योगसारसंग्रहः पंचदशोध्यायः

विकिस्रोतः तः

॥ योगसारसंग्रहः॥

सुषुम्ना कलानां स्वरूपनिरूपणं


अथ योगसारसंग्रहे सुषुम्ना कलानां स्वरूपनिरूपणं नामपञ्चदशोध्यायः


ब्रह्मचक्रे सुषुम्नाग्रे श्रीचक्रे चन्द्रमण्डले।
महापद्मवने यत्तद् योगपीठं प्रकीर्तितम्॥

तदुक्तं योगसारमञ्जर्याम् -


पद्मेदशशताराढ्ये ब्रह्मचक्रे शिवात्मके।
श्रीचक्रं राजं बालार्ककोटि दीप्तं विभावयेत्॥ इति।

शिवः -


महापद्मवनं यत्तत् योगपीठं प्रकीर्तितम्।
कदम्बगोलकाकारं चक्रं तं बिन्दुरूपिणम्॥

ब्रह्मरूपन्तु तत्रैव सुषुम्ना धारमण्डले॥ इति।

बीजे यथांकुरोद् भेदः तथा तारार्णमण्डलम्॥

कदम्बगोलरूपेण सहस्रारे व्यवस्थितः॥

परितश्च सुषुम्नाया अधश्चोर्ध्वं च सर्वशः।
यद्यत् स्थितं च तत् सर्वं संक्षेपेण प्रकाश्यते॥

सहस्राद्वितस्त्यन्तं द्वादशान्तमितीरितम्।
तदेव श्रीगुरुस्थानं षोडशान्तमितीरितम्॥



नृसिंह तापनीये -


ओंकारं सर्वेश्वरं द्वादशान्ते षोडशान्ते इति।

तन्त्रधारे च -


ततः परममात्रास्तु तत्वातीतः परः शिवः।
निष्कलो निर्मलो नित्यः शरद्वारि समप्रभः॥

गम्योनैक क्रमेणैव स्वानुभूत्यैमहात्मभिः।

ऊर्ध्वाम्नाये -


ब्रह्मरंध्रसरसी रुहोदरे नित्यलग्नमवदातमद्भुतम्।
कुण्डली कनककाण्डशोभितं द्वादशान्त सरसीरुहं भजे॥

तस्य कन्दलितकर्णिका पुटे क्लृप्तरेखमकथादि संख्यया।
कोणलक्षितहलर्क्षमण्डलं भावलक्ष्यमनलालयं भजे॥

तत्पुटे घनतटित्कटादिमत्स्पर्धमानपाणे पाटलप्रभम्।
भावयामि हृदि चिन्मयं सदाबिन्दुनादमणिपीठमण्डलम्॥

ऊर्ध्वमध्यहुतभुक्शिखास्पदं चिद्विलासपरब्रह्मणास्पदम्।
विश्वखस्मरमहायशोत्कटं भावयामि युगमादि हंसयोः॥

द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मग़्गलास्पदम्।
पादुकापरशिवात्मनो गुरोः पापनाशिनि पटीयसी मम॥

मूर्ध्निशीतकरनिस्सरत्सुधा सिक्तमूर्तिरनिशं विराजते॥ इति।

योगसारमञ्जर्याम् -


गुदात्तद्व्यष्टभागेषु वीणादण्डाख्य देहभृत्।
दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मनाडीति कथ्यते॥

तस्थान्ते सुषिरं सूक्ष्मं ब्रह्मनाडी सूरया।
इडापिंगलयोर्मध्ये सुषुम्नासूर्यमण्डले॥

सर्वं प्रतिष्ठितं तस्मिन् सर्वं विश्वतो मुखम्।
तद्गतास्सूर्यसोमोग्नि देवताः परमेश्वरः॥

भूतालोकादिशः क्षेत्रसमुद्राः पर्वतास्तथा।
द्वयोश्च निम्नगा वेद शास्त्रविद्या कलाक्षराः॥

