सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १५५

विकिस्रोतः तः


पञ्चपञ्चाशदधिकशततमः सर्गः १५५
अग्निरुवाच ।
इत्याकर्ण्याथ स व्याधस्तदा तस्मिन्वनान्तरे ।
आसीच्चित्रकृताकार इव विस्मयमन्थरः ।। १
न विशश्राम चेतोऽस्य स्वाभ्यासेन विना पदे ।
आसीदुद्भ्रान्त इव स प्रोह्यमान इवार्णवे ।। २
आरूढ इव वा चक्रे चक्रेण तपसा हृतः ।
नक्रेणेव समाक्रान्तः पराक्रमविवर्जितः ।। ३
किमेतत्स्यादुतान्यत्स्यान्निर्वाणमिति संशयात् ।
नाध्यगच्छदसौ शान्तिं मूर्खो यौवनवानिव ।। ४
अविद्याकृतमेवेदं दृश्यमित्येव चिन्तयन् ।
अविद्या जगदित्येषा नायाति निपुणं हृदि ।। ५
कियदन्तमिदं दृश्यं स्यात्पश्याम्येतदादितः ।
दूरतोर्ध्वप्रमाणेन तपोलब्धशरीरकः ।। ६
भावाभावात्मनो नित्यमस्यान्ते स्थीयते सुखम् ।
तस्मादाकाशमप्यस्ति यत्र नो तत्र याम्यहम् ।। ७
इति निर्णीय हृदये मूर्ख एव बभूव सः ।
गतं तादृशमप्युक्तं विनाभ्यासेन भस्मनि ।। ८
ततस्ततः प्रभृत्येव तेनैव मुनिभिः सह ।
लुब्धकत्वं परित्यज्य तपश्चरितुमुद्यतः ।। ९
तस्मिञ्जगति तैर्भावैस्तैः समं निवसन्सदा ।
बहून्यब्दसहस्राणि चकार सुमहत्तपः ।। १०
तपः कुर्वन्कदाचित्स पुनः पप्रच्छ तं मुनिम् ।
कदा स्यादात्मविश्रान्तिर्ममेत्याह मुनिस्ततः ।। ११
मुनिरुवाच ।
ज्ञानं तदुपदिष्टं ते जीर्णदार्वल्पकाग्निवत् ।
संस्थितं हृदये किंतु दाह्यमाक्रम्य नोचितम् ।। १२
नाभ्यासेन विना ज्ञाने शिवे विश्रान्तवानसि ।
अभ्यासेन तु कालेन भृशं विश्रान्तिमेष्यसि ।। १३
भविष्यदिदमात्मीयमथाकर्णय निर्णयम् ।
मम वर्णयतः कर्णभूषणं भूतलाद्भुतम् ।। १४
संस्तुतानवबुद्धात्मा ज्ञानसारतयानया ।
दोलायमानसंवित्त्वं न मूर्खो न च पण्डितः ।। १५
अविद्यारूपमाभोगि किंप्रमाणमिदं जगत् ।
स्यादित्यात्मविकल्पेन तपस्त्वं कर्तुमुद्यतः ।। १६
इत्थं तपस्त्वया घोरं कार्यं युगशतं पृथु ।
परमेष्ठी ततस्तुष्टस्त्वामुपैष्यति सामरः ।। १७
मार्गयिष्यसि तस्य त्वं वरदस्य वरं वर ।
इदमुद्दामदौरात्म्यान्निजं संदेहसंशयम् ।। १८
देवायं दृश्यरूपेऽस्मिन्दृष्टेऽविद्याभ्रमे सति ।
क्वचिदादर्शवन्नास्ति प्रतिबिम्बमलोज्झितः ।। १९
चिद्व्योमदर्पणस्यास्य परमाण्वाकृतेरपि ।
अन्तस्थस्यैव वा यत्र तत्रेदं प्रतिबिम्बति ।। २०
तस्मात्कियदनन्तं स्यादिदं दृश्यमनर्थकृत् ।
तस्य पारे कियद्वा स्यादाकाशं दृश्यमेव तत् ।। २१
एवमर्थमहं ज्ञातुमिमं संप्रार्थये वरम् ।
श्रृणु देवेश्वराविघ्नं तथैवाशु प्रयच्छ मे ।। २२
इयं स्वच्छन्दमृत्युर्मे नीरोगाऽस्तु तनुश्चिरम् ।
गारुडेन च वेगेन संयुता व्योमगामिनी ।। २३
प्रतिनाडीकमेषा तु वृद्धिं गच्छतु योजनम् ।
क्रमेण जगतो बाह्ये भवत्वाकाशरूपिणी ।। २४
साकाशस्यास्य दृश्यस्य लभेय परमेश्वर ।
अन्तमित्थमनन्तस्य परमोऽस्त्विति मे वरः ।। २५
इति साधो त्वया प्रोक्ते देवदेवो वरं प्रभुः ।
एवमस्तु तवेत्युक्त्वा यास्यत्यन्तर्धिमीश्वरः ।। २६
गते तस्मिन्महादेवे देवैः सह दिवस्पतौ ।
तपसा ते कृशो देहश्चन्द्रकान्तिर्भविष्यति ।। २७
मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः ।
प्लुतिमेष्यति स व्योम्नि चित्तस्थार्थदिदृक्षया ।। २८
द्वितीय इव शीतांशुर्द्वितीय इव भास्करः ।
