रत्नगोत्रविभागः

विकिस्रोतः तः
रत्नगोत्रविभागः
[[लेखकः :|]]



रत्नगोत्रविभागो महायानोत्तरतन्त्रशास्त्रम्

१. प्रथमः परिच्छेदः
ओं नमः श्रीवज्रसत्त्वाय ।

बुद्धश्च धर्मश्च गणश्च धातुर्बोधिर्गुणाः कर्म च बौद्धमन्त्यम् ।
कृत्स्नस्य शास्त्रस्य शरीरमेतत्समासतो वज्रपदानि सप्त ॥ १ ॥

वज्रोपमस्याधिगमार्थस्य पदं स्थानमिति वज्रपदम् । तत्र श्रुतिचिन्तामयज्ञानदुष्प्रतिवेधादनभिलाप्यस्वभावः प्रत्यात्मवेदनीयोऽर्थो वज्रवद्वेदितव्यः । यान्यक्षराणि तमर्थमभिवदन्ति तत्प्राप्त्यनुकूलमार्गाभिद्योतनतस्तानि तत्प्रतिष्ठाभूतत्वात्पदमित्युच्यन्ते । इति दुष्प्रतिवेधार्थेन प्रतिष्ठार्थेन च वज्रपदत्वमर्थव्यञ्जनयोरनुगन्तव्यम् । तत्र कतमोऽर्थः कतमद्व्यञ्जनम् । अर्थ उच्यते सप्तप्रकारोऽधिगमार्थो यदुत बुद्धार्थो धर्मार्थः संघार्थो धात्वर्थो बोध्यर्थो गुणार्थः (र्ग्व्२) कर्मार्थश्च । अयमुच्यतेऽर्थः । यैरक्षरैरेष सप्तप्रकारोऽधिगमार्थः सूच्यते प्रकाश्यत इदमुच्यते व्यञ्जनम् । स चैष वज्रपदनिर्देशो विस्तरेण यथासूत्रमनुगन्तव्यः ।

अनिदर्शनो ह्यानन्द तथागतः । स न शक्यश्चक्षुषा द्रष्टुम् । अनभिलाप्यो ह्यानन्द धर्मः । स न शक्यः कर्णेन श्रोतुम् । असंस्कृतो ह्यानन्द संघः । स न शक्यः कायेन वा चित्तेन वा पर्युपा सितुम् । इतीमानि त्रीणि वज्रपदानि दृढाध्याशयपरिवर्तानुसारेणानुगन्तव्यानि ।

तथागतविषयो हि शारिपुत्रायमर्थस्तथागतगोचरः । सर्वश्रावकप्रत्येकबुद्धैरपि तावच्छारिपुत्रायमर्थो न शक्यः सम्यक्स्वप्रज्ञया xxx द्रष्टुं वा प्रत्यवेक्षितुं वा । प्रागेव बालपृथग्जनैरन्यत्र तथागतश्रद्धागमनतः । श्रद्धागमनीयो हि शारिपुत्र परमार्थः । परमार्थ इति शारिपुत्र सत्त्वधातोरेतदधिवचनम् । सत्त्वधातुरिति शारिपुत्र तथागतगर्भस्यैतदधिवचनम् । तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनम् । इतीदं चतुर्थं वज्रपदमनूनत्वापूर्णत्वनिर्देशपरिवर्तानुसारेणानुगतव्यम् ।

(र्ग्व्३) अनुत्तरा सम्यक्संबोधिरिति भगवन्निर्वाणधातोरेतदधिवचनम् । निर्वाणधातुरिति भगवन् तथागतधर्मकायस्यैतदधिवचनम् । इतीदं पञ्चमं वज्रपदमार्यश्रीमालासूत्रानुसारेणानुगन्तव्यम् ।

योऽयं शारिपुत्र तथागतनिर्दिष्टो धर्मकायः सोऽयमविनिर्भागधर्मा । अविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिक्रान्तैस्तथागतधर्मैः । इतीदं षष्ठं वज्रपद्मनूनत्वापूर्णत्वनिर्देशानुसारेणानुगन्तव्यम् ।

न मञ्जुश्रीस्तथागतः कल्पयति न विकल्पयति । अथवास्यानाभोगेनाकल्पयतोऽविकल्पयत इयमेवंरूपा क्रिया प्रवर्तते । इतीदं सप्तमं वज्रपद तथागतगुणज्ञानाचिन्त्यविषयावतारनिर्देशानुसारेणानुगन्तव्यम् । इतीमानि समासतः सप्त वज्रपदानि सकलस्यास्य शास्त्रस्योद्देशमुखसंग्राहार्थेन शरीरमिति वेदितव्यम् ।

स्वलक्षणेनानुगतानि चैषां यथाक्रमं धारणिराजसूत्रे ।
निदानतस्त्रीणि पदानि विद्याच्चत्वारि धीमज्जिनधर्मभेदात् ॥ २ ॥

एषां च सप्तानां वज्रपदानां स्वलक्षणनिर्देशेन यथाक्रममार्यधारणीश्वरराजसूत्रनिदानपरिवर्तानुगतानि त्रीणि पदानि वेदितव्यानि । तत ऊर्ध्वमवशिष्टानि चत्वारि बोधिसत्त्वतथागतधर्मनिर्देशभेदादिति । तस्माद्यदुक्तम् ।

भगवान् सर्वधर्मसमताभिसंबुद्धः सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इति । एभिस्त्रिभिर्मूलपदैर्यथाक्रमं त्रयाणां रत्नानामनुपूर्वसमुत्पादसमुदागमव्यवस्थानं वेदितव्यम् । अवशिष्टानि चत्वारि पदानि त्रिरत्नोत्पत्त्यनुरूपहेतुसमुदागमनिर्देशो वेदितव्यः । तत्र यतोऽष्टम्यां बोधिसत्त्वभूमौ वर्तमानः सर्वधर्मवशिताप्राप्तो (र्ग्व्४) भवति तस्मात्स बोधिमण्डवरगतः सर्वधर्मसमताभिसंबुद्ध इत्युच्यते । यतो नवम्यां बोधिसत्त्वभूमौ वर्तमानोऽनुत्तरधर्मभाणकत्वसंपन्नः सर्वसत्त्वाशयसुविधिज्ञ इन्द्रियपरमपारमिताप्राप्तः सर्वसत्त्वक्लेशवासनानुसंधिसमुद्घातनकुशलो भवति तस्मात्सोऽभिसंबुद्धबोधिः सुप्रवर्तितधर्मचक्र इत्युच्यते । यतो दशम्यां भूमावनुत्तरतथागतधर्मयौवराज्याभिषेकप्राप्त्यनन्तरमनाभोगबुद्धकार्याप्रतिप्रश्रब्धो भवति तस्मात्स सुप्रवर्तितधर्मचक्रोऽनन्तशिष्यगणसुविनीत इत्युच्यते । तां पुनरनन्तशिष्यगणसुविनीततां तदनन्तरमनेन ग्रन्थेन दर्शयति । महता भिक्षुसंघेन सार्ध यावदप्रमेयेण च बोधिसत्त्वगणेन सार्धमिति । यथाक्रमं श्रावकबोधौ बुद्धबोधौ च सुविनीतत्वादेवंगुण समन्वागतैरिति ।

ततः श्रावकबोधिसत्त्वगुणवर्णनिर्देशानन्तरमचिन्त्यबुद्धसमाधिवृषभितां प्रतीत्य विपुलरत्नव्यूहमण्डलव्यूह निर्वृत्तितथागतपरिषत्समावर्तनविविधदिव्यद्रव्यपूजाविधानस्तुतिमेघाभिसंप्रवर्षणतो बुद्धरत्नगुणविभागव्यवस्थानं वेदितव्यम् । तदनन्तरमुदारधर्मासनव्यूहप्रभाधर्मपर्यायनामगुणपरिकीर्तनतो धर्मरत्नगुणविभागव्यवस्थानं वेदितव्यम् । तदनन्तरमन्योन्यं बोधिसत्त्वसमाधिगोचरविषयप्रभाव संदर्शनतद्विचित्रगुणवर्णनिर्देशतः संघरत्नगुणविभागव्यवस्थानं वेदितव्यम् । तदनन्तरं (र्ग्व्५) पुनरपि बुद्धरश्म्यभिषेकैरनुत्तरधर्मराजज्येष्ठपुत्रपरमवैशारद्यप्रतिभानोपकरणतां प्रतीत्य तथागतभूतगुणपरमार्थस्तुतिनिर्देशतश्च महायानपरमधर्मकथावस्तूपन्यसनतश्च तत्प्रतिपत्तेः परमधर्मैश्वर्यफलप्राप्तिसंदर्शनतश्च यथासंख्यमेषामेव त्रयाणां रत्नानामनुत्तरगुणविभागव्यवस्थानं निदानपरिवर्तावसानगतमेव द्रष्टव्यम् ।

ततः सूत्रनिदानपरिवर्तानन्तरं बुद्धधातुः षष्ट्याकारतद्विशुद्धिगुणपरिकर्मनिर्देशेन परिदीपितः । विशोध्येऽर्थे गुणवति तद्विशुद्धिपरिकर्मयोगात् । इमं चार्थवशमुपादाय दशसु बोधिसत्त्वभूमिषु पुनर्जातरूपपरिकर्मविशेषोदाहरणमुदाहृतम् । अस्मिन्नेव च सूत्रे तथागतकर्मनिर्देशानन्तरमविंशुद्धवैडूर्यमणिदृष्टान्तः कृतः ।

तद्यथा कुलपुत्र कुशलो मणिकारो मणिशुद्धिसुविधिज्ञः । स मणिगोत्रादपर्यवदापितानि मणिरत्नानि गृहीत्वा तीक्ष्णेन खारोदकेनोत्क्षाल्य कृष्णेन केशकम्बलपर्यवदापनेन पर्यवदापयति । न च तावन्मात्रेण वीर्य प्रश्रम्भयति । ततः पश्चात्तीक्ष्णेनामिषरसेनोत्क्षाल्य खण्डिकापर्यवदापनेन पर्यवदापयति । न च तावन्मात्रेण वीर्य प्रश्रम्भयति । ततः स पश्चान्महाभैषज्यरसेनोत्क्षाल्य सूक्ष्मवस्त्रपर्यवदापनेन पर्यवदापयति । पर्यवदापितं चापगतकाचमभिजातवैडूर्यमित्युच्यते । (र्ग्व्६) एवमेव कुलपुत्र तथागतोऽप्यपरिशुद्धं सत्त्वधातुं विदित्वानित्यदुःखानात्माशुभोद्वेगकथया संसाराभिरतान् सत्त्वानुद्वेजयति । आर्ये च धर्मविनयेऽवतारयति । न च तावन्मात्रेण वीर्य प्रश्रम्भयति । ततः पश्चाच्छून्यानिमित्तप्रणिहितकथया तथागतनेत्रीमवबोधयति । न च तावन्मात्रेण तथागतो वीर्यं प्रश्रम्भयति । ततः पश्चादविवर्त्यधर्मचक्रकथया त्रिमण्डलपरिशुद्धिकथया च तथागतविषये तान् सत्त्वानवतारयति नानाप्रकृतिहेतुकान् । अवतीर्णाश्च समानास्तथागतधर्मतामधिगम्यानुत्तरा दक्षिणीया इत्युच्यन्त इति ।

एतदेव विशुद्धगोत्रं तथागतधातुमभिसंधायोक्तम् ।

यथा पत्थरचुण्णम्हि जातरूपं न दिस्सति ।
परिकम्मेन तद्दिट्ठमेवं लोके तथागता इति ॥

तत्र कतमे ते बुद्धधातोः षष्ट्याकारविशुद्धिपरिकर्मगुणाः । तद्यथा चतुराकारो बोधिसत्त्वालंकारः । अष्टाकारो बोधिसत्त्वावभासः । षोडशाकारी बोधिसत्त्वमहाकरुणा । द्वात्रिंशदाकारं बोधिसत्त्वकर्म ।

तन्निर्देशानन्तरं बुद्धबोधिः षोडशाकारमहाबोधिकरुणानिर्देशेन परिदीपिता । तन्निर्देशानन्तरं बुद्धगुणा दशबलचतुर्वैशारद्यष्टादशावेणिकबुद्धधर्मनिर्देशेन परिदीपिताः । तन्निर्देशानन्तरं बुद्धकर्म द्वात्रिंशदाकार निरुत्तरतथागतकर्मनिर्देशेन परिदीपितम् । एवमिमानि सप्त वज्रपदानि स्वलक्षणनिर्देशतो विस्तरेण यथासूत्रमनुगन्तव्यानि । कः पुनरेषामनुश्लेषः ।
(र्ग्व्७) बुद्धाद्धर्मो धर्मतश्चार्यसंघः संघे गर्भो ज्ञानधात्वाप्तिनिष्ठः ।
तज्ज्ञानाप्तिश्चाग्रबोधिर्बलाद्यैर्धमैर्युक्ता सर्वसत्त्वार्थकृद्भिः ॥ ३ ॥

उक्तः शास्त्रसंबन्धः ।

इदानीं श्लोकानामर्थो वक्तव्यः । ये सत्त्वास्तथागतेन विनीतास्ते तथागतं शरणं गच्छन्तो धर्मतानिष्यन्दाभिप्रसादेन धर्म च संघं च शरणं गच्छन्ति । अतस्तत्प्रथमतो बुद्धरत्नमधिकृत्य श्लोकः ।

यो बुद्धत्वमनादिमध्यनिधनं शान्तं विबुद्धः स्वयं
बुद्ध्वा चाबुधबोधनार्थमभयं मार्गं दिदेश ध्रुवम् ।
तस्मै ज्ञानकृपासिवज्रवरधृग्दुःखङ्कुरैकच्छिदे
नानादृग्गहनोपगूढविमतिप्राकारभेत्त्रे नमः ॥ ४ ॥

अनेन किं दर्शयति ।

असंस्कृतमनाभोगमपरप्रत्ययोदितम् ।
बुद्धत्वं ज्ञानकारुण्यशक्त्युपेतं द्वयार्थवत् ॥ ५ ॥

अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं बुद्धत्वमुद्भावितम् । अष्टौ गुणाः कतमे । असंस्कृतत्वमनाभोगतापरप्रत्ययाभिसंबोधिर्ज्ञानं करुणा शक्तिः स्वार्थसंपत्परार्थसंपदिति ।

(र्ग्व्८) अनादिमध्यनिधनप्रकृतत्वादसंस्कृतम् ।
शान्तधर्मशरीरत्वादनाभोगमिति स्मृतम् ॥ ६ ॥
प्रत्यात्ममधिगम्यत्वादपरप्रत्ययोदयम् ।
ज्ञानमेवं त्रिधा बोधात्करुणा मार्गदेशनात् ॥ ७ ॥
शक्तिर्ज्ञानकृपाभ्यां तु दुःखक्लेशनिबर्हणात् ।
त्रिभिराद्यैर्गुणैः स्वार्थः परार्थः पश्चिमैस्त्रिभिः ॥ ८ ॥

संस्कृतविपर्ययेणासंस्कृतं वेदितय्वम् । तत्र संस्कृतमुच्यते यस्योत्पादोऽपि प्रज्ञायतेस्थितिरपि भङ्गोऽपि प्रज्ञायते । तदभावाद्बुद्धत्वमनादिमध्यनिधनमसंस्कृतधर्मकाय प्रभावितं द्रष्टव्यम् । सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगम् । स्वयंभूज्ञानाधिगम्यत्वादपरप्रत्ययोदयम् । उदयोऽत्राभिसंबोधोऽभिप्रेतोत्पादः । इत्यसंस्कृतादप्रवृत्तिलक्षणादपि तथागतत्वादनाभोगतः सर्वसंबुद्धकृत्यमा संसारकोटेरनुपरतमनुपच्छिन्नं प्रवर्तते ।

इत्येवमत्यद्भुताचिन्त्यविषयं बुद्धत्वमश्रुत्वा परतः स्वयमनाचार्यकेण स्वयंभूज्ञानेन निरभिलाप्यस्वभावतामभिसंबुध्य तदनुबोधं प्रत्यबुधानामपि जात्यन्धानां परेषामनुबोधाय तदनुगामिमार्गव्युपदेशकरणादनुत्तरज्ञानकरुणान्वितत्वं वेदितव्यम् । मार्गस्याभयत्वं लोकोत्तरत्वात् । लोकोत्तरत्वमपुनरावृत्तितश्च । यथाक्रमं परदुःखक्लेशमूलसमुद्घातं प्रत्यनयोरेव तथागतज्ञानकरुणयोः शक्तिरसिवज्रदृष्टान्तेन परिदीपिता । तत्र दुःखमूलं समासतो या कचिद्भवेषु नामरूपाभिनिर्वृत्तिः । क्लेशमूलं य काचित्सत्कायाभिनिवेशपूर्विका दृष्टिर्विचिकित्सा च । तत्र नामरूपसंगृहीतं दुःखमभिनिर्वृत्तिलक्षणत्वादङ्कुरस्थानीयं वेदितव्यम् । (र्ग्व्९) तच्छेत्तृत्वे तथागतज्ञानकरुणायोः शक्तिरसिदृष्टन्तेनोपमिता वेदितव्या । दृष्टिविचिकित्सासम्गृहीतो दर्शनमार्गप्रहेयः । क्लेशो लौकिकज्ञानदुरवगाहो दुर्भेदंत्वाद्वनगहनोपगूढप्राकारसदृशः । तद्भेत्तृत्वात्तथागतज्ञानकरुणयोः शक्तिर्वज्रदृष्टान्तेनोपमिता वेदितव्या ।

इत्येते यथाद्दिष्टाः षट्तथागतगुणा विस्तरविभागनिर्देशतोऽनयैवानुपूर्व्या सर्वबुद्धविषयावतारज्ञानालोकालंकारसूत्रानुसारेणानुगन्तव्याः । तत्र यदुक्तमनुत्पादोऽनिरोध इति मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्संबुद्ध एष इत्यनेन तावदसंस्कृतलक्षणस्तथागत इति परिदीपितम् । यत्पुनरनन्तरं विमलवैडूर्यपृथिवीशक्रप्रतिबिम्बोदाहरणमादिं कृत्वा यावन्नवभिरुदाहरणैरेतमेवानुत्पादानिरोधतथागतार्थमधिकृत्याह । एवमेव मञ्जुश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धो नेञ्जते न विठपति न प्रपञ्चयति न कल्पयति न विकल्पयति । अकल्पोऽविकल्पोऽचित्तोऽमनसिकारः शीतिभूतोऽनुत्पादोऽनिरोधोऽदृष्टोऽश्रुतोऽनाघ्रातोऽनास्वादितोऽस्पृष्टोऽनिमित्तोऽविज्ञप्तिकोऽविज्ञपनीय इत्येवमादिरुपशमप्रभेदप्रदेशनिर्देशः । अनेन स्वक्रियासु सर्वप्रपञ्चविकल्पोपशान्तत्वादनाभोगस्तथागत इति परिदीपितम् । तत ऊर्ध्वमुदाहरणनिर्देशादवशिष्टेन ग्रन्थेन सर्वधर्मधर्मतथताभिसंबोधमुखेष्वपरप्रत्ययाभिसंबोधस्तथागतस्य परिदीपितः । यत्पुनरन्ते षोडशाकारां तथागतबोधिं निर्दिश्यैवमाह । तत्र मञ्जुश्रीस्तथागतस्यैवंरूपान् सर्वधर्मानभिसंबुध्य सत्त्वानां च धर्मधातुं व्यवलोक्याशुद्धमविमलं साङ्गनं विक्रीडिता नाम सत्त्वेषु (र्ग्व्१०) महाकरुणा प्रवर्तत इति । अनेन तथागतस्यानुत्तरज्ञानकरुणान्वितत्वमुद्भावितम् । तत्रैवंरूपान् सर्वधर्मानिति यथापूर्व निर्दिष्टानभावस्वभावात् । अभिसंबुध्येति यथाभूतमविकल्पबुद्धज्ञानेन ज्ञात्वा । सत्त्वानामिति नियतानियतमिथ्यानियतराशिव्यवशितानाम् । धर्मधातुमिति स्वधर्मताप्रकृतिनिर्विशिष्टत्तथागतगर्भम् । व्यवलोक्येति सर्वाकारमनावरणेन बुद्धचक्षुषा दृष्ट्वा । अशुद्धं क्लेशावरणेन बालपृथग्जनानाम् । अविमलं ज्ञेयावरणेन श्रावकप्रत्येकबुद्धानाम् । साङ्गनं तदुभयान्यतमविशिष्टतया बोधिसत्त्वानाम् । विक्रीडिता विविधा संपन्नविनयोपायमुखेषु
सुप्रविष्टत्वात् । सत्त्वेषु महाकरुणा प्रवर्तत इति समतया सर्वसत्त्वनिमित्तमभिसंबुद्धबोधेः स्वधर्मताधिगमसंप्रापणाशयत्वात् । यदित ऊर्ध्वमनुत्तरज्ञानकरुणाप्रवृत्तेरसमधर्मचक्रप्रवर्तनाभिनिर्हारप्रयोगाश्रंसनमियमनयोः परार्थकरणे शक्तिर्वेदितव्या । तत्रैषामेव यथाक्रमं षण्णां तथागतगुणानामाद्यैस्त्रिभिरसंस्कृतादिभिर्योगः स्वार्थसंपत् । त्रिभिरवशिष्टैर्ज्ञानादिभिः परार्थसंपत् । अपि खलु ज्ञानेन परमनित्योपशान्तिपदस्वाभिसंबोधिस्थानगुणात्स्वार्थसंपत्परिदीपिता । करुणाशक्तिभ्यामनुत्तरमहाधर्मचक्रप्रवृत्तिस्थानगुणात्परार्थसंपदिति ।

अतो बुद्धरत्नाद्धर्मरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः ।

यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतो
ऽसक्यस्तर्कयितुं निरुक्त्यपगतः प्रत्यात्मवेद्यः शिवः ।
(र्ग्व्११) तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे
सर्वारम्वण रागदोषतिमिरव्याघातकर्त्रे नमः ॥ ९ ॥

अनेन किं दर्शितम् ।

अचिन्त्याद्वयनिष्कल्पशुद्धिव्यक्तिविपक्षतः ।
यो येन च विरागोऽसौ धर्मः सत्यद्विलक्षणः ॥ १० ॥

अनेन समासतोऽष्टाभिर्गुणैः संगृहीतं धर्मरत्नमुद्भावितम् । अष्टौ गुणाः कतमे । अचिन्त्यत्वमद्वयता निर्विकल्पता शुद्धिरभिव्यक्तिकरणं प्रतिपर्क्षता विरागो विरागहेतुरिति ।

निरोधमार्गसत्याभ्यां संगृहीता विरागिता ।
गुणैस्त्रिभिस्त्रिभिश्चैते वेदितव्ये यथाक्रमम् ॥ ११ ॥

एषामेव यथाक्रमं षण्णां गुणानां त्रिभिराद्यैरचिन्त्याद्वयनिर्विकल्पतागुणैर्निरोधसत्यपरिदीपनाद्विरागसंग्रहो वेदितव्यः । त्रिभिरवशिष्टैः शुद्ध्यभिव्यक्तिप्रतिपक्षतागुणैर्मार्गसत्यपरिदीपनाद्विरागहेतुसंग्रह इति । यश्च विरागो निरोधसत्यं येन च विरागो मार्गसत्येन तदुभयमभिसमस्य व्यवदानसत्य द्वयलक्षणो विरागधर्म इति परिदीपितम् ।

अतर्क्यत्वादलाप्यत्वादार्यज्ञानादचिन्यता ।
शिवत्वादद्वयाकल्पौ शुद्ध्यादि त्रयनर्कवत् ॥ १२ ॥

समासतो निरोधसत्यस्य त्रिभिः कारणैरचिन्त्यत्वं वेदितव्यम् । कतमैस्त्रिभिः । असत्सत्सदसन्नोभयप्रकारैश्चतुर्भिरपि तर्कागोचरत्वात् । सर्वरुतरवितघोषवाक्पथनिरुक्तिसंकेतव्यवहाराभिलापैरनभिलाप्यत्वात् । आर्याणां च प्रत्यात्मवेदनीयत्वात् ।

(र्ग्व्१२) तत्र निरोधसत्यस्य कथमद्वयता निर्विकल्पता च वेदितव्या । यथोक्तं भगवता । शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मा । तत्र द्वयमुच्यते कर्म क्लेशांश्च । विकल्प उच्यते कर्मक्लेशसमुदयहेतुरयोनिशोमनसिकारः । तत्प्रकृतिनिरोधप्रतिवेधाद्द्वयविकल्पासमुदाचारयोगेन यो दुःखस्यात्यन्तमनुत्पाद इदमुच्यते दुःखनिरोधसत्यम् । न खलु कस्यचिद्धर्मस्य विनाशाद्दुःखनिरोधसत्यं परिदीपितम् । यथोक्तम् । अनुत्पादानिरोधे मञ्जुश्रीश्चित्तमनोविज्ञानानि न प्रवर्तन्ते । यत्र चित्तमनोविज्ञानानि न प्रवर्तन्ते तत्र न कश्चित्परिकल्पो येन परिकल्पेनायोनिशोमनसिकुर्यात् । स योनिशोमनसिकारप्र युक्तोऽविद्यां न समुत्वापयति । यच्चाविद्यासमुत्थानं तद्द्वादशानां भवाङ्गानामसमुत्थानम् । साजातिरिति विस्तरः । यथोक्तम् । न खलु भगवन् धर्मविनाशो दुःखनिरोधः । दुःखनिरोधनाम्ना भगवन्ननादिकालिकोऽकृतोऽजातोऽनुत्पन्नोऽक्षयः क्षयापगतः नित्यो ध्रुवः शिवः शाश्वतः प्रकृतिपरिशुद्धः सर्वक्लेशकोशविनिर्मुक्तो गङ्गावालिकाव्यतिवृत्तैरविनिर्भागैरचिन्त्यैर्बुद्धधर्मैः समन्वागतस्तथागतधर्मकायो देशितः । अयमेव च भगवंस्तथागतधर्मकायोऽविनिर्मुक्तक्लेशकोशस्तथागतगर्भः सूच्यते । इति सर्वविस्तरेण यथासूत्रमेव दुःखनिरोधसत्यव्यवस्थानमनुगन्तव्यम् ।

अस्य खलु दुःखनिरोधसंज्ञितस्य तथागतधर्मकायस्य प्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गस्त्रिविधेन साधर्म्येण दिनकरसदृशः वेदितव्यः । मण्डलविशुद्धिसाधर्म्येण सर्वोपक्लेशमलविगतत्वात् । रूपाभिध्यक्तिकरणसाधर्म्येण सर्वाकारज्ञेयावभासकत्वात् । तमःप्रतिपक्षसाधर्म्येण च सर्वाकारसत्यदर्शनविबन्धप्रतिपक्षभूतत्वात् ।

(र्ग्व्१३) विबन्ध पुनरभुतवस्तुनिमित्तारम्बणमनसिकारपूर्विका रागद्वेषमोहोत्पत्तिरनुशयपर्युत्थानयोगात् । अनुशयतो हि बालानाम भूतमतत्स्वभावं वस्तु शुभाकारेण वा निमित्तं भवति रागोत्पत्तितः । प्रतिघाकारेण वा द्वेषोत्पत्तितः । अविद्याकारेण वा मोहोत्पत्तितः । तच्च रागद्वेषमोहनिमित्तमयथाभुतमारम्बणं कुर्वतामयोनिशोमनसिकारश्चित्तं पर्याददाति । तेषामयोनिशोमनसिकारपर्यवस्थितचेतसां रागद्वेषमोहानामन्यतक्लेशसमुदाचारो भवति । ते ततोनिदानं कायेन वाचा मनसा रागजमपि कर्माभिसंस्कुर्वन्ति । द्वेषजमपि मोहजमपि कर्माभिसंस्कुर्वन्ति । कर्मतश्च पुनर्जन्मानुबन्ध एव भवति । एवमेषां बालानामनुशयवताम् । निमित्तग्राहिणामारम्बणचरितानामयोनिशोमनसिकारसमुदाचारात्क्लेशसमुदयः । क्लेशमुदायात्कर्मसमुदयः । कर्मसमुदयाज्जन्मसमुदयो भवति । स पुनरेष सर्वाकारक्लेशकर्मजन्मसंक्लेशो बालानामेकस्य धातोर्यथाभूतमज्ञानाददर्शनाच्च प्रवर्तते ।

स च तथा द्रष्टव्यो यथा परिगवेषयन्न तस्य किंचिन्निमित्तमारम्बणं वा पश्यति । स यदा न निमित्तं नारम्बणं वा पश्यति तदा भूतं पश्यति । एवमेते धर्मास्तथागतेनाभिसंबुद्धाः समतया समा इति । य एवमसतश्च निमित्तारम्बणस्यादर्शनात्सतश्च यथाभूतस्य परमार्थसत्यस्य दर्शनात्तदुभयोरनुत्क्षेपाप्रक्षेपसमताज्ञानेन सर्वधर्मसमताभिसंबोधः सोऽस्य सर्वाकारस्य तत्त्वदर्शनविबन्धस्य प्रतिपक्षो वेदितव्यो यस्योदयादितरस्यात्यन्तमसंगतिरसमवधानं प्रवर्तते । स खल्वेष धर्मकायप्राप्तिहेतुरविकल्पज्ञानदर्शनभावनामार्गो विस्तरेण यथासूत्रं प्रज्ञापारमितानुसारेणानुगन्तव्यः ।

