योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९२

विकिस्रोतः तः


द्विनवत्यधिकशततमः सर्गः १९२
श्रीराम उवाच ।
अहो नु सुचिरं कालं संभ्रान्ता वयमन्तरे ।
अपरिज्ञातमात्रेण संसारपरमाम्बरे ।। १
बुद्धे यावदियं नाम जगद्भ्रान्तिर्न किंचन ।
न चाभून्न च वास्तीयं न च नाम भविष्यति ।। २
सर्वं शान्तं निरालम्बं विज्ञानं केवलं स्थितम् ।
अनन्तं चिद्धनं व्योम नीरागमपकल्पनम् ।। ३
परमाकाशमेवेदमपरिज्ञातमात्रकम् ।
संसारतामिवास्माकं गतं चित्रमहो नु भोः ।। ४
इत्थं द्वैतमिदं भातमिमे लोका इमेऽद्रयः ।
परमाकाशमित्यच्छमेवानच्छमिव स्थितम् ।। ५
सर्गादौ परलोकादौ स्वप्नादौ कल्पनादिके ।
चिदेव चेत्यवद्भाति कुतोऽन्या किल दृश्यधीः ।। ६
स्वर्गे वा नरके वापि स्थितोऽस्मीति मतिर्यदि ।
तत्तस्या नरकस्यान्तो दृश्यं संविन्मयात्मकम् ।। ७
नेदं दृश्यं न च द्रष्टा न सर्गो न जगन्न चित् ।
न जाग्रत्स्वप्नसिद्धादि किमपीदं तदप्यसत् ।। ८
कुतोऽस्याः संभवो भ्रान्तेरिति चेद्दृश्यते मुने ।
तदेतदपि नो युक्तं भ्रान्त्यभावानुभूतितः ।। ९
भ्रान्तिर्न संभवत्येव निर्विकारे ज्ञतापदे ।
यत्त्विदं भ्रान्तिताज्ञानं तत्तदेवेतरन्न तत् ।। १०
निरन्तरे निराद्यन्ते व्योम्नि शैलोदरेऽथवा ।
कुतोऽन्यताकल्पकं स्याज्ज्ञपदे चाविकारिणि ।। ११
मिथ्यैवानुभवो भ्रान्तेः स्वप्ने स्वमरणोपमः ।
यदनालोकनं नाम शाम्यतीदं विलोकनात् ।। १२
मृगतृष्णाम्बुगन्धर्वनगरद्वीन्दुविभ्रमः ।
तथाऽविद्याभ्रमश्चायं विचारान्नोपलभ्यते ।। १३
बालवेतालवद्भ्रान्तिर्न विद्या जाग्रगापि हि ।
अविचारेण संरूढा विचारेणोपशाम्यति ।। १४
कुत आसीदिति मुने नात्र प्रश्नो विराजते ।
सत एव विचारेण लाभो भवति नासतः ।। १५
प्रामाणिकविचारेण प्रेक्षितं यन्न लभ्यते ।
तदेतदसदेवादि तत्तर्ह्यनुभवो भ्रमः ।। १६
यन्नास्तीति परिच्छिन्नं प्रमाणैः सुविचारितम् ।
खपुष्पशशशृङ्गाभं तत्कथं लभ्यते सतः ।। १७
सर्वतः प्रेक्ष्यमाणोऽपि यः कुतश्चिन्न लभ्यते ।
तस्य स्यात्कीदृशी सत्ता वन्ध्यातनयरूपिणः ।। १८
भ्रान्तिर्न संभवत्येव तस्मात्काचित्कदाचन ।
निरावरणविज्ञानघनमेवेदमाततम् ।। १९
यत्किंचिज्जगदद्यात्र भातीदं परमेव तत् ।
परं परे परापूर्णे पूर्णमेवावतिष्ठते ।। २०
न भातं न च नाभातमिह किंचित्कदाचन ।
इदमित्थं स्थितं स्वच्छं शान्तमेव जगद्वपुः ।। २१
अजममरमहार्यमार्यजुष्टं
परमविकारि निरामयं समन्तात् ।
पदमहमुदितं ततं हि शुद्धं
निरहमनेकमथाद्वयं विकासि ।। २२
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० विश्रान्त्युपगमवर्णनं नाम द्विनवत्यधिकशततमः सर्गः ।। १९२ ।।