योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९८

विकिस्रोतः तः


अष्टनवत्यधिकशततमः सर्गः १९८
श्रीवसिष्ठ उवाच ।
भूयो निपुणबोधाय श्रृणु किंचिद्रघूद्वह ।
पुनःपुनर्यत्कथितं तदज्ञेऽप्यवतिष्ठते ।। १
राघव प्रथमं प्रोक्तं स्थितिप्रकरणं मया ।
येनेदमित्थमुत्पन्नमिति विज्ञायते जगत् ।। २
ततो जगति जातेन परोपशमशालिना ।
भवितव्यमिति प्रोक्तं मयोपशमयुक्तिभिः ।। ३
उपशान्तिप्रकरणे प्रोक्तैरुपशमक्रमैः ।
परमोपशमं गत्वा वस्तव्यमिह विज्वरम् ।। ४
प्राप्तप्राप्येन तज्ज्ञेन यथा संसारदृष्टिषु ।
विहर्तव्यं हि नः किंचित्स्वल्पं श्रोतव्यमस्ति ते ।। ५
जन्म संप्राप्य जगति बाल्य एव जगत्स्थितिम् ।
यथाभूतामिमां बुद्ध्वा वस्तव्यमिह विज्वरम् ।। ६
सर्वसौहार्दजननीं सर्वस्याश्वासकारिणीम् ।
समतामलमाश्रित्य विहर्तव्यमिहानघ ।। ७
सर्वसंपत्तिसुभगं सर्वसौभाग्यवर्धनम् ।
समतासुलतायास्तु फलं भवति पावनम् ।। ८
समतासुभगेहानां कुर्वतां प्रकृतं क्रमम् ।
सर्वैवेयं जगल्लक्ष्मीर्भृत्यतामेति राघव ।। ९
न तदासाद्यते राज्यान्न कान्ताजनसंगमात् ।
अनपायि सुखं सारं समत्वाद्यदवाप्यते ।। १०
द्वन्द्वोपशमसीमान्तं संरम्भज्वरनाशनम् ।
सर्वदुःखातपाम्भोदं समत्वं विद्धि राघव ।। ११
मित्रीभूताखिलरिपुर्यथाभूतार्थदर्शनः ।
दुर्लभो जगतां मध्ये साम्यामृतमयो जनः ।। १२
प्रबुद्धस्य स्वचित्तेन्दोर्निष्यन्दममृताधिकम् ।
साम्यमास्वाद्य जीवन्ति सर्वे वै जनकादयः ।। १३
साम्यमभ्यस्यतो जन्तोः स्वदोषोऽपि गुणायते ।
दुःखं सुखायते नित्यं मरणं जीवितायते ।। १४
साम्यसौन्दर्यसुभगं वनिता मुदितादिकाः ।
आलिङ्गन्ति महात्मानं नित्यं व्यसनिता इव ।। १५
समः समुदितो नित्यं समोऽनुदितधीः सदा ।
न काश्चिदिह ताः सन्ति याः समस्य हि नर्धयः ।। १६
सर्वकार्यसमं साधुं प्रकृतव्यवहारिणम् ।
चिन्तामणिमिवोदारं प्रवाञ्छन्ति नरामराः ।। १७