अतो महायानधर्मरत्नादवैवर्तिकबोधिसत्त्वगणरत्नप्रभावनेति तदनन्तरं तदधिकृत्य श्लोकः ।

(र्ग्व्१४) ये सम्यक्प्रतिविध्य सर्वजगतो नैरात्म्यकोटिं शिवां
तच्चित्तप्रकृतिप्रभास्वरतया क्लेशास्वभावेक्षणात् ।
सर्वत्रानुगतामनावृतधियः पश्यन्ति संबुद्धतां
तेभ्यः सत्त्वविशुद्ध्यनन्तविषयज्ञानेक्षणेभ्यो नमः ॥ १३ ॥

अनेन किं दर्शितम् ।

यथावद्यावदध्यात्मज्ञानदर्शनशुद्धितः ।
धीमतामविवर्त्यानामनुत्तरगुणैर्गणः ॥ १४ ॥
अनेन समासतोऽवैवर्तिकबोधिसत्त्वगणरत्नस्य द्वाभ्यामाकाराभ्यां यथावद्भाविकतया यावद्भाविकतया च लोकोत्तरज्ञानदर्शनविशुद्धितोऽनुत्तरगुणान्वितत्वमुद्भावितम् ।

यथावत्तज्जगच्छन्तधर्मतावगमात्स च ।
प्रकृतेः परिशुद्धत्वात्क्लेशस्यादिक्षयेक्षणात् ॥ १५ ॥

तत्र यथावद्भाविकता कृत्स्नस्य पुद्गलधर्माख्यस्य जगतो यथावन्नैरात्म्यकोटेरव गमाद्वेदितव्या । स चायमवगमोऽत्यन्तादिशान्तस्वभावतया पुद्गलधर्माविनाशयोगेन समासतो द्वाभ्यां कारणाभ्यामुत्पद्यते । प्रकृतिप्रभास्वरतादर्शनाच्च चित्तस्यादिक्षयनिरोधदर्शनाच्च तदुपक्लेशस्य । तत्र या चित्तस्य (र्ग्व्१५) प्रकृतिप्रभास्वरता यश्च तदुपक्लेश इत्येतद्द्वयमनास्रवै धातौ कुशलाकुशलयोश्चित्तयोरेकेचरत्वाद्द्वितीयचित्तानभिसंधानयोगेन परमदुष्प्रतिवेध्यम् । अत आह । क्षणिकुं भगवन् कुशलं चित्तम् । न क्लेशैः संक्लिश्यते । क्षणिकमकुशलं चित्तम् । न संक्लिष्टमेव तच्चित्तं क्लेशैः । न भगवन् क्लेशास्तच्चित्तं स्पृशन्ति । कथमत्र भगवन्नस्पर्शनधर्मि चित्तं तमःक्लिष्टं भवति । अस्ति च भगवन्नुपक्लेशः । अस्त्युपक्लिष्टं चित्तम् । अथ च पुनर्भगवन् प्रकृतिपरिशुद्धस्य चित्तस्योपक्लेशार्थो दुष्प्रतिवेध्यः । इति विस्तरेण यथावद्भाविकतामारभ्य दुष्प्रतिविधार्थनिर्देशो यथासूत्रमनुगन्तव्यः ।

यावद्भाविकता ज्ञेयपर्यन्तगतया धिया ।
सर्वसत्त्वेषु सर्वज्ञधर्मतास्तित्वदर्शनात् ॥ १६ ॥

तत्र यावद्भाविकता सर्वज्ञेयवस्तुपर्यन्तगतया लोकोत्तरया प्रज्ञया सर्वसत्त्वेष्वन्तशस्तिर्यग्योनिगतेष्वपि तथागतगर्भास्तित्वदर्शनाद्वेदितव्या । तच्च दर्शनं बोधिसत्त्वस्य प्रथमायामेव बोधिसत्त्वभूमावुत्पद्यते सर्वत्रगाथने धर्मधातुप्रतिवेधात् ।

(र्ग्व्१६) इत्येवं योऽवबोधस्तत्प्रत्यात्मज्ञानदर्शनम् ।
तच्छुद्धिरमले धातावसङ्गाप्रतिघा ततः ॥ १७ ॥

इत्येवमनेन प्रकारेण यथावद्भाविकतया च यावद्भाविकतया च यो लोकोत्तरमार्गावबोधस्तदार्याणां प्रत्यात्ममनन्यसाधारणं लोकोत्तरज्ञानदर्शनमभिप्रेतम् । तच्च समासतो द्वाभ्यां कारणाभ्यामितप्रादेशिकज्ञानदर्शनमुपनिधाय सुविशुद्धिरित्युच्यते । कतमाभ्यां द्वाभ्याम् । असङ्गत्वादप्रतिहतत्वाच्च । तत्र यथावद्भाविकतया सत्त्वधातुप्रकृतिविशुद्धविषयत्वादसङ्गं यावद्भाविकतयानन्तेज्ञेयवस्तुविषयत्वादप्रतिहतम् ।

ज्ञानदर्शनशुद्ध्या बुद्धज्ञानादनुत्तरात् ।
अवैवर्त्याद्भवन्त्यार्याः शरणं सर्वदेहिनाम् ॥ १८ ॥

इतीयं ज्ञानदर्शनशुद्धिरविनिवर्तनीयभूमिसमारूढानां बोधिसत्त्वानामनुत्तरायास्तथागतज्ञानदर्शनविशुद्धेरुपनिषद्गतत्वादनुत्तरा वेदितव्या तदन्येभ्यो वा दान शीलादिभ्यो बोधिसत्त्वगुणेभ्यो मद्योगादविनिवर्तनीया बोधिसत्त्वाः शरण भूता भवन्ति सर्वसत्त्वानामिति ।

श्रावकसंघरत्नाग्रहणं बोधिसत्त्वगणरत्नानन्तरं तत्पूजानर्हत्वात् । न हि जातु पण्डिता बोधिसत्त्वश्रावकगुणान्तरज्ञा महाबोधिविपुलपुण्यज्ञानसंभारापूर्यमाणज्ञानकरुणामण्डलमप्रमेयसत्त्वधातुगणसंतानावभासप्रत्युपस्थितमनुत्तरतथागतपूर्णचन्द्र गमनानुकूलमार्गप्रतिपन्नं (र्ग्व्१७) बोधिसत्त्वनवचन्द्रमुत्सृज्य प्रादेशिकज्ञाननिष्ठागतमपि तारारूपवत्स्वसंतानावभासप्रत्युपस्थितं श्रावकं नमस्यन्ति । परहितक्रियाशयविशुद्धेः संनिश्रयगुणेनैव हि प्रथमचित्तोत्पादिकोऽपि बोधिसत्त्वो निरनुक्रोशमनन्यपोषिगण्यमनास्रवशीलसंवरविशुद्धिनिष्ठागतमार्यश्रावकमभिभवति । प्रागेव तदन्यैर्दशवशितादिभिर्बोधिसत्त्वगुणैः । वक्ष्यति हि ।

यः शीलमात्मार्थकरं विभर्ति दुःशीलसत्त्वेषु दयावियुक्तेः ।
आत्मंभरिः शीलधनप्रशुद्धो विशुद्धशीलं न तमाहुरार्यम् ॥
यः शीलमादाय परोपजीव्यं करोति तेजोऽनिलवारिभूवत् ।
कारुण्यमुत्पाद्य परं परेषु स शीलवांस्तत्प्रतिरूपकोऽन्य इति ॥

तत्र केनार्थेन किमधिकृत्य भगवता शरणत्रयं प्रज्ञप्तम् ॥

शास्तृशासनशिष्यार्थैरधिकृत्य त्रियानिकान् ।
कारत्रयाधिमुक्तांश्च प्रज्ञप्तं शरणत्रयम् ॥ १९ ॥

(र्ग्व्१८) बुद्धः शरणमग्र्यत्वाद्द्विपदानामिति शास्तृगुणोद्भावनार्थेन बुद्धभावायोपगतान् बोधिसत्त्वान् पुद्गलान् बुद्धे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम् ।

धर्मः शरणमग्र्यत्वाद्विरागाणामिति शास्तृः शासन गुणोद्भावनार्थेन स्वयं प्रतीत्य गम्भीरधर्मानुबोधायोपगतान् प्रत्येकबुद्धयानिकान् पुद्गलान् धर्मे च परमकारक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम् ।

संघः शरणमग्र्यत्वाद्गणानामिति शास्तुः शासने सुप्रतिपन्नशिष्यगुणोद्भावनार्थेन परतः श्रवघोषस्यानुगमायोपगतान् श्रावकयानिकान् पुद्गलान् संघे च परमकाराक्रियाधिमुक्तानधिकृत्य देशितं प्रज्ञप्तम् । इत्यनेन समासतस्त्रिविधेनार्थेन षट्पुद्गलानधिकृत्य प्रभेदयो भगवता संवृतिपदस्थानेन सत्त्वानामनुपूर्वनयावतारार्थमिमानि त्रीणि शरणानि देशितानि प्रज्ञप्तानि ।

त्याज्यत्वान्मोषधर्मत्वादभावात्सभयत्वतः ।
धर्मो द्विधार्यसंघश्च नात्यन्तं शरणं परम् ॥ २० ॥

द्विविधो धर्मः । देशनाधर्मोऽधिगमधर्मश्च । तत्र देशनाधर्मः सूत्रादिदेशनाया नामपदव्यञ्जनकायसंगृहीतः । स च मार्गाभिसमयपर्यवसानत्वात्कोलोपम इत्युक्तः । अधिगमधर्मो हेतुफलभेदेन द्विविधः । यदुत मार्गसत्यं निरोधसत्यं (र्ग्व्१९) च । येन यदधिगम्यत इति कृत्वा । तत्र मार्गः संस्कृतलक्षणपर्यापन्नः । यत्संस्कृतलक्षणपर्यापन्नं तन्मृषामोषधर्मि । यन्मृषामोषधर्मि तदसत्यम् । यदसत्यं तदनित्यम् । यदनित्यं तद्शरणम् । यश्च तेन मार्गेण निरोधोऽधिगतः सोऽपि श्रावकनयेन प्रदीपोच्छेदवत्क्लेशदुःखाभावमात्रप्रभावितः । न चाभावः शरणमशरणं वा भवितुमर्हति ।

संघ इति त्रैयानिकस्य गणस्यैतदधिवचनम् । स च नित्यं सभयस्तथागतशरणगतो निःसरणपर्येषी शैक्षः सकरणीयः प्रतिपन्नकश्चानुत्तरायां सम्यक्संबोधाविति । कथं समयः । यस्मादर्हतामपि क्षीणपुनर्भवानामप्रहीणत्वाद्वासंनायाः सततसमितं सर्वासंस्कारेषु तीव्रा भयसंज्ञा प्रत्युपस्थिता भवति स्याद्यथापि नामोत्क्षिप्तासिके वधकपुरुषे तस्मात्तेऽपि नात्यन्तसुखनिःसरणमधिगताः । न हि शरणं शरणं पर्येषते । यथैवा शरणाः सत्त्वा येन तेन भयेन भीतास्ततस्ततो निःसरणं पर्येषन्ते तद्वदर्हतामप्यस्ति तद्भयं यतस्ते भयाद्भीतास्तथागतमेव शरणमुपगच्छन्ति । यश्चैवं सभयत्वाच्छरणमुपगच्छत्यवश्यं भयान्निःसरणं स पर्येष्यते । निःसरणपर्येषित्वाच्च भयनिदानप्रहाणमधिकृत्य शैक्षो भवति सकरणीयः । शैक्षत्वात्(र्ग्व्२०) प्रतिपन्नको भवत्यभयमार्यभस्थानमनुप्राप्तुं यदुतानुत्तरां सम्यक्संबोधिम् । तस्मात्सोऽपि तदङ्गशरणत्वान्नात्यन्तं शरणम् । एवमिमे द्वे शरणे पर्यन्तकाले शरणे इत्युच्येते ।

जगच्छरणमेकत्र बुद्धत्वं पारमार्थिकम् ।
मुनेर्धर्मशरीरत्वात्तन्निष्ठत्वाद्गणस्य च ॥ २१ ॥

अनेन तु पूर्वोक्तेन विधिनानुत्पादानिरोधप्रभावितस्य मुनेर्व्यवदानसत्यद्वयविरागधर्मकायत्वाद्धर्मकायविशुद्धिनिष्ठाधिगमपर्यवसानत्वाच्च त्रैयानिकस्य गणस्य पारमार्थिकमेवात्राणेऽशरणे लोकेऽपरान्तकोटिसममक्षयशरणं नित्यशरणं ध्रुवशरणं यदुत तथागता अर्हन्तः सम्यक्संबुद्धाः । एव च नित्यध्रुवशिवशाश्वतैकशरणनिर्देशो विस्तरेणार्यश्रीमालासूत्रानुसारेणानुगन्तव्यः ।

रत्नानि दुर्लभोत्पादान निर्मलत्वात्प्रभावतः ।
लोकालंकारभूतत्वादग्रत्वान्निर्विकारतः ॥ २२ ॥

समासतः षड्विधेन रत्नसाधर्म्येणैतानि बुद्धधर्मसंघाख्यानि त्रीणि रत्नान्युच्यन्ते । यदुत दुर्लभोत्पादभावसाधर्म्येण बहुभिरपि कल्पपरिवर्तेरनवाप्तकुशलमूलानां तत्समवधानाप्रतिलम्भात् । वैमल्यसाधर्म्येण सर्वाचारमलविगतत्वात् । प्रभावसाधर्म्येण षडभिज्ञाद्यचिन्त्यप्रभावगुणयोगात् । लोकालंकारसाधर्म्येण सर्वजगदाशयशोभानिमित्तत्वात् । रत्नप्रतिवर्णिकाग्र्यसाधर्म्येण लोकोत्तरत्वात् । स्तुतिनिन्दाद्यविकारसाधर्म्येणासंस्कृतस्वभावत्वादिति ।

(र्ग्व्२१) रत्नत्रयनिर्देशानन्तरं यस्मिन् सत्येव लौकिकलोकोत्तरविंशुद्धियोनिरत्नत्रयमुत्पद्यते तदधिकृत्य श्लोकः ।

समला तथताथ निर्मला विमलाः बुद्धगुणा जिनक्रिया ।
विषयः परमार्थदर्शिनां शुभरत्नत्रयसर्गको यतः ॥ २३ ॥

अनेन किं परिदीपितम् ।

गोत्रं रत्नत्रयस्यास्य विषयः सर्वदर्शिनाम् ।
चतुर्विधः स चाचिन्त्यश्चतुर्भिः कारणैः क्रमात् ॥ २४ ॥

तत्र समला तथता यो धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युच्यते । निर्मला तथता स एव बुद्धभूमावाश्रयपरिवृत्तिलक्षणो यस्तथागतधर्मकाये इत्युच्यते । विमलबुद्धगुणा ये तस्मिन्नेवाश्रयपरिवृत्तिलक्षणे तथागतधर्मकाये लोकोत्तरा दशबलादयो बुद्धधर्माः । जिनक्रिया तेषामेव दशबलादीनां बुद्धधर्माणां प्रतिस्वमनुत्तरं कर्म यदनिष्ठितमविरतमप्रतिप्रश्रब्धं बोधिसत्त्वव्याकरणकथां नोपच्छिनत्ति । तानि पुनरिमानि चत्वारि स्थानानि यथासंख्यमेव चतुर्भिः कारणैरचिन्त्यत्वात्सर्वज्ञविषया इत्युच्यन्ते । कतमैश्चतुर्भिः ।

शुद्ध्युपक्लिष्टतायोगात्निःसंक्लेशविशुद्धितः ।
अविनिर्भागधर्मत्वादनाभोगाविकल्पतः ॥ २५ ॥

तत्र समला तथता युगपदेककालं विशुद्धा च संक्लिष्टा चेत्यचिन्त्यमेतत्स्थानं गम्भीरधर्मनयाधिमुक्तानामपि प्रत्येकबुद्धानामगोचरविषत्वात् । यत (र्ग्व्२२) आह । द्वाविमौ देवि धर्मौ दुष्प्रतिवेध्यौ । प्रकृतिपरिशुद्धिचित्तं दुष्प्रतिवेध्यम् । तस्यैव चित्तस्योपक्लिष्टता दुष्प्रतिवेध्या । अनयोर्देवि धर्मयोः श्रोता त्वं वा भवेरथवा महाधर्मसमन्वागता बोधिसत्त्वाः । शेषाणां देवि सर्वश्रावकप्रत्येकबुद्धानां तथागतश्रद्धागमनीया वेवैतो धर्माविति ।

तत्र निर्मला तथता पूर्वमलासंक्लिष्टा पश्चाद्विशुद्धेत्यचिन्त्यमेतत्स्थानम् । यताह । प्रकृतिप्रभास्वरं चित्तम् । तत्तथैव ज्ञानम् । तत उच्यते । एकक्षणलक्षणसमायुक्तया प्रज्ञया सम्यक्संबोधिरभिसंबुद्धेति ।

तत्र विमला बुद्धगुणाः पौर्वापर्येणैकान्तसंक्लिष्टायामपि पृथग्जनभूमावविनिर्भागधर्मतया निर्विशिष्टा विद्यन्त इत्यचिन्त्यमेतत्स्थानम् । यताह ।

न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यत्र तथागतज्ञानं न सकलमनुप्रविष्टम् । अपि तु संज्ञाग्राहतस्तथागतज्ञानं न प्रज्ञायते । संज्ञाग्राहविगमात्पुनः सर्वज्ञज्ञानं स्वयंभूज्ञानमसङ्गतः प्रभवति । तद्यथापि नाम भो जिनपुत्र त्रिसाहस्रमहासहस्रलोकधातुप्रमाणं महापुस्तं भवेत् । तस्मिन् खलु पुनर्महापुस्ते त्रिसाहस्रमहासाहस्रलोकधातुः सकलसमाप्त आलिखितो भवेत् । महापृथिवीप्रमाणेन महापृथिवी । द्विसाहस्रलोकधातुप्रमाणेन द्विसाहस्रलोकधातुः । साहस्रलोकधातुप्रमाणेन साहस्रलोकधातुः । चातुर्द्वीपिकप्रमाणेन चातुर्द्वीपिकाः । महासमुद्रप्रमाणेन महासमुद्राः । जम्बूद्वीपप्रमाणेन जम्बूद्वीपाः । पूर्वविदेहद्वीपप्रमाणेन पूर्वविदेहद्वीपाः । गोदावरीद्वीपप्रमाणेन गोदावरीद्वीपाः । उत्तरकुरुद्वीपप्रमाणेनोत्तरकुरुद्वीपाः । सूमेरुप्रमाणेन सुमेरवः । (र्ग्व्२३) भूम्यवचरदेवविमानप्रमाणेन भूम्यवचरदेवविमानानि । कामावचरदेवविमानप्रमाणेन कामावचरदेवविमानानि । रूपावचरदेवविमानप्रमाणेन रूपावचरदेवविमानानि । तच्च महापुस्तं त्रिसाहस्रमहासाहस्रलोकधात्वायामविस्तरप्रमाणं भवेत् । तत्खालु पुनर्महापुस्तमेकस्मिन् परमाणुरजसि प्रक्षिप्तं भवेत् । यथा चैकपरमाणुरजसि तन्महापुस्तं प्रक्षिप्तं भवेत्तथान्येषु सर्वपरमाणुरजःसु तत्प्रमाणान्येव महापुस्तान्यभ्यन्तरप्रविष्टानि भवेयुः । अथ कश्चिदेव पुरुष उत्पद्यते पण्डितो निपुणो व्यक्तो मेधावी तत्रोपगमिकया मीमांसया समन्वागतः दिव्यं चास्य चक्षुः समन्तपरिशुद्धं प्रभास्वरं भवेत् । स दिव्येन चक्षुषा व्यवलोकयति । इदं महापुस्तमेवंभूतमिहैव परीत्ते परमाणुरजस्यनितिष्ठतम् । न कस्यचिदपि सत्त्वस्योपकारित्भूतं भवति । तस्यैवं स्यात् । यन्न्वहं
महावीर्यबलस्थाम्ना एतत्परमाणुरजो भित्त्वा एतन्महापुस्तं सर्वजगदुपजीव्यं कुर्याम् । स महावीर्यबलस्थाम संजनयित्वा सूक्ष्मेण वज्रेण तत्परमाणुरजो भित्त्वा यथाभिप्रायं तन्महापुस्तं सर्वजगदुपजीव्यं कुर्यात् । यथा चैकस्मात्तथाशेषेभ्यः परमाणुभ्यस्तथैव कुर्यात् । एवमेव भो जिनपुत्र तथागतज्ञानमप्रमाणज्ञानं सर्वसत्त्वोपजीव्यज्ञानं सर्वसत्त्वचित्तसंतानेषु सकलमनुप्रविष्टम् । सर्वाणि च तानि सत्त्वचित्तसंतानान्यपि तथागतज्ञानप्रमाणानि । अथ च पुनः संज्ञाग्राहविनिवद्धा (र्ग्व्२४) बाला न जानन्ति न प्रजानन्ति नानुभवन्ति न साक्षात्कुर्वन्ति तथागतज्ञानम् । ततस्तथागतोऽसङ्गेण तथागतज्ञानेन सर्वधर्मधातुसत्त्वभवनानि व्यवलोक्याचार्यसंज्ञी भवति । अहो बत इमे सत्त्वा यथावत्तथागतज्ञानं न प्रजानन्ति । तथागतज्ञानानुप्रविष्टाश्च । यन्न्वहमेषा सत्त्वानामार्येण मार्गोपदेशेन सर्वसंज्ञाकृतबन्धनापनयनं कुर्या यथा स्वयमेवार्यमार्गबलाधानेन महतीं संज्ञाग्रन्थिं विनिवर्त्य तथागतज्ञानं प्रत्यभिजानीरन् । तथागतसमतां चानुप्राप्नुयः । ते तथागतमार्गोपदेशेन सर्वसंज्ञाकृतबन्धनानि व्यपनयन्ति । अपनीतेषु च सर्वसंज्ञाकृतबन्धनेषु तत्तथागतज्ञानम प्रमाणं भवति सर्वजगदुपजीव्यमिति ।

तत्र जिनक्रिया युगपत्सर्वत्र सर्वकालमनाभोगेनाविकल्पतो यथाशयेषु यथावैनयिकेषु सत्त्वेष्वक्षूणमनुगुणं प्रवर्तत इत्यचिन्त्यमेतत्स्थानम् । यत आह । संक्षेपमात्रकेणावतारणार्थं सत्त्वानामप्रमाणमपि तथागतकर्म प्रमाणतो निर्दिष्टम् । अपि तु कुलपुत्र यत्तथागतस्य भूतं तथागतकर्म तदप्रमाणमचिन्त्यमविज्ञेयं सर्वलोकेन । अनुदाहरणमक्षरैः । दुःसंपादं परेभ्यः । अधिष्ठितं सर्वबुद्धक्षेत्रेषु । समतानुगतं सर्वबुद्धैः । समतिक्रान्तं सर्वाभोगक्रियाभ्यः । निर्विकल्पमाकाशसमतया । निर्नीताकारणं धर्मधातुक्रियया । इति विस्तरेण यावद्विशुद्धवैडूर्यमणिदुष्टान्तं कृत्वा निर्दिशति । तदनेन कुलपुत्र पर्यायेणैवं वेदितव्यमचिन्त्यं तथागतकर्म समतानुगतं च सर्वतोऽनवद्यं च त्रिरत्नवंशनुपच्छेत्तृ च । यत्राचिन्त्ये तथागतकर्मणि प्रतिष्ठितस्तथागत आकाशस्वभावतां च कायस्य न विजहाति (र्ग्व्२५) सर्वबुद्धक्षेत्रेषु च दर्शनं ददाति । अनभिलाप्यधर्मतां च वाचो न विजहाति यथारुतविज्ञप्त्या च सत्त्वेभ्यो धर्मं देशयति । सर्वचित्तारम्बणविगतश्च सर्वसत्त्वचित्तचरिताशयांश्च प्रजानातिति ।

बोध्यं बोधिस्तदङ्गानि बोधनेति यथाक्रमम् ।
हेतुरेकं पदं त्रीणि प्रत्ययस्तद्विशुद्धये ॥ २६ ॥

एषां खल्वपि चतुर्णामर्थपदानां सर्वज्ञेयसंग्रहमुपादाय प्रथमं बोद्धव्यपदं द्रष्टव्यम् । तदनुबोधो बोधिरिति द्वितीयं बोधिपदम् । बोधेरङ्गभूता बुद्धगुणा इति त्रितीयं बोध्यङ्गपदम् । बोध्यङ्गैरेव बोधनं परेषामिति चतुर्थ बोधनापदम् । इतीमानि चत्वारि पदान्यधिकृत्य हेतुप्रत्ययभावेन रत्नत्रयगोत्रव्यवस्थानं वेदितव्यम् ।

तत्रैषां चतुर्णां पदानां प्रथमं लोकोत्तरधर्मविजत्वात्प्रत्यात्मयोनिशोमनसिकारसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिहेतुरनुगन्तव्यः । इत्येवमेकं पदं हेतुः । कथं त्रीणि प्रत्ययः । तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य दशबलादिभिर्बुद्धधर्मेर्द्वात्रिशदाकारं तथागतकर्म कुर्वन् परतो घोषसंनिश्रयेण तद्विशुद्धिमुपादाय त्रिरत्नोत्पत्तिप्रत्ययोऽनुगन्तव्यः । इत्येवं त्रीणि प्रत्ययः । अतः परमेषामेव चतुर्णा पदानामनुपूर्वमवशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः ।

तत्र समलां तथतामधिकृत्य यदुक्तं सर्वसत्त्वास्तथागतगर्भा इति तत्केनार्थेन ।

(र्ग्व्२६) बुद्धज्ञानान्तर्गमात्सत्त्वराशेस्तन्नैर्मल्यस्याद्वयत्वात्प्रकृत्या ।
बौद्धे गोत्रे तत्फलस्योपचारादुक्ताः सर्वे देहिनो बुद्धगर्भाः ॥ २७ ॥
संबुद्धकायस्फरणात्तथताव्यतिभेदतः ।
गोत्रतश्च सदा सर्वे बुद्धगर्भाः शरीरिणः ॥ २८ ॥

समासतस्त्रिविधेनार्थेन सदा सर्वसत्त्वास्तथागतगर्भा इत्युक्तं भगवता । यदुत सर्वसत्त्वेषु तथागतधर्मकायपरिस्फरणार्थेन तथागततथताव्यतिभेदार्थेन तथागतगोत्रसंभवार्थेन च । एषां पुनस्त्रयाणामर्थपदानामुतरत्र तथागतगर्भसूत्रानुसारेण निर्देशो भविष्यति । पूर्वतरं तु येनार्थेन सर्वत्राविशेषेण प्रवचने सर्वाकारं तदर्थसूचनं भवति तदप्याधिकृत्य निर्देक्ष्यामि । उद्दानम् ।

स्वभावहेत्वो फलकर्मयोगवृत्तिष्ववस्थास्वथ सर्वगत्वे ।
सदाविकारित्वगुणेष्वभेदे ज्ञेयोऽर्थसंधिः परमार्थधातो ॥ २९ ॥

समासतो दशविधमर्थमभिसंधाय परमतत्त्वज्ञानाविषयस्य तथागतधातोर्व्यवस्थानमनुगन्तव्यम् । दशविधोऽर्थः कतमः । तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्यर्थोऽवस्थाप्रभेदार्थः सर्वत्रगार्थोऽविकारार्थोऽभेदार्थश्च । तत्र स्वभावर्थं हेत्वर्थ चारभ्य श्लोकः ।

सदा प्रकृत्यसंक्लिष्टः शुद्धरत्नाम्वराम्बुवत् ।
धर्माधिमुक्त्यधिप्रज्ञासमाधिकरुणान्वयः ॥ ३० ॥

(र्ग्व्२७) तत्र पूर्वेणं श्लोकार्थेन किं दर्शयति ।

प्रभावानन्यथाभावस्निग्धभावस्वभावतः ।
चिन्तामणिनभोवारिगुणसाधर्म्यमेषु हि ॥ ३१ ॥

य एते त्रयोऽत्र पूर्वमुद्दिष्टा एषु त्रिषु यथासंख्यमेव स्वलक्षणं सामान्यलक्षणं चारभ्य तथागतधातोश्चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम् । तत्र तथागतधर्मकाये तावच्चिन्तितार्थसमुद्धयादि प्रभावस्वभावतां स्वलक्षणमारभ्य चिन्तामणिरत्नसाधर्म्यं वेदितव्यम् । तथतायामनन्यथाभावस्वभावतां स्वलक्षणमारभ्याकाशसाधर्म्यं वेदितव्यम् । तथागतगोत्रे सत्त्वकरुणास्निग्धस्वभावतां स्वलक्षणमारभ्य वारिसाधर्म्य वेदितव्यम् । सर्वेषां चात्र सदात्यन्तप्रकृत्यनुपक्लिष्टतां प्रकृतिपरिशुद्धिं सामान्यलक्षणामारभ्य तदेव चिन्तामणिनभोवारिविशुद्धिगुणसाधर्म्यं वेदितव्यम् ।

