योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २०१

विकिस्रोतः तः


एकाधिकद्विशततमः सर्गः २०१
श्रीवाल्मीकिरुवाच ।
अथार्वाक्साधुवादेषु प्रशान्तेषु शनैःशनैः ।
ज्ञानोपदेशमासाद्य प्रोल्लसत्स्विव राजसु ।। १
प्रशान्तसंसृतिभ्रान्तौ जने चरितमात्मनः ।
स्वयं हसति चित्तेन सत्यं समनुधावता ।। २
वलच्चित्तकलं ज्ञानसमास्वादनतत्परे ।
विवेकिनि सभालोके शान्ते ध्यानमिवास्थिते ।। ३
बद्धपद्मासने रामे सभ्रातरि गुरोः पुरः ।
स्थिते कृताञ्जलौ दीप्तगुरुवक्रगतेक्षणे ।। ४
पार्थिवे किमपि ध्यानमिवास्वादयति स्थितिम् ।
जीवन्मुक्तात्मिकामन्तरादिमध्यान्तपावनीम् ।। ५
ग्रहीतुमर्चां भक्तानां मानितार्थजनो मुनिः ।
तूष्णीं क्षणमिव स्थित्वा प्रोवाचानाकुलाक्षरम् ।। ६
स्वकुलाकाशशीतांशो राम राजीवलोचन ।
किमन्यदिच्छसि श्रोतुं कथयामिमतेच्छया ।। ७
स्थितिं च कीदृशीमेनामद्यानुभवसि स्वयम् ।
किंरूपमिदमाभासं जागतं वद पश्यसि ।। ८
इत्युक्ते मुनिना तेन प्राह राजकुमारकः ।
अविह्वलं मृदु स्पष्टं गुरोरालोकयन्मुखम् ।। ९
श्रीराम उवाच ।
त्वत्प्रसादेन यातोऽस्मि परां निर्मलतां प्रभो ।
शान्ताशेषकलङ्काङ्कं शरदीव नभस्तलम् ।। १०
 सर्वा एवोपशान्ता मे भ्रान्तयो भवभङ्गदाः ।
स्वरूपेणावदातेन तिष्ठाम्यच्छमिवाम्बरम् ।। ११
स्थितोऽहं गलितग्रन्थिः शान्ताशेषविशेषणः ।
स्फटिकालयमध्यस्थस्फटिकामलधीरहम् ।। १२
अन्यच्छ्रोतुमथाहर्तुं शान्तं नेच्छति मे मनः ।
परां तृप्तिमुपायान्तं सुषुप्तमिव संस्थितम् ।। १३
शान्ताशेषपरामर्शं विगताशेषकौतुकम् ।
संत्यक्ताशेषसंकल्पं शान्तं मम मुने मनः ।। १४
परिनिर्वामि शाम्यामि जाग्रदेव जगत्स्थितौ ।
अस्वप्नमपुनर्बोधं स्वपिमीव निरामयम् ।। १५
आशाविधुरितामात्मसंस्थितिं प्राक्तनीं तनौ ।
प्रविहस्य स्फुरत्सूक्तैः स्वस्थस्तिष्ठाम्यसंशयम् ।। १६
नोपदेशेन नार्थेन न शास्त्रैर्न च बन्धुभिः ।
त्यागेन च न चैतेषामधुना मम कारणम् ।। १७
साम्राज्यस्याथवा व्योम्नि या स्थितिः क्षोभवर्जिता ।
तामेवानुभवाम्यत्र मच्चित्तामनपायिनीम् ।। १८
खादप्यतितरामच्छं चिदाकाशांशमात्रकम् ।
जगदित्येव पश्यामि लोचनाद्यङ्गतां गतः ।। १९
आकाशमात्रमेवेदं जगदित्येकनिश्चयः ।
दृश्यनाम्नि नभस्यस्मिन्क्षये जागर्मि चाक्षयः ।। २०
यथाकामं यथाप्राप्तं यथास्थितमिव स्थितम् ।
यद्वक्ति तदविघ्नेन करोम्यपगतैषणम् ।। २१
 न तुष्यामि न हृष्यामि न पुष्यामि न रोदिमि ।
कार्यं कार्यं करोम्येको भ्रान्तिर्दूरं गता मम ।। २२
अन्यतामेतु सर्गोऽयं वातु वा प्रलयानिलः ।
सौम्यो भवतु वा देशः स्वस्थोऽहं स्वात्मनि स्थितः।। २३
विश्रान्तोस्मि विलक्ष्योस्मि दुर्लक्ष्योस्मि निरामयः ।
नाशाभिर्बन्धमाप्नोमि मुने खमिव मुष्टिभिः ।। २४
यथा तरुगतात्पुष्पाद्गन्धः प्राप्य नभःपदम् ।
तिष्ठत्येवमहं देहादतीतः संस्थितः समः ।। २५
यथैव सर्वे राजानो विहरन्ति यथासुखम् ।
अप्रबुद्धाः प्रबुद्धाश्च राज्येषु बहुकर्मसु ।। २६
शान्तहर्षविषादाशः स्थिरैकसमदर्शनः ।
स्थित आत्मनि निःशङ्कं तथैव विहराम्यहम् ।। २७
सर्वस्योपर्यपि सुखी सुखं नेहामि मे प्रभो ।
जनसाम्येन तिष्ठामि यथेच्छं मां नियोजय ।। २८
बालो लीलामिव त्यक्तशङ्कं संसारसंस्थितिम् ।
यावद्देहमिमां साधो पालयाम्यमलैकदृक् ।। २९
भुञ्जे पिबामि तिष्ठामि पालयामि निजक्रियाम् ।
जातोऽहं विगताशङ्कस्त्वत्प्रसादान्मुनीश्वर ।। ३०
श्रीराम उवाच ।
अहो बत महापुण्यं पदमासादितं त्वया ।
अनादिमध्यपर्यन्तमिदं यत्र न शोच्यते ।। ३१
सम्यक्समसमाभोगे शीतले स्वात्मनि स्वयम् ।
नभसीव नभः शान्ते विश्रान्तिमसि लब्धवान् ।। ३२
दिष्टया जातो विशोकस्त्वं दिष्ट्या सम्यगवस्थितः ।
दिष्टया लोकद्वयेऽनर्थशङ्का ते शममागता ।। ३३
दिष्टया रघूणां तनय संज्ञः पावितवानसि ।
भूतभव्यभविष्यस्थां बोधेन कुलसंततिम् ।। ३४
अधुना मुनिनाथस्य विश्वामित्रस्य राघव ।
पूरयित्वार्थितां भुक्त्वा पित्रा सह महीमिमाम् ।।३५
त्वयान्विताः सतनयभृत्यबान्धवाः
पदातयः सरथंगजाश्वमण्डलाः ।
निरामया विगतभयाः स्थिरश्रियः
सदोदयाः सुभग भवन्तु राघवाः ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उत्तरार्धे विश्रान्तिप्रकटीकरणं नामैकाधिकद्विशततमः सर्गः ।। २०१ ।।