योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९६
षण्णवत्यधिकशततमः सर्गः १९६
श्रीवाल्मीकिरुवाच ।
एवमुक्त्वा महाबुद्धे रामो राजीवलोचनः ।
मुहूर्तमात्रं विश्रम्य तूष्णीं स्थित्वा परे पदे ।। १
परमां तृप्तिमापन्नो विश्रान्तः परमात्मनि ।
मुनिं पुनरपृच्छत्तं जानन्नपि हि लीलया ।। २
श्रीराम उवाच ।
भगवन्संशयाम्भोदशरत्काल मुनीश्वर ।
इदानीं संशयोऽयं मे जातो मनसि पेलवः ।। ३
एवमेतन्महाज्ञानं संसारार्णवतारणम् ।
समस्तमेव वाग्जालं समतीत्यावतिष्ठते ।। ४
यदिदं किल सद्ब्रह्म स्वसंविन्मात्रनिश्चयम् ।
तदवाच्यं किल गिरां महतामपि मानद ।। ५
एवं स्थिते परं ज्ञेयं सर्वसंकल्पनोज्झितम् ।
स्वसंवित्तुर्यतन्मात्रलभ्यं दुर्गमतां गतम् ।। ६
प्रतियोगिव्यवच्छेदसंख्याभेदैषिणां किल ।
कथं शास्त्रपदैस्तुच्छैः सविकल्पैरवाप्यते ।। ७
विकल्पसारशब्दाद्यैर्ज्ञान शास्त्रैर्न लभ्यते ।
तत्किमर्थमनर्थाय गुरुशास्त्रादि कल्पितम् ।। ८
गुरुशास्त्रादिविज्ञाने कारणं वास्त्यकारणम् ।
तदत्र निश्चयं ब्रह्मन्ब्रूहि मे वदतां वर ।। ९
श्रीवसिष्ठ उवाच ।
एवमेतन्महाबाहो न शास्त्रं ज्ञानकारणम् ।
नानाशब्दमयं शास्त्रमनाम च परं पदम् ।। १०
तथापि राघवश्रेष्ठ यथैतद्धेतुतां गतम् ।
शास्त्राद्युत्तमबोधस्य तत्समासेन मे श्रृणु ।। ११
सन्ति क्वचिद्वैवधिकाः कीरकाश्चिरदुर्भगाः ।
दुःखेनाभ्यागताः शोषं ग्रीष्मेणेव जरद्द्रुमाः ।। १२
दारिद्र्येण दुरन्तेन कन्थासंस्थानकारिणा ।
दीनाननाशयाः पद्मा निर्गतेनेव वारिणा ।। १३
दौर्गत्यपरितप्तास्ते जीवितार्थमचिन्तयन् ।
जठरस्य कया युक्त्या वयं कुर्मः प्रपूरणम् ।। १४
इति संचिन्त्य विधिना दिनान्तेन दिनं प्रति ।
दारुभारेण जीवामो विक्रीतेनेति संस्थिताः ।। १५
इति संचिन्त्य ते जग्मुर्दार्वर्थं विपिनान्तरम् ।
ययैवाजीव्यते युक्त्या सैवापदि विराजते ।। १६
इति ते प्रत्यहं गत्वा काननं भवचारिणः ।
दारूण्यानीय विक्रीय चक्रुर्देहस्य धारणम् ।। १७
यत्प्रयान्ति वनान्तं ते तस्मिन्सन्त्यखिलानि हि ।
गुप्तागुप्तानि रत्नानि दारूणि कनकानि च ।। १८
तेषां भारभृतां मध्यात्केचित्कतिपयैर्वनात् ।
जातरूपाणि रत्नानि तानि संप्राप्नुवन्ति हि ।। १९
केचिच्चन्दनदारूणि केचित्पुष्पाणि मानद ।
केचित्फलानि विक्रीय जीवन्ति चिरकीरकाः ।। २०
केचित्सर्वमनासाद्य दुर्दारूण्येव दुर्धियः ।
नीत्वा विक्रीय जीवन्ति वनवीथ्युपजीविनः ।। २१
दार्वर्थमुद्यताः सर्वे ते संप्राप्य महावनम् ।
केचित्प्राप्य स्थिताः सर्वे झटित्येवं गतज्वरम् ।। २२
इति यावदजस्रं ते सेवन्ते तन्महावनम् ।
प्रदेशात्तावदेकस्मात्प्राप्तश्चिन्तामणिर्मणिः ।। २३
तस्माच्चिन्तामणेः प्राप्ताः समग्रा विभवश्रियः ।
परमं सुखमायातास्तत्र ते संस्थिताः सुखम् ।। २४
दार्वर्थमुद्यताः सन्तः प्राप्य सर्वार्थदं मणिम् ।
सुखं तिष्ठन्ति निर्द्वन्द्वा दिवि देववरा इव ।। २५
सर्वार्थसारपरिपूर्णतया तया ते
काष्ठोद्यमाधिगतसन्मणयो महान्तः ।
तिष्ठन्ति शान्तभयमोहविषाददुःख-
मानन्दमन्थरधियः समतामुपेताः ।। २६
इत्यार्षे श्रीवासि० वा० दे० मो० नि उ० काष्ठवैवधिकोपाख्याने चिन्तामणिलाभो नाम षष्णवत्यधिकशततमः सर्गः ।। १९६ ।।