तत्र परेण श्लोकार्धेन किं दर्शितम् ।

चतुर्धावरणं धर्मप्रतिभोऽप्यात्मदर्शनम् ।
संसारदुःखभीरूत्वं सत्त्वार्थं निरपेक्षता ॥ ३२ ॥
इच्छन्तिकानां तीर्थ्यानां श्रावकाणां स्वयंभुवाम् ।
अधिमुक्त्यातयो धर्माश्चत्वारः शुद्धिहेतवः ॥ ३३ ॥

समासत इमे त्रिविधाः सत्त्वाः सत्त्वराशौ संविद्यन्ते । भवाभिलाषिणो विभवाभिलाषिणस्तदुभयानभिलाषिणश्च । तत्र भवाभिलाषिणो द्विविधा वेदितव्याः । (र्ग्व्२८) मोक्षमार्गप्रतिहताश अपरिनिर्वाणगोत्रकाः सत्त्वा ये संसारमेवेच्छन्ति न निर्वाणं तन्नियतिपतिताश्चेहधार्मिका एव । तदेकत्या महायानधर्मविद्विषो यानधिकृत्यतदुक्तं भगवता । नाहं तेषां शास्ता न ते मम श्रावकाः । तानहं शारिपुत्र तमसस्तमोऽन्तरमन्धकारान्महान्धकारगामिनस्तमोभूयिष्ठा इति वदामि ।

तत्र विभवाभिलाषिणो द्विविधाः । अनुपायपतिता उपायपतिताश्च । तत्रानुपायपतिताः अपि त्रिविधाः । इतोबाह्या बहुनानाप्रकाराश्चकपरिब्राजकनिग्रन्थिपुत्रप्रभृतयोऽन्यतीर्थ्याः । इहधार्मिकाश्च तत्सभागचरिता एव श्राद्धा अपि दुर्गृहीतग्राहिणः । ते च पुनः कतमे । यदुत पुद्गलदृष्टयश्च परमार्थानधिमुक्ता यान् प्रति भगवता शून्यतानधिमुक्तो निर्विशिष्टो भवति तीर्थिकैरित्युक्तम् । शून्यतादृष्टयश्चाभिमानिका येषामिह तद्विमोक्षमुखेऽपि शून्यतायां माद्यमानानां शून्यतैव दृष्टिर्भवति यानधिकृत्याह । वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेवाभिमानिकस्य शून्यतादृष्टिरिति । तत्रोपायपतिता अपि द्विविधाः । श्रावकयानीयाश्च सम्यक्त्वनियाममवक्रान्ताः प्रत्येकबुद्धयानीयाश्च ।

तदुभयानाभिलाषिणः पुनर्महायानसंप्रस्थिताः परमतीक्ष्णेन्द्रियाः सत्त्वा ये नापि संसारमिच्छन्ति यथेच्छन्तिका नानुपायपतितास्तीर्थिकादिवन्नाप्युपायपतिताः श्रावकप्रत्येकबुद्धवत् । अपि तु संसारनिर्वाणसमतापत्ति मार्गप्रतिपन्नास्ते भवन्त्यप्रतिष्ठितनिर्वाणाशया निरुपक्लिष्टसंसारगतप्रयोगा दृढकरुणाध्याशयप्रतिष्ठितमूलपरिशुद्धा इति ।

(र्ग्व्२९) तत्र ये सत्त्वा भवाभिलाषिण इच्छन्तिकास्तन्नियतिपतिता इहधार्मिका एवोच्यन्ते मिथ्यात्वनियतः सत्त्वराशिरिति । ये विभवाभिलाषिणोऽप्यनुपायपतिता उच्यन्तेऽनियतः सत्त्वराशिरिति । ये विभवाभिलाषिण उपायपतितास्तदुभयानभिलाषिणश्च समताप्तिमार्गप्रतिपन्नास्त उच्यत्ते सम्यक्त्वनियतः सत्त्वराशिरिति । तत्र महायानसंप्रस्थितान् सत्त्वाननावरणगामिनः स्थापयित्वा य इतोऽन्ये सत्त्वास्तद्यथा । इच्छन्तिकास्तीर्थ्याः श्रावकाः प्रत्येकबुद्धाश्च । तेषामिमानि चत्वार्यावरणानि तथागतधातोरनधिगमायासाक्षात्क्रियायैसंवर्तन्ते । कतमानि च चत्वारि । तद्यथा महायानधर्मप्रतिघ इच्छन्तिकानामावरण यस्य प्रतिपक्षो महायानधर्माधिमुक्तिभावना बोधिसत्त्वानाम् । धर्मेष्वात्मदर्शनमन्यतीर्थानामावरणं यस्य प्रतिपक्षः प्रज्ञापारमिताभावना बोधिसत्त्वानाम् । संसारे दुःखसंज्ञा दुःखभीरुत्व श्रावकयानिकानामवरणं यस्य प्रतिपक्षो गगनगञ्जादिसमाधिभावना बोधिसत्त्वानाम् । सत्त्वार्थविमुखता सत्त्वार्थनिरपेक्षता प्रत्येकबुद्धयानिकानामावरणं यस्य प्रतिपक्षो महाकरुणाभावना बोधिसत्त्वानामिति ।

एतच्चतुर्विधमावरणमेषां चतुर्विधानां सत्त्वानां यस्य प्रतिपक्षानिमांश्चतुरोऽधिमुक्त्यादीन् भावयित्वा बोधिसत्त्वा निरुत्तरार्थधर्मकायविशुद्धिपरमतामधिगच्छन्त्येभिश्च विशुद्धिसमुदागमकारणैश्चतुर्भिरनुगता धर्मराजपुत्रा भवन्ति तथागतकुले । कथमिति ।

बीजं येषामग्रयानाधिमुक्तिर्माता प्रज्ञा बुद्धधर्मप्रसूत्यै ।
(र्ग्व्३०) गर्भस्थानं ध्यानसौख्यं कृपोक्ता धात्री पुत्रास्तेऽनुजाता मुनीनाम् ॥ ३४ ॥

तत्र फलार्थ कर्मार्थ चारभ्य श्लोकः ।

शुभात्मसुखनित्यत्वगुणपारमिता फलम् ।
दुःखनिर्विच्छमप्राप्तिच्छन्दप्रनिधिकर्मकः ॥ ३५ ॥

तत्र पूर्वेण श्लोकार्धेन किं दर्शितम् ।

फलमेषां समासेन धर्मकाये विपर्ययात् ।
चतुर्विधविपर्यासप्रतिपक्षप्रभावितम् ॥ ३६ ॥

य एतेऽधिमुक्त्यादयश्चत्वारो धर्मास्तथागतधातोर्विशुद्धिहेतव एषां यथासंख्यमेव समासतश्चतुर्विधविपर्यासविपर्ययप्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता फलं द्रष्टव्यम् । तत्र या रूपादिके वस्तुन्यनित्ये नित्यमिति संज्ञा । दुःखे सुखमिति । अनात्मन्यात्मेति । अशुभे शुभमिति संज्ञा । अयमुच्यते चतुर्विधो विपर्यासः । एतद्विपर्ययेण चतुर्विध एवाविपर्यासो वेदितव्यः । कतमश्चतुर्विधः । या तस्मिन्नेव रूपादिके वस्तुन्यनित्यसंज्ञा । दुःखसंज्ञा । अनात्मसंज्ञा । अशुभसंज्ञा । अयमुच्यते चतुर्विधविपर्यासविपर्ययः । स खल्वेष नित्यादिलक्षणं तथागतधर्मकायमधिकृत्येह विपर्यासोऽभिप्रेतो यस्य प्रतिपक्षेण चतुराकारा तथागतधर्मकायगुणपारमिता व्यवस्थापिता । तद्यथा नित्यपारमिता सुखपारमितात्मपारमिता सुभपारमितेति । एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः । विपर्यस्ता भगवन् सत्त्वा उपात्तेषु पञ्चसूपादानस्कन्धेषु । ते भवन्त्यनित्ये नित्यसंज्ञिनः । दुःखे सुखसंज्ञिनः । अनात्मन्यात्मसंज्ञिनः । अशुभे सुभसंज्ञिनः । सर्वश्रावकप्रत्येकबुद्धा अपि भगवन् शून्यताज्ञानेनादृष्टपूर्वे सर्वज्ञज्ञानविषये तथागतधर्मकाये (र्ग्व्३१) विपर्यस्ताः । ये भगवन् सत्त्वाः स्युर्भगवतः पुत्रा औरसा नित्यसंज्ञिन आत्मसंज्ञिनः सुखसंज्ञिनः शुभसंज्ञिनस्ते भगवन् सत्त्वाः स्युरविपर्यस्ताः । स्युस्ते भगवन् सम्यग्दर्शिनः । तत्कस्माद्धेतोः । तथागतधर्मकाय एव भगवन्नित्यपारमिता सुखपारमिता आत्मपारमिता शुभपारमिता । ये भगवन् सत्त्वास्तथागतधर्मकायमेवं पश्यन्ति ते सम्यक्पश्यन्ति । ये सम्यक पश्यन्ति ते भगवतः पुत्रा औरसा इति विस्तरः ।

आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितायां हेत्वानुपूर्व्या प्रतिलोमक्रमो वेदितव्यः । तत्र महायानधर्मप्रतिहतानामिच्छन्तिकानामशुचिसंसाराभिरतिविपर्ययेण बोधिसत्त्वानां महायानधर्माधिमुक्तिभावनायाः शुभपारमिताधिगमः फलं द्रष्टव्यम् । पञ्चसूपादानस्कन्धेष्वात्मदर्शिनामन्यतीर्थ्यानामसदात्मग्रहाभिरतिविपर्ययेण प्रज्ञापारमिताभावनायाः परमात्मपारमिताधिगमः फलं द्रष्टव्यम् । सर्वे ह्यन्यतीर्थ्या रूपादिकमतत्स्वभावं वस्त्वात्मेत्युपगताः । तच्चैषां वस्तु यथाग्रहमात्मलक्षणेन विसंवादित्वात्सर्वकालमनात्मा । तथागतः पुनर्यथाभूतज्ञानेन सर्वधर्मनैरात्म्यपरपा रमभिप्राप्तः । तच्चास्य नैरात्म्यमनात्मलक्षणेन यथादर्शनमविसंवादित्वात्सर्वकालमात्माभिप्रेतो नैरात्म्यंमेवात्मनि कृत्वा । यथोक्तं स्थितोऽस्थानयोगेनेति । संसारदुःखभीरूणां श्रावकयानिकानां (र्ग्व्३२) संसारदुःखोपशममात्राभिरतिविपर्ययेण गगनगञ्जादिसमाधिभवनायाः सर्वलौकिकलोकोत्तरसुखपारमिताधिगमः फलं द्रष्टव्यम् । सत्त्वार्थनिरपेक्षाणां प्रत्येकबुद्धयानीयानायमसंसर्गविहाराभिरतिविषपर्ययेण महाकरुणाभावनायाः सततसमितमा संसारात्सत्त्वार्थफलिगोधपरिशुद्धत्वान्नित्यपारमिताधिगमः फलं द्रष्टव्यम् । इत्येतासां चतसृणामधिमुक्तिप्रज्ञासमाधिकरुणाभावनानां यथासंख्यमेव चतुराकारं तथागतधर्मकाये शुभात्मसुखनित्यत्वगुणापारमिताख्यं फलं निर्वर्त्यते बोधिसत्त्वानाम् । आभिश्च तथागतो धर्मधातुपरम आकाशधातुपर्यवसानोऽपरान्तकोटीनिष्ठ इत्युच्यते । महायानपरमधर्माधिमुक्तिभावनाया हि तथागतोऽत्यन्तशुभधर्मधातुपरमताधिगमाद्धर्मधातुपरमः
संवृत्तः । प्रज्ञापारमिताभावनयाकाशोपमसत्त्वभाजनलोकनैरात्म्यनिष्ठागमनाद्गगनगञ्जादिसमाधिभावनया च सर्वत्र परमधर्मेश्वर्यविभुत्वसंदर्शनादाकाशधातुपर्यवसानः । महाकरुणाभावनया सर्वसत्त्वेष्वपर्यन्तकालकारुणिकतामुपादायापरान्तकोटिनिष्ठ इति ।

आसां पुनश्चतसृणां तथागतधर्मकायगुणपारमितानामधिगमायानास्रवधातुस्थितानामप्यर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानामिमे चत्वारः परिपन्था भवन्ति । तद्यथा प्रत्ययलक्षणं हेतुलक्षणं संभवलक्षणं विभवलक्षणमिति । तत्र प्रत्ययलक्षणमविद्यावासभूमिरविद्येव संस्काराणाम् । हेतुलक्षणमविद्यावासभूमिप्रत्ययमेव संस्कारवदनास्रवं कर्म । संभवलक्षणमविद्यावासभूमिप्रत्ययानास्रवकर्महेतुकी च त्रिविधा मनोमयात्मभावनिर्वृत्तिश्चतुरुपादानप्रत्यया (र्ग्व्३३) सास्रवकर्महेतुकीव त्रिभवाभिनिर्वृत्तिः । विभवलक्षणं त्रिविधमनोमयात्मभावनिर्वृत्तिप्रत्यया जातिप्रत्ययमिव जरामरणमचिन्त्या पारिणामिकी च्युतिरिति ।

तत्र सर्वोपक्लेशसंनिश्रयभूताया अविद्यावासभूमेरप्रहीणात्वादर्हन्तः प्रत्येकबुद्धा वशिताप्राप्ताश्च बोधिसत्त्वाः सर्वक्लेशमलदौर्गन्ध्यवासनापकर्षपर्यन्तशुभपारमितां नाधिगच्छन्ति । तामेव चावि द्यावासभूमिं प्रतीत्य सूक्ष्मनिमित्तप्रपञ्चसमुदाचारयोगादत्यन्तमनभिसंस्कारमात्मपारमितां नाधिगच्छन्ति । तां चाविद्यावासभूमिमविद्यावासभूमिप्रत्ययं च सूक्ष्मनिमित्तप्रपञ्चसमुदाचारसमुत्थापितमनास्रवं कर्म प्रतीत्य मनोमयस्कन्धसमुदयात्तन्निरोधमत्यन्तसुखपारमितां नाधिगच्छन्ति । यावच्च निरयशेषक्लेशकर्मजन्मसंक्लेशनिरोधसमुद्भूतं तथागतधातुं न साक्षात्कुर्वन्ति तावदचिन्त्यपारिणामिक्याश्च्यु तेरविगमादत्यन्तानन्यथाभावां नित्यपारमितां नाधिगच्छन्ति । तत्र क्लेशसंक्लेशवदविद्यावासभूमिः । कर्मसंक्लेशवदनास्रवकर्माभिसंस्कारः । जन्मसंक्लेशवत्त्रिविधा मनोमयात्मभावनिर्वृत्तिरचिन्त्यपारिणामिकी च च्युतिरिति ।

एष च ग्रन्थो विस्तरेण यथासूत्रमनुगन्तव्यः । स्याद्यथापि नाम भगवन्नुपादानप्रत्ययाः सास्रवकर्महेतुकास्त्रयो भवाः संभवन्ति । एवमेव भगवन्नविद्यावासभूमिप्रत्यया (र्ग्व्३४) अनास्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां च बोधिसत्त्वानां मनोमयास्त्रयः कायाः संभवन्ति । आसु भगवन् तिसृषु भूमिप्वेषां त्रयाणां मनोमयानां कायानां संभवायानास्रवस्य च कर्मणोऽभिनिर्वृत्तये प्रत्ययोभवत्यविद्यावासभूमिरिति विस्तरः । यत एतेषु त्रिषु मनोमयेष्वर्हत्प्रत्येकबुद्धबोधिसत्त्वकायेषु सुभात्मसुखनित्यत्वगुणपारमिता न संविद्यन्ते तस्मात्तथागतधर्मकाय एव नित्यपारमिता सुखपारमितात्मपारमिता शुभपारमितेत्युकतम् ।

स हि प्रकृतिशुद्धत्वाद्वासनापगमाच्छुचिः
परमात्मात्मनैरात्म्यप्रपञ्चक्षयशान्तितः ॥ ३७ ॥
सुखो मनोमयस्कन्धतद्धेतुविनिवृत्तितः ।
नित्यः संसारनिर्वाणसमताप्रतिवेधतः ॥ ३८ ॥

समसतो द्वाभ्यां कारणाभ्यां तथागतधर्मकाये शुभपारमिता वेदितव्या । प्रकृतिपरिशुद्ध्या सामान्यलक्षणेन । वैमल्यपरिशुद्ध्या विशेषलक्षणेन । द्वाभ्यां कारणाभ्यामात्मपारमिता वेदितव्या । तीर्थिकान्तविवर्जनतया चात्मप्रपञ्चविगमाच्छ्रावकान्तविवर्जनतया च नैरात्म्यप्रपञ्चविगमात् । द्वाभ्यां कारणाभ्यां सुखपारमितां वेदितव्या । सर्वाकारदुःखसमुदयप्रहाणतश्च वासनानुसंधिसमुद्घातात्सर्वाकारदुःखनिरोधसाक्षात्करणतश्च मनोमयस्कन्धनिरोधसाक्षात्कारणात् । द्वाभ्यां कारणाभ्यां नित्यपारमिता वेदितव्या । अनित्यसंसारानपकर्षणात श्चोच्छेदान्ता पतनान्नित्यनिर्वाणसमारोपणतश्च शाश्वतान्तापतनात् । यथोक्तम् । अनीत्याः संस्कारा इति चेद्भगवन् पश्येत सास्य स्यादुच्छेददृष्टिः । (र्ग्व्३५) सास्य स्यान्न सम्यग्दृष्टिः । नित्यं निर्वाणमिति चेद्भगवन् पश्येत सास्य स्याच्छाश्वतदृष्टिः । सास्य स्यान्न सम्यग्दृष्टिरिति ।

तदनेन धर्मधातुनयमुखेन परमार्थतः संसार एव निर्वाणमित्युक्तम् । उभयथाविकल्पनाप्रतिष्ठितनिर्वाणसाक्षात्करणतः । अपि खलु द्वाभ्यां कारणाभ्यामविशेषेण सर्वसत्त्वानामासन्नदूरीभावविगमादप्रतिष्ठितपदप्राप्तिमात्रपरिदीपना भवति । कतमाभ्यां द्वाभ्याम् । इह बोधिसत्त्वोऽविशेषेण सर्वसत्त्वानां नासन्नीभवति प्रज्ञयाशेषतृष्णानुशयप्रहाणात् । न दूरीभवति महाकरुणया तदपरित्यागादिति । अयमुपायोऽप्रतिष्ठितस्वभावायाः सम्यक्संबोधेरनुप्राप्तये । प्रज्ञया हि बोधिसत्त्वोऽशेषतृष्णानुशयप्रहाणादात्महिताय निर्वाणगताध्याशयः संसारे न प्रतिष्ठतेऽपरिनिर्वाणगोत्रवत् । महाकरुणया दुःखितसत्त्वापरित्यागात्परिहीताय संसारगतप्रयोगो निर्वाणे न प्रतिष्ठते शमैकयानगोत्रवत् । एवमिदं धर्मद्वयमनुत्तराया बोधेर्मूलं प्रतिष्ठानमिति ।

छित्त्वा स्नेहं प्रज्ञयात्मन्यशेषं सत्त्वस्नेहान्नैति शान्तिं कृपावान् ।
निःश्रित्यैवं धीकृपे बोध्युपायौ नोपैत्यार्यः संवृतिं निर्वृतिं वा ॥ ३९ ॥

तत्र पुर्वाधिकृतं कर्मार्थमारभ्य परेण श्लोकार्धेन किं दर्शितम् ।

बुद्धधातुः सचेन्न स्यान्निर्विद्दुःखेऽपि नो भवेत् ।
नेच्छा न प्रार्थना नापि प्राणिधिर्निवृतौ भवेत् ॥ ४० ॥

(र्ग्व्३६) तथा चोक्तम् । तथागतगर्भश्चेद्भगवन्न स्यान्न स्याद्दुःखेऽपि निर्विन्न निर्वाण इच्छा वा प्रार्थना वा प्रणिधिर्वेति । तत्र समासतो बुद्धधातुविशुद्धिगोत्रं मिथ्यात्वनियतानामपि सत्त्वानां द्विविधकार्यप्रत्युपस्थापनं भवति । संसारे च दुःखदोषदर्शननिःश्रयेण निर्विदमुत्पादयति । निर्वाणे सुखनुशंसदर्शननिःश्रयेण च्छन्दं जनयति । इच्छां प्रार्थनां प्रणिधिमिति । इच्छाभिलषितार्थप्राप्तावसंकोचः । प्रार्थनाभिलषितार्थप्राप्त्युपायपरिमार्गणा । प्रणिधिर्याभिलषितार्थे चेतना चित्ताभिसंस्कारः ।

भवनिर्वाणतद्दुःखसुखदोषगुणेक्षणम् ।
गोत्रे सति भवत्येतदगोत्राणां न विद्यते ॥ ४१ ॥

यदपि तत्संसारे च दुःखदोषदर्शनं भवति निर्वाणे च सुखानुशंसदर्शनमेतदपि शुक्लांशस्य पुद्गलस्य गोत्रे सति भवति नाहेतुकं नाप्रत्ययमिति । यदि हि तद्गोत्रमन्तरेण स्यादहेतुकमप्रत्ययं पापसमुच्छेदयोगेन तदिच्छान्तिकानामप्यपरिनिर्वाणगोत्राणां स्यात् । न च भवति तावद्यावदागन्तुकमलविशुद्धिगोत्रं त्रयाणामन्यतमधर्माधिमुक्तिं न स मुदानयति सत्पुरुषसंसर्गादिचतुःशुक्लसमवधानयोगेन ।

यत्र ह्याह । तत्र पश्चादन्तशो मिथ्यात्वनियतसंतानानामपि सत्त्वानां कायेषु तथागतसूर्यमण्डलरश्मयो निपतन्ति * * * अनागतहेतुसंजननतया (र्ग्व्३७) संवर्धयन्ति च कुशलैर्धर्मेरिति । यत्पुनरिदमुक्तमिच्छन्तिकोऽत्यन्तमपरिनिर्वाणधर्मेति तन्महायानधर्मप्रतिघ इच्छन्तिकत्वे हेतुरिति महायानधर्मप्रतिघनिवर्तनार्थमुक्तं कालान्तराभिप्रायेण । न खलु कश्चित्प्रकृतिविशुद्धगोत्रसंभवादत्यन्ताविशुद्धिधर्मा भवितुमर्हसि । यस्मादविशेषेण पुनर्भगवता सर्वसत्त्वेषु विशुद्धिभव्यतां संधायोक्तम् ।

अनादिभूतोऽपि हि चावसानिकः स्वभावशुद्धो ध्रुवधर्मसंहितः ।
अनादिकोशैर्बहिर्वृतो न दृश्यते सुवर्णबिम्बं परिच्छादितं यथा ॥

तत्र योगार्थमारभ्य श्लोकः । महोदधिरिवामेयगुणरत्नाक्षयाकरः ।
प्रदीपवदनिर्भागगुणयुक्तस्वभावतः ॥ ४२ ॥

तत्र पूर्वेण श्लोकार्थेन कि दर्शितम् ।

धर्मकायजिनज्ञानकरुणाधातुसंग्रहात् ।
पात्ररत्नाम्बुभिः साम्यमुधेरस्य दर्शितम् ॥ ४३ ॥
त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन महासमुद्रसाधर्म्येण तथागतधातोर्हेतुसमन्वागममधिकृत्य योगार्थो वेदितव्यः । कतमानि त्रीणि स्थानानि । तद्यथा धर्मकायविशुद्धिहेतुः । बुद्धज्ञानसमुदागमहेतुः । तथागतमहाकरुणावृत्तिहेतुरिति । (र्ग्व्३८) तत्र धर्मकायविशुद्धिहेतुर्महायानाधिमुक्तिभावना द्रष्टव्या । बुद्धज्ञानसमुदागमहेतुः प्रज्ञासमाधिमुखभवना । तथागतमहाकरुणाप्रवृत्तिहेतुर्बोधिसत्त्वकरुणाभावनेति । तत्र महायानाधिमुक्तिभावनाया भाजनसाधर्म्यं तस्यामपरिमेयाक्षयप्रज्ञासमाधिरत्नकरुणावारिसमवसरणात् । प्रज्ञासमाधिमुखभावनाया रत्नासाधर्म्यं तस्य निर्विकल्पत्वादचिन्त्यप्रभावगुणयोगाच्च । बोधिसत्त्वकरुणाभावनाया वारिसाधर्म्यं तस्याः सर्वजगति परमस्निग्धभावैकरसलक्षणप्रयोगादिति । एषां त्रयाणां धर्माणामनेन त्रिविधेन हेतुना तत्संबद्धःसमन्वागमो योग इत्युच्यते ।

तत्रापरेण श्लोकार्धेन किं दर्शयति ।

अभिज्ञाज्ञानवैमल्यतथताव्यतिरेकतः ।
दीपालोकोष्णवर्णस्य साधर्म्यं विमलाश्रये ॥ ४४ ॥

त्रयाणां स्थानानां यथासंख्यमेव त्रिविधेन दीपसाधर्म्येण तथागतधातोः फलसमन्वागममधिकृत्य योगार्थो वेदितव्यः । कतमनि त्रीणि स्थानानि । तद्यथा । अभिज्ञा आस्रवक्षयज्ञानमास्रवक्षयश्चेति । तत्र पञ्चानामभिज्ञानां ज्वालासाधर्म्यं तासामर्थानुभवज्ञानविपक्षान्धकारविधमनप्रत्युपस्थानलक्षणत्वात् । आस्रवक्षयज्ञानस्योष्णसाधर्म्य तस्य निरवशेषकर्मक्लेशेन्धनदहनप्रत्युपस्थानलक्षणत्वात् । आश्रयपरिवृत्तेरास्रवक्षयस्य वर्णसाधर्म्य तस्यात्यन्तविमलविशुद्धप्रभास्वरलक्षणत्वात् । (र्ग्व्३९) तत्र विमलः क्लेशावरणप्रहाणात् । विशुद्धो ज्ञेयावरणप्रहाणात् । प्रभास्वरस्तदुभयागन्तुकताप्रकृतितः । इत्येषां समासतः सप्तानामभिज्ञाज्ञानप्रहाणसंगृहीतानामशैक्षसान्तानिकानां धर्माणामनास्रवधातावन्योन्यमविनिर्भगत्वमपृथग्भावो धर्मधातुसमन्वागमो योग इत्युच्यते । एष च योगार्थमारभ्य प्रदीपदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः । तद्यथा शारिपुत्र प्रदीपः । अविनिर्भगधर्मा । अविनिर्मुक्तगुणः । यदुत आलोकोष्णवर्णताभिः । मणिर्वालोकवर्णसंस्थानैः । एवमेव शारिपुत्र तथगतनिर्दिष्टो धर्मकायोऽविनिर्भागधर्माविनिर्मुक्तज्ञानगुणो यदुत गङ्गानदीवालिकाव्यतिवृत्तैस्तथागतधर्मैरिति ।

तत्र वृत्त्यर्थमारभ्य श्लोकः ।

पृथग्जनार्यसंबुद्धतथताव्यतिरेकतः ।
सत्त्वेषु जिगर्भोऽयं देशितस्तत्त्वदर्शिभिः ॥ ४५ ॥

अनेन किं दर्शितम् ।
पृथग्जना विपर्यस्ता दृष्टसत्या विपर्ययात् ।
यथावदविपर्यस्ता निष्प्रपञ्चास्तथागताः ॥ ४६ ॥

यदिदं तथागतधातोः सर्वधर्मतथताविशुद्धिसामान्यलक्षणमुपदिष्टं प्रज्ञापारमितादिषु निर्विकल्पज्ञानमुखाववादमारभ्य बोधिसत्त्वानामस्मिन् समासतस्त्रयाणां पुद्गलानां पृथग्जनस्यातत्त्वदर्शिन आर्यस्य तत्त्वदर्शिनो विशुद्धिनिष्ठागतस्य तथागतस्य त्रिधा भिन्ना प्रवृत्तिर्वेदितव्या । यदुत विपर्यस्ताविपर्यस्ता (र्ग्व्४०) सम्यगविपर्यस्ता निष्प्रपञ्चा च यथाक्रमम् । तत्र विपर्यस्ता संज्ञाचित्तदृष्टिविपर्यासाद्वालानाम् । अविपर्यस्ता विपर्ययेण तत्प्रहाणादार्याणाम् । सम्यगविपर्यस्ता निष्प्रपञ्चा च सवासनक्लेशज्ञेयावरणसमुद्घातात्सम्यक्सम्बुद्धानाम् ।

अतः परमेतमेव वृत्त्यर्थमारभ्य तदन्ये चत्वारोऽर्थाः प्रभेदनिर्देशादेव वेदितव्याः । तत्रैषां त्रयाणां पुद्गलानामवस्थाप्रभेदार्थमारभ्य श्लोकः ।

अशुद्धोऽशुद्धशुद्धोऽथ सुविशुद्धो यथाक्रमम् ।
सत्त्वधातुरिति प्रोक्तो बोधिसत्त्वस्तथागतः ॥ ४७ ॥

अनेन किं दर्शितम् ।

स्वभावादिभिरित्येभिः षड्भिरर्थेः समासतः ।
धातुस्तिसृष्ववस्थासु विदितो नामभिस्त्रिभिः ॥ ४८ ॥