स्वरामन्त्रपुराणाश्च गुणाञ्चैतस्य सर्वशः।
निजं जीवात्मना तेषां क्षेत्रज्ञः प्राणवाहनः॥

सुषुम्नान्तर्गतं विश्वं तस्मिन् सर्वं प्रतिष्ठितम्॥ इति।

चिन्तातिमिर भास्करे -


शरीरान्तर्गतोमेरुमाश्रित्यमणिदण्डवत्।
सुषुम्ना वर्तते देहे बिसं निभा शुभा॥

आब्रह्मस्तम्बपर्यन्तं तन्मध्ये वर्तते चिति।
तावाद्यन्तप्रभास्यन्तश्चित्तमित्यभिधीयते॥

तच्छिद्रघटमध्यस्थं दीपज्वालेव दीप्यसि।
एवं जीवस्वरूपान्तं व्याप्तमुक्तं हि पुत्रके॥ इति।

याज्ञवल्क्ये -


मूलाधाराग्रकोणस्य सुषुम्नाद्वादशान्तगा।

मूलोर्ध्वच्छिन्नवंशाभाब्रह्मनाडीति कथ्यते।
तस्यास्तु सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्॥

मस्तकान्ते चतुःस्थानात् ऊर्ध्वंवाग़्मानसोधिकम्।
द्वादशान्तमितिख्यातं परमात्मा व्यवस्थितम्॥

तस्मादधः स्थिता शक्तिः उन्मनी चतुरंगुले।
समनानामया शक्तिः सा शक्तिस्तत्र सु स्थिता॥

त्रियंगुलादधो लक्षभानु कान्तिप्रकाशिनी।
शिरोग्रेह्यं गुलीस्थाने शक्तिः सैव च सुप्रभा॥ इति।

तन्त्रसारे -


तच्छिवात्तपराशक्तिः सहस्रांशेन जायते।
शान्त्यादि बहुनोक्तेन सा शक्तिर्व्यपदिश्यते॥

तदुक्तं मृगेन्द्रे -


सा च कुण्डलिनी शंभोः शक्तिः शुद्धा इडात्मिका॥

न तदात्मे स्थिता सैव वर्तमाना परिग्रहे।
उपादानत्वते देहे तोः कुलाले मृत्तिका यथा इति॥

सहस्रारे द्व्यंगुलाग्रे मणिभादण्डवत्स्थिता।
पार्श्वद्वयोर्बिन्दुयुक्ता शक्तीस्तिष्ठति सर्वदा॥

दण्डादधस्त्र्यंगुलाग्रे बिन्दुमध्येर्ध चन्द्रभा।
निरोधिनीति विख्याता शक्तिस्तिष्ठति सर्वदा॥ इति।

अन्तसारे -


अंगुलत्रितयेनन्तो ललाटे पादमात्रकम्।
दिव्यलिग़्गस्समाकारो ह्यर्धचन्द्रसमप्रभः॥

तदुक्तं योगसारमञ्जर्याम् -


ललाटे परमेशानि दिव्यावाराणसी पुरी।
अवर्णमन्त्रेनन्ताख्यो विरजा च सरस्वती।
भ्रूमध्ये द्व्यंगुलावृत्ते दीपाकारसमप्रभा॥

सितासितासरित्संगः स्थितस्सोमेश्वरः शिवः।

तथा च श्रुतिः -


यत्र गंगा च यमुना यत्र प्राची सरस्वती।
यत्र सोमेश्वरो देवस्तत्रात्मा ह्यमृता कृतिः॥

ततोंगुलिकाकोशे द्विमात्रेर्क शशिप्रभा।
माया तत्वविषोरुद्रः कण्ठदेशे व्यवस्थितः॥

दक्षिणामूर्तिकल्पे -


नाभेरूर्ध्वे वितस्त्यन्ते हृदयं चतुरंगुलम्।
तदन्ते संस्थिता मेधास्वरूपाग्निसमप्रभा॥

