योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १९१

विकिस्रोतः तः


एकनवत्यधिकशततमः सर्गः १९१
श्रीराम उवाच ।
एवं चेत्तन्मुनिश्रेष्ठ परमार्थमयं जगत् ।
सर्वदा सर्वभावात्मा नोदेति न च शाम्यति ।। १
भ्रान्तिरेवेयमाभाति जगदाभासरूपिणी ।
भ्रान्तिरेवापि वा नैव ब्रह्मसत्तैव केवला ।। २
श्रीवसिष्ठ उवाच ।
काकतालीयवद्ब्रह्म यद्भातीवात्मनात्मनि ।
स तेनैवात्मनात्मैव जगदित्यवबुध्यते ।। ३
श्रीराम उवाच ।
कथं तपत्यहोऽदिक्कं सर्गस्यादौ परत्र च ।
कथं भित्त्या विना भाति वद दीपप्रभा मुने ।। ४
श्रीवसिष्ठ उवाच ।
इत्थंरूपमिदं भाति चितिरूपप्रभाप्रभा ।
पश्य सैवात्मनाऽऽस्ते यत्प्रकाशादिभिरेव च ।। ५
भित्तौ प्रकाशो भातीव तत्कुड्यं भासनं च तत् ।
दृश्यस्यासंभवादादौ वक्ता द्रष्टा प्रदृश्यताम् ।। ६
तस्माद्द्रष्टास्ति नो दृश्यं नैवास्तीदमनामयम् ।
चित्प्रभैवात्मना भित्तिर्भवत्याभासनं तथा ।। ७
द्रष्टृदृश्यात्मिकैकैव स्वात्मनैव विराजते ।
स्वप्नादिषु यथेहाद्य द्रष्टृदृश्यात्मिका सती ।। ८
चिद्भात्येव हि सर्गादौ कचन्ती भाति सर्गवत् ।
भासनीयं च भानं च रूपं यत्र स्वयंप्रभा ।। ९
एकैव चित्र्त्रयं भूत्वा सर्गादौ भाति सर्गवत् ।
एष एव स्वभावोऽस्या यदेवं भाति भासुरा ।। १०
एतत्तु स्वप्नसंकल्पनगरेष्वनुभूयते ।
इत्थं नाम तपत्येषा चिद्दीप्तिः प्रथमोदिता ।। ११
नभस्येव नभोरूपा यदिदं भासते जगत् ।
अनाद्यन्तमिदं तस्याः सर्गाः सर्गात्मभासनम् ।। १२
स्वभावभूतमस्माकं त्विदं भाति महात्मनाम् ।
भास्यभासकसंवित्तिर्नश्यति प्रतिभामिता ।। १३
तदा तु नाम सर्गादौ नासीद्भास्यो न भासकः ।
मिथ्याज्ञानवशादेव स्थाणौ पुंस्प्रत्ययो यथा ।। १४
तथात्मनि द्विताभानाच्चित्ते द्वैतविभासनम् ।
सर्गादौ न च भास्योस्ति न च वा नास्ति भासकः ।। १५
कारणाभावतोद्वैतं चिद्व्योमाभाति केवलम् ।
किं नाम कारणं ब्रूहि सर्गादौ चिति वस्तुतः ।। १६
अभावादर्थदृष्टीनां चिदेवेत्थं प्रकाशते ।
जगद्भानमिदं यत्तन्न जाग्रन्न सुषुप्तकम् ।। १७
न स्वप्नोसंभवाद्दृश्यं केवलं ब्रह्म भासते ।
चिन्मात्रव्योमसर्गादावित्थं कचकचायते ।। १८
यत्स्वमेव वपुर्वेत्ति जगदित्यजगन्मयम् ।
चिन्मात्रव्योमसर्गादावित्थं भाति विकासनम् ।। १९
यदिदं जगदित्येव शून्यत्वाम्बरयोरिव ।। २०
बुद्ध्वा च यावत्स्वनुभूतियुक्तं
स्थातव्यमेतेन विकल्पमुक्तम् ।
पाषाणमौनं कुजनेन तूक्तं
न ग्राह्यमज्ञेन हि भुक्तमुक्तम् ।। २१
इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० महावादबोधनं ( तत्त्वानुसंधानं) नामैकनवत्यधिकशततमः सर्गः ।। १९१ ।।