द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः ।। २९
ततो गरुडवेगेन दृश्यस्य नभसस्तथा ।
अन्तं प्राप्तुं वहन्वेगाज्जगतः सरितामिव ।। ३०
जगतोन्ते ततोऽजस्रं ततो वर्धिष्यते वपुः ।
कल्पान्तमत्तार्णववन्निष्पाराम्बरपूरणम् ।। ३१
द्रक्ष्यस्यथ महाव्योन्नि वर्धमानो बृहद्वपुः ।
सर्गान्निरर्गलाधारनिरन्तगगनक्रमात् ।। ३२
परमार्थमहाकाशशून्यतावातचक्रकान् ।
स्वभावद्रवतोद्देशाच्चिदर्णवतरङ्गकान् ।। ३३
संविद्धने यथा स्वप्ने पुराद्या भान्ति खात्मकाः ।
तथा तदा तवैष्यन्ति सर्गवर्गा निरर्गलाः ।। ३४
विस्फुरन्ति महाव्योम्नि पर्णौघाः क्षुभितानिलैः ।
तथा सर्गाननन्तांस्त्वं द्रक्ष्यस्यक्षीणनिश्चयः ।। ३५
सभासत्येक्षणरुचां यथा जालं सदप्यसत् ।
जगदात्म तथाकाशसंविदां खे सदप्यसत् ।। ३६
सर्वोर्वीजनदृष्टानां लग्नानामिन्दुमण्डले ।
यादृग्जालं जगत्तादृक्स्थितेऽनन्यत्वमात्मनः ।। ३७
पुनः सर्गः पुनर्व्योम पुनः सर्गः पुनर्नभः ।
इत्येवं पश्यतस्तेऽत्र दीर्घकालः प्रयास्यति ।। ३८
अथ दीर्घेण कालेन प्रस्फुरन्सर्गपर्णके ।
उद्वेगमेष्यसि व्योम्नि महामहिमनि स्वयम् ।। ३९
उद्वेगमेष्यसि ततस्तपसोऽनुभवत्फलम् ।
निर्देक्ष्यसि तदा देहमनन्ताम्बरपूरकम् ।। ४०
किमिदं कुशरीरं मे भारभूतमिव स्थितम् ।
मेर्वादिभूभृतां लक्षमपि यस्मिंस्तृणायते ।। ४१
देहो ममाप्रमाणोऽयं व्याप्तं व्योम मयाखिलम् ।
पूरयामि खमद्यापि भावि नैवोपगम्यते ।। ४२
अविद्या बत घोरेयमनन्ता च प्रमीयते ।
मीयते न च केनापि ब्रह्मज्ञानं समं विना ।। ४३
तमिमं संत्यजाम्येव देहमाविवृतान्तरम् ।
नानेन किंचिदाप्नोमि साधुसच्छास्त्रसंगमम् ।। ४४
अनन्तापारपर्यन्तं निरालम्बाम्बरास्पदम् ।
किं नामेदं शरीरं मे सुदुष्प्रापार्थसंगमम् ।। ४५
इति संचिन्त्य तं देहं धारणां प्राणरेचनीम् ।
कृत्वा त्यक्ष्यसि संभुक्तात्फलाच्छुष्कं यथा खगः ।। ४६
कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः ।
व्योम्नि स्थास्यति ते तस्मिन्वातात्सूक्ष्मोऽपि वातवत् ।
छिन्नपक्षो महामेरुरिव देहः पतिष्यति ।
तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति ।। ४८
शुष्का भगवती देहं तत्तदा भक्षयिष्यति ।
समातृमण्डला तेन निर्दोषा भूर्भविष्यति ।। ४९
इत्यात्मोदन्तमखिलं श्रुतवानसि सुव्रत ।
तपस्तालीवने कृत्वा यथेच्छसि तथा कुरु ।। ५०
व्याध उवाच ।
अहो नु भगवन्दुःखं परिभोक्तव्यमक्षयम् ।
मया व्यर्थमनर्थाय यदर्थेन दुरर्थितम् ।। ५१
विद्यते किं विभो काचिद्युक्तिः सैषा स्थितिर्वर ।
अन्यथा भवितव्योऽर्थो यदि नास्ति तदुच्यताम् ।। ५२
मुनिरुवाच ।
अवश्यंभवितव्योऽर्थो न कदाचन केनचित् ।
विधातुमन्यथा शक्यस्तन्न क्षरति यत्नतः ।। ५३
वामावामशिरःपादविपर्ययविधौ यथा ।
पुंसो न विद्यते शक्तिस्तथा भाव्यन्यथास्थितौ ।। ५४
ज्योतिःशास्त्रार्थविज्ञानैरिह भाव्यर्थवेदनम् ।
भवत्यन्यदपूर्वं तु न किंचन कदाचन ।। ५५
जयन्ति कर्माणि हि वेदनानि
यैः प्राकृतैरद्यतनान्युपेत्य ।
शरीरदाहैरपि निर्विकारसंविन्नयैर्ब्रह्मतयैव सुप्तम् ।। ५६
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० भाविसंपत्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमः सर्गः ।। १५५ ।।