योगसूत्रम्/पादः १

विकिस्रोतः तः
योगसूत्रम्
पादः १
पतञ्जलिः
पादः २ →

प्रथमः समाधिपादः ।

अथ योगानुशासनम् ॥ १.१ ॥

योगश्चित्तवृत्तिनिरोधः ॥ १.२ ॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३ ॥

वृत्तिसारूप्यं इतरत्र ॥ १.४ ॥

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ १.५ ॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६ ॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७ ॥

विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठं ॥ १.८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पाः ॥ १.९ ॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१० ॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १.११ ॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२ ॥

तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३ ॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४ ॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यं ॥ १.१६ ॥

वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १.१७ ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८ ॥

भवप्रत्ययो विदेहप्रकृतिलयानां ॥ १.१९ ॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां ॥ १.२० ॥

तीव्रसंवेगानां आसन्नः ॥ १.२१ ॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ १.२२ ॥

ईश्वरप्रणिधानाद्वा ॥ १.२३ ॥

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४ ॥

तत्र निरतिशयं सर्वज्ञबीजं ॥ १.२५ ॥

पूर्वेषां अपि गुरुः कालेनानवच्छेदात् ॥ १.२६ ॥

तस्य वाचकः प्रणवः ॥ १.२७ ॥

तज्जपस्तदर्थभावनम् ॥ १.२८ ॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९ ॥

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभुउमिकत्वानवस्थितत्वानि चित्तविक्षेपास्. तेऽन्तरायाः ॥ १.३० ॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१ ॥

तत्प्रतिषेधार्थं एकतत्त्वाभ्यासः ॥ १.३२ ॥

मैत्रीकरुणामुदितोपेक्षणांसुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १.३३ ॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४ ॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ १.३५ ॥

विशोका वा ज्योतिष्मती ॥ १.३६ ॥

वीतरागविषयं वा चित्तं ॥ १.३७ ॥

स्वप्ननिद्राज्ञानालम्बनम् वा ॥ १.३८ ॥

यथाभिमतध्यानाद्वा ॥ १.३९ ॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ १.४० ॥

क्षीणवृत्तेर्, अभिजातस्येव मणेर्, ग्रहीतृग्रहणग्राह्येषुतत्स्थतदञ्जनतासमापत्तिः ॥ १.४१ ॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ १.४२ ॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३ ॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४ ॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५ ॥

ता एव सबीजः समाधिः ॥ १.४६ ॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७ ॥

र्तंभरा तत्र प्रज्ञा ॥ १.४८ ॥

श्रुतानुमानप्रज्ञाभ्यां अन्यविषया विशेषार्थत्वात् ॥ १.४९ ॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५० ॥

 तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१ ॥

"https://sa.wikisource.org/w/index.php?title=योगसूत्रम्/पादः_१&oldid=75719" इत्यस्माद् प्रतिप्राप्तम्