योगं कलिता च येन
वृथा गतं तस्य नरस्य जीवितम् ॥
रम्भा:
सुगन्धैः सुपुष्पैः सुशय्या सुकान्ता
वसन्तो ऋतुः पूर्णिमा पूर्णचन्द्रः ।
यदा नास्ति पुंस्त्वं नरस्य प्रभूतं
ततः किं ततः किं ततः किं ततः किम् ॥
शुक:
सुरुपं शरीरं नवीनं कलत्रं
धनं मेरुतुल्यं वचश्चारुचित्रम् ।
हरस्याङ्घि युग्मे मनश्चेदलग्नं
ततः किं ततः किं ततः किं ततः किम् ॥

स्रोतः - http://susanskrit.org/rambha-shuk-dialogue.html

"https://sa.wikisource.org/w/index.php?title=रम्भा-शुक_संवादः&oldid=87669" इत्यस्माद् पुनः प्राप्तिः