योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १८१

विकिस्रोतः तः

एकाशीत्यधिकशततमः सर्गः १८१

कुन्ददन्त उवाच ।
आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती ।
मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ।। १
प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले ।
उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ।। २
अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः ।
द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ।। ३
नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः ।
तरत्तरङ्गझांकारगायनानन्दिताध्वगाः ।। ४
स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः ।
स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ।। ३
जङ्गलाद्रिपुरग्रामश्वभ्रानूपस्थलावनीः ।
समुल्लङ्घ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ।। ६
नीतवन्तौ निशामावां कदलीकानने घने ।
तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ।। ७
प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् ।
जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ।। ८
तत्र स प्रकृतं मार्ग परित्यज्य वनान्तरम् ।
प्रविशन्समुवाचेदमकार्यकरणं वचः ।। ९
गच्छावोऽत्राश्रभे गौर्या मुनिमण्डलमण्डिते ।
भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ।। १०
भ्रातरोऽष्टौ वयमिमे जातानेकतया तया ।
एकसंविन्मया जाता एकसंकल्पनिश्चयाः ।। ११
तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः ।
स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ।। १२
तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् ।
षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ।। १३
पुष्पखण्डतरुच्छायासुप्तमुग्धमृगार्भकः ।
पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ।। १४
तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये ।
गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ।। १५
विदुषामपि धीराणामपि तत्त्वविदामपि ।
त्वरते हि मनः पुंसामलंबुद्धिविलोकने ।। १६
तेनेत्युक्ते च तावावां प्राप्तो मुन्याश्रमं च तम् ।
यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ।। १७
न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् ।
न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ।। १८
केवलं शून्यमेवाति तदरण्यमनन्तकम् ।
तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ।। १९
हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ ।
आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ।। २०
स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः ।
तले तस्य समाधाने संस्थितो वृद्धतापसः ।। २१
आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले ।
उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तसे ।। २२
ततश्चिरेण कालेन मयोद्वेगेन चापलात् ।
उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ।। २३
शब्देनोच्चैर्मदीयेन संप्रबुद्धोऽभवन्मुनिः ।
सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ।। २४
कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः ।
केन वाहमिहानीतः कालोऽयं कश्च वर्तते ।। २५
तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् ।
न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम्२६
इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् ।
ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ।। २७
मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः ।
श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ।। २८
यमिमे पश्यथः साधू कदम्बतरुपुत्रकम् ।
मदास्पदमरण्यान्या धम्मिल्लमिव पुष्पितम् ।। २९
केनापि कारणेनास्मिन्सती वागीश्वरी सती ।
अवसद्दशवर्षाणि समस्तर्तुनिषेविता ।। ३०
तदा तेनेह विस्तीर्णमभवद्धनकाननम् ।
गौरीवनमिति ख्यातं भूषितं कुसुमर्तुभिः ।। ३०
भृङ्गाङ्गनाजनमनोहरहारिगीत-
लीलाविलोलकलकण्ठविहंगमङ्ग ।
पुष्पाम्बुवाहशतचन्द्रनभोवितानं
राजीवरेणुकणकीर्णदिगन्तरालम् ।। ३
मन्दारकुन्दमकरन्दसुगन्धिताशं
संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् ।
संतानकस्तवकहासविकासकान्त-
मामोदिमारुतसमस्तलताङ्गनौघम् ।। ३३
पुष्पाकरस्य नगरं नवगीतभृङ्गं
भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् ।
चन्द्रांशुजालपरिकोमलपुष्पदोला-
दोलायमानसुरसिद्धवधूसमूहम् ।। ३४
हारीतहंसशुककोकिलकोककाक-
चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् ।
भेरुण्डकुक्कुटकपिञ्जलहेमचूड-
राढामयूरबककल्पितकेलिरम्यम् ।। ३५
गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट-
पादाजकर्णिककदम्वसरस्वतीकम् ।
वातायनं कनककोमलचम्पकौघ-
ताराम्बराम्बुधरपूरगृहीतगन्धम् ।। ३६
मन्दानिलस्खलितपल्लववालवल्ली-
विन्यासगुप्तदिवसाधिपरश्मिशीतम् ।
पीतं कदम्बकरवीरकनालिकेर-
तालीतमालकुलपुष्पपरागपूरैः ।। ३७
कह्लारकीर्णकुमुदोत्पलपद्मखण्ड-
वल्गच्चकोरबककोककदम्बहंसम् ।
तालीसगुग्गुलकचन्दनपारिभद्र-
भद्रद्रुमोदरविहारिविचित्रशक्ति ।। ३८
तस्मिन्वने चिरमुवास हरार्धदेहा
केनापि कारणवशेन चिराय गौरी ।
भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब-
वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ।।३९

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु तापसोपा० गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ।।१८१ ।।