योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६०

विकिस्रोतः तः


षष्ट्यधिकशततमः सर्गः १६०
श्रीवाल्मीकिरुवाच ।
विपश्चिति वदत्येवं तद्वृत्तान्तमवेक्षितुम् ।
इव लोकान्तरं भानुः पादैर्दूरायतैर्ययौ ।। १
उदभूत्पूरयन्नाशा दिनपर्यन्तदुन्दुभिः ।
तुष्टाभिरिव निर्मुक्तो दिग्भिर्जयजयारवः ।। २
विपश्चिते दशरथो गृहदारधनादिकम् ।
राज्यानुरूपं विभवं प्रोत्तस्थौ कल्पयन्क्रमात् ।। ३
राजरामवसिष्ठाद्या मिथः कृत्वा विसर्जनम् ।
यथाक्रमं पूजनं च प्रययुः स्वास्पदानि ते ।। ४
स्नात्वा भुक्त्वा निशां नीत्वा प्रभाते पुनराययुः ।
तेनैव संनिवेशेन सा सभा संस्थिताऽभवत् ।। ५
क्रमान्मुनिरुवाचाथ तां यथाप्रस्तुतां कथाम् ।
शशीवामृतमाह्लादमुद्गिरन्मुखदीप्तिभिः ।। ६
राजन्नेयमविद्येयमसत्येव सती स्थिता ।
नेदृशेनापि यत्नेन निर्णीतैषा विपश्चिता ।। ७
अविद्यैवमविज्ञाता चिरानन्तावभासते ।
परिज्ञाता तु नास्त्येव मृगतृष्णानदी यथा ।। ८
मन्त्रिणस्ते महाबुद्धे भासस्यास्य विपश्चितः ।
इतिवृत्तं त्वमित्यस्य स्वयमेव हि दृष्टवान् ।। ९
सदृशोऽयमितस्त्वाभिः कथाभिर्ज्ञाततत्पदः ।
अविद्यायां प्रशान्तायां जीवन्मुक्तो भविष्यति ।। १०
अविद्येति धृता संविद्ब्रह्मणात्मनि सत्तया ।
तद्भ्रमेणासदप्यस्याः सद्रूपमिव लक्ष्यते ।। ११
यदा ब्रह्मात्मिकैवेयमविद्या नेतरात्मिका ।
तदास्त्येषाऽपरिज्ञाता परिज्ञाता न भिद्यते ।। १२
अविद्यैवमनन्तेयं नानाप्रसवशालिनी ।
जडा हृद्या रसमयी मोहमाधवमञ्जरी ।। १३
अन्तशून्या ग्रन्थिमती श्लक्ष्णा स्वङ्कुरकण्टका ।
जडा रसमयी दीर्घा लतेव वनवैणवी ।। १४
फलाशङ्का मुधैवातिनिष्फला चित्तहारिणी ।
अकालपुष्पमालेव श्रेयसा नाभिनन्दिता ।। १५
न किंचिद्रूपिणी पीना नानाभुवनपूरिणी ।
भूताकुला निरालोका सुदीर्घेव तमोमयी ।। १६
केशोण्ड्रकभ्रान्तिरिव विचित्रग्रन्थिवेष्टना ।
मिथ्यैव दृश्यमाना खेऽदृश्यमाना न किंचन ।। १७
विचित्रवर्णा विगुणा शून्ये च वितताकृतिः ।
जडस्पन्दोत्पातमयी शक्रचापलतेव खे ।। १८
जडकल्लोलबहुला कलुषोल्लासफेनिला ।
चक्रावर्ताक्षयमयी प्रावृषीव तरङ्गिणी ।। १९
अनारतवहच्छून्यजगन्मृगनदीशता ।
रजोराशिमयी रूक्षा शवभूरिव दुर्भगा ।। २०
अन्तं प्राप्नोति न यथा चिरं स्वप्नपुरे चरन् ।
जाग्रदाख्ये स्वप्नपुरे तथैवास्मिंश्चिरं चरन् ।। २१
यानि संकल्पजालानि प्रतिष्ठामागतान्यलम् ।
त्यक्तैकदृश्यजालस्थदेहानां दृढचेतसाम् ।। २२
स्थितानि तानि चिद्व्योम कोशरत्नान्यसंकटम् ।
विमानपुरभूम्यादिरूपेणेत्थं स्थितात्मना ।। २३
तान्येव सिद्धसद्मानि व्योम्नि भान्ति परस्परम् ।
अदृष्टान्यप्यसंख्यानि सूपलब्धान्यसन्त्यपि ।। २४
सुवर्णमणिमाणिक्यमुक्तावनिमयानि च ।
भक्ष्यभोज्यान्नपानाढ्यरसायनसरांसि च ।। २५
मधुमद्यदधिक्षीरघृतकुल्याकुलानि च ।
रसायनमयाकारवनितावलितानि च ।। २६
सर्वर्तुपुष्पफलपल्लवपूरवन्ति
लीलाविलोलललनाकुलितालयानि ।
संकल्पमात्ररचनेन च सर्वकालं
संपन्नसर्वविभवोत्करसंकुलानि ।। २७
सहस्रचन्द्रबिम्बानि शतसूर्याणि कानिचित् ।
