योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६२

विकिस्रोतः तः


द्विषष्ट्यधिकशततमः सर्गः १६२
श्रीवसिष्ठ उवाच ।
चिद्व्योमार्थतयार्थानां यथास्थितमिदं जगत् ।
सरूपालोकमननमपि चिद्व्योम केवलम् ।। १
स्वप्नचित्पुररूपत्वादन्यद्यस्मान्न विद्यते ।
जगत्तस्मान्नभः शान्तं नेह नानास्ति किंचन ।। २
चिदाभानमनानैव नानेव परिलक्ष्यते ।
अनात्मैवात्मनात्मानं स्वप्नाकाशपुरेष्विव ।। ३
सर्गादाविव चिद्व्योम स्वप्नाकाशपुरं जगत् ।
आभातमेवासत्यं च नूनं सत्यमिव स्थितम् ।। ४
तज्ज्ञाज्ञातो न मूर्खाणामज्ञाज्ञातो न तद्विदाम् ।
विद्यते सर्गशब्दार्थः सत्यासत्यमयात्मकः ।। ५
तज्ज्ञाज्ञयोस्तयोरन्तःप्रतिपत्तौ तु यत्स्थितम् ।
न बोद्धुं न च वक्तुं ते जानीतस्तौ परस्परम् ।। ६
स्वबुद्धौ स्वर्गशब्दार्थो मिथोन्तस्तत्किलानयोः ।
स्थैर्यास्थैर्ये जाग्रतो द्वे अक्षीबक्षीवयोरिव ।। ७
द्रवस्थितिमिता यद्वत्सरिद्वारिणि वीचयः ।
चितौ स्थितिमितास्तद्वच्चेतनात्सर्गवीचयः ।। ८
चिद्रूपं यन्न किंचित्तदिदं किंचिदवस्थितम् ।
भाति दृश्यमिवादृश्यमपि स्वप्नपुरेष्विव ।। ९
चिच्छायेयं प्रकचति जगदित्यभिशब्दिता ।
नन्वमूर्तैव मूर्तेव द्रव्यच्छायेव वै तता ।। १०
कायमात्रकमेवेदं भ्रान्तिमात्रमसन्मयम् ।
पिशाचविभ्रमालोकप्रायमायासनं दृढम् ।। ११
मनोराज्यमिवासत्यं लोलं लम्बाम्बुबिन्दुवत् ।
द्वाभ्यामित्यनुभूतिभ्यां यदसत्तत्र कात्मता ।। १२
विदार्यदारुरववत्तरङ्गानिलशब्दवत् ।
खे शब्दाः पवनस्फोटा भान्त्यर्था वासनोदयाः ।। १३
सर्गादितः स्वपरिभा कचति स्वप्नशैलवत् ।
वस्तुतस्तु न शब्दोस्ति नार्थोऽस्ति न च दृश्यता ।। १४
यदिदं चास्ति चाभाति तत्सर्वं परमार्थसत् ।
अन्यादृक्कारणाभावात्सर्गादावेव नोदितम् ।। १५

निरस्तशब्दभेदार्थमनिरस्ताखिलार्थकम् ।
शाम्यामि परिनिर्वामि व्योमैवास्मीति बुद्ध्यताम् ।।१६
त्यज्यतामात्मविश्रान्त्या शुद्धबोधैकरूपया ।
जीवेऽजवं जवीभावस्त्वसदुत्थित आत्मना ।। १७
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मात्मना न चेत्त्रातस्तदुपायोऽस्ति नेतरः ।। १८
तर तारुण्यमस्तीदं यावत्ते तावदम्बुधेः ।
ननु संसारनाम्नोऽस्माद्बुद्ध्या नावा विशुद्धया ।। १९
अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ।। २०
शैशवं वार्धकं ज्ञेयं तिर्यक्त्वं मृतिरेव च ।
तारुण्यमेव जीवस्य जीवितं तद्विवेकि चेत् ।। २१
संसारमिममासाद्य विद्युतसंपातचञ्चलम् ।
सच्छास्त्रसाधुसंपर्कैः कर्दमात्सारमुद्धरेत् ।। २२
अहो बत नराः क्रूरा गतिः कैषां भविष्यति ।
कुर्वन्ति कर्दमोन्मग्ने नात्मन्यपि निजोदयम् ।। २३
यथा मृन्मयवेतालसभा ग्राम्यस्य भङ्गदा ।
यथा भूतार्थविज्ञानान्मृन्मय्येव न भङ्गदा ।। २४
तथा ब्रह्ममयी दृश्यलक्ष्मीरज्ञस्य भङ्गदा ।
यथा भूतार्थविज्ञाने ब्रह्मैवास्ते न भङ्गदा ।। २५
शाम्यत्यशान्तमेवेदं स्थितमेव विलीयते ।
दृश्यं तत्त्वपरिज्ञानाद्दृश्यमानं न दृश्यते ।। २६
स्फुटानुभवनस्यापि स्वप्नकाले निजे यथा ।
परिज्ञानादसत्यत्वमेव सत्यपदं गता ।। २७
तथानुभूयमानापि सर्गसंवेदनाम्बरे ।

चिन्मये तत्त्वविज्ञानाच्छून्यतैवावशिष्यते ।। २८
जातिज्वरज्वलितजीवितजङ्गलेषु
जीर्णानि वातहरिणाहरणक्रमेण ।
माद्यन्मनःपवनपातयुतान्यमूनि
जित्वेन्द्रियाणि जयमेहि जहीहि जन्म ।।२९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वा० दे० मो० नि० उ० अ० वि० अविद्यानिरसनो नाम द्विषष्ट्यधिकशततमःसर्गः ।।१६२।।