योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९३

विकिस्रोतः तः


त्रिनवत्यधिकशततमः सर्गः १९३
श्रीराम उवाच ।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।
यत्पदं तदिदं भाति क्व जगत्क्व च दृश्यता ।। १
द्वैताद्वैतसमुद्भेदवाक्यसंदेहविभ्रमैः ।
अलमस्माकमाशान्तमाद्यं रूपमनामयम् ।। २
व्योमनि व्योमभावानां प्रशान्तं यादृगासितम् ।
तादृक्चिद्व्योमनि स्फारत्रिजगद्व्योमभासनम् ।। ३
यथा व्योमनि व्योमत्वं दृषत्त्वं दृषदि स्थितम् ।
जलत्वं च जलस्यान्तर्जगत्त्वं चिद्धने तथा ।। ४
साहंतादिजगद्दृश्यमाशाकाशविसार्यपि ।
महाचिदुदरं विद्धि खं शान्तं शून्यतोदितम् ।। ५
जीवस्यास्मिन्विमूढस्य परेऽपरिमितोदये ।
प्रस्फुरंश्चापि संसारपिशाच उपशाम्यति ।। ६
भेदोपलब्धिर्गलति व्यवहारवतोऽप्यलम् ।
जडस्येवाजडस्यैव वीचेरिव जलोदरे ।। ७
क्वाप्यज्ञानरवौ याते प्रतापाद्याकरे भृशम् ।
संसारसत्तादिवसो यात्यस्तं स निशागमः ।। ८
भावाभावेषु कार्येषु जरामरणजन्मसु ।
ज्ञ आजवं जवीभावे तिष्ठन्नपि न तिष्ठति ।। ९
नाविद्यास्ति ह न भ्रान्तिर्न दुःखं न सुखोदयः ।
विद्याऽविद्या सुखं दुःखमिति ब्रह्मैव निर्मलम् ।।१०
परिज्ञातं सदेतत्तु यावद्ब्रह्मैव निर्मलम् ।
अपरिज्ञातमस्माकमब्रह्मात्म न विद्यते ।। ११
प्रबुद्धोऽस्मि प्रशान्ता मे सर्वा एव कुदृष्टयः ।
शान्तं समं सोहमिदं खं पश्यामि जगत्त्रयम् ।। १२
सम्यग्ज्ञातं यावदिदं जगद्ब्रह्मैव केवलम् ।
अज्ञातात्माभवद्ब्रह्म ज्ञातात्मन्यधुना स्थितम् ।। १३
ज्ञाताज्ञातमनिर्भासं ब्रह्मैकमजरं तथा ।
शून्यत्वैकत्वनीलत्वरूपमेकं नभो यथा ।। १४
निर्वाणमासे गतशङ्कमासे
निरीहमासे सुसुखेऽहमासे ।
यथास्थितं नित्यमनन्तमासे
तदेवमासे न कथं समासे ।। १५
सर्वं सदैवाहमनन्तमेकं
न किंचिदेवाप्यथवातिशान्तः ।
सर्वं न किंचिच्च सदेकमस्मि
न चास्मि चेतीयमहो नु शान्तिः ।। १६
अधिगतमधिगम्यं प्राप्तमप्राप्तमन्यै-
गतमिदमलमस्तं वस्तुजातं समस्तम् ।
उदितमुदितबोधं तादृशं यत्र भूयो-
ऽस्तमयसमुदयानां नाम नामापि नास्ति ।। १७
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० वश्रान्तिकथनं नाम त्रिनवत्यधिकशततमः सर्गः ।। १९३ ।।