सुवर्णामृतवेषाम्बुमयभूतानि कानिचित् ।। २८
स्वेच्छातमःप्रकाशानि नित्यानन्दमयानि च ।
कानिचिन्नीयमानानि तनुतूललघूनि च ।। २९
क्षणोत्पत्तिविनाशानि कानिचित्कलनावशात् ।
अनन्तस्वन्नपानानि निर्जरामरणानि च ।। ३०
विचित्रसंनिवेशानि विचित्रविभवानि च ।
सर्वर्तुगुणरम्याणि सर्वकाममयानि च ।। ३१
तानि संकल्पजालानि किल कल्याणकारतः ।
स्थिराणां मनसां भित्तिः कथमेवं भवेत्तु सा ।। ३२
नान्यत्किंचन नामेह ब्रह्ममात्रमयात्मनि ।
संभवत्यङ्ग तेनैतदुच्यतामस्तु किंमयम् ।। ३३
सर्गादावेव सर्गादि किंचनापीदमस्ति नो ।
कारणाभावतस्तेन जगत्किंमयमस्त्विदम् ।। ३४
संकल्प्यन्ते निरन्तानि किल तानि यथा यथा ।
चितौ तथा तथा भान्ति केवात्र वद चित्रता ।। ३५
इदानीमपि हे साधो त्वमप्यन्येऽपि केऽपि वा ।
तीव्रसंवेगसंकल्पनगराण्येवमेव खे ।। ३६
कुर्वन्त्येकरसाभ्यासाद्यदि नाम यदृच्छया ।
तत्तानीदं वपुस्त्यक्त्वा प्राप्नुवन्त्यचिरेण खे ।। ३७
यस्त्विदं कल्पितं च द्वे वस्तुनी अनुवर्तते ।
स्वर्गादिवदवाप्नोति प्राप्नोत्येवैकमेकधीः ।। ३८
सिद्धाः सदा विभान्त्येवं यथान्तःकल्पनावशात् ।
नरकादीनि दुःखानि तथैवाभान्ति कल्पनात् ।। ३९
यद्यत्संवेद्यते किंचित्तत्तथाप्यनुभूयते ।
सति वाऽसति देहेऽस्मिन्देह एव मनोमयः ।। ४०
जीवस्त्यजति यद्भावे एकां देहमयीं धियम् ।
तद्भावैकमयीमन्यामाशु तत्रैव पश्यति ।। ४१
शुभा संविच्छुभांल्लोकान्संपश्यत्यशुभाऽशुभान् ।
खात्मिका खात्मकानेव चिरं वानुभवत्यपि ।। ४२
शुद्धा सिद्धपुराण्येव पश्यत्यनुभवत्यपि ।
चिदशुद्धानि रूपाणि दुःखानि नरकेष्वति ।। ४३
घूर्णत्पाषाणयमलगिरिचक्रकपेषणम् ।
तत्रान्धकूपपतनं पुनरुद्धारवर्जितम् ।। ४४
दारुणेनातिशीतेन देहं पाषाणतां गतम् ।
भूताङ्गारमयानन्तमरुमार्गास्पदं वपुः ।। ४५
पूताङ्गारमयाम्भोदसरदङ्गारवर्षणम् ।
तप्तनाराचनिकरपरुषासारदारुणम् ।। ४६
वहत्पाषाणचक्रासिसरिदाकाशसंचरम् ।
वक्षोमुक्ताम्बुदाकारकुठाराघातभेदनम् ।। ४७
तप्तायःपरुषाश्लेषच्छमिच्छमितिमज्जनम् ।
वृहत्कटकटाशब्दशस्त्रयन्त्रनिपीडनम् ।। ४८
चक्रवज्रगदाप्रासशूलासिशरवर्षणम् ।
शाल्मलीग्रहणं पाशं कुशक्तिशततोदनम् ।। ४९
तप्तसैकतसंभारपातपातालमज्जनम् ।
दीपच्छन्नानलभयं बृहद्वायसचर्वणम् ।। ५०
निर्निर्गमाकृशाङ्गारमहाङ्गारप्रवेशनम् ।
शरशक्तिगदाप्रासभुशुण्डीचक्रवेधनम् ।। ५१
क्षुत्क्षोभपरुषप्रेतव्रातान्योन्याङ्गचर्वणम् ।
तालोत्तालातिपरुषशिलातलनिपातनम् ।। ५२
रुधिरामेध्यपङ्काङ्कपूयनद्यादिसंकटम् ।
शिलाशस्त्रमयाश्वेभपादपाषाणपेषणम् ।। ५३
श्वभ्राभोलूकलिखितं जनौघमुसलाहतम् ।
शिरःकरखुरस्कन्धखण्डोत्कगृध्रमण्डलम् ।। ५४
एतस्मात्कुकृतादेतत्फलमित्येव भावनात् ।
पश्यत्येवंदेशदृढादविसंवादिविस्तृतः ।। ५५
यन्नाम किंचन कदाचन चेतनं खे
भातं न भातमथवा यदपूर्वमेव ।
तत्कल्पनाद्भवति तन्मयमेव तद्धि
तस्माच्चिरं च चलतीति यदृच्छयैव ।। ५६
इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० अ० वि० श० स्वर्गनरकोपलम्भवर्णनं नाम षष्ट्यधिकशततमः सर्गः ।। १६० ।।