योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २१०
दशाधिकद्विशततमः सर्गः २१०
श्रीवसिष्ठ उवाच ।
फले क्षयेन्दुभारूपे प्राप्ते ध्यातृशतैर्नभः ।
यथा न शतपूर्णेन्दु तथेदं कथनं श्रृणु ।। १
चन्द्रबिम्बस्य ध्यातारः प्राप्ताः प्राप्तव्यसुस्थिताः ।
नेदं नभस्तलं प्राप्ता न चेमं शशिनं श्रिताः ।। २
क्वेवान्यसंकल्पपुरमन्यः प्राप्नोति कथ्यताम् ।
संकल्पपुर्यामर्थाप्तिस्तज्जन्तावेव नापरे ।। ३
पृथक्पृथक्स्वसंकल्पसर्गखेष्वेव ते स्थिताः ।
चन्द्रास्तपन्ति तत्रैव कलाक्षयविवर्जिताः ।। ४
विशेयमस्मिन्नेवेन्दाविनि ध्याता निशाकरे ।
अस्मिन्नेव विशत्यन्तरात्मबुद्धिसुखोज्झितः ।। ५
अहमिन्दुं प्रविष्टः स्यामिन्दुबिम्बसुखान्वितः ।
ध्यातेति तादृक्सुखभाग्भवतीति विनिश्चयः ।। ६
यथायमनुसंधत्ते स्वभावं संविदव्यया ।
तं तथैवानुभवति भवेच्चेद्दृढनिश्चयः ।। ७
यथेन्दुत्वं स्वसंकल्पात्सर्वध्यातुः पृथक्पृथक् ।
भात्येवमेव वनितालाभः काल्पनिकः स्वतः ।। ८
या ध्याने ध्यातृलक्षाणां साध्वी भार्यात्वमागता ।
तत्कल्पनानुभवनं तेषां सत्त्वात्मनि स्थितम् ।। ९
गृहादनिर्गतो जीवः सप्तद्वीपपरः स्थितः ।
तस्यापि तत्काल्पनिकं राज्यं व्योम्नि स्वमन्दिरे ।। १०
समस्तं कल्पनामात्रमिदमाद्यज्ञजन्मनः ।
शून्यमप्रतिघं शान्तं तेष्वपि स्यात्किमन्यथा ।। ११
दानौर्ध्वदेहिकतपोजपादीनां परत्र यत् ।
अमूर्तानां फलं मूर्तं तदिदं कथ्यते श्रृणु ।। १२
दानादिचिह्नितधियः परत्र स्वप्नवत्फलम् ।
पश्यन्त्यमूर्तामूर्ताभमजं चिन्मूर्तिकल्पनात् ।। १३
वेदनावेदनाकारा स्पन्दास्पन्दात्म वै पुनः ।
चिन्मात्रस्यास्य तद्भ्रान्तिशान्तौ शान्तात्म निर्मलम् ।। १४
चिन्मात्राभमितो दानादमुत्रात्तमवाप्नुयात् ।
संकल्पात्मेति कवयः कथं तन्नोपलभ्यते ।। १५
कल्पनात्मनि संसारे संकल्पोऽकृत्रिमं फलम् ।
चिन्मात्रमभितोऽदानाद्दानाद्वाऽस्तु यथोदितः ।। १६
एतत्ते कथितं सर्वं यथापृष्टं महीपते ।
जगदप्रतिघं सर्वमिदं चिन्मात्रकल्पनम् ।। १७
राजोवाच ।
सर्गादौ भगवन्देहमिदं चिन्मात्रकल्पनम् ।
कथं भाति कथं कुड्यं विना दीपः प्रकाशते ।। १८
श्रीवसिष्ठ उवाच ।
त्वयार्थो देहशब्दस्य यो बुद्धः स महामते ।
तत्त्वज्ञं प्रति नास्त्येव शिलानृत्तमिवाम्बरे ।। १९
य एव ब्रह्मशब्दार्थो देहशब्दार्थ एव सः ।
नार्थयोरनयोर्भेदो विद्यतेऽम्ब्वम्भसोरिव ।। २०
यदेव ब्रह्मदेहोऽसौ स्वप्नाभः स्वप्न एष तु ।
त्वद्वोधायोच्यते युक्तिर्न तु तत्स्वप्न एव तु ।। २१