इति ये केचिदनास्रवधातुनिर्देशा नानाधर्मपर्यायमुखेषु भगवता विस्तरेण निर्दिष्टाः सर्वेत एभिरेव समासतः षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थः संगृहीतास्तिसृष्ववस्थासु यथाक्रमं त्रिनामनिर्देशतो निर्दिष्टा वेदितव्याः । यदुताशुद्धावस्थायां सत्त्वधातुरिति । अशुद्धशुद्धावस्थायां बोधिसत्त्व इति । सुविशुद्धावस्थायां तथागत इति । यथोक्तं भगवता । अयमेव शारिपुत्र धर्मकायोऽपर्यन्तक्लेशकोशकोटिगूढः । संसारस्त्रोतसा उह्ममानोऽनवराग्रसंसारगतिच्युत्युपपत्तिषु संचरन् सत्त्वधातुरित्युच्यते । स एव शारिपुत्र धर्मकायः संसारस्त्रोतोदुःखनिर्विष्णो विरक्तः सर्वकामविषयेभ्यो दशपारमितान्तर्गतैश्चतुरशीत्या (र्ग्व्४१) धर्मस्कन्धसहस्रैर्बोधाय चर्या चरन् बोधिसत्त्व इत्युच्यते । स एव पुनः शारिपुत्र धर्मकायः सर्वक्लेशकोशपरिमुक्तः सर्वदुःखतिक्रान्तः सर्वोपक्लेशमलापगतः शुद्धो विशुद्धः परमपरिशुद्धधर्मतायां स्थितः सर्वसत्त्वालोकनीयां भूमिमारूढः सर्वस्यां ज्ञेयभूमावद्वितीयं पौरुषं स्थाम प्राप्तोऽनावरणधर्माप्रतिहतसर्वधर्मैश्वर्यबलतामधिगतस्तथागतोऽर्हन् सम्यक्संबुद्ध इत्युच्यते ।

तास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगार्थमारभ्य श्लोकः ।

सर्वत्रानुगतं यद्वन्निर्विकल्पात्मकं नभः ।
चित्तप्रकृतिवैमल्यधातुः सर्वत्रगस्तथा ॥ ४९ ॥

अनेन किं दर्शितम् ।
तद्दोषगुणनिष्ठासु व्यापि सामान्यलक्षणम् ।
हीनमध्यविशिष्टेषु व्योम रूपगतेष्विव ॥ ५० ॥

यासौ पृथग्जनार्यसंबुद्धानामविकल्पचित्तप्रकृतिः सा तिसृष्ववस्थासु यथाक्रमं दोषेष्वपि गुणेष्वपि गुणविशुद्धिनिष्ठायामपि सामान्यलक्षणत्वादाकाशमिव मृद्रजतसुवर्णभाजनेष्वनुगतानुप्रविष्टा समा निर्विशिष्टा प्राप्ता सर्वकालम् । अत एवावस्थानिर्देशानन्तरमाह । तस्माच्छारिपुत्र नान्यः सत्त्वधातुर्नान्यो धर्मकायः । सत्त्वधातुरेव धर्मकायः । धर्मकाय एव सत्त्वधातुः । अद्वयमेतदर्थेन । व्यञ्जनमात्रभेद इति

एतास्तेव तिसृष्ववस्थासु तथागतधातोः सर्वत्रगस्यापि तत्संक्लेशव्यवदानाभ्यामविकारार्थमारभ्य चतुर्दश श्लोकाः । अयं च तेषां पिण्डार्थो वेदितव्यः ।

दोषागन्तुकतायोगाद्गुणप्रकृतियोगतः ।
यथा पूर्वं तथा पश्चादविकारित्वधर्मता ॥ ५१ ॥

(र्ग्व्४२) द्वादशभिरेकेन च श्लोकेन यथाक्रममशुद्धावस्थायामशुद्धशुद्धावस्थायां च क्लेशोपक्लेशदोषयोरागन्तुकयोगांच्चतुर्दशमेन श्लोकेन सुविशुद्धावस्थायां गङ्गानदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तशिरचिन्त्यैर्बुद्धगुणैः प्रकृतियोगादाकाशधातोरिव पौर्वापर्येण तथागतधातोरत्यन्ताविकारधर्मता परिदीपिता । तत्राशुद्धावस्थायामविकारार्थमारभ्य कतमे द्वादश श्लोकाः

यथासर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितः सत्त्वे तथायं नोपलिप्यते ॥ ५२ ॥
यथा सर्वत्र लोकानामाकाश उबयव्ययः ।
तथैवासंस्कृते धाताविन्द्रियाणां व्ययोदयः ॥ ५३ ॥
यथा नाग्निभिराकाशं दग्धपूर्वं कदाचन ।
तथा न प्रदहत्येनं मृत्युव्याधिजराग्नयः ॥ ५४ ॥
पृथिव्यम्बौ जलं वायौ वायुर्व्योम्नि प्रतिष्ठितः ।
अप्रतिष्ठितमाकाशं वाय्वम्बुक्षितिधातुषु ॥ ५५ ॥
स्कन्धधात्विन्द्रियं तद्वत्कर्मक्लेशप्रतिष्ठितम् ।
कर्मक्लेशाः सदायोनिमनस्कारप्रतिष्ठिताः ॥ ५६ ॥
अयोनिशोमनस्कारश्चित्तशुद्धिप्रतिष्ठितः ।
सर्वधर्मेषु चित्तस्य प्रकृतिस्त्वप्रतिष्ठिता ॥ ५७ ॥
पृथिवीधातुवज्ज्ञेयाः स्कन्धायतनधातवः ।
अब्धातुसदृशा ज्ञेयाः कर्मक्लेशाः शरीरिणाम् ॥ ५८ ॥
(र्ग्व्४३) अयोनिशोमनस्कारो विज्ञेयो वायुधातुवत् ।
तदमूलाप्रतिष्ठाना प्रकृतिर्व्योमधातुवत् ॥ ५९ ॥
चित्तप्रकृतिमालीनायोनिशो मनसः कृतिः ।
अयोनिशोमनस्कारप्रभवे क्लेशकर्मणी ॥ ६० ॥
कर्मक्लेशाम्बुसंभूताः स्कन्धायतनधातवः ।
उत्पद्यन्ते निरुध्यन्ते तत्संवर्तविवर्तवत् ॥ ६१ ॥
न हेतुः प्रत्ययो नापि न सामग्री न चोदयः ।
न व्ययो न स्थितिश्चित्तप्रकृतेर्व्योमधातुवत् ॥ ६२ ॥
चित्तस्य यासौ प्रकृतिः प्रभास्वरा न जातु सा द्यौरिव याति विक्रियाम् ।
आगन्तुकै रागमलादिभिस्त्वसा - - वुपैति संक्लेशमभूतकल्पजैः ॥ ६३ ॥

कथमनेनाकाशदृष्टान्तेन तथागतधातोरशुद्धावस्थायामविकारधर्मता परिदीपिता ।
तदुच्यते ।

नाभिनिर्वर्तयत्येनं कर्मक्लेशाम्बुसंचयः
न निर्दहत्युदीर्णोऽपि मृत्युव्याधिजरानलः ॥ ६४ ॥

(र्ग्व्४४) यद्वदयोनिशोमनस्कारवातमण्डलसंभूत कर्मक्लेशोदकराशिं प्रतीत्य स्कन्धधात्वायतनलोकनिर्वृत्त्या चित्तप्रकृतिव्योमधातोर्विवर्तो न भवति । तद्वदयोनिशोमनस्कारकर्मक्लेशवाय्वप्स्कन्धप्रतिष्ठितस्य स्कन्धधात्वायतनलोकस्यास्तंगमाय मृत्युव्याधिजराग्निस्कन्धसमुदयादपि तदसंवर्तो वेदितव्यः । इत्येवमशुद्धावस्थायां भाजनलोकवदशेषक्लेशकर्मजन्मसंक्लेशसमुदयास्तगमंऽप्याकाशवदसंस्कृतस्य तथागतधातोरनुत्पादानिरोधादत्यन्तमविकारधर्मता परिदीपिता । एष च प्रकृतिविशुद्धिमुखं धर्मालोकमुखमारभ्याकाशदृष्टान्तो विस्तरेण यथासूत्रमनुगन्तव्यः । कविर्मार्षा क्लेशाः । आलोको विशुद्धिः । दुर्बलाः क्लेशाः । बलवती विपश्यना । आगन्तुकाः क्लेशाः । मूलविशुद्धा प्रकृतिः । परिकल्पाः क्लेशाः । अपरिकल्पा प्रकृतिः । तद्यथा मार्षा इयं महापृथिव्यप्सु प्रतिष्ठिता । आपो वायौ प्रतिष्ठिताः । वायुराकाशे प्रतिष्ठितः । अप्रतिष्ठितं चाकाशम । एवमेषां चतुर्णा धातूनां पृथिवीधातोरब्धातोर्वायुधातोराकाशधातुरेव बली यो दृढोऽचलोऽनुपचयोऽनपचयोऽनुत्पन्नोऽनिरुद्धः स्थितः स्वरसयोगेन । तत्र य एते त्रयो धातवस्त उत्पादभङ्गयुक्ता अनवस्थिता अचिरस्थायिनः । दृश्यत एषां विकारो न पुनराकाशधातोः कश्चिद्विकारः । एवमेव (र्ग्व्४५) स्कन्धधात्वायतनानि कर्मक्लेशप्रतिष्ठितानि । कर्मक्लेशा अयोनिशोमनस्कारप्रतिष्ठिताः । अयोनिशोमनस्कारः प्रकृतिपरिशुद्धिप्रतिष्ठितः । तत उच्यते प्रकृतिप्रभास्वरं चित्तमागन्तुकैरुपक्लेशैरुपक्लिश्यत इति । तत्र पश्चाद्योऽयोनिशोमनस्कारो ये च कर्मक्लेशा यानि च स्कन्धधात्वायतनानि सर्व एते धर्मा हेतुप्रत्ययसंगृहीता उत्पद्यन्ते हेतुप्रत्ययविसामग्रया निरुध्यन्ते । या पुनः सा प्रकृतिस्तस्या न हेतुर्न
प्रत्ययो न सामग्री नोत्पादो न निरोधः । तत्र यथाकाशधातुस्तथा प्रकृतिः । यथा वायुधातुस्तथायोनिशोमनसिकारः । यथाब्धातुस्तथा कर्मक्लेशाः । यथा पृथिवीधातुस्तथा स्कन्धधात्वायतनानि । तत उच्यन्ते सर्वधर्मा असारमूला अप्रतिष्ठानमूलाः शुद्धमूला अमूलमूला इति ।

उक्तमशुद्धावस्थायामविकारलक्षणमारभ्य प्रकृतेराकाशधातुसाधर्म्य तदाश्रितस्यायोनिशोमनसिकारस्य कर्मक्लेशानां च हेतुलक्षणमारभ्य वायुधातुसाधर्म्यमब्धातुसाधर्म्य च तत्प्रभवस्य स्कन्धधात्वायतनस्य विपाकलक्षणमारभ्य पृथिवीधातुसाधर्म्यम् । तद्विभवकारणस्य तु मृत्युव्याधिजराग्नेरुपसर्गलक्षणमारभ्य तेजोधातुसाधर्म्य नोक्तमिति तदुच्यते ।

त्रयोऽग्नयो युगान्तेऽग्निर्नारकः प्राकृतः क्रमात् ।
त्रयस्त्र उपमा तेया मृत्युव्याधिजराग्नयः ॥ ६५ ॥

त्रिभिः कारणैर्यथाक्रमं मृत्युव्याधिजराणामग्निसाधर्म्य वेदितव्यम् । षडायतननिर्ममीकरणतो विचित्रकारणानुभवनतः संस्कारपरिपाकोपनयनतः । एभिरपि मृत्युव्याधिजराग्निभिरविकारत्वमारभ्य तथागतधातोरशुद्धावस्थायामिदमुक्तम् । लोकव्यवहार एप भगवन्मृत इति वा जात इति (र्ग्व्४६) वा । मृत इति भगवन्निन्द्रियोपरोध एषः । जात इति भगवन्नवानामिन्द्रियाणां प्रादुर्भाव एष । न क्षुनर्भगवंस्तथागतगर्भो जायते वा जीर्यति वा म्रियते वा च्यवते वोत्पद्यते वा ! तत्कस्माद्धेतो । संस्कृतलक्षणविषयव्यतिवृत्तो भगवंस्तथागतगर्भो नित्यो ध्रुवः शिवः शाश्वत इति ।

तत्राशुद्धशुद्धावस्थायामविकारार्थमारभ्य श्लोकः ।

निर्वृत्तिव्युपरमरुग्जराविमुक्ता अस्यैव प्रकृतिमनन्यथावगम्य ।
जन्मादिव्यसनमृतेऽपि तन्निदानं धीमन्तो जगति कृपोदयाद्भजन्ते ॥ ६६ ॥

अनेन किं दर्शयति ।

मृत्युव्याधिजरादुःखमूलमार्यैरपोद्धृतम् ।
कर्मक्लेशवशाज्जातिस्तदभावान्न तेषु तत् ॥ ६७ ॥

अस्य खलु मृत्युव्याधिजरादुःखवह्रेरशुद्धावस्थायामयोनिशोमनसिकारकर्मक्लेशपूर्विका जातिरिन्धनमिवोपादानं भवति । यस्य मनोमयात्मभावप्रतिलब्धेषु बोधिसत्त्वेषु शुद्धाशुद्धावस्थायामत्यन्तमनाभासगमनादितरस्यात्यन्तमनुज्ज्वलनं प्रज्ञायते ।

(र्ग्व्४७) जन्ममृत्युजराव्याधीन् दर्शयन्ति कृपात्मकाः ।
जात्यादिवि निवृत्ताश्च यथाभूतस्य दर्शनात् ॥ ६८ ॥

कुशलमूलसंयोजनाद्धि बोधिसत्त्वोः संचिन्त्योपपत्तिवशितासंनिःश्रयेण करुणया त्रैधातुके संश्लिष्यन्ते । जातिमप्युपदर्शयन्ति जरामपि व्याधिमपि मरणमप्युपदर्शयन्ति । न च तेषामिमे जात्यादयो धर्माः संविद्यन्ते । यथापि तदस्यैव धातोर्यथाभूतमजात्यनुत्पत्तिदर्शनात् । सा पुनरियं बोधिसत्त्ववस्था विस्तरेण यथासूत्रमनुगन्तव्या । यदाह । कतमे च ते संसारप्रवर्तकाः कुशलमूलसंप्रयुक्ताः क्लेशाः । यदुत पुण्यसंभारपर्येष्ट्यतृप्तता । संचिन्त्यभवोपपत्तिपरिग्रहः । बुद्धसमवधानप्रार्थना । सत्त्वपरिपाकापरिखेदः । सद्धर्मपरिग्रहोद्योगः । सत्त्वकिंकरणीयोत्सुकता । धर्मरागानुशयानुत्सर्गः । पारमितासंयोजनानामपरित्यागः । इत्येते सागरमते कुशलमूलसंप्रयुक्ताः क्लेशा यैर्बोधिसत्त्वाः संश्लिष्यन्ते । न खलु क्लेशदोषैर्लिप्यन्ते । आह पुनः । यदा भगवन् कुशलमूलानि तत्केन कारणेन क्लेशा इत्युच्यन्ते । आह । तथा हि सागरमते एभिरेवंरूपैः क्लेशैर्बोधिसत्त्वास्त्रैधातुके श्लिष्यन्ते । क्लेशसंभूतं च त्रैधातुकम् । तत्र बोधिसत्त्वा उपायकौशलेन च कुशलमूलवलान्वाधानेन च संचिन्त्य त्रैधातुके श्लिष्यन्ते । तेनोच्यन्ते कुशलमूलसंप्रयुक्ताः क्लेशा इति । यावदेव त्रैधातुके श्लेषतया न पुनश्चित्तोपक्लेशतया ।

स्याद्यथापि नाम सागरमते श्रेष्ठिनो गृहपतेरेक पुत्रक इष्टः कान्तः प्रियो मनापोऽप्रकृतिकूलो दर्शनेन स च दारको बालभावेन नृत्यन्नेव मीढकूपे प्रपतेत । अथ ते तस्य दारकस्य मातृज्ञातयः पश्येयुस्तं दारकं मीढकूपे प्रपतितम् । दृष्ट्वा च गम्भीरं निश्वसेयुः शोचेयुः परिदेवेरन् । न पुनस्तं मीढकूपमवरुह्य (र्ग्व्४८) तं दारकमध्यालम्बेरन् । अथ तस्य दारकस्य पिता तं प्रदेशमागच्छेत् । स पश्येतैकपुत्रकं मीढकूपे प्रपतितं दृष्ट्वा च शीघ्रशीघ्रं त्वरमाणरूप एकपुत्रकाध्याशयप्रेमानुनोतोऽजुगुप्समानस्तं मीढकूपमवरुह्यैकपुत्रकमभ्युत्क्षिपेत् । इति हि सागरमते उपमैषा कृता यावदेवार्थस्य विज्ञप्तये । कः प्रबन्धो द्रष्टव्यः । मीढकूप इति सागरमते त्रैधातुकस्यैतदधिवचनम् । एकपुत्रक इति सत्त्वानामेतदधिवचनम् । सर्वसत्त्वेषु हि बोधिसत्त्वस्यैकपुत्रसंज्ञा प्रत्युपस्थिता भवति । मातृज्ञातय इति श्रावकप्रत्येकबुद्धयानीयानां पुद्गलानामेतदधिवचनं ये संसारप्रपतितान् सत्त्वान् दृष्ट्वा शोचन्ति परिदेवन्ते न पुनः शमर्था भवन्त्यभ्युत्क्षेप्तुम् । श्रेष्ठी गृहपतिरिति बोधिसत्त्वस्यैतदधिवचनं यः शुचिर्विमलो निर्मलचित्तोऽसंस्कृतधर्मप्रत्यक्षगतः संचिन्त्य त्रैधातुके प्रतिसंदधाति सत्त्वपरिपाकार्थम् । सेयं सागरमते बोधिसत्त्वस्य महाकरुणा यदत्यन्तपरिमुक्तः सर्वबन्धनेभ्यः पुनरेव भवोपपत्तिमुपाददाति । उपायकौशल्यप्रज्ञापरिगृहीतश्च संक्लेशैर्न लिप्यते । सर्व क्लेशबन्धप्रहाणाय च सत्त्वेभ्यो धर्म देशयतीति । तदनेन सूत्रपदनिर्देशेन परहीतक्रियार्थ वशिनो बोधिसत्त्वस्य संचिन्त्यभवोपपत्तौ कुशलमूलकरुणावलाभ्यामुपश्लेषादुपायप्रज्ञाबलाभ्यां च तदसंक्लेशादशुद्धशुद्धावस्था परिदीपिता ।

तत्र यदा बोधिसत्त्वो यथाभूताजात्यनुत्पत्तिदर्शनमागम्य तथागतधतोरिमां बोधिसत्त्वधर्मतामनुप्राप्नोति तथा विस्तरेण यथासूत्रमनुगन्तव्यम् । यदाह । पश्य सागरमते धर्माणामसारतामकारकतां निरात्मतां निःसत्त्वतां (र्ग्व्४९) निर्जीवतां निःपुद्गलतामस्वामिकताम् । यत्र हि नाम यथेष्यन्ते तथा विठप्यन्ते विठपिताश्च समाना न चेतयन्ति न प्रकल्पयन्ति । इमां सागरमते धर्मविठपनामधिमुच्य बोधिसत्त्वो न कस्मिंश्चिद्धर्मे परिखेदमुत्पादयति । तस्यैव ज्ञानदर्शनं शुचि शुद्धं भवति । नात्र कश्चिदुपकारो वापकारो वा क्रियत इति । एवं च धर्माणां धर्मतां यथाभूतं प्रजानाति । एवं च महाकरुणासंनाहं न त्यजति । स्याद्यथापि नाम सागरमतऽनर्घ विडूर्यमणिरत्नं स्ववदापितं सुपरिशुद्धं सुविमलं कर्दमपरिक्षिप्तं वर्षसहस्रमवतिष्ठेत । तद्वर्षसहस्रात्ययेन ततः कर्दमादभ्युत्क्षिप्य लोड्येत पयवदायेत । तत्सुधौतं परिशोधितं पर्यवदापितं समानं तमेव शुद्धविमलमणिरत्नस्वभावं न जह्यात् । एवमेव सागरमते बोधिसत्त्वः सत्त्वानां प्रकृतिप्रभास्वरतां चित्तस्य प्रजानाति । तां पुनरागन्तुको पक्लेशोपक्लिष्टां पश्यति । तत्र बोधिसत्त्वस्यैवं भवति । नैते क्लेशाः सत्त्वानां चित्तप्रकृतिप्रभास्वरतायां प्रविष्टाः । आगन्तुका एते क्लेशा अभूतपरिकल्पसमुत्थिताः । शक्नुयामहं पुनरेषां सत्त्वानामागन्तुक्लेशापनयनाय धर्म देशयितुमिति । एवमस्य नावलीयनाचित्तमुत्पद्यते । तस्य भूयस्या मात्रया सर्वसत्त्वानामन्तिके प्रमोक्षचित्तोत्पाद उत्पद्यते । एवं चास्य भवति । नैतेषां क्लेशानां किंचिद्वलं स्थाम वा । अबला दुर्बला एते क्लेशाः । नैतेषां
किंचिद्भूतप्रतिष्ठानम् । अभूतपरिकल्पित (र्ग्व्५०) एते क्लेशाः । ते यथाभूतयोनिशोमनसिकारनिरीक्षिता न कुप्यन्ति । तेऽस्माभिस्तथा प्रत्यवेक्षितव्या यथा न भूयः श्लिष्येयुः । अश्लेषो हि क्लेशानां साधुर्न पुनः श्लेषः । यद्यहं क्लेशानां श्लिप्येय तत्कथं क्लेशबन्धनबद्धानां सत्त्वानां क्लेशबन्धनप्रहाणय धर्म देशयेयम् । हन्त वयं क्लेशानां च न श्लिष्यामहे क्लेशबन्धनप्रहाणाय च सत्त्वेभ्यो धर्म शयिष्यामः । ये पुनस्ते संसारप्रबन्धकाः कुशलनसंप्रयुक्ताः क्लेशास्तेष्वस्माभिः सत्त्वपरिपाकाय श्लेष्टव्यमिति ।

संसारः पुनरिह त्रैधातुकप्रतिबिम्बकमनास्रवधातौ मनोमयं कायत्रयमभिप्रेतम् । तद्ध्यनास्रवकुशलमूलाभिसंस्कृतत्वात्संसारः । सास्रवकर्मक्लेशानभिसंस्कृतत्वान्निर्वाणमपि तत् । यदधिकृत्याह । तस्माद्भगवन्नस्ति संस्कृतोऽप्यसंस्कृतोऽपि संसारः । अस्ति संस्कृतमप्यसंस्कृतमपि निर्वाणमिति । तत्र संस्कृता संस्कृतसंसृष्टचित्तचैतसिकसमुदाचारयोगादियमशुद्धशुद्धावस्थेत्युच्यते । सा पुनरास्रवक्षयाभिज्ञाभिमुख्यसङ्गप्रज्ञापारमितभावनया महाकरुणाभावनया च सर्वसत्त्वधातुपरित्राणाय तदसाक्षात्करणादाभिमुख्यां बोधिसत्त्वभूमौ प्राधान्येन व्यवस्थाप्यते ।

यथोक्तमात्रवक्षयज्ञानमारभ्य नगरोदाहरणम् । एवमेव कुलपुत्र बोधिसत्त्वो मनता यत्नेन महत वीर्येण दृढयाध्याशयप्रतिपत्त्या पञ्चाभिज्ञा उत्पादयति । तस्य ध्यानाभिज्ञपरिकर्मकृतचित्तस्यास्रवक्षयोऽभिमुखीभवति । स महाकरुणाचित्तोत्पादेन सर्वसत्त्वपरित्राणायास्रवक्षयज्ञाने परिजयं कृत्वा पुनरपि (र्ग्व्५१) सुपरिकर्मकृतचेताः षष्ठ्यामसङ्गप्रज्ञोत्पादादास्रवक्षयेऽभिमुखीभवति । एवमस्यामाभिमुख्यां बोधिसत्त्वभूमावास्रवक्षयसाक्षात्करणवशित्वलाभिनो बोधिसत्त्वस्य विशुद्धावस्था । परिदीपिता । तस्यैवमात्मना सम्यक्प्रतिपन्नस्य परानपि चास्यामेव सम्यक्प्रतिपत्तौ स्थापयिष्यामीति महाकरुणया विप्रतिपन्नसत्त्वपरित्राणाभिप्रायस्य शमसुखानास्वादनतया तदुपायकृतपरिजयस्य संसाराभिमुखसत्त्वापेक्षया निर्वाणविमुखस्य बोध्यङ्गपरिपूरणाय ध्यानैर्विहृत्य पुनः कामधातौ संचिन्त्योपपत्तिपरिग्रहणतो यावदाशु सत्त्वानामर्थं कर्तुकामस्य विचित्रतिर्यग्योनिगतजातकप्रभेदेन पृथग्जनात्मभावसंदर्शनविभुत्वलाभिनोऽविशुद्धावस्था परिदीपिता ।
अपरः श्लोकार्थः

धर्मतां प्रतिविच्येमामविकारां जिनात्मजः ।
दृश्यते यदविद्यान्धैर्जात्यादिषु तदद्भूतम् ॥ ६९ ॥
अत एव जगद्वन्धोरुपायकरुणे परे ।
यदार्यगोचरप्राप्तो दृश्यते बालगोचरे ॥ ७० ॥
सर्वलोकव्यतीतोऽसौ न च लोकाद्विनिःसृतः ।
लोके चरति लोकार्थमलिप्तो लौकिकैर्मलैः ॥ ७१ ॥
यथैव नाम्भसा पद्मं लिप्यते जातमम्भसि ।
तथा लोकेऽपि जातोऽसौ लोकधर्मैर्न लिप्यते ॥ ७२ ॥
(र्ग्व्५२) नित्योज्ज्वलितबुद्धिश्च कृत्यसंपादनेऽग्निवत् ।
शान्तध्यानसमापत्तिप्रतिपन्नश्च सर्वदा ॥ ७३ ॥
पूर्वावेधवशात्सर्वविकल्पापगमाच्च सः ।
न पुनः कुरुते यत्नं परिपाकाय देहिनाम् ॥ ७४ ॥
यो यथा येन वैनेयो मन्यतेऽसौ तथैव तत् ।
देशन्या रूपकायाभ्यां चर्ययेर्यापथेन वा ॥ ७५ ॥
अनाभोगेन तस्यैवमव्याहतधियः सदा ।
जगत्याकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते ॥ ७६ ॥
एतां गतिमनुप्राप्तो बोधिसत्त्वस्तथागतैः ।
समतामेति लोकेषु सत्त्वसंतारणं प्रति ॥ ७७ ॥
अथ चाणोः पृथिव्याश्च गोस्पदस्योदधेश्च यत् ।
अन्तरं बोधिसत्त्वानां बुद्धस्य च तदन्तरम् ॥ ७८ ॥

एषां दशानां श्लोकानां यथाक्रमं नवभिः श्लोकैः प्रमुदिताया बोधिसत्त्वभूमेरधश्च संक्लेशपरमतां दशमेन श्लोकेन धर्ममेघाया बोधिसत्त्वभूमेरूर्ध्वं विशुद्धिपरमतामुपनिधाय समासतश्चतुर्णां बोधिसत्त्वानां दशसु बोधिसत्त्वभूमिषु विशुद्धिरविशुद्धिश्च परीदीपिता । चत्वारो बोधिसत्त्वाः प्रथमचित्तोत्पादिकः । चर्याप्रतिपन्नः । अवैवर्तिकः । एकजातिप्रतिबद्ध इति । तत्र प्रथमद्वितीयाभ्यां श्लोकाभ्यामनादिकालिकमदृष्टपूर्वप्रथमलोकोत्तरधर्मताप्रतिवेधात प्रमुदितायां भूमौ प्रथमचित्तोत्पादिकबोधिसत्त्वगणविशुद्धि लक्षणं परिदीपितम् । त्रितीयचतुर्थाभ्यां श्लोकाभ्यामनुपलिप्तचर्याचरणाद्विमलां (र्ग्व्५३) भूमिमुपादाय यावददूरंगमायां भूमौ चर्याप्रतिपन्नबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम् । पञ्चमेन श्लोकेन निरन्तरमहबोधिसमुदागमप्रयोगसमाधिषु व्यवस्थितत्वादचलायां भूमाववैवर्तिकबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम् । षष्ठेन सप्तमेनाष्टमेन च श्लोकेन सकलस्वपरार्थसंपादनोपायनिष्ठागतस्य बुद्धभूम्येकचरमजन्मप्रतिबद्धत्वादनुत्तरपरमाभिसंबोधिप्राप्तेर्धर्ममेघायां बोधिसत्त्वभूमावेकजातिप्रतिबद्धबोधिसत्त्वगुणविशुद्धिलक्षणं परिदीपितम् । नवमेन दशमेन च श्लोकेन परार्थमात्मार्थ चारभ्य निष्ठागतबोधिसत्त्वतथागतयोर्गुणविशुद्धेरविशेषो विशेषश्च परिदीपितः ।

तत्र सुविशुद्धा वस्थायामविकारार्थमारभ्य श्लोकः ।

अनन्यथात्माक्षयधर्मयोगतो जगच्छरण्योऽनपरान्तकोटितः ।
सदाद्वयोऽसावविकल्पकत्वतोऽविनाशधर्माप्यकृतस्वभावतः ॥ ७९ ॥

