योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १७८
अष्टसप्तत्यधिकशततमः सर्गः १७८
श्रीराम उवाच ।
पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।
यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ।। १
तानिहाप्रतिघानाहुर्नान्योन्यं वेल्लयन्ति ये ।
तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ।। २
इह सप्रतिघानां तु दृष्टमन्योन्यवेल्लनम् ।
न त्वप्रतिघरूपाणां केषांचिदपि किंचन ।। ३
तत्र संवेदनं नाम यदिदं चन्द्रमण्डले ।
इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ।। ४
अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् ।
वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ।। ५
कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।
प्रवेशनिर्गममयं कथं वा वद मे प्रभो ।। ६
कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।
इमं देहं चालयति भारं भारहरो यथा ।। ७
यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् ।
कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ।। ८
श्रीवसिष्ठ उवाच ।
विकासमथ संकोचमत्र नाली हृदि स्थिता ।
यदा याति तदा प्राणश्छेदैरायाति याति च ।। ९
बाह्योपस्करभस्त्रायां यथाकाशास्पदात्मकः ।
वायुर्यात्यपि चायाति तथात्र स्पन्दनं हृदि ।। १०
श्रीराम उवाच ।
बहिर्भस्त्रामयस्कारः संकोचनविकासनैः ।
योजयत्यान्तरं नाडीं कश्चालयति चालकः ।। ११
शतं कथं भवेदेकं कथमेकं शतं भवेत् ।
कथं स चेतना एते काष्ठलोष्टोपलादयः ।। १२
कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।
वस्तु जङ्गममेवेह स्पन्दि मात्रेव किं वद ।। १३
श्रीवसिष्ठ उवाच ।
अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।
बहिर्भस्त्रामयस्कार इव लोकेऽनुचेष्टनम् ।। १४
श्रीराम उवाच ।
वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।
कथमप्रतिघा संविच्चालयेदिति मे वद ।। १५
संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।
चालयेदचलिष्यत्तद्दूरमम्भो यदिच्छया ।। १६
सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।
वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ।। १७
सप्रतिघाप्रतिघयोः श्लेषो नास्ति बहिर्यथा ।
तथैवान्तरहं मन्ये शेषं कथय मे मुने ।। १८
अन्तः स्वयं योगिना वा यथैतदनुभूयते ।
अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ।। १९
श्रीवसिष्ठ उवाच ।
सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः ।
सर्वैकतानुभूत्यर्थं श्रृणु श्रवणभूषणम् ।। २०
नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।
सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ।। २१
शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।
पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ।। २२
आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।
भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ।। २३
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
महता कारणौघेन बोधमप्रतिघं विदुः ।। २४
अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।
सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ।। २५
तत्रैवमैन्दवाख्यानं श्रृणु श्रवणभूषणम् ।
मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ।। २६
तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।
यथेदं सर्वमन्द्यादि चिदित्येव तु भोत्स्यते ।। २७
कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।
तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ।। २८
दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।
महाशया महात्मानो महतामास्पदं सताम् ।। २९
स तेषां कालवशतः पिताऽन्तर्धिमुपाययौ ।
दशानां भगवान् रुद्र एकादश इव क्षये ।। ३० ।
तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।
अनुरक्ता दिनस्येव संध्या ताराविलोचना ।। ३१
तयोस्ते तनया दुःखकलिता विपिनं गताः ।
कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ।। ३२
धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।
धारणा यन्मयाः सन्तः स्याम सर्वेश्वरा वयम् ।।३३
इति ते तत्र संचिन्त्य बद्धपद्मासना दश ।
इदं संचिन्तयामासुर्निर्विघ्ने कन्दरोदरे ।। ३४
पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।
भवामः पद्मजोपेतं जगद्रूपमविघ्नतः ।। ३५
इति संचिन्त्य सब्रह्मजगद्धारणया चिरम् ।
निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ।। ३६
अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।
आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ।। ३७
शुष्काः कंकालतां याताः क्रव्यादैश्चर्विताङ्गकाः ।
नाशमभ्याययुस्तत्र च्छायाभागा इवातपैः ।। ३८
अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।
इति संपश्यतां तेषां दीर्घकालोऽभ्यवर्तत ।। ३९
तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।
संपन्नानि जगन्त्येव दश देहानि वै पृथक् ।। ४०
इति तेषां चिदिच्छा सा संपन्ना सकलं जगत् ।
अत्यन्तस्वच्छरूपैव स्थिता चाकारवर्जिता ।। ४१
संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।
सर्वं चिदात्मकं विद्धि नौ चेदन्यत्किमुच्यताम् ।। ४२
किल यत्र्त्रिजगज्जालं तेषां किमात्म तत्तथा ।
संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ।। ४३
विद्यते न यथा किंचित्तरङ्गः सलिलादृते ।
संवित्तत्त्वादृते तद्वद्विद्यते चलनादिकम् ।। ४४
ऐन्दवानि यथैतानि चिन्मयानि जगन्ति खे ।
तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ।। ४५
यथैवैन्दवसंकल्पास्ते जगत्त्वमुपागताः ।
तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ।। ४६
तस्मादिहेमे गिरयो वसुधा पादपा घनाः ।
महाभूतानि सर्वं च चिन्मात्रमयमाततम् ।। ४७
चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।
नाचित्क्वचित्संभवति तेष्वैन्दवजगत्स्विव ।। ४८
चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।
स्वशरीरमृदा सर्गः कुतोयं क्रियतेऽनिशम् ।। ४९
संकल्पनिर्मिते सर्गे दृषदश्चेन्न चेतनाः ।
तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ।। ५०
कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।
प्राडवृष्टं कल्पनादीनामन्यैवार्थकुलावताम् ।। ५१
तद्धाम संविदो धाम्नि मणिराशौ मणिर्यथा ।
सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ।। ५२
अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।
स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ।। ५३
यथा प्रवृत्तं चिद्वारि वहत्यावर्ततेऽवनौ ।
स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ।। ५४
पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।
चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ।। ५५
अजातमनिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।
शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ।। ५६
यत्संविन्मयमद्व्यादि संकल्पजगति स्थितम् ।
तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ।। ५७
जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे ।
खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ।। ५८
यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।
तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ।। ५९
यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।
तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ।। ६०
दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।
संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ।। ६१
नेहाकृतिर्न च भवाभवजन्मनाशाः
सत्ता न चैव न च नाम तथास्त्यसत्ता ।
शान्तं परं कचति केवलमात्मनीत्थं
ब्रह्माथवा कचनमप्यलमत्र नास्ति ।। ६२
आद्यन्तवर्जितमलभ्यलताग्रमूल-
निर्माणमूलपरिवेशमशेषमच्छम् ।
अन्तस्थनिर्गगनसर्गकपुत्रकौघं
नित्ये स्थितं ननु घनं गतजन्मनाशम् ।।६३
सन्मात्रमन्तरहिताखिलहस्तजातं
पर्यन्तहीनगणनाङ्गममुक्तरूपम् ।
आत्माम्बरात्मकमहं त्विदमेव सर्वं
सुस्तम्भरूपमजमौनमलं विकल्पैः ।। ६४
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतास्वैन्दवोपाख्यानं नामाष्टसप्तत्यधिकशततमः सर्गः ।। १७८ ।।