नाभिमण्डलमध्ये तु इच्छाविद्या प्रतिष्ठिता॥ इति।

तदधो मणिपूराग्रे रत्यारतिपतिः स्थितः।
मूलाधारे स्थिता शक्तिः कुण्डली परदेवता॥

योगसारमंजर्याम् -


अथ ब्रह्मार्गलद्वारं दुर्विज्ञेयं महेश्वरि।
कलञ्चतुष्।कं तत्रस्थं चतुर्वर्गात्मकं परम्॥

पूर्वभागेमृतानाम गुप्तं दक्षिणगोचरा।
शिवापश्चिमदिग्बागे परापर शिवोत्तरे॥

तद्वारं रसनाग्रेण भित्वापूर्वकलामृतम्।
यदापिबति वै योगी मासादर्धेश्वरो भवेत्॥

यथा गुप्तामृतं दक्षे योगी रसनया लिहेत्।
मासा देव न संदेहः साक्षादेवार्धेश्वरो भवेत्॥

तत्पश्चिमे कलापानात् तद्वत्कामेश्वरो भवेत्।
उत्तरस्थ कलापानात् परमेष्ठित्वमाप्नुयात्।
तदूर्ध्वे मण्डले लीनं ब्रह्मरंध्रे परामृतम्॥

तत्सुधापानमात्रेण जीवान्मुक्तः शिवो भवेत्।
तत्र चूलितलं प्रोक्तं केदारं प्राहुरोश्वरी॥

तत्र सोमकलाश्चाष्टौ विख्याता वीरवन्दिते।
अमृतामानदापूषा तुष्टिः पुष्टी रतिर्धृतिः॥

शशिन्यादि कलापानात् खेचरत्वं प्रजायते।
भ्रूमध्यन्नमयेत् प्रोक्तं तत्प्रोक्तं सोममण्डलम्।
चन्द्रिकादि कलाप्रोक्तं परामृतनिकेतनम्।
जिह्वया यस्य तत्पानं तस्य वज्रसमं वपुः॥


तदूर्ध्वं वज्रकन्दाख्यं शिलाखेचरिमध्यगम्।
ललाटं तं विजानीयात् तत्र देविकलाश्रयम्।
तत्प्रादिकलापानात् अस्त्रशस्त्रैर्न भिद्यते।
आचिन्त्यः सर्वविज्ञानैः विरूपा विषयान्वितैः॥


भैरवा भोगवेत् सत्यं वज्रकन्दप्रभावतः।
नासिकाधो धरोष्ठोर्ध्वे राजदन्तमहापथे॥

तत्रपूर्णामृताकामदायिनी च कला द्वयम्।
संप्राप्य कुंभकावस्थां रसनाग्रेण संस्पृशेत्॥

द्विमासं तत्सुधापानात् सर्वरोगो विनश्यति।
गुदलिंगान्तरस्थानंमाधारपरिकल्पितम्॥

तत्रपञ्चकलाः प्रोक्ताः प्रागुप्तपरमामृतः।
सुधा सुधामयी प्राज्ञा कालघ्नी ज्ञानदायिनी।
कलाः पञ्चसुधाधाराः कीर्तिताः सर्वसिद्धिदाः॥

तत्रस्था परमाशक्तिर्मायाकुण्डलिनी शिवे।
तत्राकुंचनयोगेन कुम्भकेन सुरार्चिते॥

मूलशक्त्या समास्वाद्य तत्रगंशीतला मृतम्।
सुषुम्नाया समुन्नीय स्वाधिष्ठानादि पंकजात्।
तत्सुधावृष्टिसंसिक्तं स्मरेद् ब्रह्माण्डकावधि॥

तत्रस्थममृतं गृह्यशक्तिः श्रीकुण्डली परा।
सुषुम्नामार्गमासाद्य ब्रह्मधामान्तमेयुषी॥

पञ्चमासप्रयोगेण पञ्चभूतजयं भवेत्।
शिवसाम्यो भवेत् सत्यं त्रिकालाभ्यासयोगतः॥

नाभिस्थानं हि मया देवी स्वाधिष्ठानं तदुच्यते।
तत्र दिव्यामृतमयं कलात्रयमुदीरितम्॥