अनेन किं दर्शयति ।

न जायते न म्रियते बोध्यते नो न जीर्यते ।
स नित्यत्वाद्ध्रुवत्वाच्च शिवत्वाच्छाश्वतत्वतः ॥ ८० ॥
न जायते स नित्यत्वादात्मभावैर्मनोमयैः ।
अचिन्त्यपरिणामेन ध्रुवत्वान्म्रियते न सः ॥ ८१ ॥
(र्ग्व्५४) वासनाव्याधिभिः सूक्ष्मैर्बाध्यते न शिवत्वतः ।
अनास्रवाभिसंस्कारैः शाश्वतत्वान्न जीर्यते ॥ ८२ ॥
सख ल्वेष तथागतथातुर्बुद्धभूमावत्यन्तविमलविशुद्धप्रभास्वरतायां स्वप्रकृतौ स्थितः पूर्वान्तमुपादाय नित्यत्वान्न पुनर्जायते मनोमयैरात्मभावैः । अपरान्तमुपादाय ध्रुवत्वान्न पुनर्म्रियतेऽचिन्त्यपारिणामिक्या च्युत्या । पूर्वापरान्तमुपादाय शिवत्वान्न पुनर्वाध्यतेऽविद्यावासभूमिपरिग्रहेण । यश्चैवमनर्थापतितः स शाश्वतत्वान्न पुनर्जीर्यत्यनास्रवकर्मफलपरिणामेन ।

तत्र द्वाभ्यामथ द्वाभ्यां द्वाभ्यां द्वाभ्यां यथाक्रमम् ।
पदाभ्यां नित्यताद्यर्थो विज्ञेयोऽसंस्कृते पदे ॥ ८३ ॥

तदेषामसंस्कृतधातौ चतुर्णा नित्यध्रुवशिवशाश्वपदानां यथाक्रममेकैकस्य पदस्य द्वाभ्यां द्वाभ्यामुद्देशनिर्देशपदाभ्यामर्थप्रविभागो यथासूत्रमनुगन्तव्यः । यदाह । नित्योऽयं शारिपुत्र धर्मकायोऽनन्यत्वधर्माक्षयधर्मतया । ध्रुवोऽयं शारिपुत्रधर्मकायो ध्रुवशरणोऽपरान्तकोटीसमतया । शिवोऽयं शारिपुत्र धर्मकायोऽद्वयधर्माविकल्पधर्मतया । शाश्वतोऽयं शारिपुत्र धर्मकायोऽविनाशधर्माकृत्रिमधर्मतयेति ।

(र्ग्व्५५) अस्यामेव विशुद्धावस्थायामत्यन्तव्यवदा ननिष्ठागमनलक्षणस्य तथागतगर्भस्या संभेदार्थमारभ्य श्लोकः ।

स धर्मकायः स तथागतो यतस्तदार्यसत्यं परमार्थनिर्वृतिः ।
अतो न बुद्धत्वमृतेऽर्करश्मिवद्गुणाविनिर्भागतयास्ति निर्वृतिः ॥ ८४ ॥

तत्र पूर्वश्लोकार्धेन कि दर्शयति ।

धर्मकायादिपर्याया वेदितव्याः समासतः ।
चत्वारोऽनास्रवे धातौ चतुरर्थप्रभेदतः ॥ ८५ ॥

समासतोऽनास्रवे धातौ तथागतगर्भे चतुरोऽर्थानधिकृत्य चत्वारो नामपर्याया वेदितव्याः । चत्वारोऽर्थाः कतमे ।

बुद्धधर्माविनिर्भागस्तद्गोत्रस्य तथागमः ।
अमृषामोषधर्मित्वमादिप्रकृतिशान्तता ॥ ८६ ॥

बुद्धधर्माविनिर्भागार्थः । यमधिकृत्योक्तम् । अशून्यो भगवंस्तथागतगर्भो गङ्गाअनदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति । तद्गोत्रस्य प्रकृतेरचिन्त्यप्रकारसमुदागमार्थः । यमधिकृत्योक्तम् । षडायतनविशेषः स तादृशः परंपरागतोऽनादिकालिको धर्मताप्रतिलब्ध इति । अमृषामोपार्थः । यमधिकृत्योक्तम् । तत्र परमार्थसत्यं यदिदममोषधर्मि निर्वाणम् । तत्कस्माद्धेतोः । नित्यं तद्गोत्रं समधर्मतयेति । अत्यन्तोपशमार्थः । यमधिकृत्योक्तम् । आदिपरिनिर्वृत एव तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्पन्नोऽनिरुद्ध (र्ग्व्५६) इति । एषु चतुर्ष्वर्थेषु यथासंख्यामिम चत्वारो नामपर्याया भवन्ति । तद्यथा धर्मकायस्तथागत परमार्थसत्यं निर्वाणमिति । यत एवमाह । तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनमिति । नान्यो भगवंस्तथागतोऽन्यो धर्मकायः । धर्मकाय एव भगवंस्तथागत इति । दुःखनिरोधनाम्ना भगवन्नेवंगुणसमन्वागतस्तथागतधर्मकायो देशित इति । निर्वाणधातुरिति भगवंस्तथागतधर्मकायस्यैतदधिवचनमिति ।

तत्रापरेण श्लोकार्धेन किं दर्शयति ।

सर्वाकाराभिसंबोधिः सवासनमल्लोद्धृतिः ।
बुद्धत्वमथ निर्वाणमद्वयं परमार्थतः ॥ ८७ ॥

यत एते चत्वारोऽनास्रवधातुपर्यायास्तथागतधातावेकस्मिन्नभिन्नेऽर्थे समवसरन्ति । अत एषामेकार्थत्वादद्वयधर्मनयमुखेन यच्च सर्वाकारसर्वधर्माभिसंबोधाद्रुद्धत्वमित्युक्तं यच्च महाभिसंबोधात्सवासनमलप्रहाणान्निर्वाणमित्युक्तमेतदुभयमनास्रवे धातावद्वयमिति द्रष्टव्यमभिन्नमच्छिन्नम् ।

सर्वाकारैरसंख्येयैरचिन्त्यैरमलैर्गुणैः ।
अभिन्नलक्षणो मोक्षो यो मोक्षः स तथागत इति ॥

यदुक्तमर्हत्प्रत्येकबुद्धपरिनिर्वाणमधिकृत्य । निर्वाणमिति भगवन्नुपाय एष तथा गतानामिति । अनेन दीर्घाध्वपरिश्रान्तानामटवीमध्ये नगरनिर्माणवदविवर्तनोपाय एष धर्मपरमेश्वराणां सम्यक्संबुद्धानामिति परिदीपितम् । निर्वाणाधिगमाद्(र्ग्व्५७) भगवंस्तथागता भवन्त्यर्हन्तः सम्यक्संबुद्धाः सर्वाप्रमेयाचिन्त्यविशुद्धिनिष्ठागतगुणसमन्वागता इति । अनेन चतुराकारगुणनिष्पत्स्वसंभिन्नलक्षणं निर्वाणमधिगम्य तदात्मकाः सम्यक्संबुद्धा भवन्तीति । बुद्धत्वनिर्वाणयोरविनिर्भागगुणयोगादुद्धत्वमन्तरेण कस्यचिन्निर्वाणाधिगमो नास्तीति परिदीपितम् ।

तत्र तथागतानामनास्रवे धातौ सर्वाकारवरोपेतशून्यताभिनिर्हारतश्चित्रकरदृष्टान्तेन गुणसर्वता वेदितव्या ।

अन्योन्यकुशला यद्वद्भवेयुश्चित्रलेखकाः ।
यो यदङ्गं प्रजानीयात्तदन्यो नावधारयेत् ॥ ८८ ॥
अथे तेभ्यः प्रभू राजा प्रयच्छेद्दुष्यमाज्ञया ।
सर्वैरेवात्र युष्माभिः कार्या प्रतिकृतिर्मम ॥ ८९ ॥
ततस्तस्य प्रतिश्रुत्य युञ्जेरंश्चित्रकर्मणि ।
तत्रैको व्यभियुक्तानामन्यदेशगतो भवेत् ॥ ९० ॥
देशान्तरगते तस्मिन् प्रतिमा तद्वियोगतः ।
न सा सर्वाङ्गसंपूर्णा भवेदित्युपमा कृता ॥ ९१ ॥
लेखका ये तदाकारा दानशीलक्षमादयः ।
सर्वाकारवरोपेता शून्यता प्रतिमोच्यते ॥ ९२ ॥

तत्रैषामेव दानादीनामेकैकस्य बुद्धविषयापर्यन्तप्रकारभेदभिन्नत्वादपरिमितत्वं वेदितव्यम् । संख्याप्रभावाभ्यामचिन्त्यत्वम् । मात्सर्यादिविपक्षमलवासनापकर्षितत्वाद्विशुद्धिपरमत्वमिति । तत्र सर्वाकारवरोपेतशून्यतासमाधिमुखभावनयानुत्पत्तिकधर्मलाभादचलायां बोधिसत्त्वभूमावविकल्पानिश्छिद्रनिरन्तरस्वरसवाहिमार्गज्ञानसंनिश्रयेण (र्ग्व्५८) तथागतानामनास्रवे धातौ गुणसर्वता समुदागच्छति । साधुमत्यां बोधिसत्त्वभूमावसंख्येयसमाधिधारणीमुखसमुद्रैरपरिमाणबुद्धधर्मपरिग्रहज्ञानसनिश्रयेण गुणाप्रमेयता समुदागच्छति । धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतगृह्यस्थानाविपरोक्षज्ञानसंनिश्रयेण गुणाचिन्त्यता समुदागच्छति । तदनन्तरं बुद्धभूभ्यधिगमाय सर्वसवासनक्लेशज्ञेयावरणविमोक्षज्ञानसंनिश्रयेण गुणविशुद्धिपरमता समुदागच्छति । यतेषु चतुर्षु भूमिज्ञानसंनिश्रयेष्वर्हत्प्रत्येकबुद्धा न संदृश्यन्ते तस्मात्ते दूरीभवन्ति चतुराकारगुणपरिनिष्पत्त्यसंभिन्नलक्षणान्निर्वाणधातोरित्युक्तम् ।

प्रज्ञाज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः ।
अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः ॥ ९३ ॥

यया प्रज्ञया येन ज्ञानेन यया विमुक्त्या स चतुराकारगुणनिष्पत्त्यसंभिन्नलक्षणो निर्वाणधातुः सूच्यते तासां यथाक्रमं त्रिभिरेकेन च कारणेन चतुर्विधमादित्यसाधर्म्य परिदीपितम् । तत्र बुद्धसान्तानिक्या लोकोत्तरनिर्विकल्पायाः परमज्ञेयतत्त्वान्धकारविधमनप्रत्युपस्थानतया प्रज्ञाया दीप्तिसाधर्म्यम् । तत्पृष्ठलब्धस्य सर्वज्ञज्ञानस्य सर्वाकारनिरवशेषज्ञेयवस्तुप्रवृत्ततया रश्मिजालस्फरणसाधर्म्यम् । तदुभयाश्रयस्य चित्तप्रकृतिविमुक्तेरत्यन्तविमलप्रभास्वरतयार्कमण्डलविशुद्धिसाधर्म्यम् । तिसृणामपि धर्मधात्वसंभेदेस्वभावतया तत्त्रयाविनिर्भागसाधर्म्यमिति ।

अतोऽनागम्य बुद्धत्वं निर्वाणं नाधिगम्यते ॥
न हि शक्यः प्रभारश्मी निर्वृज्य प्रेक्षितुं रविः ॥ ९४ ॥

(र्ग्व्५९) यत एवमनादि सांनिध्यस्वभावशुभधर्मोपहिते धातौ तथागतानामविनिर्भागगुणधर्मत्वमतो न तथागतत्वमसङ्गाप्रतिहतप्रज्ञाज्ञानदर्शनमनागम्य सर्वावरणविमुक्तिलक्षणस्य निर्वाणधातोरधिगमः साक्षात्करणमुपपद्यते प्रभारश्म्यदर्शिन इव सूर्यमण्डलदर्शनम् । अत एवमाह । न हि भगवन् हीनप्रणीतधर्माणां निर्वाणाधिगमः । समधर्माणां भगवन्निर्वाणाधिगमः । समज्ञानानां समविमुक्तीनां समविमुक्तिज्ञानदर्शनानां भगवन्निर्वाणाधिगमः । तस्माद्भगवन्निर्वाणधातुरेकरसः समरस इत्युच्यते । यदुत विद्याविमुक्तिरसेनेति ।

जिनगर्भव्यस्थानमित्येवं दशंधोदितम् ।
तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः ॥ ९५ ॥

इत्येतदपरान्तकोटिसमध्रुवधर्मतासंविद्यमानतामधिकृत्य दशविधेनार्थेन तथागत गर्भव्यवस्थानमुक्तम् । पुनरनादिसांनिध्यासंबद्ध स्वभावक्लेशकोशतामनादिसांनिध्यसंबद्ध स्वभावशुभधर्मतां चाधिकृत्य नवभिरुदाहरणैरपर्यन्तक्लेशकोशकोटीगूढस्तथागतगर्भ इति यथासूत्रमनुगन्तव्यम् । नवोदाहरणानि कतमानि ।

बुद्धः कुपद्मे मधु मक्षिकासु तुषेसु साराण्य शुचौ सुवर्णम् ।
(र्ग्व्६०) निधिः क्षितावल्पफलेऽङ्कुरादि प्रक्लिन्नवस्त्रेषु जिनात्मभावः ॥ ९६ ॥
जघन्यनारीजठरे नृपत्वं यथा भवेन्मृत्सु च रत्नबिम्बम् ।
आगन्तुकक्लेशमलावृतेषु सत्त्वेषु तद्वत्स्थित एष धातुः ॥ ९७ ॥

पद्मप्राणितुषाशु चिक्षितिफलत्वक्पूतिवस्त्रावरस्
त्रीदुःखज्वलनाभितप्तपृथिवीधातुप्रकाशा मलाः । बुद्धक्षौद्रसुसारकाञ्चननिधिन्यग्रोधरत्नाकृति-
द्वीपाग्राधिपरत्नबिम्बविमलप्रख्यः स धातुः परः ॥ ९८ ॥

कुत्सितपद्मकोशसदृशाः क्लेशाः । बुद्धवत्तथागतधातुरिति ।
यथा विवर्णाम्बुजगर्भवेष्टितं तथागतं दीप्तसहस्रलक्षणम् ।
नरः समीक्ष्यामलदिव्यलोचनो विमोचयेदम्बुजपत्त्रकोशतः ॥ ९९ ॥
विलोक्य तद्वत्सुगतः स्वधर्मतामवीचिसंस्थेष्वपि बुद्धचक्षुषा । विमोचयत्यावरणादनावृतोऽपरान्तकोटीस्थितकः कृपात्मकः ॥ १०० ॥

यद्वत्स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक्तद्गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत् ।

(र्ग्व्६१) रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत्
कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः ॥ १०१ ॥

क्षुद्रप्राणाकसदृशाः क्लेशाः । क्षौद्रवत्तथागतधातुरिति ।

यथा मधु प्राणिगणोपगूढं विलोक्य विद्वान् पुरुषस्तदर्थी ।
समन्ततः प्राणिगणस्य तस्मादुपायतोऽपक्रमणं प्रकुर्यात् ॥ १०२ ॥
सर्वज्ञचक्षुर्विदितं महर्षिर्मधूपमं धातुमिमं विलोक्य ।
तदावृतीनां भ्रमरोपमानामश्लेषमात्यन्तिकमादधाति ॥ १०३ ॥

यद्वत्प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो
मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः ।
कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु
क्लेशाः क्षुद्रनिभा जिनः पुरुषवत्तद्घातने कोविदः ॥ १०४ ॥

बहिस्तुषसदृशाः क्लेशाः । अन्तःसारवत्तथा गतधातुरिति ।

धान्येषु सारं तुषसंप्रयुक्तं नृणां न य[द्व]त्परिभोगमेति ।
भवन्ति येऽन्नादिभिरर्थिनस्तु ते तत्तुषेभ्यः परिमोचयन्ति ॥ १०५ ॥
(र्ग्व्६२) सत्त्वेष्वपि क्लेशमलोपसृष्टमेवं न तावत्कुरुते जिनत्वम् ।
संबुद्धकार्यं त्रिभवे न यावद्विमुच्यते क्लेशमलोपसर्गात् ॥ १०६ ॥
यद्वत्कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात्
सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम् ॥
तद्वत्क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो
धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने ॥ १०७ ॥

अशुचिसंकारधानसदृशाः क्लेशाः । सुवर्णवत्तथागतधातुरिति ।

यथा सुवर्णं व्रजतो नरस्य च्युतं भवेत्संकरपूतिधाने ।
बहूनि तद्वर्षशतानि तस्मिन् तथैव तिष्ठेदविनाशधर्मि ॥ १०८ ॥
तद्देवता दिव्यविशुद्धचक्षुर्विलोक्य तत्र प्रवदेन्नरस्य ।
सुवर्णमस्मिन्नवमग्ररत्नं विशोध्य रत्नेन कुरुष्व कार्यम् ॥ १०९ ॥
दृष्ट्वा मुनिः सत्त्वगुणं तथैव क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम् ।
(र्ग्व्६३) तत्क्लेशपङ्कव्यवदानहेतोर्धर्माम्बुवर्षं व्यसृजत्प्रजासु ॥ ११० ॥
यद्वत्संकरपूतिधानपतितं चामीकरं देवता
दृष्ट्वा दृश्यतमं नृणामुपदिशेत्संशोधनार्थं मलात् ।
तद्वत्क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः
सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम् ॥ १११ ॥

पृथिवीतलसदृशाः क्लेशाः । रत्ननिधान वत्तथागतधातुरिति ।

यथा दरिद्रस्य नरस्य वेश्मन्यन्तः पृथिव्यां निधिरक्षयः स्यात् ।
विद्यान्न चैनं स नरो न चास्मिन्नेषोऽहमस्मीति वदेन्निधिस्तम् ॥ ११२ ॥
तद्वन्मनोऽन्तर्गतमप्य चिन्त्यमक्षय्यधर्मामलरत्नकोशम् ।
अबुध्यमानानुभवत्यजस्रं दारिद्रयदुःखं बहुधा प्रजेयम् ॥ ११३ ॥
यद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं
न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः ।
तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमास्
तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते ॥ ११४ ॥

त्वक्कोशसदृशाः क्लेशाः । बीजाङ्कुरवत्तथागतधातुरिति ।

यथाम्रतालादिफले द्रुमाणां बीजाङ्कुरः सन्नविनाशधर्मी ।
(र्ग्व्६४) उप्तः पृथिव्यां सलिलादियोगात्क्रमादुपैति द्रुमराजभावम् ॥ ११५ ॥
सत्त्वेष्वविद्या दिफलत्वगन्तःकोशावनद्धः शुभधर्मधातुः ।
उपैति तत्तत्कुशलं प्रतीत्य क्रमेण तद्वन्मुनिराजभाव ॥ ११६ ॥
अम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययैर्
यद्वत्तालफलाम्रकोशविवरादुत्पद्यते पादपः ।
सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्कुरस्
तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः ॥ ११७ ॥

पूतिवस्त्रसदृशः क्लेशाः । रत्नविग्रहवत्तथागतधातुरिति ।

बिम्बं यथा रत्नमयं जिनस्य दुर्गन्धपूत्यम्बरसंनिरुद्धम् ।
दृष्ट्ववोज्झितं वर्त्मनि देवतास्य मुक्त्यै वदेदध्वगमेतमर्थम् ॥ ११८ ॥
नानाविधक्लेशमलोपगूढमसङ्गचक्षुः सुगतात्मभावम् ।
विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं प्रत्यभ्युपायं विदधाति तद्वत् ॥ ११९ ॥
यद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं
वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत् ।
(र्ग्व्६५) तद्वत्क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्झितं
तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः ॥ १२० ॥

आपन्नसत्त्वनारिसदृशाः क्लेशाः । कललमहाभूतगतचक्रवर्तिवत्तथागतधातुरिति ।

नारी यथा काचिदनाथभूता वसेदनाथावसथे विरूपा ।
गर्भेण राजश्रियमुद्वहन्ती न सावबुध्येत नृपं स्वकुक्षौ ॥ १२१ ॥
अनाथशालेव भवोपपत्तिरन्तर्वतीस्त्रीवदशुद्धसत्त्वाः ।
तद्गर्भवत्तेष्वमलः स धातुर्भवन्ति यस्मिन्सति ते सनाथाः ॥ १२२ ॥
यद्वत्स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता
विन्देद्दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे ।
तद्वत्क्लेशवशादशान्तमनसो दुःखालयस्था जनाः
सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि ॥ १२३ ॥

मृत्पङ्कलेपसदृशाः क्लेशाः । कनकबिम्बवत्तथागतधातुरिति ।

हेम्नो यथान्तःक्वथितस्य पूर्णं बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम् ।
(र्ग्व्६६) अन्तर्विशुद्ध्यै कनकस्य तज्ज्ञः संचोदयेदावरणं बहिर्धा ॥ १२४ ॥
प्रभास्वरत्वं प्रकृतेर्मलानामागन्तुकत्वं च सदावलोक्य ।
रत्नाकराभं जगदग्रबोधिर्विशोधयत्यावरणेभ्य एवम् ॥ १२५ ॥
यद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं
स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम् ।
तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्वविद्
धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम् ॥ १२६ ॥

उदाहरणानां पिण्डार्थः ।

अम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ ।
फलत्वक्पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि ॥ १२७ ॥
बुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत् ।
रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत् ॥ १२८ ॥
सत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु ।
चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम् ॥ १२९ ॥

समासतोऽनेन तथागतगर्भसूत्रोदाहरणनिर्देशेन कृत्स्नस्य सत्त्वधातोरनादिचित्तसंक्लेशधर्मागन्तुकत्वमनादिचित्तव्यवदानधर्मसहजाविनिर्भागता च (र्ग्व्६७) परिदीपिता । तत उच्यते । चित्तसंक्लेशात्सत्त्वाः संक्लिष्यन्ते चित्तव्यवदानाद्विशुध्यन्त इति । तत्र कतमश्चित्तसंक्लेशो यमधिकृत्य नवधा पद्मकोशादिदृष्टान्तदेशना ।

रागद्विड्मोहतत्तीव्रपर्यवस्थान वासनाः ।
दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः ॥ १३० ॥
पद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः ।
अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः ॥ १३१ ॥

समासत इमे न व क्लेशाः प्रकृतिपरिशुद्धेऽपि तथागतधातौ पद्मकोशादय इव बुद्धबिम्बादिषु सदागन्तुकतया संविद्यन्ते । कतमे नव । तद्यथा रागानुशयलक्षणः क्लेशः । द्वेषानुशयलक्षणः । मोहानुशयलक्षणः । तीव्ररागद्वेषमोहपर्यवस्थानलक्षणः । अविद्यावासभूमिसंगृहीतः । दर्शनप्रहातव्यः । भावनाप्रहातव्यः । अशुद्धभूमिगतः । शुद्धभूमिगतश्च । तत्र ये लौकिकवीतरागसान्तानिकाः क्लेशा आनिञ्ज्यसंस्कारोपचयहेतवो रूपारूप्यधातुनिर्वर्तका लोकोत्तरज्ञानवध्यास्त उच्यन्ते रागद्वेषमोहानुशयलक्षणा इति । ये रागादिचरितसत्त्वसान्तानिकाः पुण्यापुण्यसंस्कारोपचयहेतवः केवलकामधातुनिर्वर्तका अशुभादिभावज्ञानवध्यास्त उच्यन्ते तीव्ररागद्वेषमोहपर्यवस्थानलक्षणा इति । येऽर्हत्सान्तानिका अनास्रवकर्मप्रवृत्तिहेतवो विमलमनोमयात्मभावनिर्वर्तकास्तथागतबोधिज्ञानवध्यास्त उच्यन्तेऽविद्यावासभूमिसंगृहीता इति । द्विविधः शैक्षः पृथग्जन आर्यश्च । तत्र ये पृथग्जनशैक्षसांतानिकाः प्रथमलोकोत्तरधर्मदर्शनज्ञानवध्यास्त उच्यन्ते दर्शनप्रहातव्या (र्ग्व्६८) इति । य आर्यपुद्गलशैक्षसान्तानिका यथादृष्टलोकोत्तरधर्मभावनाज्ञानवध्यास्त उच्यन्ते भावनाप्रहातव्या इति । येऽनिष्ठागतबोधिसत्त्वसान्तानिकाः सप्तविधज्ञानभूमिविपक्षा अष्टाम्यादिभूमित्रयभावनाज्ञानवध्यास्त उच्यन्तेऽशुद्धभूमिगता इति । ये निष्ठागतबोधिसत्त्वसान्तानिका अष्टम्यादिभूमित्रयभावनाज्ञानविपक्षा वज्रोपमसमाधिज्ञानवध्यास्त उच्यन्ते शुद्धभूमिगता इति । एते

नव रागादयः क्लेशाः संक्षेपेण यथाक्रमम् ।
नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः ॥ १३२ ॥

विस्तरेण पुनरेत एव चतुरशीतिसहस्रप्रकारभेदेन तथागतज्ञानवदपर्यन्ता भवन्ति यैरपर्यन्तक्लेशकोशकोटिगूढस्तथागतगर्भ उच्यते ।

बालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात् ।
मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता ॥ १३३ ॥

यदुक्तं भगवता । सर्वसत्त्वास्तथागतगर्भ इति । तत्र सर्वसत्त्वाः संक्षेपेणोच्यन्ते चतुर्विधास्तद्यथा पृथग्जना अर्हन्तः शैक्षा बोधिसत्त्वाश्चेति । तत्रैषामनास्रवे धातौ यथाक्रमं चतुर्भिरेकेन द्वाभ्यां द्वाभ्यां च क्लेशमलाभ्यामशुद्धिः परिदीपिता ।

कथं पुनरिमे नव रागादयः क्लेशाः पद्मकोशादिसदृशा वेदितव्याः । कथं च तथागतधातोर्बुद्धबिम्बादिसाधर्म्यमनुगन्तव्यमिति ।

तत्पद्मं मृदि संभूतं पुरा भूत्वा मनोरमम् ।
अरम्यमभवत्पश्चाद्यथा रागरतिस्तथा ॥ १३४ ॥
भ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम् ।
दुःख जनयति द्वेषो जायमानस्तथा हृदि ॥ १३५ ॥
(र्ग्व्६९) शाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः ।
मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम् ॥ १३६ ॥
प्रतिकूलं यथामेध्यमेवं कामा विरागिणाम् ।
कामसेवानिमित्तत्वात्पर्युत्थानान्यमेध्यवत् ॥ १३७ ॥
वसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम् ।
स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः ॥ १३८ ॥
यथा बीजत्वगुच्छित्तिरङ्कुरादिक्रमोदयात् ।
तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात् ॥ १३९ ॥
हतसत्कायसाराणामार्यमार्गानुषङ्गतः ।
भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम् ॥ १४० ॥
गर्भकोशमलप्रख्याः सप्तभूमिगता मला ।
विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत् ॥ १४१ ॥
मृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः ।
वज्रोपमसमाधानज्ञानवध्या महात्मनाम् ॥ १४२ ॥
एवं पद्मादिभिस्तुल्या नव रागादयो मलाः ।
धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात् ॥ १४३ ॥

त्रिविधं स्वभावमधिकृत्य चित्तव्यवदानहेतोस्तथागतगर्भस्य नवधा बुद्धाबिम्बादिसाधर्म्यमनुगन्तव्यम् । त्रिविधः स्वभावः कतमः ।
स्वभावो धर्मकायोऽस्य तथता गोत्रमित्यपि ।
त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः ॥ १४४ ॥

त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैर्धर्मकायस्वभावः स धातुरवगन्तव्यः । एकेन सुवर्णदृष्टान्तेन तथतास्वभावः । पञ्चभिर्निधितरुत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रिविधबुद्धकायोत्पत्तिगोत्रस्वभाव (र्ग्व्७०) इति । तत्र धर्म कायः कतमः ।

धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः ।
तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना ॥ १४५ ॥

द्विविधो बुद्धानां धर्मकायोऽनुगन्तव्यः । सुविशुद्ध्श्च धर्मधातोरविकल्पज्ञानगोचरविषयः । स च तथागतानां प्रत्यात्ममधिगमधर्ममधिकृत्य वेदितव्यः । तत्प्राप्तिहेतुश्च सुविशुद्धधर्मधातुनिष्यन्दो यथावैनयिकपरसत्त्वेषु विज्ञप्तिप्रभवः । स च देशनाधर्ममधिकृत्य वेदितव्यः । देशना पुनर्द्विविधा सूक्ष्मौदारिकधर्मव्यवस्थाननयभेदात् । यदुत गम्भीरबोधिसत्त्वपिटकधर्मव्यवस्थान नयदेशना च परमार्थसत्यमधिकृत्य विचित्रसूत्रगेयव्याकरणगाथोदाननिदानादिविविधधर्मव्यवस्थाननयदेशना च संवृतिसत्यमधिकृत्य ।

