सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १८६

विकिस्रोतः तः


षडशीत्यधिकशततमः सर्गः १८६
श्रीवाल्मीकिरुवाच ।
कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।
उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ।। १
श्रीवसिष्ठ उवाच ।
बत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।
करामलकवद्विश्वं ब्रह्मेति परिपश्यति ।। २
किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।
भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ।। ३
यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।
तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ।। ४
शिवं शान्तमजं मौनममौनमजरं ततम् ।
सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ।। ५
यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।
सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ।। ६
परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तःस्थितो यतः ।
परमाणुरेव ब्रह्माण्डमन्तःस्थितजगद्यतः ।। ७
तस्माच्चिदाकाशमनादिमध्य-
मखण्डितं सौम्यमिदं समस्तम् ।
निर्वाणमस्तंगतजातिबन्धो
यथास्थितं तिष्ठ निरामयात्मा ।। ८
स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् ।
स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ।। ९
यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।
स्वरूपमजहच्छान्तं यत्र संपद्यते तथा ।। १०
ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।
एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ।। ११
दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।
एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ।। १२
यादृग्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।
संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्मयः ।। १३
संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोभवत् ।
जडीभूता तथैषास्ते संवित्स्थावरनामिका ।। १४
स्थावरत्वाज्जडाच्चित्त्वं जङ्गमात्म प्रयाति चित् ।
जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ।। १५
आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।
खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ।। १६
चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।
चिनोति जडतां चित्त्वं न नाम जडतावशात् ।। १७
चिता वेदनवेत्तारं स्थावरं क्रियते वपुः ।
चिता वेदनवेत्तारं जङ्गमं क्रियते वपुः ।। १८
यथा पुंसो नखाः पादावेकमेव शरीरकम् ।
तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ।। १९
आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।
चितो रूपं जगदिति तत्तथैवान्त उच्यते ।। २०
तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।
न प्रथामागतं किंचिन्नासीदप्रथितं हितम् ।। २१
अयमादिरयं चान्तः सर्गस्येत्यवभासते ।
चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ।। २२
स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।
प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ।। २३
प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।
एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ।। २४
कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।
नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ।। २५
विभागहीनयाप्येष भागश्चिद्धननिद्रया ।
सुषुप्तान्मुष्यते मोक्ष इति स्वप्नस्तु चित्तकम् ।। २६
प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।
भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ।। २७
चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।
तदेव मुच्यते भूतं जीवो देवासुरादिदृक् ।। २८
एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।
यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः ।। २९
श्रीराम उवाच ।
चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।
कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ।। ३०
श्रीवसिष्ठ उवाच ।
विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।
नागं नगं पिशाचादि खगकीटादिराक्षसम् ।। ३१
प्रमाणं तस्य चानन्तं विद्धि तद्यत्र रेणुताम् ।
आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ।। ३२
यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।
एतच्चित्तं भूतमेतदपर्यन्तामलाकृति ।। ३३
एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।
यदायान्ति तदा सर्गश्चित्तादागत उच्यते ।। ३४
चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।
खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ।। ३५
निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।
सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ।। ३६
अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।
शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ।। ३७
जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।
सदेव च पुमांस्तस्मात्पुंसामन्तःस्थितं जगत् ।। ३८
यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।
तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ।। ३९
चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।
व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता।। ४०
यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।
ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ।। ४१
यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।
स्फुरन्त्येवं विदोऽनन्याः पदार्थौघास्तथापरे ।। ४२
यथास्थितजगच्छालभञ्जिकाकाशरूपधृक् ।
चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ।। ४३
यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।
स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ।। ४४
समता सत्यता सत्ता चैकता निर्विकारिता ।
आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ।। ४५
स्वप्नसंकल्पसंसारवरशापदृशामिह ।
सरोब्धिसरिदम्बूनामिवान्यत्वं न वाथवा ।। ४६
श्रीराम उवाच ।
वरशापार्थसंवित्तौ कार्यकारणता कथम् ।
उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ।। ४७
श्रीवसिष्ठ उवाच ।
स्ववदातचिदाकाशकचनं जगदुच्यते ।
स्फुरणे पयसामब्धावावर्तचलनं यथा ।। ४८
ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।
संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ।। ४९
कालेनाभ्यासयोगेन विचारेण समेन च ।
जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ।। ५०
सम्यग्ज्ञानवतो ज्ञस्य यथा भूऽतार्थदर्शिनः ।
बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ।। ५१
निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।
संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ।। ५२
सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।
स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ।। ५३
अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।
यथा संकल्पनगरं यथा स्वप्नमहापुरम् ।। ५४
आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।
यद्यथा संकल्पयति तथा भवति तस्य तत् ।। ५५
संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।
सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ।। ५६
स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।
वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ।। ५७
स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।
कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ।। ५८
अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।
ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ।। ५९
या यथा कलना रूढा तावत्साद्यापि संस्थिता ।
न परावर्तिता यावद्यत्नात्कल्पनयान्यया ।। ६०
ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।
यथा सावयवे तत्त्वे विचित्रावयवक्रमः ।। ६१
श्रीराम उवाच ।
अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।
शापादीन्संप्रयच्छन्ति यथा ब्रह्मंस्तथा वद ।। ६२
श्रीवसिष्ठ उवाच ।
संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।
तत्तदेवानुभवति यस्मात्तत्रास्ति नेतरत् ।। ६३
ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।
स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ।। ६४
संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।
तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ।। ६५
निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।
दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ।। ६६
संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।
वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ।। ६७
तपस्विनोऽथ वादैश्च यद्ब्रूयुरविलम्बितम् ।
यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ।। ६८
इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।
द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ।। ६९
चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।
तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ।। ७०
यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।
स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ।। ७१
शिलानृतं यथा सत्यं संकल्पनगरे तथा ।
जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ।। ७२
चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।
तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ।। ७३
अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।
स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ।। ७४
सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।
द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ।। ७५
एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।
तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ।। ७६
वाय्वङ्गस्पन्दनवज्जलाङ्गद्रवभाववत् ।
यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गं जगत् ।। ७७
ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।
भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ।। ७८
यथा प्रपाते पयसो विचित्राः कणपङ्कतयः ।
विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ।। ७९
निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।
आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ।। ८०
ताभिः स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।
कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ।। ८१
तदेवं जगदित्यऽस्ति दुर्बोधेन मम त्विदम् ।
अकारणकमद्वैतमजातं कर्म केवलम् ।। ८२
अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयते ।
उपलादौ जडा सत्ता तादृशी परमात्मनः ।। ८३
यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।
तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ।। ८४
सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।
एकस्यामेव निद्रायां सर्गासर्गौ तथा परे ।। ८५
यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।

परमात्मानुभवति तथैतज्जडसंस्थितिम् ।। ८६
अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।
योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ।। ८७
व्योमोपलजलादीनां यथा देहानुभूतयः ।
तथास्माकमचित्तानामद्य नानानुभूतयः ।। ८८
काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।
तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ।। ८९
आलोकरूपमननानुभवैषणेच्छा-
मुक्तात्मनि स्फुरति वारिघने स्वभावात् ।
आवर्तवीचिवलयादि यथा तथायं
शान्ते परे स्फुरति संहृतिसर्गपूगः ।। ९०
इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० ब्रह्मगी० सर्वं खल्विदं ब्रह्मेति प्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः सर्गः ।। १८६ ।।