योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६९

विकिस्रोतः तः


एकोनसप्तत्यधिकशततमः सर्गः १६९
श्रीवसिष्ठ उवाच ।
न सुखाय सुखं यस्य दुःखं दुःखाय यस्य नो ।
अन्तर्मुखमतेर्नित्यं स मुक्त इति कथ्यते ।। १
यस्य न स्फुरति प्रज्ञा चिद्व्योमन्यचलस्थितेः ।
प्रसृतेष्विव भोगेषु स मुक्त इति कथ्यते ।। २
चिन्मात्रात्मनि विश्रान्तं यस्य चित्तमचञ्चलम् ।
तत्रैव रतिमायातं स जीवन्मुक्त उच्यते ।। ३
परमात्मनि विश्रान्तं यस्य व्यावृत्त्य नो मनः ।
रमतेऽस्मिन्पुनर्दृश्ये स जीवन्मुक्त उच्यते ।। ४
श्रीराम उवाच ।
न सुखाय सुखं यस्य दुःखं दुखाय यस्य नो ।
जडमेव मुने मन्ये मानवं तमचेतनम् ।। ५
श्रीवसिष्ठ उवाच ।
चिद्व्योमैकान्तनिष्ठत्वात्प्रयत्नेन विना सुखम् ।
न वेत्ति शुद्धबोधात्मा यः स विश्रान्त उच्यते ।। ६
सर्व एव परिक्षीणाः संदेहा यस्य वस्तुतः ।
सर्वार्थेषु विवेकेन स विश्रान्तः परे पदे ।। ७
यस्य कस्मिंश्चिदप्यर्थे क्वचिद्रसिकतास्ति नो ।
व्यवहारवतोऽप्यन्तः स विश्रान्त उदाहृतः ।।
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
यथाप्राप्तं विहरतः स विश्रान्त इति स्मृतः ।। ९
अविश्रामे निरालम्बे दीर्घे संसारवर्त्मनि ।
चित्त्वादात्मनि विश्रान्तिः प्राप्ता येन जयत्यसौ ।। १०
धावित्वा ये चिरं कालं प्राप्तविश्रान्तयः स्थिताः ।
ते सुप्ता इव लक्ष्यन्ते व्यवहारपरा अपि ।। ११
ते हि चेत्यचिदाभासनभस्याभान्ति भामयाः ।
भास्करा उदिता नित्यं नेह तिष्ठन्ति ते क्वचित् ।।१२
सदेहा व्यवहारस्था अपि सुप्ता इवोत्तमाः ।
प्रक्षीणा इव लक्ष्यन्ते जडाभा न तु ते जडाः ।। १३
सुप्ता इवेह शय्यासु ये स्वप्ननगरे स्थिताः ।
सुप्ता इति त उच्यन्ते न तु ते जडतां गताः ।। १४
दीर्घाध्वपरिविश्रान्तो विश्रान्तो न ददाति यः ।
वाक्यं स सुखमौनस्थः प्रोच्यते न जडाकृतिः ।। १५
या निशा सर्वभूतानामविद्यास्तमयात्मिका ।
परो बोधः परा शान्तिस्तत्रासौ सममास्थितः ।। १६
यस्मिञ्जाग्रति भूतानि दृश्येऽस्मिन्दुःखदायिनि ।
तत्रासौ सततं सुप्तस्तन्न पश्यत्यसौ सुखी ।। १७
यः कर्मौघमनादृत्य स्वात्मन्येवावतिष्ठते ।
स आत्माराम इत्युक्तो न जडोऽसौ रघूद्वह ।। १८
दुःखादतिगतः सोऽस्मात्प्राप्तः पारं भवाम्बुधेः ।
तिष्ठत्यनुभवन्भव्यो विश्रान्तिसुखमात्मनि ।। १९
दीर्घाध्वनि परिश्रान्तो विषयैश्चतुरैश्चिरम् ।
भोगभावातुरः क्रूरैः प्रोत्थितः पथि डामरैः ।। २०
जरातुषाराशनिभिर्भूयोभूयो जडीकृतः ।
जन्मजङ्गलसारङ्गो व्यर्थव्यग्रविहारवान् ।। २१
परमात्मपरिक्रान्तो दुःखकण्टकसंकटे ।
सुदुष्प्रापसुखच्छाये पान्थः संसारवर्त्मनि ।। २२