लोकोत्तरत्वाल्लोकेऽस्य दृष्टान्तानुपलब्धितः ।
धातोस्तथागतेनैव सादृश्यमुपपपादितम् ॥ १४६ ॥
मध्वेकरसवत्सूक्ष्मगम्भीरनयदेशना ।
नानाण्डसारवज्ज्ञेया विचित्रनयदेशना ॥ १४७ ॥

इत्येवमेभिस्त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैस्तथागतधर्मकायेन निरवशेषसत्त्वधातुपरिस्फरणार्थमधिकृत्य तथागतस्येमे गर्भाः सर्वसत्त्वा इतिपरिदीपितम् । न हि स कश्चित्सत्त्वः सत्त्वधातौ सईविद्यते यस्तथागतधर्मकायाद्वहिराकाशधातोरिव रूपम् । एवं ह्याह ।

(र्ग्व्७१) यथाम्बरं सर्वगतं सद मतं तथैव तत्सर्वगतं सदा मतम् ।
यथाम्बरं रूपगतेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगमिति ॥

प्रकृतेरविकारित्वात्कल्याणत्वाद्विशुद्धितः ।
हेममण्डलकौपम्यं तथतायामुदाहृतम् ॥ १४८ ॥

यच्चित्तमपर्यन्तक्लेशदुःखधर्मानुगतमपि प्रकृतिप्रभास्वरतया विकारानुदाहृतेरतः कल्याणसुवर्णवदनन्यथाभावार्थेन तथतेत्युच्यते । स च सर्वेषामपि मिथ्यात्वनियतसंतानानां सत्त्वानां प्रकृतिनिर्विशिष्टानां सर्वागन्तुकमलविशुद्धिमागतस्तथागत इति संख्यां गच्छति । एवमेकेन सुवर्णदृष्टान्तेन तथताव्यतिभेदार्थमधिकृत्य तथागतस्तथतैषां गर्भः सर्वसत्त्वानामिति परिदीपितम् । चित्तप्रकृतिविशुद्ध्यद्वयधर्मतामुपादाय यथोक्तं भगवता । तत्रमञ्जुश्रीस्तथागत आत्मोपादानमूलपरिज्ञातावी । आत्मंविशुद्ध्या सर्वसत्त्वविशुद्धिमनुगतः । या चात्मविशुद्धिर्या च सत्त्वविशुद्धिरद्वयैषाद्वैधिकारो ति । एवं ह्याह ।

सर्वेषामविशिष्टापि तथता शुद्धिमागता ।
तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिन इति ॥

गोत्रं तद्द्विविधं ज्ञेयं निधानफलवृक्षवत् ।
अनादिप्रकृतिस्थं च समुदानीतमुत्तरम् ॥ १४९ ॥
(र्ग्व्७२) बुद्धकायत्रयावाप्तिरस्माद्गोत्रद्वयान्मता ।
प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ ॥ १५० ॥
रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः ।
अकृत्रिमत्वात्प्रकृतेर्गुणरत्नाश्रयत्वतः ॥ १५१ ॥
महाधर्माधिराजत्वात्साम्भोगश्चक्रवर्तिवत् ।
प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत् ॥ १५२ ॥

इत्येवमेभिरवशिष्टैः पञ्चभिर्निधितरुरत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रि विधबुद्धकायोत्पत्तिगोत्रस्वभावार्थमधिकृत्य तथागतधातुरेषां गर्भः सर्वसत्त्वानामिति परिदीपितम् । त्रिविधबुद्धकायप्रभावितत्वं हि तथागतत्वम् । अतस्तत्प्राप्तये हेतुस्तथागतधातुरिति । हेत्वर्थोऽत्र धात्वर्थः । यत आह । तत्र च सत्त्वे सत्त्वे तथागतधातुरुत्पन्नो गर्भगतः संविद्यते न च ते सत्त्वा बुध्यन्ते इति । एवं ह्याह ।
अनादिकालिको धातुः सर्वधर्मसमाश्रयः ।
तस्मिन् सति गतिः सर्वा निर्वाणाधिगमोऽपि च ॥

तत्र कथमनादिकालिकः । यत्तथागतगर्भमेवाधिकृत्य भगवता पूर्व कोटिर्न प्रज्ञायत इति देशितं प्रज्ञप्तम् । धातुरिति । यदाह । योऽयं भगवंस्तथागतगर्भो (र्ग्व्७३) लोकोत्तरगर्भः प्रकृतिपरिशुद्धगर्भ इति । सर्वधर्मसमाश्रय इति । यदाह । तस्माद्भगवंस्तथागतगर्भो निश्रय आधारः प्रतिष्ठासंबद्धानामविनिर्भागानाममुक्तज्ञानानामसंस्कृतानां धर्माणाम् । असंबद्धानामपि भगवन् विनिर्भागधर्माणां मुक्तज्ञानानां संस्कृतानां धर्माणां निश्रय आधारः प्रतिष्ठा तथागतगर्भ इति । तस्मिन् सति गतिः सर्वेति । यदाह । सति भगवंस्तथागर्भे संसार इति परिकल्पमस्य वचनायेति । निर्वाणाधिगमोऽपि चेति । यदाह । तथागतगर्भश्चेद्भगवन्न स्यान्न स्याद्दुःखेऽपि निर्विन्न निर्वाणेच्छा प्रार्थना प्रणिधिर्वेति विस्तरः ।

स खल्वेष तथागतगर्भो धर्मकायांविप्रलम्भस्तथतासंभिन्नलक्षणो नियतगोत्रस्वभावः सर्वदा च सर्वत्र च निरवशेषयोगेन सत्त्वधाताविति द्रष्टव्यं धर्मतां प्रमाणीकृत्य । यथोक्तम् । एषा कुलपुत्र धर्माणां धर्मता । उत्पादाद्वा तथागतानामनुत्पादाद्वा सदैवैते सत्त्वास्तथागतगर्भा इति । यैव चासौ धर्मता सैवात्र युक्तिर्योग उपायः पर्यायः । एवमेव तत्स्यात् । अन्यथा नैव तत्स्यादिति । सर्वत्र धर्मतैव प्रतिशरणम् । धर्मतैव युक्तिश्चित्तनिध्यापनाय चित्तसंज्ञापनाय । सा न चिन्तयितव्या न विकल्पयितव्याधिमोक्तव्येति ।

(र्ग्व्७४) श्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम् ।
न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम् ॥ १५३ ॥

समासत इमे चत्वारः पुद्गलास्तथागतगर्भदर्शनं प्रत्यचक्षुष्मन्तो व्यवस्थिताः । कतमे चत्वारः । यदुत पृथग्जनः श्रावकः प्रत्येकबुद्धो नवयानसंप्रस्थितश्च बोधिसत्त्वः । यथोक्तम् । अगोचरोऽयं भगवंस्तथागतगर्भः सत्कायदृष्टिपतितानां विपर्यासाभिरतानां शून्यताविक्षिप्तचित्तानामिति । तत्र सत्कायदृष्टिपतिता उच्यन्ते बालपृथग्जनाः । तथा हि तेऽत्यन्तसास्रवस्कन्धादीन्धर्मानात्मत आत्मीयतश्चोपगम्याहकारममकाराभिनिविष्टाः सत्कायनिरोधमनास्रवधातुमधिमोक्तुमपि नालम् । कुतः पुनः सर्वज्ञविषयं तथागतगर्भमवभोत्स्यन्त इति । नेदं स्थानं विद्यते । तत्र विपर्यासाभिरता उच्यन्ते श्रावकप्रत्येकबुद्धाः । तत्कस्मात् । तेऽपि हि नित्ये तथागतगर्भे सत्युत्तरिभावयितव्ये तन्नित्यसंज्ञाभावनाविपर्ययेणानित्यसंज्ञाभावनाभिरताः । सुखे तथागतगर्भे सत्युत्तरिभावयितव्ये तत्सुखसंज्ञाभावनाविपर्ययेण दुःखसंज्ञाभावनाभिरताः । आत्मनि तथागतगर्भे सत्युत्तरिभावयितव्ये तदात्मसंज्ञाभावनाविपर्ययेणानात्मसंज्ञाभावनाभिरताः । शुभे तथागतगर्भेः सत्युत्तरिभावयितव्ये तच्छुभसंज्ञाभावनाविपर्ययेणाशुभसंज्ञाभावना भिरताः । एवमनेन पर्यायेण सर्वश्रावकप्रत्येकबुद्धानामपि धर्मकायप्राप्तिविधुरमार्गाभिरतत्वादगोचरः स परमनित्यसुखात्मशुभलक्षणो धातुरित्युक्तम् । यथा च स विपयासाभिरतानामनित्यदुःखानात्माशुभसंज्ञानामगोचरस्तथा विस्तरेण महापरिनिर्वाणसूत्रे भगवता वापीतोयमणिदृष्टान्तेन प्रसाधितः ।

तद्यथापि नाम भिक्षवो ग्रीष्मकाले वर्तमाने सलिलबन्धनं बद्ध्वा स्वैः स्वैर्मण्डनकोपर्भोगैर्जनाः सलिले क्रीडेयुः । अथ तत्रैको जात्यं वैडूर्यमणिमन्तरुदके (र्ग्व्७५) स्थापयेत् । ततस्तस्य वैडूर्यस्यार्थे सर्वे ते मण्डनकानि त्यक्त्वा निमज्जेयुः । अथ यत्तत्रास्ति शर्करं कठल्यं वा तत्ते मणिरिति मन्यमाना गृहीत्वा मया लब्धो मणिरित्युत्सृज्योत्सृज्य वापीतिरे स्थित्वा नायं मणिरिति संज्ञां प्रवर्तेयुः । तच्च वाप्युदकं मणिप्रभावेन तत्प्रभेव भ्राजेत । एवं तेषां तदुदकं भ्राजमानं दृष्ट्वाहो मणिरिति गुणसंज्ञा प्रवर्तेत । अथ तत्रैक उपायकुशलो मेधावी मणिं तत्त्वतः प्रतिलभेत । एवमेव भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभ मिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं धर्मतत्त्वम जानद्भिस्तत्सर्व घटितं निरर्थकम् । तस्माद्भिक्षवो वापीशर्करकठल्यव्यवस्थिता इव मा भूता उपायकुशला यूयं भवत । यद्यद्भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभमिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं तत्र तत्रैव नित्यसुखशभात्मकानि सन्तीति विस्तरेण परमधर्मतत्त्वव्यवस्थानमारभ्य विपर्यासभूतनिर्देशो यथासूत्रमनुगन्तव्यः ।

तत्र शून्यताविक्षिप्तचित्ता उच्यन्ते नवयान संप्रस्थिता बोधिसत्त्वस्तथागतगर्भशून्यतार्थनयविप्रनष्टाः । ये भावविनाशाय शून्यताविमोक्षमुखमिच्छन्ति सत एव धर्मस्योत्तरकालमुच्छेदो विनाशः परिनिर्वाणमिति । ये वा पुनः शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति शून्यता नाम रूपादिव्यतिरेकेण कश्चिद्भा वोऽस्ति यमधिगमिष्यामो भावयिष्याम इति । तत्र कतमः स तथागतगर्भशून्यतार्थनय उच्यते ।

(र्ग्व्७६) नापनेयमतः किंचिदुपनेयं न किंचन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ १५४ ॥
शून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः ।
अशून्योऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः ॥ १५५ ॥

किमनेन परिदीपितम् । यतो न किंचिदपनेयमस्त्यतः प्रकृतिपरिशुद्धात्तथागतधातोः संक्लेशनिमित्तमागन्तुकमलशून्यताप्रकृतित्वादस्य । नाप्यत्रकिंचिदुपनेयमस्ति व्यवदाननिमित्तमविनिर्भागशुद्धधर्मप्रकृतित्वात् । तत उच्यते । शून्यस्तथागतगर्भो विनिर्भागैर्मुक्तज्ञैः सर्वक्लेशकोशैः । अशून्यो गङ्गानदीवालिकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति । एवं यद्यत्र नास्ति तत्तेन शून्यमिति समनुपश्यति । यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति । समारोपापवादान्तपरिवर्जनादपर्यन्तं शून्यतालक्षणमनेन श्लोकद्वयेन परिदीपितम् । तत्र येषामितः शून्यतार्थनयाद्वहिश्चित्तं विक्षिप्यते विसरति न समाधीयते नैकाग्रीभवति तेन ते शून्यताविक्षिप्तचित्ता उच्यन्ते । न हि परमार्थशून्यताज्ञानमुखमन्तरेण शक्यतेऽविकल्पो धातुरधिगन्तुं साक्षात्कर्तुम् । इदं च संधायोक्तम् । तथागतगर्भज्ञानमेव तथागतानां शून्यताज्ञानम् । तथागतगर्भश्च सर्वश्रावकप्रत्येकबुद्धैरदृष्टपूर्वोऽनधिगतपूर्व इति विस्तरः । स खल्वेष तथागतगर्भो यथा धर्मधातुगर्भस्तथा सत्कायदृष्टिपतितानामगोचर इत्युक्तं दृष्टिप्रतिपक्षत्वाद्धर्मधातोः । यथा धर्मकायो लोकोत्तरधर्म गर्भस्तथा विपर्यासाभिरतानामगोचर इत्युक्तमनित्यादिलोकधर्मप्रतिपक्षेण लोकोत्तरधर्मपरिदीपनात् । यथा प्रकृतिपरिशुद्धधर्मगर्भस्तथा शून्यताविक्षिप्तानामगोचर इत्युक्तमागन्तुकमलशून्यताप्रकृतित्वाद्विशुद्धिगुणधर्माणामविनिर्भागलोकोत्तरधर्मकायप्रभावितानामिति । (र्ग्व्७७) तत्र यदेकनयधर्मधात्वसंभेदज्ञानमुखमागम्य लोकोत्तरधर्मकायप्रकृतिपरिशुद्धिव्यवलोकनमिदमत्र यथाभूतज्ञानदर्शनमभिप्रेतं येन दशभूमिस्थिता बोधिसत्त्वास्तथागतगर्भमीषत्पश्यन्तीत्युक्तम् । एवं ह्याह ।

छिद्राभ्रे नभसीव भास्कर इह त्वं शुद्धबुद्धीक्षणैर्
आर्येरप्यवलोक्यसे न सकलः प्रादेशिकीबुद्धिभिः ।
ज्ञेयानन्तनभस्तलप्रविसृतं ते धर्मकायं तु ते
साकल्येन विलोकयन्ति भगवन् येषामनन्ता मतिरिति ॥

यद्येवमसङ्गनिष्ठाभूमिप्रतिष्ठितानामपि परमार्याणामसर्वविषय एष दुर्दृशो धातुः । तत्किमनेन बालपृथग्जनमारभ्य देशितेनेति । देशनाप्रयोजनसंग्रहे श्लोकौ । एकेन प्रश्नो द्वितीयेन व्याकरणम् ।

शून्यं सर्वं सर्वथा तत्र तत्र ज्ञेयं मेघस्वप्नमायाकृताभम् ।
इत्युक्त्वैवं बुद्धधातुः पुनः किं सत्त्वे सत्त्वेऽस्तीति बुद्धैरिहोक्तम् ॥ १५६ ॥
लीनं चित्तं हीनसत्त्वेष्ववज्ञाभूतग्राहो भूतधर्मापवादः ।
आत्मस्नेहश्चाधिकः पञ्च दोषा येषां तेषां तत्प्रहाणार्थमुक्तम् ॥ १५७ ॥

अस्य खलु श्लोकद्वयस्यार्थः समासेन दशभिः श्लोकैर्वेदितव्यः ।

(र्ग्व्७८) विविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु ।
क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम् ॥ १५८ ॥
क्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत् ।
मायानिर्मितवत्स्कन्धा विपाकाः क्लेशकर्मणाम् ॥ १५९ ॥
पूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे ।
पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम् ॥ १६० ॥
तथा ह्यश्रवणादस्य बोधौ चित्तं न जायते ।
केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः ॥ १६१ ॥
बोधिचित्तोदयेऽप्यस्य श्रेयानस्मीति मन्यतः
बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते ॥ १६२ ॥
तस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः ।
अभूतं परिगृह्णाति भूतमर्थं न विन्दते ॥ १६३ ॥
अभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः ।
भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः ॥ १६४ ॥
गृह्णन् दोषानसद्भूतान् भूतानपवदनु गुणान् ।
मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम् ॥ १६५ ॥
तच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम् ।
प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः ॥ १६६ ॥
निरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ ।
आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम् ॥ १६७ ॥

इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतगर्भाधिकारः प्रथम परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः ॥ १ ॥


(र्ग्व्७९)
२. द्वितीय परिच्छेद

उक्ता समला तथता । निर्मला तथतेदानीं वक्तव्या । तत्र कतमा निर्मला तथता यासौ बुद्धानां भगवतामनास्रवधातौ सर्वाकारमलविगमादाश्रयपरिवृत्तिर्व्यवस्थाप्यते । सा पुनरष्टौ पदार्थानधिकृत्य समासतो वेदितव्या । अष्टौ पदार्थाः कतमे ।

शुद्धिः प्राप्तिर्विसंयोगः स्वपरार्थस्तदाश्रयः ।
गम्भीर्यौदार्यमाहात्म्यं यावत्कालं यथा च तत् ॥ १ ॥

इत्येतेऽष्टौ पदार्था यथासंख्यमनेन श्लोकेन परिदीपिताः । तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्त्यर्थो नित्यार्थोऽचिन्त्यार्थः । तत्र योऽसौ धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युक्तो भगवता । तद्विशुद्धिराश्रयपरिवृत्तेः स्वभावो वेदितव्यः । यत आह । यो भगवन् सर्वक्लेशकोशकोटिगूढे तथागतगर्भे निष्काङ्क्षः सर्वक्लेशकोशविनिर्मुक्तेस्तथागतधर्मकायेऽपि स निष्काङ्क्ष इति । द्विविधं ज्ञानं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च । लौकिकलोकोत्तरज्ञानमाश्रयपरिवृत्तिहेतुः प्राप्तिशब्देन परिदीपितः । प्राप्यतेऽनेनेति प्राप्तिः । तत्फलं द्विविधम् । द्विविधो विसंयोगः क्लेशावरणविसंयोगो ज्ञेयावरणविसंयोगश्च । यथाक्रमं स्वपरार्थसंपादनं कर्म । तदधिष्ठानसमन्वागमो योगः । त्रिभिर्गाम्भीर्यौदार्यमाहात्म्यप्रभवितैर्बुद्धकायैर्नित्यमा भवगतेरचिन्त्येन प्रकारेण वर्तनं वृत्तिरिति । उद्दानम् ।

स्वभावहेतुफलतः कर्मयोगप्रवृत्तितः ।
तन्नित्याचिन्त्यतश्चैव बुद्धभूमिष्ववस्थितिः ॥ २ ॥

(र्ग्व्८०) तत्र स्वभावार्थे हेत्वर्थे चारभ्य बुद्धत्वे तत्प्राप्त्युपाये च श्लोकः ।

बुद्धत्वं प्रकृतिप्रभास्वरमिति प्रोक्तं यदागन्तुक- क्लेशज्ञेयघनाभ्रजालपटलच्छन्नं रविव्योमवत् ।
सर्वैर्बुद्धगुणैरुपेतममलैर्नित्यं ध्रुवं शाश्वतं
धर्माणां तदकल्पनप्रविचयज्ञानाश्रयादाप्यते ॥ ३ ॥
अस्य श्लोकस्यार्थः समासेन चतुर्भिः श्लोकैर्वेदितव्यः ।
बुद्धत्वमविनिर्भागशुक्लधर्मप्रभावितम् ।
आदित्याकाशवज्ज्ञानप्रहाणद्वयलक्षणम् ॥ ४ ॥
गङ्गातीररजोऽतीतैर्बुद्धधर्मैः प्रभास्वरैः ।
सर्वैरकृतकैर्युक्तमविनिर्भागवृतिभिः ॥ ५ ॥
स्वभावापरिनिष्पत्तिव्यापित्वागन्तुकत्वतः ।
क्लेशज्ञेयावृतिस्तस्मान्मेघवत्समुदाहृता ॥ ६ ॥
द्वयावरणविश्लेषहेतुर्ज्ञानद्वयं पुनः ।
निर्विकल्प च तत्पृष्ठलब्धं तज्ज्ञानमिष्यते ॥ ७ ॥

यदुक्तमाश्रयपरिवृत्तेः स्वभावो विशुद्धिरिति तत्र विशुद्धिः समासतो द्विविधा । प्रकृतिविशुद्धिर्वैमल्यविशुद्धिश्च । तत्र प्रकृतिविशुद्धिर्या विमुक्तिर्न च विसंयोगः प्रभास्वरायाश्चित्तप्रकृतेरागन्तुकमलाविसंयोगात् । वैमल्यविशुद्धिर्विमुक्तिर्विसंयोगश्च वार्यादीनामिव रजोजलादिभ्यः प्रभास्वरायाश्चित्तप्रकृतेरनवशेषमागन्तुकमलेभ्यो विसंयोगात् । तत्र वैमल्यविशुद्धौ फलार्थमारभ्य द्वौ श्लोकौ ।

(र्ग्व्८१) ह्रद इव विमलाम्बुः फुल्लपद्मक्रमाढ्यः
सकल एव शशाङ्को राहुवक्त्राद्विमुक्तः ।
रविरिव जलदादिक्लेशनिर्मुक्तरश्मिर्
विमलगुणयुतत्वाद्भाति मुक्तं तदेव ॥ ८ ॥
मुनिवृषमधुसारहेमरत्नप्रवरनिधानमहाफलद्रुमाभम् ।
सुगतविमलरत्नविग्रहाग्रक्षितिपतिकाञ्चनबिम्बवज्जिनत्वम् ॥ ९ ॥

अस्य खलु श्लोकद्वयस्यार्थः समासतोऽष्टाभिः श्लोकैर्वेदितव्यः ।

रागाद्यागन्तुकक्लेशशुद्धिरम्बुह्रदादिवत् ।
ज्ञानस्य निर्विकल्पस्य फलमुक्तं समासतः ॥ १० ॥
सर्वाकारवरोपेतबुद्धभावनिदर्शनम् ।
फलं तत्पृष्ठलब्धस्य ज्ञानस्य परिदीपितम् ॥ ११ ॥
स्वच्छाम्बुह्रदवद्रागरजःकालुष्यहानितः ।
विनेयाम्बुरुहध्यानवार्यभिष्यन्दनाच्च तत् ॥ १२ ॥
द्वेषराहुप्रमुक्तत्वा न्महामैत्रीकृपांशुभिः ।
जगत्स्फरणतः पूर्णविमलेन्दूपमं च तत् ॥ १३ ॥
मोहाभ्रजालनिर्मोक्षाज्जगति ज्ञानरश्मिभिः ।
तमोविधमनात्तच्च बुद्धत्वममलार्कवत् ॥ १४ ॥
अतुल्यतुल्यधर्मत्वात्सद्धर्मरसदानतः ।
फल्गुव्यपगमात्तच्च सुगतक्षौद्रसारवत् ॥ १५ ॥
(र्ग्व्८२) पवित्रत्वाद्गुणद्रव्यदारिद्रयविनिवर्तनात् ।
विमुक्तिफलदानाच्च सुवर्णनिधिवृक्षवत् ॥ १६ ॥
धर्मरत्नात्मभावत्वाद्द्विपदाग्राधिपत्यतः ।
रूपरत्नाकृतित्वाच्च तद्रत्ननृप बिम्बवत् ॥ १७ ॥

यत्तु द्विविधं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च ज्ञानमाश्रयपरिवृत्तेर्हेतुर्विसंयोगफलसंज्ञितायाः । तत्कर्म स्वपरार्थसंपादनमित्युक्तम् । तत्र कतमा स्वपरार्थसंपत् । या सवासनक्लेशज्ञेयावरणविमोक्षादनावरणधर्मकायप्राप्तिरियमुच्यते स्वार्थसंपत्तिः । या तदूर्ध्वमा लोकादनाभोगतः कायद्वयेन संदर्शनदेशनाविभुत्वद्वयप्रवृत्तिरियमुच्यते परार्थसंपत्तिरिति । तस्यां स्वपरार्थसंपत्तौ कर्मार्थमारभ्य त्रयः श्लोकाः ।

अनास्रवं व्याप्यविनाशधर्मि च ध्रुवं शिवं शाश्वतमच्युतं पदम् ।
तथागतत्वं गगनोपमं सतां षडिन्दियार्थानुभवेषु कारणम् ॥ १८ ॥
विभूतिरूपार्थविदर्शने सदा निमित्तभूतं सुकथाशुचिश्रवे ।
तथागतानां शुचिशीलजिघ्रणे महार्यसद्धर्मरसाग्रविन्दने ॥ १९ ॥
(र्ग्व्८३) समाधिसंस्पर्शसुखानुभूतिषु स्वभावगाम्भीर्यनयावबोधने ।
सुसूक्ष्मचिन्तापरमार्थगव्हरं तथागतव्योम निमित्तवर्जितम् ॥ २० ॥

अस्य खलु श्लोकत्रयस्यार्थः समासतोऽष्टभिः श्लोकैर्वेदितव्यः ।

कर्म ज्ञानद्वयस्यतद्वेदितव्यं समासतः ।
पूरणं मुक्तिकायस्य धर्मकायस्य शोधनम् ॥ २१ ॥
विमुक्तिधर्मकायौ च वेदितव्यौ द्विरेकधा ।
अनास्रवत्वाद्व्यापित्वादसंस्कृतपदत्वतः ॥ २२ ॥
अनास्रवत्वं क्लेशानां सवासननि रोधतः ।
असङ्गाप्रतिघातत्वाज्ज्ञानस्य व्यापिता मता ॥ २३ ॥
असंस्कृतत्वमत्यन्तमविनाशस्वभावतः ।
अविनाशित्वमुद्देशस्तन्निर्देशो ध्रुवादिभिः ॥ २४ ॥
नाशश्चतुर्विधो ज्ञेयो ध्रुवत्वादिविपर्ययात् ।
पूर्तिर्विकृतिरुच्छित्तिरचिन्त्यनमनच्युतिः ॥ २५ ॥
तदभावाद्ध्रुवं ज्ञेयं शिवं शाश्वतमच्युतम् ।
पदं तदमलज्ञानं शुक्लधर्मास्पदत्वतः ॥ २६ ॥
यथानिमित्तमाकाशं निमित्तं रूपदर्शने ।
शब्दगन्धरस्पृश्यधर्माणां च श्रवादिषु ॥ २७ ॥
(र्ग्व्८४) इन्द्रियार्थेषु धीराणामनास्रवगुणोदये ।
हेतुः कायद्वयं तद्वदनावरणयोगतः ॥ २८ ॥

यदुक्तमाकाशलक्षणो बुद्ध इति तत्पारमार्थिकमावेणिकं तथागतानां बुद्धलक्षणमभिसंधायोक्तम् । एवं ह्याह । संचेद्द्वात्रिंशन्महापुरुषलक्षणैस्तथागतो द्रष्टव्योऽभविष्यत्तद्राजापि चक्रवर्ती तथागतोऽभविष्यदिति । तत्र परमार्थलक्षणे योगार्थमारभ्य श्लोकः ।

अचिन्त्यं नित्यं च ध्रुवमथ शिवं शाश्वतमथ
प्रशान्तं च व्यापि व्यपगतविकल्पं गगनवत् ।
असक्तं सर्वत्रापरतिघपरुषस्पर्शविगतं
न दृश्यं न ग्राह्यं शुभमपि च बुद्धत्वममलम् ॥ २९ ॥

अथ खल्वस्य श्लोकस्यार्थः समासतोऽष्टाभिः श्लोकैर्वेदितव्यः ।

विमुक्तिधर्मकायाभ्यां स्वपरार्थो निदर्शितः ।
स्वपरार्थाश्रये तस्मिन् योगोऽचिन्त्यादिभिर्गुणैः ॥ ३० ॥
अचिन्त्यमनुगन्तव्यं त्रिज्ञानाविषयत्वतः ।
सर्वज्ञज्ञानविषयं बुद्धत्वं ज्ञानदेहिभिः ॥ ३१ ॥
श्रुतस्याविषयः सौक्ष्म्याच्चिन्तायाः परमार्थतः ।
लौक्यादिभावनायाश्च धर्मतागव्हरत्वतः ॥ ३२ ॥
दृष्टपूर्वं न तद्यस्माद्वालैर्जात्यन्धकायवत् ।
आर्यैश्च सूतिकामध्यस्थित बालार्कबिम्बवत् ॥ ३३ ॥
उत्पादविगमान्नित्यं निरोधविगमाद्ध्रुवम् ।
शिवमेतद्द्वयाभावाच्छाश्वतं धर्मतास्थितेः ॥ ३४ ॥
(र्ग्व्८५) शान्तं निरोधसत्यत्वाद्व्यापि सर्वावबोधतः ।
अकल्पमप्रतिष्ठानादसक्तं क्लेशहानितः ॥ ३५ ॥
सर्वत्राप्रतिघं सर्वज्ञेयावरणशुद्धितः ।
परुषस्पर्शनिर्मुक्तं मृदुकर्मण्यभावतः ॥ ३६ ॥
अदृश्यं तदरूपित्वादग्राह्यमनिमित्ततः ।
शुभं प्रकृतिशुद्धत्वादमलं मलहानितः ॥ ३७ ॥