सुषुम्ना परमाह्लादा विद्याचेति प्रकीर्तिता।
पूर्ववत्कुम्भकावस्थां प्राप्यशक्तिं प्रबोध्य च॥

तत्सुधापानमात्रेण पूर्वोक्तफलमश्नुते।
गुदमेढ्रान्तरं यद्वै वेणुदण्डं तदुच्यते॥

कलाचतुष्कं तत्रोक्तं परामृतरसायनम्।
सुशीता च महावृष्टिः पलितघ्नी वलीक्षया॥

तत्रशक्तिं समुद्बोध्यपूर्ववत्प्लावयेत् तनुम्।
चतुर्मासप्रयोगेण पूर्वोक्त फलमश्नुते॥ इति।

योगशांकरे -


अतः परं प्रवक्ष्यामि परामृतमहापथम्।
वज्रकन्दे ललाटे तु प्रज्वलच्चन्द्रसन्निभम्॥

यं गर्भञ्चतुरश्रं च तत्र देवः परश्शिवः।
देवतास्तमुपासन्ते योगिन्यश्शक्तिसंयुतम्॥

चूलीतले महादेवि लक्षसूर्यसमप्रभम्।
त्रिकोणमण्डले मध्यदेवं लिग़्गात्मकं शिवम्।
रं गर्भमध्यगं देवि स्वशक्त्यालिग़्गितं परम्॥

देवतागणसंजुष्टं भावये परमेश्वरीम्।
दक्षजग़्घे महाभागे षड्बिन्दुर्वलयान्वितम्॥

यं गर्भं धूम्रवर्णञ्च तत्रदेवं महेश्वरम्।
लिग़्गाकारं स्मरेद् देवि शक्तियुक्तं गणावृतम्॥

वामशंखेन्द्र चन्द्राभं स पद्मं मण्डलं शिवे।
यं गर्भं ठं पदं मध्ये तत्रलिग़्गं सुधामयम्॥

गोक्षीरधवलाकारं शरच्चन्द्रायुतप्रभम्।
स्वशक्त्यालिग़्गितं सर्वे देवतागण सेवितम्॥

एवं देवी चतुर्दिक्षु स्थानान्युक्तानि वै मया।
तेषां मध्ये महावृतं हं गर्भं तत्र पार्वति।
खगोश्वरः परश्शब्दः स्वशक्त्या लिग़्गितस्थितः॥

लिग़्गाकारो गणयुतः सूर्यकोटिसमप्रभः।
पृथिव्यधिपतिर्बालः पश्चिमे सूर्यनायकः॥

दक्षशंखे निलवति वामे जलपतिश्शिवः।
मध्ये व्योमाधि पतिश्शम्भुः स्थानाः पञ्चमथोदिताः॥

योगसारमञ्जर्याम् -


व्योमाधिपस्य देवस्य शिरोर्ध्वे चतुरंगुलम्।
ज्योतिर्मण्डलमध्यस्थं कोटिचन्द्रसमप्रभम्॥

दिव्यामृतमयं भाण्डं मूलबंधकवाटकम्।
ऊर्ध्वरुद्धमहाशैलमभेद्यममृतास्पदम्॥

शीतलावृतमध्ये तु विलीनं लिग़्गमीश्वरम्।
त्रयरेणुप्रतीकाशं कोटिचन्द्रसमप्रभम्॥

हेयोपादेयरहितंमज्ञानतिमिरापहम्।

अतीत्यपञ्चस्थानानि परतत्वोपलब्धये।
परामृतघटाधारकवाटं कुम्भकान्वितम्॥

मनसा सहवागीशीमूर्ध्ववक्त्रां प्रसारयेत्।
स यद्यत् प्राणसञ्चारो योगीरसनया गलम्॥

लीलयोद्घाटयेत् सत्यं सम्प्राप्य सहसामृतम्।
शीतलेक्षुरसास्वादु तत्र क्षीरामृतं हि मम्॥

