योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६५

विकिस्रोतः तः


पञ्चषष्ट्यधिकशततमः सर्गः १६५
श्रीवसिष्ठ उवाच ।
जाग्रत्स्वप्ने स्वप्न एव जाग्रत्त्वमनुगच्छति ।
स्वप्नजाग्रति जाग्रत्तु स्वप्नतामुपगच्छति ।। १
स्वप्नो जाग्रत्प्रविशति जाग्रत्स्वप्नात्प्रबुध्यते ।
जाग्रत्स्वप्नं प्रविशति प्रबुद्धः स्वप्नजाग्रतः ।। २
जाग्रतस्वप्नवता स्वप्नः स्वप्न इत्यभिधीयते ।
स्वप्नजाग्रद्वता जाग्रज्जाग्रदित्यभिधीयते ।। ३
तज्जाग्रज्जाग्रतीवेह न तु स्वप्नः कदाचन ।
स्वप्ने स्वप्नो जाग्रदेव न तु जाग्रत्कदाचन ।। ४
लघुकालात्मकः स्वप्नः सर्वदैव हि जाग्रति ।
लघुकालात्मकं जाग्रत्स्वप्नकाले सदैव च ।। ५
न जाग्रत्स्वप्नयोर्भेदः कश्चनास्ति कदाचन ।
एकस्यावसरोऽन्यत्र द्वयोरपि न सन्मयः ।। ६
मृतिप्रबोधसमये जाग्रत्स्वप्नः प्रशाम्यति ।
स्वप्नानुभवबोधे च शून्य एवातिभास्वरः ।। ७
जीवतः स्वप्नसमये मृतिबोधोदयं विना ।
परलोकात्मकं जाग्रत्किंचनापि न दृश्यते ।। ८
स्थिते जीवितबोधेऽस्मिञ्छून्ये नानामयात्मनि ।
परलोकात्मकः स्वप्नः कश्चनापि न दृश्यते ।। ९
चिच्चमत्कृतिमात्रात्म यथा स्वप्ने जगत्त्रयम् ।
हृदि सर्गात्प्रभृत्येव तथैवाभाति जाग्रति ।। १०
सन्त्येवासत्यभूतानि स्फारापि परमार्थतः ।
नास्त्येवाकारवत्तेयं स्वप्नोर्व्यामिव जाग्रति ।। ११
नानात्मभासुरमपि स्वप्ने शून्यं यथा जगत् ।
तथैव जाग्रत्यखिलं व्योमैवेदं चिदात्मकम् ।। १२
चिद्व्योम्नो हि स्वभावोऽयं यदिदं जगदम्बरे ।

कचतीत्थमिह स्फारमालोक इव तेजसः ।। १३
चितेश्चमत्कृतिरियं जगन्नाम्नी चकास्त्यलम् ।
सहजा गगने कुड्ये परमाणौ स्थले जले ।। १४
भ्रान्तावसत्यरूपायां स्थितायां सत्यवस्तुवत् ।
आकाशमात्रदेहायां क इवैनां प्रति ग्रहः ।। १५
ग्रहीतृग्रहणग्राह्यरूपमाशून्यमेव च ।
सदस्त्वेवासदेवास्तु जगदत्राङ्ग किं ग्रहः ।। १६
इत्थमस्त्विदमथान्यथास्तु वा
मैव भूद्भवतु कोऽत्र संभ्रमः ।
कोऽत्र फल्गुनि फले फलग्रहो
बुद्धमेव तदलं विकल्पनैः ।। १७
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० जाग्रत्स्वप्नैक्योपदेशो नाम पञ्चषष्ट्यधिकशततमः सर्गः ।। १६५ ।।