यत्पुनरेतदाकाशवदसंस्कृतगुणाविनिर्भागवृत्त्यापि तथागतत्वामा भवगतेरचिन्त्यमहोपायक्रुणाज्ञानपरिकर्मविशेषेण जगद्धितसुखाधाननिमित्तममलै स्त्रिभिः स्वभाविकसांभोगिकनैर्माणिकैः कायैरनुपरतमनुच्छिन्नमनाभोगेन प्रवर्तत इति द्रष्टव्यमावेणीकधर्मयुतत्वादिति । तत्र वृत्त्यर्थमारभ्य बुद्धकायविभागे चत्वारः श्लोकाः ।

अनादिमध्यान्तमभिन्नमद्वयं त्रिधा विमुक्तं विमलाविकल्पकम् ।
समाहिता योगिनस्तत्प्रयत्नाः पश्यन्ति यं धर्मधातुस्वभावम् ॥ ३८ ॥
अमेयगङ्गासिकतातिवृत्तैर्गुणैरचिन्त्यैरसमैरुपेतः ।
(र्ग्व्८६) सवासनोन्मूलितसर्वदोषस्तथागतानाममलः स धातुः ॥ ३९ ॥
विचित्रसद्धर्ममयूखविग्रहैर्जगद्विमोक्षार्थसमाहृतोद्यमः ।
क्रियासु चिन्तामणिराजरत्नवद्विचित्रभावो न च तत्स्वभववान् ॥ ४० ॥
लोकेषु यच्छान्तिपथावतारप्रपाचनाव्याकरणे निदानम् ।
बिम्बं तदप्यत्र सदावरुद्धमाकाशधाताविव रूपधातुः ॥ ४१ ॥

एषां खलु चतुर्णां श्लोकानां पिण्डार्थो विंशतिश्लोकैर्वेदितव्यः ।

यत्तद्बुद्धत्वमित्युक्तं सर्वज्ञत्वं स्वयंभुवाम् ।
निर्वृतिः परमाचिन्त्यप्राप्तिः प्रत्यात्मवेदिता ॥ ४२ ॥
तत्प्रभेदस्त्रिभिः कायैर्वृत्तिः स्वाभाविकादिभिः ।
गाम्भीर्यैदार्यमाहात्म्यगुणधर्मप्रभावितैः ॥ ४३ ॥
तत्र स्वभाविकः कायो बुद्धानां पञ्चलक्षणः ।
पञ्चाकारगुणोपेतो वेदितव्यः समासतः ॥ ४४ ॥
असंस्कृतमसंभिन्नमन्तद्वयविवर्जितम् ।
क्लेशज्ञेयसमापत्तित्रयावरणनिःसृतम् ॥ ४५ ॥
(र्ग्व्८७) वैमल्यादविकल्पत्वाद्योगिनां गोचरत्वतः ।
प्रभास्वरं विशुद्धं च धर्मधातोः स्वभावतः ॥ ४६ ॥
अप्रमेयैरसंख्येयैरचिन्त्यैरसमैर्गुणैः ।
विशुद्धिपारमीप्राप्तैर्युक्तं स्वाभाविकं वपुः ॥ ४७ ॥
उदारत्वादगण्यत्वात्तर्कस्यागोचरत्वतः ।
कैवल्याद्वासनोच्छित्तेरप्रमेयादयः क्रमात् ॥ ४८ ॥
विचित्रधर्मसंभोगरूपधर्मावभासतः ।
करुणाशुद्धिनिष्यन्दसत्त्वार्थास्रंसनत्वतः ॥ ४९ ॥
निर्विकल्पं निराभोगं यथाभिप्रायपूरितः ।
चिन्तामणिप्रभावर्द्धेः सांभोगस्य व्यवस्थितिः ॥ ५० ॥
देशने दर्शने कृत्यास्रंसनेऽनभिसंस्कृतौ ।
अतत्स्वभावाख्याने च चित्रतोक्ता च पञ्चधा ॥ ५१ ॥
रङ्गप्रत्ययवैचित्र्यादतद्भावो यथा मणेः ।
सत्त्वप्रत्ययवैचित्र्यादतद्भावस्तथा विभोः ॥ ५२ ॥
महाकरुणया कृत्स्नं लोकमालोक्य लोकवित् ।
धर्मकायादविरलं निर्माणैश्चित्ररूपिभिः ॥ ५३ ॥
जातकान्युपपत्तिं च तुषितेषु च्युतिं ततः ।
गर्भा[व]क्रमणं जन्म शिल्पस्थानानि कौशलम् ॥ ५४ ॥
(र्ग्व्८८) अन्तःपुररतिक्रीडां नैष्क्रम्यं दुःखचारिकाम् ।
बोधिमण्डोपसंक्रान्तिं मारसैन्यप्रमर्दनम् ॥ ५५ ॥
संबोधिं धर्मचक्रं च निर्वाणाधिगमक्रियाम् ।
क्षेत्रेष्वपरिशुद्धेषु दर्शयत्या भवस्थिते ॥ ५६ ॥
अनित्यदुःखनैरात्म्यशान्तिशब्दैरुपायवित् ।
उद्वेज्य त्रिभवात्सत्त्वान् प्रतारयति निर्वृत्तौ ॥ ५७ ॥
शान्तिमार्गावतीर्णाश्च प्राप्यनिर्वाणसंज्ञिनः ।
सद्धर्मपुण्डरीकादिधर्मतत्त्वप्रकाशनैः ॥ ५८ ॥
पूर्वग्रहान्निवर्त्यैतान् प्रज्ञोपायपरिग्रहात् ।
परिपाच्योत्तमे याने व्याकरोत्यग्रबोधये ॥ ५९ ॥
सौक्ष्म्यात्प्रभावसंपत्तेर्बालसार्थातिवाहनात् ।
गाम्भीर्यौ दार्यमाहत्म्यमेषु ज्ञेयं यथाक्रमम् ॥ ६० ॥
प्रथमो धर्मकायोऽत्र रूपकायौ तु पश्चिमौ ।
व्योम्नि रूपगतस्येव प्रथमेऽन्त्यस्य वर्तनम् ॥ ६१ ॥

तस्यैव कायत्रयस्य जगद्धितसुखाधानवृत्तौ नित्यार्थमारभ्य श्लोकः ।

हेत्वानन्त्यात्सत्त्वधात्वक्षयत्वात्कारुण्यद्धिर्ज्ञानसंपत्तियोगात् ।
(र्ग्व्८९) धर्मैश्वर्यान्मृत्युमारावभङ्गान्नैःस्वा भाव्याच्छाश्वतो लोकनाथः ॥ ६२ ॥

अस्य पिण्डार्थः षड्भिः श्लोकैर्वेदितव्यः ।

कायजीवितभोगानां त्यागैः सद्धर्मसंग्रहात् ।
सर्वसत्त्वहितायादिप्रतिज्ञोत्तरणत्वतः ॥ ६३ ॥
बुद्धत्वे सुविशुद्धायाः करुणायाः प्रवृत्तितः ।
ऋद्धिपादप्रकाशाच्च तैरवस्थानशक्तितः ॥ ६४ ॥
ज्ञानेन भवनिर्वाणद्वयग्रहविमुक्तितः ।
सदाचिन्त्यसमाधानसुखसंपत्तियोगतः ॥ ६५ ॥
लोके विचरतो लोकधर्मैरनुपलेपतः ।
शमामृतपदप्राप्तौ मृत्युमाराप्रचारतः ॥ ६६ ॥
असंस्कृतस्वभावस्य मुनेरादिप्रशान्तितः ।
नित्यमशरणानां च शरणाभ्युपपत्तितः ॥ ६७ ॥
सप्तभिः कारणैराद्यैर्नित्यता रूपकायतः ।
पश्चिमैश्च त्रिभिः शास्तुर्नित्यता धर्मकायतः ॥ ६८ ॥

स चायमाश्रयपरिवृत्तिप्रभावितस्तथागतानां प्राप्तिनयोऽचिन्त्यनयेनानुगन्तव्य इति ।
अचिन्त्यार्थमारभ्य श्लोकः ।

अवाक्यवत्त्वात्परमार्थसंग्रहादतर्कभूमेरुपमनिवृत्तितः ।
(र्ग्व्९०) निरुत्तरत्वाद्भवशान्त्यनुद्ग्रहादचिन्त्य आर्यैरपि बुद्धगोचरः ॥ ६९ ॥

अस्य पिण्डार्थश्चतुर्भिः श्लोकैर्वेदितव्यः ।

अचिन्त्योऽनभिलाप्यत्वादलाप्यः परमार्थतः ।
परमार्थोऽप्रतवर्यत्वादतर्क्यो व्यनुमेयतः ॥ ७० ॥
व्यनुमेयोऽनुत्तरत्वादानुत्तर्यमनुद्ग्रहात् ।
अनुद्ग्रहोऽप्रतिष्ठानादगुणदोषाविकल्पनात् ॥ ७१ ॥
पञ्चभिः कारणैः सौक्ष्म्यादिचिन्त्यो धर्मकायतः ।
षष्ठेनातत्त्वभावित्वादचिन्त्यो रूपकायतः ॥ ७२ ॥
अनुत्तरज्ञानमहाकृपादिभिर्गुणैरचिन्त्या गुणपारगा जिनाः ।
अतः क्रमोऽन्त्योऽयमपि स्वयंभुवोऽभिषेकलब्धा न महर्षयो विदुरिति ॥ ७३ ॥

इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे बोध्यधिकारो नाम द्वितीयः परिच्छेदः ॥ २ ॥


(र्ग्व्९१)
३. तृतीय परिच्छेद

उक्ता निर्मला तथता । ये तदाश्रिता मणिप्रभावर्णसंस्थानवदभिन्नप्रकृतयोऽशान्तर्निमला गुणास्त इदानीं वक्तव्या इति । अनन्तरं बुद्धगुणविभागमारभ्य श्लोकः ।

स्वार्थः परार्थः परमार्थकायस्तदाश्रिता संवृतिकायता च ।
फलं विसंयोगविपाकभावादेतच्चतुः षष्टिगुणप्रभेदम् ॥ १ ॥

किमुक्तं भवति ।

आत्मसंपत्त्यधिष्ठानं शरीरं पारमार्थिकम् ।
परसंपत्त्यधिष्ठानमृषेः सांकेतिकं वपुः ॥ २ ॥
विसंयोगगुणर्युक्तं वपुराद्यं बलादिभिः ।
वैपाकिकैर्द्वितीयं तु महापुरुषलक्षणैः ॥ ३ ॥

अतः परं ये च बलादयो यथा चानुगन्तव्यास्तथतामधिकृत्य ग्रन्थः ।

बलत्वमज्ञानवृतेषु वज्रवद्विशारदत्वं परिषत्सु सिंहवत् ।
तथागतावेणिकतान्तरीक्षवन्मुनेर्द्विधादर्शनमम्बुचन्द्रवत् ॥ ४ ॥

बलान्वित इति ।

स्थानास्थाने विपाके च कर्मणामिन्द्रियेषु च ।
धातुष्वप्यधिमुक्तौ च मार्गे सर्वत्रगामिनि ॥ ५ ॥
(र्ग्व्९२) ध्यानादिक्लेशवैमल्ये निवासानुस्मृतावपि ।
दिव्ये चक्षुषि शान्तौ च ज्ञानं दशविधं बलम् ॥ ६ ॥

वज्रवदिति ।

स्थानास्थानविपाकधातुषु जगन्नानाधुमुक्तौ नये
संक्लेशव्यवदान इन्द्रियगणे पूर्वे निवासस्मृतौ ।
दिव्ये चक्षुषि चास्रवक्षयविधावज्ञानवर्माचल-
प्राकारद्रुमभेदनप्रकिरणच्छेदाद्वलं वज्रवत् ॥ ७ ॥

चतुर्वेशारद्यप्राप्त इति ।

सर्वधर्माभिसंबोधे विवन्धप्रतिषेधने ।
मार्गाख्याने निरोधाप्तौ वैशारद्यं चतुर्विधम् ॥ ८ ॥
ज्ञेये वस्तुनि सर्वथात्मपरयोर्ज्ञानात्स्वयंज्ञापनाद्
धेये वस्तुनि हानिकारणकृतेः सेव्ये विधौ सेवनात् ।
प्राप्तव्ये च निरुत्तरेऽतिविमले प्राप्तेः परप्रापणाद्
आर्याणां स्वपरार्थसत्यकथनादस्तम्भितत्वं क्वचित् ॥ ९ ॥

सिंहवदिति ।

नित्यं वनान्तेषु यथा मृगेन्द्रो निर्भीरनुत्तस्तगतिर्मृगेभ्यः ।
(र्ग्व्९३) मुनीन्द्रसिंहोऽपि तथा गणेषु स्वस्थो निरास्थः स्थिरविक्रमस्थः ॥ १० ॥

अष्टदशावेणिकबुद्धधर्मसमन्वागत इति ।

स्खलितं रवितं नास्ति शास्तुर्न मुषिता स्मृतिः ।
न चासमाहितं चित्तं नापि नानत्वसंज्ञिता ॥ ११ ॥
नोपेक्षाप्रतिसंख्याय हानिर्न च्छन्दवीर्यतः ।
स्मृतिप्रज्ञाविमुक्तिभ्यो विमुक्तिज्ञानदर्शनात् ॥ १२ ॥
ज्ञानपूर्वंगमं कर्म त्र्यध्वज्ञानमनावृतम् ।
इत्येतेऽष्टादशान्ये च गुरोरावेणिका गुणाः ॥ १३ ॥
नास्ति प्रस्खलितं रवो मुषितता चित्ते न संभेदतः
संज्ञा न स्वरसाध्युपेक्षणमृषेर्हानिर्न च च्छन्दतः ।
वीर्याच्च स्मृतितो विशुद्धविमलप्रज्ञाविमुक्तेः सदा
मुक्ति ज्ञाननिर्दशनाच्च निखिलज्ञेयार्थसंदर्शनात् ॥ १४ ॥
सर्वज्ञानुपुरोजवानुपरिवर्त्यर्थेषु कर्मत्रयं
त्रिष्वध्वस्वपराहत सुविपुलज्ञानप्रवृत्तिर्ध्रुवम् ।
(र्ग्व्९४) इत्येषा जिनता महाकरुणया युक्तावबुद्धा जिनैर्
यद्बोधाज्जगति प्रवृत्तमभयदं सद्धर्मचक्रं महत् ॥ १५ ॥

आकाशवदिति ।

या क्षित्यादिषु धर्मता न नभसः सा धर्मता विद्यते
ये चानावरणादिलक्षणगुणा व्योम्नो न ते रूपिषु ।
क्षित्यम्बुज्वलनानिलाम्बरसमा लोकेषु साधारणा
बुद्धावेणिकता न चाश्वपि पुनर्लोकेषु साधारणा ॥ १६ ॥

द्वात्रिंशन्महापुरुषलक्षणरूपधारीति ।

सुप्रतिष्ठितचक्राङ्कव्यायतोत्सङ्गपादता ।
दीर्घाङ्गुलिकता जालपाणिपादावनद्धता ॥ १७ ॥
त्वङ्मृदुश्रीतरुणता सप्तोत्सदशरीरता ।
एणेयजङ्घता नागकोशवद्वस्तिगुह्यत ॥ १८ ॥
सिंहपूर्वार्धकायत्वं निरन्तरचितांशता ।
संवृत्तस्कन्धता वृत्तश्लक्ष्णानुन्नामबाहुता ॥ १९ ॥
(र्ग्व्९५) प्रलम्बबाहुता शुद्धप्रभामण्डलगात्रता ।
कम्बुग्रीवत्वममलं मृगेन्द्रहनुता समा ॥ २० ॥
चत्वारिंशद्दशनता स्वच्छाविरलदन्तता ।
विशुद्धसमदन्तत्वं शुक्लप्रवरदंष्ट्रता ॥ २१ ॥
प्रभूतजिव्हतानन्ताचिन्त्यरसरसाग्रता ।
कलविङ्करुतं ब्रह्मस्वरता च स्वयंभुवः ॥ २२ ॥
नीलोत्पलश्रीवृषपक्ष्मनेत्रसितामलोर्णोदितचारुवक्त्रः ।
उष्णीषशीर्षव्यवदातसूक्ष्मसुवर्णवर्णच्छविरग्रसत्त्वः ॥ २३ ॥
एकैकविश्लिष्टमृदूर्ध्वदेहप्रदक्षिणावर्तसुसूक्ष्मरोमा ।
महेन्द्रनीलामलरत्नकेशो न्यग्रोधपूर्णद्रुममण्डलाभः ॥ २४ ॥
नारायणस्थामदृढात्मभावः समन्तभद्रोऽप्रतिमो महर्षिः ।
द्वात्रिंशदेतान्यमितद्युतीनि नरेन्द्रचिन्हानि वदन्ति शास्तुः ॥ २५ ॥

दकचन्द्रवदिति ।

व्यभ्रे यथा नभसि चन्द्रमसो विभूतिं
पश्यन्ति नीलशरदम्बुमहाह्रदे च ।
(र्ग्व्९६) संबुद्धमण्डलतलेषु विभोर्विभूतिं
तद्विज्जिनात्मजगणा व्यवलोकयन्ति ॥ २६ ॥

इतीमानि दश तथागतबलानि चत्वारि वैशारद्यान्यष्टादशावेणिका बुद्धधर्मा द्वात्रिंशच्च महापुरुषलक्षणान्यकेनाभिसंक्षिप्य चतुःषष्टिर्भवन्ति ।

गुणाश्चैते चतुःषष्टिः सनिदानाः पृथक्पृथक् ।
वेदितव्या यथासंख्यं रत्नसूत्रानुसारतः ॥ २७ ॥

एषां खलु यथोद्दिष्टानामेव चतुःषष्टेस्तथागतगुणानामपि यथानुपूर्व्या विस्तरविभागे निर्देशो रत्नदारिकासूत्रानुसारेण वेदितव्यः । यत्पुनरेषु स्थानेषु चतुर्विधमेव यथाक्रमं वज्रसिंहाम्वरदकचन्द्रोदाहरणमुदाहृतमस्यापि पिण्डार्थो द्वादशभिः श्लोकैर्वेदितव्यः ।

निर्वेधिकत्वनिर्दैन्यनिष्कैवल्यनिरीहतः ।
वज्रसिंहाम्बरस्वच्छदकचन्द्रनिदर्शनम् ॥ २८ ॥
बलादिषु बलैः षड्भिस्त्रिभिरेकेन च क्रमात् ।
सर्वज्ञेयसमापत्तिसवासनमलोद्धृतेः ॥ २९ ॥
भेदाद्विकरणाच्छेदाद्वर्मप्राकारवृक्षवत् ।
गुरुसारदृढाभेद्यं वज्रप्रख्यमृषेर्बलम् ॥ ३० ॥
गुरु कस्माद्यतः सारं सारं कस्माद्यतो दृढम् ।
दृढं कस्माद्यतोऽभेद्यमभेद्यत्वाच्च वज्रवत् ॥ ३१ ॥
निर्भयत्वान्निरास्थत्वात्स्थैर्याद्विक्रमसंपदः ।
पर्षद्गणेष्वशारद्यं मुनिसिंहस्य सिंहवत् ॥ ३२ ॥
(र्ग्व्९७) सर्वाभिज्ञतया स्वस्थो विहरत्यकुतोभयः ।
निरास्थः शुद्धसत्त्वेभ्योऽप्यात्मनोऽसमदर्शनात् ॥ ३३ ॥
स्थिरो नित्यसमाधानात्सर्वधर्मेषु चेतसः ।
विक्रान्तः परमाविद्यावासभूमिव्यतिक्रमात् ॥ ३४ ॥
लौकिकश्रावकैकान्तचारिधीमत्स्वयंभुवाम् ।
उत्तरोत्तरधीसौक्ष्म्यात्पञ्चधा तु निदर्शनम् ॥ ३५ ॥
सर्वलोकोपजीव्यत्वाद्भूम्यम्ब्वग्न्यनिलोपमाः ।
लौक्यलोकोत्तरातीतलक्षणत्वान्नभोनिभाः ॥ ३६ ॥
गुणा द्वात्रिंशदित्येते धर्मकायप्रभाविताः ।
मणिरत्नप्रभावर्णसंस्थानवदभेदतः ॥ ३७ ॥
द्वात्रिंशल्लक्षणाः काये दर्शनाह्लादका गुणाः ।
निर्माणधर्मसंभोगरूपकायद्वयाश्रिताः ॥ ३८ ॥
शुद्धेर्दुरान्तिकस्थानां लोकेऽथ जिनमण्डले ।
द्विधा तद्दर्शनं शुद्धं वारिव्योमेन्दुबिम्बवत् ॥ ३९ ॥

इति रत्नगोत्रविभागे महायानोत्तरत्नत्रशास्त्रे गुणाधिकारो नाम त्रितीयः परिच्छेदः ॥ ३ ॥


(र्ग्व्९८)
४. चतुर्थः परिच्छेदः

उक्ता विमला बुद्धगुणाः । तत्कर्म जिनक्रियेदानीं वक्तव्या । सा पुनरनाभोगतश्चाप्रश्रब्धितश्च समासतो द्वाभ्यामाकराभ्या प्रवर्तत इति ।
अनन्तरमनाभोगाप्रश्रब्ध बुद्धकार्यमारभ्य द्वौ श्लोकौ ।

विनेयधातौ विनयाभ्युपाये विनेयधातोर्विनयक्रियायाम् ।
तद्देशकाले गमने च नित्यं विभोरनाभोगत एव वृत्तिः ॥ १ ॥

कृत्स्नं निष्पाद्य यानं प्रवरगुणगणज्ञानरत्नस्वगर्भं
पुण्यज्ञानार्करश्मिप्रविसुतविपुलानन्तमध्याम्बराभम् ।
बुद्धत्वं सर्वसत्त्वे विमलगुणनिधिं निर्विशिष्टं विलोक्य
क्लेशज्ञेयाभ्रजालं विधमति करुणा वायुभूता जिनानाम् ॥ २ ॥

एतयोर्यथाक्रमं द्वाभ्यामष्टाभिश्च श्लोकैः पिण्डार्थो वेदितव्यः ।

यस्य येन च यावच्च यदा च विनयक्रिया ।
तद्विकल्पोदयाभावादनाभोगः सदा मुनेः ॥ ३ ॥
यस्य धातोर्विनेयस्य येनोपायेन भूरिणा ।
या विनीतिक्रिया यत्र यदा तद्देशकालयोः ॥ ४ ॥
निर्याणे तदुपस्तम्भे तत्फले तत्परिग्रहे ।
तदावृत्तौ तदुच्छित्तिप्रत्यये चाविकल्पतः ॥ ५ ॥
(र्ग्व्९९) भूमयो दश निर्याणं तद्धेतुः संभृतिद्वयम् ।
तत्फलं परमा बोधिर्बोधेः सत्त्वः परिग्रहः ॥ ६ ॥
तदावृतिरपर्यन्तक्लेशोपक्लेशवासनाः ।
करुणा तत्समुद्घातप्रत्ययः सार्वकालिकः ॥ ७ ॥
स्थानानि वेदितव्यानि षडेतानि यथाक्रमम् ।
महोदधिरविव्योमनिधानाम्बुदवायुवत् ॥ ८ ॥
ज्ञानाम्बुगुणरत्नत्वादग्रयानं समुद्रवत् ।
सर्वसत्त्वोपजीव्यत्वात्संभारद्वयमर्कवत् ॥ ९ ॥
विपुलानन्तमध्यत्वाद्बोधिराकाशधतुवत् ।
सम्यक्संबुद्धधर्मत्वात्सत्त्वधातुर्निधानवत् ॥ १० ॥
आगन्तुव्याप्त्यनिष्प त्तेस्तत्संक्लेशोऽभ्रराशिवत् ।
तत्क्षिंप्तिप्रत्युपस्थानात्करुणोद्वृत्तवायुवत् ॥ ११ ॥
पराधिकारनिर्याणात्सत्त्वात्मसमदर्शनात् ।
कृत्यापरिसमाप्तेश्च क्रियाप्रश्रब्धिरा भवात् ॥ १२ ॥

यदनुत्पादानिरोधप्रभावितं बुद्धत्वमित्युक्तं तत्कथमिहासंस्कृतादप्रवृत्तिलक्षणाद्बुद्धत्वादनाभोगाप्रतिप्रश्रब्धमा लोकादविकल्पं बुद्धकार्य प्रवर्तत इति । बुद्धमाहात्म्यधर्मतामारभ्य विमतिसंदेहजातानामचिन्त्यबुद्धविषयाधिमुक्तिसंजननार्थ तस्य माहात्म्ये श्लोकः ।

शक्रदुन्दुभिवन्मेघब्रह्मार्कमणिरत्नवत् ।
प्रतिश्रुतिरिवाकाशपृथिवीवत्तथागतः ॥ १३ ॥

(र्ग्व्१००) अस्य खलु सूत्रस्थानीयस्य श्लोकस्य यथाक्रमं परिशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः ।

शक्रप्रतिभासत्वादिति ।

विशुद्धवैडूर्यमयं यथेदं स्यान्महीतलम् ।
स्वच्छत्वात्तत्र दृश्येत देवेन्द्रः साप्सरोगणः ॥ १४ ॥
प्रासादो वैजयन्तश्च तदन्ये च दिवौकसः ।
तद्विमानानि चित्राणि ताश्च दिव्या विभूतयः ॥ १५ ॥
अथ नारीनरगणा महीतलनिवासिनः ।
प्रतिभासं तमालोक्य प्रणिधिं कुर्युरीदृशम् ॥ १६ ॥
अद्यैव न चिरादेवं भवेमस्त्रिदशेश्वराः ।
कुशलं च समादाय वर्तेरंस्तदवाप्तये ॥ १७ ॥
प्रतिभासोऽयमित्येवमविज्ञायापि ते भुवः ।
च्युत्वा दिव्युपपद्येरंस्तेन शुक्लेन कर्मणा ॥ १८ ॥
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः ।
एवं च महतार्थेन भुवि स्यात्प्रत्युपस्थितः ॥ १९ ॥
तथा श्रद्धादिविमले श्रद्धादिगुणभाविते ।
सत्त्वाः पश्यन्ति संबुद्धं प्रतिभास स्वचेतसि ॥ २० ॥
लक्षणव्यञ्जनोपेतं विचित्रेर्यापथक्रियम् ।
चङ्क्रम्यमाणं तिष्ठन्तं निषण्णं शयनस्थितम् ॥ २१ ॥
(र्ग्व्१०१) भाषमाणं शिवं धर्म तूष्णींभूतं समाहितम् ।
चित्राणि प्रातिहार्याणि दर्शयन्तं महाद्युतिम् ॥ २२ ॥
तं च दृष्ट्वाभियुज्यन्ते बुद्धत्वाय स्पृहान्विताः ।
तद्धेतुं च समादाय प्राप्नुवन्तीप्सितं पदम् ॥ २३ ॥
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः ।
एवं च महतार्थेन लोकेषु प्रत्युपस्थितः ॥ २४ ॥
स्वचित्तप्रतिभासोऽयमिति नैवं पृथग्जनाः ।
जानन्त्यथ च तत्तेषामवन्ध्यं बिम्बदर्शनम् ॥ २५ ॥
तद्धि दर्शनमागम्य क्रमादस्मिन्नये स्थिताः ।
सद्धर्मकायं मध्यस्थं पश्यन्ति ज्ञानचक्षुषा ॥ २६ ॥
भूर्यद्वत्स्यात्समन्तव्यपगतविषमस्थानान्तरमला
वैडूर्यस्पष्टशुभ्रा विमलमणिगुणा श्रीमत्समतला ।
शुद्धत्वात्तत्र बिम्बं सुरपतिभवनं माहेन्द्रमरुताम्
उत्पद्येत क्रमेण क्षितिगुणविगमादस्तं पुनरियात् ॥ २७ ॥
तद्भावायोपवासव्रतनियमतया दानाद्यभिमुखाः
पुष्पादीनि क्षिपेयुः प्रणिहितमनसो नारीनरगणाः ।
वैडूर्यस्वच्छभुते मनसि मुनिपतिच्छायाधिगमने
चित्राण्युत्पादयन्ति प्रमुदितमनसस्तद्वज्जिनसुताः ॥ २८ ॥
यथैव वैडूर्यमहीतले शुचौ सुरेन्द्रकायप्रतिबिम्बसंभवः ।
तथा जगच्चित्तमहीतले शुचौ मुनीन्द्रकायप्रतिबिम्बसंभवः ॥ २९ ॥
(र्ग्व्१०२) बिम्बोदयव्ययमनाविलताविलस्वचित्तप्रवर्तनवंशाज्जगति प्रवृत्तम् ।
लोकेषु यद्वदवभासमुपैति बिम्बं तद्वन्न तत्सदिति नासदिति प्रपश्येत् ॥ ३० ॥

देवदुन्दुभिवदिति ।

यथैव दिवि देवानां पूर्वशुक्लानुभावतः ।
यत्नस्थानमनोरूपविकल्परहिता सती ॥ ३१ ॥
अनित्यदुःखानैरात्म्यशान्तशब्दैः प्रमादिनः ।
चोदयत्यमरान् सर्वानसकृद्देवदुन्दुभिः ॥ ३२ ॥
व्याप्य बुद्धस्वरणैवं विभुर्जगदशेषतः ।
धर्म दिशति भव्येभ्यो यत्नादिरहितोऽपि सन् ॥ ३३ ॥
देवानां दिवि दिव्यदुन्दुभिरवो यैद्वत्स्वकर्मोद्भवो
धर्मोदाहरणं मुनेरपि तथा लोके स्वकर्मोद्भवम् ।
यत्नस्थानशरीरचित्तरहितः शब्दः स शान्त्यावहो
यद्वत्तद्वदृते चतुष्टयमयं धर्मः स शान्त्यावहः ॥ ३४ ॥
संग्रामक्लेशवृत्तावसुरबलजयक्रीडाप्रणुदनं
दुन्दुभ्याः शब्दहेतुप्रभवमभयदं यद्वत्सुरपुरे ।
सत्त्वेषु क्लेशदुःखप्रमथनशमनं मार्गोत्तमविधौ
ध्यानारूप्यादिहेतुप्रभवमपि तथा लोके निगदितम् ॥ ३५ ॥