सम्यक्कारिणमुद्दाममुदितं समचेतसम् ।
न दहन्त्यग्नयो राम नापः सिञ्चन्ति मानवम् ।। १८
यद्यथा तत्तथा येन क्रियते दृश्यते तथा ।
आनन्दोद्वेगमुक्तेन कस्तं तोलयितुं क्षमः ।। १९
मित्राणि बन्धुरिपवो राजानो व्यवहारिणः ।
सम्यक्कारिणि तत्त्वज्ञे विश्वसन्ति महाधियः ।। २०
नानिष्टात्प्रपलायन्ते नेष्टादायान्ति तुष्टताम् ।
प्रकृतक्रमसंप्राप्तास्तत्त्वज्ञाः समदर्शिनः ।। २१
त्यक्त्वा सर्वानुपादेयान्राम भावाननिन्दितान् ।
समतायामदुःखायां दधाना वृत्तिमुत्तमाम् ।। २२
विहसन्ति जगज्जालं जीवयन्ति निरामयाः ।
पूज्यन्ते विबुधैः सर्वैः समतामुदिताशयाः ।। २३
प्रकृतक्रमसंप्राप्तं मुखेन्दौ कोपमेव यः ।
समाशयो धारयति स्यात्सौम्यामृतवज्जनः ।। २४
यत्करोति यदश्नाति यदाक्रामति निन्दति ।
समदृष्टिस्तदस्येयं स्तौति नित्यं जनावलिः ।। २५
यच्छुभं वाशुभं यच्च यच्चिरेण यदद्य वा ।
समदृष्टिकृतं सम्यगभिनन्दति तज्जनः ।। २६
सुखदुःखेषु भीमेषु संततेषु महत्स्वपि ।
मनागपि न वैरस्यं प्रयान्ति समदृष्टयः ।। २७
शिबिर्भूपः कपोताय मांसमङ्गविकर्तनम् ।
ददौ मुदितया बुद्ध्या समदृष्टितयानया ।। २८
प्राणेभ्योऽपि प्रियतमां कान्तामग्रे विकालिताम् ।
दृष्ट्वाप्यङ्ग महीपालो न मुमोह समाशयः ।। २९
मनोरथशतप्राप्तं तनयं समया धिया ।
राक्षसाय त्रिगर्तेशो ददौ स्वपणहारितम् ।। ३०
नगर्यां दह्यमानायां भूषितायां तथोत्सवे ।
सम एव महीपालो जनको भूभृतां वर ।। ३१
न्यायतः परिविक्रीतं साल्वराट् समदर्शनः ।
स्वमेव विचकर्ताशु शिरः पद्मदलं यथा ।। ३९
कुन्दप्रकरनिर्भासं यज्ञे पाण्डुमिवाचलम् ।
जहौ जरत्तृणमिव सौवीरः समया धिया ।। ३३
समयैव धिया नित्यं निजमभ्याहरन्क्रमम् ।
मातङ्गः कुण्डपो नाम प्राप वैमानिकस्थितिम् ।। ३४
सर्वभूतक्षयकरीं साम्याभ्यासेन भूरिणा ।
तत्याज राक्षसीं वृत्तिं कदम्बवनराक्षसः ।। ३५
बालचन्द्राभिजातोऽपि समबुद्धितया जडः ।
गुडमोदकवन्न्यायप्राप्तमग्निमभक्षयत् ।। ३६
समबुद्धितया क्रूरव्यवहारपरोऽपि सन् ।
धर्मव्याधस्तनुं त्यक्त्वा जगाम परमं पदम् ।। ३७
नन्दनोद्यानसंस्थोऽपि पुरुषोऽपि कपर्दनः ।
लुलुभे न सुरस्त्रीषु नूनं प्रणयिनीष्वपि ।। ३८
समचित्ततयाऽस्पन्दः करञ्जगहनेष्वपि ।
विन्ध्यकान्तारकच्छेषु राज्यं त्यक्त्वावसच्चिरम् ।।३९
ऋषयो मुनयश्चैव ये सिद्धाः सुरपूजिताः ।
समदृष्टितयोद्विग्ना न ते तासु व्रतर्द्धिषु ।। ४०
राजानः प्राकृताश्चैव धर्मव्याधादयोऽपरे ।
समदृष्टिपदाभ्यासान्महतां पूज्यतां गताः ।। ४१
इहामुत्र च सिद्ध्यर्थे पुरुषार्थप्रवृत्तये ।
समदृष्टितया नित्यं विचरन्ति सुबुद्धयः ।। ४२
अभिवाञ्छेन्न मरणमभिवाञ्छेन्न जीवितम् ।
यथाप्राप्तसमाचारो विचरेदविहिंसकः ।। ४३
समकलितगुणागुणैकभावः
समसुखदुःखपरावरो विलासी ।
प्रविचरति समावमानमानः
प्रकृतवरव्यवहारपूतमूर्तिः ।। ४४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० समदृष्टिप्रशंसा नामाष्टनवत्यधिकशततमः सर्गः ।। १९८ ।।