स्वप्नस्तवानुभूतार्थस्तेनातस्त्वं प्रबोध्यसे ।
न तु सर्गे चिदाभाते सादृश्यं स्वप्नभस्मना ।। २२
कस्तत्र नाम देहोऽयं कस्यैते स्वप्नधीः क्व वा ।
स्वप्नेन ज्ञावबुद्धेन भ्रमेणाज्ञोऽवबोध्यते ।। २३
तत्र जाग्रन्न च स्वप्नो न सुषुप्तं न चेतरत् ।
किमपीत्थमिदं भानं खमात्रं मौनमोमलम् ।। २४
अभातमेव भातीव यदद्येत्थमिदं तु तत् ।
प्राग्विभातं तथात्यच्छं जाग्रत्स्वप्नादि नो यथा ।। २५
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
तन्मयं सर्वमेवेदं द्वैतमद्वैतमेव च ।। २६
अन्यत्र चिन्मयं स्वप्नं द्वैताद्वैतं शुभाशुभम् ।
निरावरणचिन्मात्रनभसैवोपमीयते ।। २७
शून्यमर्थोपलम्भश्च भानं चाभानमेव च ।
द्वैतमैक्यमसत्सच्च सर्वं चिद्गगनं परम् ।। २८
पूर्णात्पूर्णं प्रसरति पूर्णमेव स्थितं जगत् ।
न च भातं न चाभातं शिलाबद्धोदरोपमम् ।। २९
यतो जगच्चिदुन्मेषो व्योमात्माप्रतिघं ततः ।
चिन्मात्रं यत्र यत्रास्ति तत्र तत्रोचितं जगत् ।। ३०
चिद्व्योम चास्ति सर्वत्र सर्वं चैतज्जगन्मयम् ।
सर्वं ब्रह्ममयं शान्तं जगदित्यपि शब्दितम् ।। ३१
यथास्थितमिदं विश्वं तथासंस्थमनामयम् ।
ब्रह्मैव निरवद्यात्म चित्संकल्पपुराकृति ।। ३२
असंभवादन्ययुक्तेर्युक्तिरेषैव शोभना ।
अयुक्त्यनुभवं तूक्तं नार्थिनामिह शोभते ।। ३३
लोके शास्त्रेऽथ वेदादौ यत्सिद्धं सिद्धमेव तत् ।
सदस्त्वसद्वात्मनि तद्धातुं शक्यं न वा क्वचित् ।।३४
तदेवेत्थं परिज्ञातं ब्रह्मतामुपगच्छति ।
यदा तेन समं विश्वं स्थितमेव विलीयते ।। ३५
न्यायेनैतदिहोक्तेन लोकवेदादि सिध्यति ।
सर्वं स जीवन्मुक्तत्वमेष एवोचितस्ततः ।। ३६
परिज्ञातं चिदाकाशमपरिज्ञातपादपे ।
सोऽहं त्रिजगदित्येव बन्धमोक्षविनिर्णयः ।। ३७
यथास्थितमिदं दृश्यं परिज्ञानाद्विलीयते ।
तज्ज्ञस्यास्तंगतस्यैव शिलामौनं तु शिष्यते ।। ३८
लोके शास्त्रे च वेदे च यत्सिद्धं सिद्धमेव तत् ।
संवेद्यते तदेवातस्तदेवं फलति स्फुटम् ।। ३९
सकलार्थनिरासेन यद्यत्संवेद्यते चिरम् ।
तदेव प्राप्यतेऽवश्यं सर्वत्रैवान्यभावितम् ।। ४०
यथानुभूतं यत्तत्तत्तथा नामानुभूयते ।
तत्सत्यमस्त्वसत्यं वा यावल्लाभं तथा नु तत् ।। ४१
इत्थं महाप्रश्नविचारणं ते
मयेदमुक्तं मतिमन्महात्मन् ।
अनेन गच्छाशु पथा निराधि-
र्निरामयो निर्व्यसनो भवोच्चैः ।। ४२
इत्यार्षे श्रीवा० वा० दे० मो नि० ४० द्वैतैक्योपलम्भनिरासेन महाप्रश्नोत्तरवाक्यसमाप्तिर्नाम दशाधिकद्विशततमः सर्गः ।।२१०।।