योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २१५

विकिस्रोतः तः


पञ्चदशाधिकद्विशततमः सर्गः २१५
श्रीवाल्मीकिरुवाच ।
भरद्वाज महाबुद्धे मम शिष्याधिनायक ।
इति रामादयो ज्ञातज्ञेया निःशोकतां गताः ।। २
एतामेव दृशं कान्तामवष्टभ्य यथासुखम् ।
नीरागस्तिष्ठ निःशङ्को जीवन्मुक्तः प्रशान्तधीः ।। २
धीरनभ्यस्तसङ्गा हि रामादीनामिवानघ ।
घनमोहनिमग्नापि विमूढापि न मुह्यति ।। ३
एवमेते महासत्त्वा जीवन्मुक्तपदं गताः ।
राजपुत्रा राघवाद्या राजा दशरथादयः ।। ४
त्वं च पुत्र भरद्वाज स्वयमेवासि मुक्तधीः ।
सत्यं मुक्ततरोऽस्यद्य श्रुत्वेमां मोक्षसंहिताम् ।। ५
मोक्षोपायानिमान्पुण्यान्प्रत्यक्षानुभवार्थदान् ।
बालोप्याकर्ण्य तज्ज्ञत्वं याति का त्वादृशे कथा ।। ६
यथा पदं पुण्यमनुप्रयाता
महानुभावा रघवो विशोकाः ।
वसिष्ठवाक्यप्रसरेण साधो
गन्तव्यमाद्यं पदमेवमेव ।। ७
सतां नयेनोत्तमसेवया च
प्रश्नेन चोदारकथागतेन ।
विन्दन्ति वेद्यं सुधियोऽप्रमत्ता
वसिष्ठसङ्गादिव राघवाद्याः ।। ८
तृष्णावरत्रादृढबन्धबद्धा
ये ग्रन्थयोऽज्ञस्य हृदि प्ररूढाः ।
सर्वे हि ते मोक्षकथाविचारा-
द्बाला ह्यबाला इव यान्त्यभेदम् ।। ९
मोक्षाभ्युपायान्सुमहानुभावान्
ज्ञास्यन्ति ये तत्त्वविदां वरिष्ठाः ।
पुनः समेष्यन्ति न संसृतिं ते
कोऽर्थः सुताऽन्येन बहूदितेन ।। १०
बहुश्रुता ये प्रविचार्य सम्य-
क्प्रबोधितार्थे कथया जनाय ।
सन्तो वदिष्यन्ति पुनः शिशुत्वं
न ते प्रयास्यन्ति किमन्यवाक्यैः ।। ११
ये वाचयिष्यन्त्यनपेक्षितार्था
ये लेखयिष्यन्ति च पुस्तकं वा ।
ये कारयिष्यन्त्यपि वाचकं वा
व्याख्यातृयुक्तं शुभमार्यदेशे ।। १२
ते राजसूयस्य फलेन युक्ता
मुहुर्मुहुः स्वर्गमुदारसत्त्वाः ।
मोक्षं प्रयास्यन्ति तृतीयजन्म-
लाभेन लक्ष्मीमिव पुण्यवन्तः ।। १३
इमां पुरा मोक्षमयीं विचार्य
सुसंहितां सद्वचनाद्विरिञ्चः ।
प्रयुक्तवानेतदचिन्त्यरूपो
भवन्त्यसत्याश्च न तस्य वाचः ।। १४
मोक्षाभ्युपायाख्यकथाप्रबन्धे
याते समाप्तिं सुधिया प्रयत्नात् ।
सुवेश्म दत्त्वाभिमतान्नपान-
दानेन विप्राः परिपूजनीयाः ।। १५
देयं च तेभ्यः खलु दक्षिणादि
चित्तेप्सितं स्वस्य धनस्य शक्त्या ।
मत्वानुरूपं कृतमेव सङ्ग-
पुण्यं यथाशास्त्रमुपैत्यसौ तत् ।। १६
एतत्ते कथितं कथाक्रमशतैर्बोधाय बुद्धैर्वृह-
च्छास्त्रं बृंहितब्रह्मतत्त्वममलं दृष्टान्तयुक्त्याञ्चितम् ।
श्रुत्वैतच्चिरनिर्वृतिं भज भृशं जीवद्विमुक्ताशयो
लक्ष्मीं ज्ञानतपःक्रियाक्रमयुतां भुक्त्वाऽक्षयामक्षयः
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ग्रन्थप्रशंसातद्वाचनादिविधिर्नाम पञ्चदशाधिकद्विशततमः सर्गः ।। २१५ ।।