कस्मादिह धर्मदुन्दुभिरेवाधिकृता न तदन्ये दिव्यास्तूर्यप्रकाराः । तेऽपि हि दिवौकसां पूर्वकृतकुशलकर्मवशादघट्टिता एव दिव्यश्रवणमनोहरशब्दमनुरुवन्ति । (र्ग्व्१०३) तैस्तथागतघोषस्य चतुःप्रकारगुणवैधर्म्यात् । तत्पुनः कतमत् । तद्यथा प्रादेशिकत्वमहितत्वमसुखत्वमनैर्याणिकत्वमिति । धर्मदुन्दुभ्याः पुनरप्रादेशिकत्वमशेषप्रमत्तदेवगणसंचोदनतया च तत्कालानतिक्रमणतया च परिदीपितम् । हितत्वमसुरादिपरचक्रोपद्रवभयपरित्राणतया चाप्रमादसंनियोजनतया च । सुखत्वमसत्कामरतिसुखविवेचनतया च धर्मारामरतिसुखोपसंहरणतया च । नैर्याणिकत्वमनित्यदुःखशून्यानात्मशब्दोच्चारणतया च सर्वोपद्रवोपायासोपशान्तिकरणतया च परिदीपितम् । एभिः समासतश्चतुर्भिराकारैर्धर्मदुन्दुभिसाधर्म्येण बुद्धस्वरमण्डलं विशिष्यत इति । बुद्धस्वरमण्डलविशेषणश्लोकः ।

सार्वजन्यो हितसुखः प्रातिहार्यत्रयान्वितः ।
मुनेर्घोषो यतो दिव्यतूर्येभ्योऽतो विशिष्यते ॥ ३६ ॥

एषां खलु चतुर्णामाकाराणां यथासंख्यमेव चतुर्भिः श्लोकः समासनिर्देशो वेदितव्यः ।

शब्दा महान्तो दिवि दुन्दुभीनां क्षितिस्थितेषु श्रवणं न यान्ति ।
संसारपातालगतेषु लोके संबुद्धतूर्यस्य तु याति शब्दः ॥ ३७ ॥
बह्व्योऽमराणां दिवि तूर्यकोट्यो नदन्ति कामज्वलनाभिवृद्धौ ।
एकस्तु घोषः करुणात्मकानां दुःखाग्निहेतुप्रशम्प्रवृत्तः ॥ ३८ ॥
शुभा मनोज्ञा दिवि तूर्यनिस्वना भवन्ति चित्तोद्धतिवृद्धिहेतवः ।
(र्ग्व्१०४) तथागतानां तु रुतं महात्मनां समाधिचित्तार्पणभाववाचकम् ॥ ३९ ॥
समासतो यत्सुखकारणं दिवि क्षितावनन्तास्वपि लोकधातुषु ।
अशेषलोकस्फरणावभासनं प्रघोषमागम्य तदप्युदाहृतम् ॥ ४० ॥

कायविकुर्वितेन दशदिगशेषलोकधातुस्फरणमृद्धिप्रातिहार्यमिति सूचितम् । चेतःपर्यायज्ञानेन तत्पर्यापन्नं सर्वसत्त्वचित्तचरितगहनावभासनमादेशनाप्रातिहार्यम् । वाग्घोषोदाहरणेन नैर्याणिकीं प्रतिपदमारभ्य तदववादानुशासनमनुशास्ति प्रातिहार्यम् । इत्येवमव्याहतगतेराकाशधातुवदपरिच्छिन्नवर्तिनोऽपि बुद्धस्वरमण्डलस्य यन्न सर्वत्र सर्वघोषोपलब्धिः प्रजायते न तत्र बुद्धस्वरमण्डलस्यापराध इति । प्रत्यायनार्थमतत्प्रहितानामात्मापराधे श्लोकः ।

यथा सूक्ष्मान् शब्दाननुभवति न श्रोत्रविकलो
न दिव्यश्रोत्रोऽपि श्रवणपथमायान्ति निखिलम् ।
तथा धर्मः सूक्ष्मः परमनिपुणज्ञानविषयः
प्रयात्येकेषां तु श्रवणपथमविलष्टमनसाम् ॥ ४१

मेघवदिति ।

प्रावृट्काले यथा मेघः पृथिव्यामभिवर्षति ।
वारिस्कन्धं निराभोगो निमित्तं सस्यसंपदः ॥ ४२ ॥
(र्ग्व्१०५) करुणाम्बुदतस्तद्वत्सद्धर्मसलिलं जिनः ।
जगत्कुशलसस्येषु निर्विकल्पं प्रवर्षति ॥ ४३ ॥
लोके यथा कुशलकर्मपथप्रवृत्ते वर्षन्ति वायुजनितं सलिलं पयोदाः ।
तद्वत्कृपानिलजगत्कुशलाभिवृद्धेः सद्धर्मवर्षमभिवर्षति बुद्धमेघः ॥ ४४ ॥
भवेषु संवित्करुणावभृत्कः क्षराक्षरासङ्गनभस्तलस्थः ।
समाधिधारण्यमलाम्बुगर्भो मुनीन्द्रमेघः शुभसस्यहेतुः ॥ ४५ ॥

भाजनविमात्रतायाम् ।

शीतं स्वादु प्रसन्नं मृदु लघु च पयस्तत्पयोदयाद्विमुक्तं
क्षारादिस्थानयोगादतिबहुरसतामेति यद्वत्पृथिव्याम् ।
आर्याष्ताङ्गाम्बुवर्षं सुविपुलकरुणामेघगर्भाद्विमुक्तं
सन्तानस्थानभेदाद्बहुविधरसतामेति तद्वत्प्रजासु ॥ ४६ ॥

निरपेक्षप्रवृत्तौ ।

यानाग्रेऽभिप्रसन्नानां मध्यानां प्रतिघातिनाम् ।
मनुष्यचातकप्रेतसदृशां राशयस्त्रयः ॥ ४७ ॥
ग्रीष्मान्तेऽम्बुधरेष्वसत्सु मनुजा व्योम्न्यप्रचाराः खगा
वर्षास्वप्यतिवर्षणप्रपतनात्प्रेताः क्षिप्तौ दुःखिताः ।
(र्ग्व्१०६) अप्रादुर्भवनोदयेऽपि करुणामेघाभ्रधर्माम्भसो
धर्माकाङ्क्षिणि धर्मताप्रतिहते लोके च सैवोपमा ॥ ४८ ॥
स्थूलैर्बिन्दुनिपातनैरशनिभिर्वज्राग्निसंपातनैः
सूक्ष्मप्राणकशैलदेशगमिकान्नापेक्षते तोयदः ।
सूक्ष्मौदारिकयुक्त्युपायविधिभिः प्रज्ञाकृपाम्भोधरस्
तद्वत्क्लेशगतान्दृष्त्यनुशयान्नापेक्षते सर्वथा ॥ ४९ ॥

दुःखाग्निप्रशमने ।

संसारोऽनवराग्रजातिमरणस्तत्संसृतौ पञ्चधा
मार्गः पञ्चविधे च वर्त्मनि सुखं नोच्चारसौगन्ध्यवत् ।
तद्दुःखं ध्रुवमग्निशस्त्रशिशिरक्षारादिसंस्पर्शजं
तच्छान्त्यै च सृजन् कृपाजलधरः सद्धर्मवर्षं महत् ॥ ५० ॥
देवेषु च्युतिदुःखमित्यवगमात्पर्येष्टिदुःखं नृषु
प्राज्ञा नाभिलषन्ति देवमनुजेष्वैश्वर्यमप्युत्तमम् ।
प्रज्ञायाश्च तथागतप्रवचनश्रद्धानुमान्यादिदं
दुःखं हेतुरयं निरोध इति च ज्ञानेन संप्रेक्षणात् ॥ ५१ ॥
व्याधिर्ज्ञेयो व्याधिहेतुः प्रहेयः स्वास्थ्यं प्राप्यं भेषजं सेव्यमेवम् ।
दुःखं हेतुस्तन्निरोधोऽथ मार्गो ज्ञेयं हेयः स्पर्शितव्यो निषेव्यः ॥ ५२ ॥

(र्ग्व्१०७) महाब्रह्मवदिति ।
सर्वत्र देवभवने ब्राह्म्यादविचलन् पदात् ।
प्रतिभासं यथा ब्रह्मा दर्शयत्यप्रयत्नतः ॥ ५३ ॥
तद्वन्मुनिरनाभोगान्निर्माणैः सर्वधातुषु ।
धर्मकायादविचलन् भव्यानामेति दर्शनम् ॥ ५४
यद्वद्ब्रह्मा विमानान्न चलति सततं कामधातुप्रविष्टं
देवाः पश्यन्ति चैनं विषयरतिहरं दर्शनं तच्च तेषाम् ।
तद्वत्सद्धर्मकायान्न चलति सुगतः सर्वलोकेषु चैनं
भव्याः पश्यन्ति शश्वत्सकलमलहरं दर्शनं तच्च तेषाम् ॥ ५५ ॥
तस्यैव पूर्वप्रणिधानयोगान्मरुद्गणानां च शुभानुभावात् ।
ब्रह्मा यथा भासमुपैत्ययत्नान्निर्माणकायेन तथा स्वयंभूः ॥ ५६ ॥

अनाभासगमने ।

च्युतिं गर्भाक्रान्तिं जननपितृवेश्मप्रविशनं
रतिक्रीडारण्यप्रविचरणमारप्रमथनम् ।
महाबोधिप्राप्तिं प्रशमपुरमार्गप्रणयनं
निदर्श्याधन्यानां नयनपथमभ्येति न मुनिः ॥ ५७ ॥

सूर्यवदिति ।

सूर्ये यथा तपति पद्मगणप्रबुद्धिरेकत्र कालसमये कुमुदप्रसुप्तिः । (र्ग्व्१०८)
बुद्धिप्रसुप्तिगुणदोषविधावकल्पः सूर्योऽम्बुजेष्वथ च तद्वदिहार्यसूर्यः ॥ ५८ ॥

द्विविधः सत्त्वधातुरविनेयो विनेयश्च । तत्र यो विनेयस्तमधिकृत्य पद्मोपमता स्वच्छजलभाजनोपमता च ।

निर्विकल्पो यथादित्यः कमलानि स्वरश्मिभिः ।
बोधत्येकमुक्ताभिः पाचयत्यपराण्यपि ॥ ५९ ॥
सद्धर्मकिरणैरेवं तथागतदिवाकरः ।
विनेयजनपद्मेषु निर्विकल्पः प्रवर्तते ॥ ६० ॥
धर्मरूपशरीराभ्यां बोधिमण्डाम्बरोदितः ।
जगत्स्फरति सर्वज्ञदिनकृज्ज्ञानरश्मिभिः ॥ ६१ ॥
यतः शुचिनि सर्वत्र विनेयसलिलाशये ।
अमेयसुगतादित्यप्रतिबिम्बोदयः सकृत् ॥ ६२ ॥

एवमविकल्पत्वेऽपि सति बुद्धानां त्रिविधे सत्त्वराशौ दर्शनादेशनाप्रवृत्तिक्रममधिकृत्य शैलोपमता ।

सदा सर्वत्र विसृते धर्मधातुनभस्तले ।
बुद्धसूर्ये विनेयाद्रितन्निपातो यथार्हतः ॥ ६३ ॥। (र्ग्व्१०९)
उदित इह समन्ताल्लोकमाभास्य यद्वत्प्रततदशशतांशुः सप्तसप्तिः क्रमेण ।
प्रतपति वरमध्यन्यूनशैलेषु तद्वत्प्रतिपति जिनसूर्यः सत्त्वराशौ क्रमेण ॥ ६४ ॥

प्रभामण्डलविशेषणे ।

सर्वक्षेत्रनभस्तलस्फरणता भानोर्न संविद्यते
नाप्यज्ञानतमोऽन्धकारगहनज्ञेयार्थसंदर्शनम् ।
नानावर्णविकीर्णरश्मिविसरैरेकैकरोमोद्भवैर्
भासन्ते करुणात्मका जगति तु ज्ञेयार्थसंदर्शकाः ॥ ६५ ॥
बुद्धानां नगरप्रवेशसमये चक्षुर्विहीना जनाः
पश्यन्त्यर्थमनर्थजालविगमं विन्दन्ति तद्दर्शनात् ।
मोहान्धाश्च भवार्णवान्तरगता दृष्ट्यन्धकारावृता
बुद्धार्कप्रभयावभासितधियः पश्यन्त्यदृष्टं पदम् ॥ ६६ ॥

चिन्तामणिवदिति ।

युगपद्गोचरस्थानां सर्वाभिप्रायपूरणम् ।
कुरुते निर्विकल्पोऽपि पृथक्चिन्तामणिर्यथा ॥ ६७ ॥
बुद्धचिन्तामणिं तद्वत्समेत्य पृथगाशयाः ।
शृण्वन्ति धर्मतां चित्रां न कल्पयति तांश्च सः ॥ ६८ ॥
यथाविकल्पं मणिरत्नमीप्सितं धनं परेभ्यो विसृजत्ययत्नतः । (र्ग्व्११०)
तथा मुनिर्यत्नमृते यथार्हतः परार्थमातिष्ठति नित्यमा भवात् ॥ ६९ ॥

दुर्लभप्राप्तभावास्तथागता इति ।

इह शुभमणिप्राप्तिर्यद्वज्जगत्यतिदुर्लभा
जलनिधिगतं पातालस्थं यतः स्पृहयन्ति तम् ।
न सुलभमिति ज्ञेयं तद्वज्जगत्यतिदुर्लभगे
मनसि विविधक्लेशग्रस्ते तथागतदर्शनम् ॥ ७० ॥

प्रतिश्रुत्काशब्दवदिति ।

प्रतिश्रुत्कारुतं यद्वत्परविज्ञप्तिसंभवम् ।
निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम् ॥ ७१ ॥
तथागतरुतं तद्वत्परविज्ञप्तिसंभवम् ।
निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम् ॥ ७२ ॥

आकाशवदिति ।
निष्किंचने निराभासे निरालम्बे निराश्रये ।
चक्षुष्पथव्यतिक्रान्तेऽप्यरूपिण्यनिदर्शने ॥ ७३ ॥
यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा ।
बुद्धेष्वपि तथा सर्व दृश्यते न च तत्तथा ॥ ७४ ॥

पृथिवीवदिति ।

सर्वे महीरुहा यद्वदविकल्पां वसुंधराम् ।
निश्रित्य वृद्धिं वैरूढिं वैपुल्यमुपयान्ति च ॥ ७५ ॥
संबुद्धपृथिवीमेवमविकल्पामशेषतः ।
जगत्कुशलमूलानि वृद्धिमाश्रित्य यान्ति हि ॥ ७६ ॥

(र्ग्व्१११) उदाहरणानां पिण्डार्थः ।

न प्रयत्नमृते केश्चिद्दृष्टः कुर्वन् क्रियामतः ।
विनेयसंशयच्छित्त्यै नवधोक्तं निदर्शनम् ॥ ७७ ॥
सूत्रस्य तस्य नाम्नैव दिपितं तत्प्रयोजनम् ।
यत्रैते नव दृष्टान्ता विस्तरेण प्रकाशिताः ॥ ७८ ॥
एतच्छ्रतमयोदारज्ञानालोकाद्यलंकृताः ।
धीमन्तोऽवतरन्त्याशु सकलं बुद्धगोचरम् ॥ ७९ ॥
इत्यर्थ शक्रवैडूर्यप्रतिबिम्बाद्युदाहृतिः ।
नवधोदाहृता तस्मिन्तत्पिण्डार्थोऽवधार्यते ॥ ८० ॥
दर्शनादेशना व्याप्तिर्विकृतिर्ज्ञाननिःसृतिः ।
मनोवाक्कायगुह्यानि प्राप्तिश्च करुणात्मनाम् ॥ ८१ ॥
सर्वाभोगपरिस्पन्दप्रशान्ता निर्विकल्पिकाः ।
धियो विमलवैडूर्यशक्रबिम्बोदयादिवत् ॥ ८२ ॥
प्रतिज्ञाभोगशान्तत्वं हेतुर्धीनिर्विकल्पता ।
दृष्टान्तः शक्रबिम्बादिः प्रकृतार्थसुसिद्धये ॥ ८३ ॥
अयं च प्रकृतोऽत्रार्थो नवधा दर्शनादिकम् ।
जन्मान्तर्धिमृते शास्तुरनाभोगात्प्रवर्तते ॥ ८४ ॥

(र्ग्व्११२) एतमेवार्थमधिकृत्योदाहरणसंग्रहे चत्वारः श्लोकाः ।

यः शक्रवद्दुन्दुभिवत्पयोदवद्ब्रह्मार्कचिन्तामणिराजरत्नवत् ।
प्रतिश्रुतिव्योममहीवदा भवात्परार्थकृद्यत्नमृते स योगवित् ॥ ८५ ॥
सुरेन्द्ररत्नप्रतिभासदर्शनः सुदैशिको दुन्दुभिवद्विभो रुतम् ।
विभुर्महाज्ञानकृपाभ्रमण्डलः स्फरत्यनन्तं जगदा भवाग्रतः ॥ ८६ ॥
अनास्रवाद्ब्रह्मवदच्युतः पदादनेकधा दर्शनमेति निर्मितैः ।
सदार्कवज्ज्ञानविनिःसृतद्युतिर्विशुद्धचिन्तामणिरत्नमानसः ॥ ८७ ॥
प्रतिरव इव घोषोऽनक्षरोक्तो जिनानां
गगनमिव शरीरं व्याप्यरूपि ध्रुवं च ।
क्षितिरिव निखिलानां शुक्लधर्मौषधीनां
जगत इह समन्तादास्प दं बुद्धभूमिः ॥ ८८ ॥

कथं पुनरनेनोदाहरणनिर्देशेन सततमनुत्पन्ना अनिरुद्धाश्च बुद्धा भगवन्त उत्पद्यमाना निरुध्यमानाश्च संदृश्यन्ते सर्वजगति चैषामनाभोगेन बुद्धकार्याप्रतिप्रश्रब्धिएरिति परिदीपितम् ।

शुभं वैडूर्यवच्चित्ते बुद्धदर्शनहेतुकम् ।
तद्विशुद्धिरसंहार्यश्रद्धेन्द्रियविरूढिता ॥ ८९ ॥
(र्ग्व्११३) शुभोदयव्ययाद्धुद्धंप्रतिबिम्बोदयव्ययः ।
मुनिर्नोदेति न व्येति शक्रवद्धर्मकायतः ॥ ९० ॥
अयत्नात्कृत्यमित्येवं दर्शनादि प्रवर्तते ।
धर्मकायादनुत्पादानिरोधादा भवस्थितेः ॥ ९१ ॥
अयमेषां समासार्थ औपम्यानां क्रमः पुनः ।
पूर्वकस्योत्तरेणोक्तो वैधर्म्यपरिहारतः ॥ ९२ ॥
बुद्धत्वं प्रतिबिम्बाभं तद्वन्न च न घोषवत् ।
देवदुन्दुभिवत्तद्वन्न च नो सर्वथार्थकृत् ॥ ९३ ॥
महामेघोपमं तद्वन्न च नो सार्थबीजवत् ।
महाब्रह्मोपमं तद्वन्न च नात्यन्तपाचकम् ॥ ९४ ॥
सूर्यमण्डलवत्तद्वन्न नात्यन्त तमोऽपहम् ।
चिन्तामणिनिभं तद्वन्न च नो दुर्लभोदयम् ॥ ९५ ॥
प्रतिश्रुत्कोपमं तद्वन्न च प्रत्ययसंभवम् ।
आकाशसदृशं तद्वन्न च शुक्लास्पदं च तत् ॥ ९६ ॥
पृथिवीमण्डलप्रख्यं तत्प्रतिष्ठाश्रयत्वतः ।
लौक्यलोकोत्तराशेषजगत्कुशलसंपदम् ॥ ९७ ॥
(र्ग्व्११४) बुद्धानां बोधिमागम्य लोकोत्तरपथोदयात् ।
शुक्लकर्मपथध्यानाप्रमाणारूप्यसंभव इति ॥ ९८ ॥

इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतकृत्यक्रियाधिकारश्चतुर्थः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः ॥ ४ ॥


(र्ग्व्११५)
५. पंचमः परिच्छेदः

अतः परमेष्वेव यथापरिकीर्तितेषु स्थानेष्वधिमुक्तानामधिमुक्त्यनुशंसे षट्श्लोकाः

बुद्धधातुर्बुद्धबोधिर्बुद्धधर्मा बुद्धकृत्यम् ।
गोचरोऽयं नायकानां शुद्धसत्त्वैरप्यचिन्त्यः ॥ १ ॥
इह जिनविषयेऽधिमुक्तबुद्धिर्गुणगणभाजनतामुपैति धीमान् ।
अभिभवति स सर्वसत्त्वपुण्यप्रसवमचिन्त्यगुणाभिलाषयोगात् ॥ २ ॥
यो दद्यान्मणिसंस्कृतानि कनकक्षेत्राणि बोध्यर्थिको
बुद्धक्षेत्ररजःसमान्यहरहो धर्मेश्वरेभ्यः सदा ।
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्दानमयाच्छुंभाद्बहुतरं पुण्यं समासादयेत् ॥ ३ ॥
यः शीलं तनुवाङ्मनोभिरमलं रक्षेदनाभोगवद्
धीमान् बोधिमनुत्तरामभिलषन् कल्पाननेकानपि ।
यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माच्छीलमयाच्छुभाद्बहुतरं पुण्यं समासादयेत् ॥ ४ ॥
ध्यायेद्ध्यानमपीह यस्त्रिभुवनक्लेशाग्निनिर्वापकं
दिव्यब्रह्म विहारपारमिगतः संबोध्युपायाच्युतः ।
यश्चान्यः श्रृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं
तस्माद्ध्यानमयाच्छुभाद्बहुतरं पुण्यं समासादयेत् ॥ ५ ॥
(र्ग्व्११६) दानं भोगानावहत्येवः यस्माच्छीलं स्वर्गं भावना क्लेशहानिम् ।
प्रज्ञा क्लेशज्ञेयसर्वप्रहाणं सातः श्रेष्ठा हेतुरस्याः श्रवोऽयम् ॥ ६ ॥

एषा श्लोकानां पिण्डार्थो नवभिः श्लोकैर्वेदितव्यः ।

आश्रये तत्परावृत्तौ तद्गुणेष्वर्थसाधने ।
चतुर्विधे जिनज्ञानविषयेऽस्मिन् यथोदिते ॥ ७ ॥
धिमानस्तित्वशक्तत्वगुणवत्त्वा धिमुक्तितः ।
तथागतपदप्राप्तिभव्यतामाशु गच्छति ॥ ८ ॥
अस्त्यसौ विषयोऽचिन्त्यः शक्यः प्राप्तुं स मादृशैः ।
प्राप्त एवंगुणश्चासाविति श्रद्धाधिमुक्तितः ॥ ९ ॥
छन्दवीर्यस्मृतिध्यानप्रज्ञादिगुणभाजनम् ।
बोधिचित्तं भवत्यस्य सततं प्रत्यपस्थितम् ॥ १० ॥
तच्चित्तप्रत्युपस्थानादविवर्त्यो जिनात्मजः ।
पुण्यपारमितापूरिपरिशुद्धिं निगच्छति ॥ ११ ॥
पुण्यं पारमिताः पञ्च त्रेधा तदविकल्पनात् ।
तत्पूरिः परिशुद्धिस्तु तद्विपक्षप्रहाणतः ॥ १२ ॥
दानं दानमयं पुण्यं शीलं शीलमयं स्मृतम् ।
द्वे भावनामयं क्षान्तिध्याने वीर्यं तु सर्वगम् ॥ १३ ॥
(र्ग्व्११७) त्रिमण्डलविकल्पो यस्तज्ज्ञेयावरणं मतम् ।
मात्सर्यादिविपक्षो यस्तत्क्लेशावरणं मतम् ॥ १४ ॥
एतत्प्रहाणहेतुश्च नान्यः प्रज्ञामृते ततः ।
श्रेष्ठा प्रज्ञा श्रुतं चास्य मूलं तस्माच्छ्रुतं परम् ॥ १५ ॥
इतीदमाप्तागमयुक्तिसंश्रयादुदाहृतं केवलमात्मशुद्धये ।
धियाधिमुक्त्या कुशलोपसंपदा समन्विता ये तदनुग्रहाय च ॥ १६ ॥
प्रदीपविद्युन्मणिचन्द्रभास्करान् प्रतीत्य पश्यन्ति यथा सचक्षुषः ।
महार्थधर्मप्रतिभाप्रभाकरं मुनिं प्रतीत्येदमुदाहृतं तथा ॥ १७ ॥
यदर्थवद्धर्मपदोपसंहितं त्रिधातुसंक्लेशनि बर्हण वचः ।
भवेच्च यच्छान्त्यनुशंसदर्शकं तदुक्तमार्षं विपरीतमन्यथा ॥ १८ ॥
यत्स्यादविक्षिप्तमनोभिरुक्तं शास्तारमेकं जिनमुद्दिशद्भिः ।
(र्ग्व्११८) मोक्षाप्तिसंभारपथानुकूलं मूर्ध्ना तदप्यार्षमिव प्रतीच्छेत् ॥ १९ ॥
यस्मान्नेह जिनात्सुपण्डिततमो लोकेऽस्ति कश्चित्क्वचित्
सर्वज्ञः सकलं स वेद विधिवत्तत्त्वं परं नापरः ।
तस्माद्यत्स्वयमेव नीतमृषिणा सूत्रं विचाल्यं न तत्
सद्धर्मप्रतिबाधनं हि तदपि स्यान्नीति भेदान्मुनेः ॥ २० ॥
आर्यांश्चापवदन्ति तन्निगदितं धर्मं च गर्हन्ति यत्
सर्वः सोऽभिनिवेशदर्शनकृतः क्लेशो विमूढात्मनाम् ।
तस्मान्नाभिनिवेशदृष्टिमलिने तस्मिन्निवेश्या मतिः
शुद्धं वस्त्रमुपैति रङ्गविकृतिं न स्नेहपङ्काङ्कितम् ॥ २१ ॥
धीमान्द्यादधिमुक्तिशुक्लविरहान्मिथ्याभिमानाश्रयात्
सद्धर्मव्यसनावृतात्मकतया नेयार्थतत्त्वग्रहात् ।
लोभग्रेधतया च दर्शनवशाद्धर्मद्विपां सेवनाद्
आराद्धर्मभृतां च हीनरुचयो धर्मान् क्षिपन्त्यर्हताम् ॥ २२ ॥
नाग्नेर्नोग्रविषादहेर्न वधकान्नैवाशनिभ्यस्तथा
भेतव्यं विदुषामतीव तु यथा गम्भीरधर्मक्षतेः ।
कुर्युर्जीवितविप्रयोगमनलव्यालारिवज्राग्नयस्
तद्धेतोर्न पुनर्व्रजेदतिभयामावीचिकानां गतिम् ॥ २३ ॥
(र्ग्व्११९) योऽभीक्ष्णं प्रतिसेव्य पापसुहृदः स्याद्वुद्धदुष्टाशयो
मातापित्ररिहद्वधाचरणकृत्संघाग्रभेत्ता नरः ।
स्यात्तस्यापि ततो विमुक्तिरचिरं धर्मार्थनिध्यानतो
धर्मे यस्य तु मानसं प्रतिहतं तस्मै विमुक्तिः कुतः ॥ २४ ॥
रत्नानि व्यवदानधातुममलां बोधिं गुणान् कर्म च
व्याकृत्यार्थपदानि सप्त विधिवद्यत्पुण्यमाप्तं मया ।
तेनेयं जनतामितायुषमृषिं पश्येदनन्तद्युतिं
दृष्ट्वा चामलधर्मचक्षुरुदयाद्बोधिं परामाप्नुयात् ॥ २५ ॥

एषामपि दशानां श्लोकानां पिण्डार्थस्त्रिभिः श्लोकैर्वेदितव्यः ।

यतश्च यन्निमित्तं च यथा च यदुदाहृतम् ।
यन्निष्यन्दफलं श्लोकैश्चतुर्भिः परिदीपितम् ॥ २६ ॥
आत्मसंरक्षणोपायो द्वाभ्यामेकेन च क्षतेः ।
हेतुः फलमथ द्वाभ्यां श्लोकाभ्यां परिदीपितम् ॥ २७ ॥
संसारमण्डलक्षान्तिर्बोधिप्राप्तिः समासतः ।
द्विधा धर्मार्थवादस्य फलमन्तेन दर्शितम् ॥ २८ ॥

इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रेऽनुशंसाधिकारो नाम पञ्चमः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः ॥ ५ ॥

"https://sa.wikisource.org/w/index.php?title=रत्नगोत्रविभागः&oldid=371216" इत्यस्माद् प्रतिप्राप्तम्