योगपानं पिबेन्मध्यं दुर्लभं विबुधैरपि।
तत्सुधावृष्टि सन्तृप्तो परावस्थामुपेत्य च॥

उन्मन्या तत्र संयोगंक्तभ्यं ब्रह्माण्डकान्तरे।
नादबिन्दुमयं मांसं योगीयोगेन बृंहयेत्॥

एतद्रहस्यं देवेशि दुर्लभं परमेश्वरि।
जिह्वाग्रे कोटिचन्द्राभां वागीशीं परिभावयेत्॥

परामृतकलातृप्तः कवित्वं लभते क्षणात्।
जिह्वाग्रे संस्थितां लक्ष्मीं परामृतविमोदिताम्॥

ध्यायन् योगी महेशानि योगसाम्राज्यमाप्नुयात्।
सहजाः पञ्चविख्याताः पिण्डेस्मिन् परमात्मके॥

यदा संजायते देहं मातृहे पितृक्षयात्।
तत्रसार्धं भवन्तिस्म देहवृद्धिमुपेयुषी॥

आद्याकुण्डलिनी शक्तिः प्रथमा सहजा स्थिता।
द्वितीया च सुषुम्नाख्या जिह्वा चैव तृतीयका॥

तालुस्थानं चतुर्थञ्च ब्रह्मस्थानं च पञ्चमम्।
उन्मन्या सहजा माया द्वितीयां सहजां विशेत्॥

तृतीयां सहजामूर्ध्वं चतुर्थीं सहजां विशेत्।
चतुर्थीं सहजां भित्वा सहजां पञ्चमीं विशेत्॥

एवं भेदो मया प्रोक्तो दुर्विज्ञेयं कुलेश्वरि।
मूलात् कुण्डलिनी शक्तिः सुषुम्नामार्गमागता॥

कुलैकतन्तु प्रतिमा कोटिसूर्यसमप्रभा।
प्रविशेद् घण्टिकामार्गं शिवद्वारार्गलं विशेत्॥

एवं भेदो मया प्रोक्तो दुर्विज्ञेयो महेश्वरि।
प्रविशेत् कोटि सूर्याभं धामस्वायंभुवं प्रिये॥

तत्रामृत महाम्भोधौ शीतकल्लोलमालिनी।
पीत्वाविश्राम्य च सुधां परमानन्दपूर्णया।
बुद्ध्या तत्सुधया तृप्तमात्मदेहं प्रभावयेत्॥

अनेन देवि योगेन जायते दिव्यदर्शनम्।
खेचरित्वं भवेत् सद्यः सर्वदुःखक्षयो भवेत्॥

वञ्चनं कालमृत्यूनां त्रैलोक्यैकमणिस्तथा।
अणिमादि गुणोपेतः स सिद्धो जायते ध्रुवम्॥

योगीन्द्रत्वमवाप्नोति मतिख्या हता भवेत्।
न च नागसहस्राणा बलेन सहितः स्वयम्॥

जायते शिववद्योगी सत्यं सत्यं मयोदितः॥

शिवः -


मूलाधारात् समुद्भूता षट् कवाट विभेदिनी।
भित्वाब्रह्मार्गलं दिव्यं स्वपते स्थानमेयूषी॥

वह्न्यर्कमण्डलं भित्वा द्रवन्ती चन्द्रमण्डलम्।
तदुद्भवामृतास्वादा परमानन्दनन्दिता।
कुलयोषित्कुलं त्यक्त्वा परं पुरुषमेयुषी॥

निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम्।
तत्र स्वच्छन्दरूपा तु परिरभ्यस्वकं पतिम्॥

विश्राम्य च चिरं कालं तद्भोगा ह्लाद नन्दिता।
परमा वृष्टिभिर्नित्यं सिञ्चन्ती योगिनस्तनुम्॥

यथा गतेन मार्गेण पुनरेति स्वकं पदम्॥

॥ इति योगसारसंग्रहे सुषुम्ना कलानां स्वरूपनिरूपणंनामपञ्चदशोध्यायः॥