दुष्कृतैः कृतपाथेयो लुठन्क्षीणः पदे पदे ।
अर्थानर्थमयैर्मार्गैः संकटैर्विवशीकृतः ।। २३
संसारजलधेः पारं प्राप्य भूतविवर्जितम् ।
अशय्योऽतिप्रमाबुद्धः स शेते सुखमात्मवान् ।। २४
अपसर्पं निरस्तेहमस्वप्नमसुषुप्तकम् ।
प्रबुद्धमबहिर्निद्रं हा शेते सुखमात्मवान् ।। २५
जात्यश्ववदिहाजातिरश्नन्गच्छन्श्वसन्वदन् ।
लोकमध्ये महारण्ये हा शेते सुखमात्मवान् ।। २६
अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।
या न शाम्यति कल्पाभ्ररवैर्नाङ्गविकर्तनैः ।। २७
अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।
प्रबुद्धानामपि हि या निमीलयति दृग्दृशौ ।। २८
अनिमीलितनेत्रस्य यस्य विश्वं प्रलीयते ।
स क्षीवः परमार्थेन हा शेते सुखमात्मवान् ।। २९
विनिगीर्य जगत्सर्वं परमां पूर्णतां गतः ।
आतृप्तेरमृतं पीत्वा हा शेते सुखमात्मवान् ।। ३०
निरानन्दमहानन्दी सुखमद्वैतमक्षयम् ।
निरालोकमहालोको हा शेते सुखमात्मवान् ।। ३१
लोभान्धकारोपरमो लोकलम्पटतां गतः ।
अघनत्वघनाभोगो हा शेते सुखमात्मवान् ।। ३२
अनन्तदुःखमाशान्तमशान्तं जनतास्थितौ ।
अबहिर्मुखमत्योगि हा शेते सुखमात्मवान् ।। ३३
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
कृत्वात्मानं नभःशय्यं हा शेते सुखमात्मवान् ।। ३४
परमाणौ परमाणौ जगत्कोटिशतान्यपि ।
अणौ स्थूले दधद्देहे हा शेते सुखमात्मवान् ।। ३५
कुर्वन्संहारसर्गौघानकुर्वंश्च कथंचन ।
परमालोकशय्यायां हा शेते सुखमात्मवान् ।। ३६
संसारनिचयस्वप्नं परिज्ञाय सुषुप्तताम् ।
नयन्प्रकटदिग्दीर्घां हा शेते सुखमात्मवान् ।। ३७
सर्वेषां जगदर्थानां सत्तासामान्यतां गतः ।
आकाशादधिको व्यापी हा शेतेसुखमात्मवान् ।। ३८
अच्छाच्छमम्बरं कृत्वा जगदप्यम्बरीकृतम् ।
शान्तशब्दपरश्वासं हा शेते सुखमात्मवान् ।। ३९
इदमस्मज्जगत्पश्यन्स्वयमाकाशकोणके ।
विशदाकाशकोशात्मा हा शेते सुखमात्मवान् ।। ४०
यथा प्रवाहसंप्राप्तव्यवहारमनोरमे ।
तृण्यास्तरणविश्रान्तो हा शेते सुखमात्मवान् ।। ४१
परमेण स्वयत्नेन परिज्ञानात्स्वरूपिणा ।
स्वप्नसंदर्शनेनैव जीवन् खमिव खेन खे ।। ४२
ज्ञानेनाकाशकल्पेन धर्मान् गगनसंनिभान् ।
ज्ञेन यत्नेन संबुद्धः परमाम्बरतां गतः ।। ४३
प्रबुद्धः सुप्तः सुप्तोपि प्रबुद्धो रमतेनिशम् ।
सुषुप्तोभूत्ततो जाग्रत्स्वप्नार्थसुहृदा सह ।। ४४
जन्मान्तरैकसहवाससमाशयेन
चित्रानुवृत्तिमधुरेण चिरंतनेन ।
मित्रेण सार्धमखिलानि दिनानि नीत्वा
विश्रान्तिमेष्यति पदे परमे चिरं सः ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० श० विश्रान्तचित्तवर्णनं नामैकोनसप्तत्यधिकशततमः सर्गः ।।१६९।।