योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २०९

विकिस्रोतः तः


नवाधिकद्विशततमः सर्गः २०९
श्रीवसिष्ठ उवाच ।
एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ।
मृत्वार्थितं प्रयागादौ क्षेत्रे यत्तदिदं श्रृणु ।। १
क्षेत्राणामर्थधर्माणां सर्वेषां प्रति तं फलम् ।
ब्रह्मणा कल्पितं सर्गे स्वके संकल्पपत्तने ।। २
यत्र पुण्यं यदर्थं च क्षेत्रं ताभ्यां तथा कृतम् ।
यदि तद्विनियोज्यस्य तस्योन्नमति निष्कृतात् ।। ३
तत्तस्मान्महतः पापाद्भागमेनोखिलं च वा ।
चितिशक्त्यात्म तत्पुण्यं परिभ्राम्योपशाम्यति ।। ४
विनेयपापमल्पं चेत्क्षेत्रधर्मोऽधिकस्ततः ।
तत्पापं नाशयित्वा तच्छब्द एव विवल्गति ।। ५
क्षेत्रधर्मेण तेनास्य विनेयस्य महीपते ।
द्वे शरीरे विदौ सम्यक्कचतः प्रतिभात्मिके ।। ६
इत्येवमादिपापानां पुण्यानां च फलं महत् ।
ब्रह्मसंकल्पकचितं यथा यद्यत्तथैव तत् ।। ७
ब्रह्मोच्यतेऽसौ चिद्धातुः सोऽब्जजाद्यहमादि च ।
स यथास्ते तथा तत्तत्तस्य संकल्पनं जगत् ।। ८
प्रतिभैव विनेयस्य क्षेत्रपुण्येन तादृशी ।
तथैवोदेति सा धातुर्विपरीतवतो यथा ।। ९
एकात्मनाहमद्यैष मृतोऽमी मम बन्धवः ।
रुदन्तीमे परं लोकं प्राप्तोऽयमहमेककः ।। १०
बन्धूनामपि तत्रैव तदैवास्य तथैव च ।
प्रतिभा तादृशैवेति धातुक्षोभवतामिव ।। ११
अत्युग्रैः पुण्यपापैः स्वैर्वा महात्मभिरीक्षिते ।
लक्ष्याण्यप्यन्यथा सन्ति नृणां चित्कल्पनावशात् ।। १२
अचेतनं शवीभूतं तेऽपि पश्यन्ति तं मृतम् ।
रुदन्ति तं च दहने क्षिपन्ति सह बान्धवैः ।। १३
विनेयः स यथान्येन संविद्रूपेण देहिना-।
ऽजरामरणमात्मानं वेत्ति स्थितमदुःखितम् ।। १४
यथास्थितेन देहेन वेत्त्यसौ जीवितस्थितम् ।
मृतिं त्वदृश्येनान्येन क्षेत्रपुण्यविदेरितः ।। १५
आविला संविदा संविच्छून्यया वेद्यते क्षणात् ।
न हि सन्नद्धगात्रस्य क्लेशोऽसन्नद्धमेदने ।। १६
पश्यन्ति बन्धवोऽप्येनं तथैवामरतां गतम् ।
द्वयमित्येष लभते जीवितं मरणं समम् ।। १७
इदमप्रतिघारम्भं भ्रान्तिमात्रं जगत्त्रयम् ।
न संभवति को नाम भ्रान्तौ भ्रान्तिविपर्ययः ।। १८
संकल्पस्वप्नपुरयोर्या भ्रान्तिरनुभूयते ।
ततोऽधिकोऽयं न न्यूनाज्जाग्रत्स्वप्नेऽनुभूयते ।। १९
राजोवाच ।
धर्माधर्मौ कथं ब्रह्मन्कारणं देहसंविदः ।
तस्यामूर्तौ कथं चैको द्विशरीरत्वमृच्छति ।। २०
श्रीवसिष्ठ उवाच ।
संकल्पनगरे ब्राह्मे जगत्यस्मिन्महामते ।
किं नाम नो संभवति सत्यं वाप्यसमञ्जसम् ।। २१
यथैव संकल्पपुरे यन्न संभवतीह हि ।
तन्नास्त्येव तदेतस्मिन्किं वाऽस्तु ब्रह्मकल्पने ।। २२
स्वप्नसंकल्पपुरयोरेको गच्छति लक्षताम् ।
तथा चैकैव चित्स्वप्ने सेनात्वमुपगच्छति ।। २३
सहस्राण्येकतां यान्ति तथा सैव सुषुप्तकम् ।
अन्यथा स्वप्नसंकल्पसेनानुभवसंस्मृतौ ।। २४
संकल्पस्वप्नपुरयोरिति को नानुभूतवान् ।
संविदाकाशमात्रेऽस्मिञ्जगत्यनुभवात्मनि ।। २५
तस्मादस्मिंश्चिदाकाशसंकल्पे जगदात्मनि ।
न संभवति किं नाम तत्संभवति वापि किम् ।। २६
एवमेवमियं भ्रान्तिर्भाति भास्वन्नभोमयम् ।
नेह किंचन सन्नासन्न वाऽऽसदिह किंचन ।। २७
यथानुभूयते यद्यत्तत्तथा तत्त्वदर्शिनः ।
प्रबुद्धस्यात्र किं नाम तत्स एवाङ्गतेत्यलम् ।। २८
इह चेद्विहितो धर्मस्तत्स्वर्गेऽमृतपर्वताः ।
स्थिता इतीह संकल्पे कस्मान्न प्राप्तवान्गिरीन् ।। २९
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
इतीह संकल्पपुरे सर्वमेवासमञ्जसम् ।। ३०
यदि स्यात्सुस्थिरं किंचिद्वस्तु तद्दृश्यको भवेत् ।
न्याय एषोऽखिलः किंतु संवित्त्वात्स्वस्वकं स्थितः ।। ३१
इत्येष कथितो न्यायः सिद्धास्वनुभवस्ततः ।
यतो जगन्ति संकल्पश्चितो ब्रह्मस्वरूपतः ।। ३२
इव संकल्पनगरे नास्त्येवासंभवो यथा ।
सर्वार्थानां तथा ब्राह्मे संकल्पे नास्त्यसंभवः ।। ३३
यद्यथा कल्पितं तत्र यावत्संकल्पमेव तत् ।
स्वभावेन तथैवास्ति यतस्तत्संनिवेशवत् ।। ३४
ततः संप्रेक्षणमिह संकरो न प्रवर्तते ।
विनान्यच्चित्प्रयत्नेन भवत्यर्थस्तु नान्यथा ।। ३५
आकल्पमजसंकल्पे यथा भातं जगत्स्थितम् ।
पुनरन्येन संकल्परूपेणान्यदुपैष्यति ।। ३६
संकल्पात्म स्वयं भाति कल्पे कल्पे जगत्तथा ।
प्रतिजीवं चितिस्वप्ने स्वप्ने स्वाप्नपुरं यथा ।। ३७
संकल्पपत्तनतनोर्न तदस्ति किंचि-
द्यद्यन्न संभवति तच्च चिदात्मनोऽस्मात् ।
नान्यत्प्रकम्पयितुराद्यपरस्वरूपा-
द्ब्रह्मैव तेन सकलं जगदङ्ग विद्धि ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० महा० सर्वास्तित्वानुभूतिदर्शनं नाम नवाधिकद्विशततमः सर्गः ।।२०९।।