योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १५२

विकिस्रोतः तः


द्विपञ्चाशदधिकशततमः सर्गः १५२
मुनिरुवाच ।
इत्युक्त्वा स मुनिस्तत्र तूष्णीं स्वशयने निशि ।
आसीद्विस्मयतश्चाहमथाऽऽसं प्रोह्यमानवत् ।। १
ततश्चिरेण कालेन मयोक्तं तस्य सन्मुने ।
एवं स्वप्नो विभो सर्वः सद्रूप इति मे मतिः ।। २
अन्यमुनिरुवाच ।
सत्संभवति यत्रान्यत्तत्रेदं सदिति स्मयः ।
युक्तो यत्र त्वेतदेव सत्ताल्पं तत्र का प्रमा ।। ३
यथा स्वप्नस्तथैवायमादौ सर्गोऽवभासते ।
पृथ्व्यादिरहितोऽप्येष पृथ्व्यादिभिरवस्थितः ।। ४
इत्थमद्यतनात्स्वप्नात्सर्गस्वप्नोऽमलात्मकः ।
श्रृणु पुष्करपत्राक्ष मुने व्याध महागुरो ।। ५
अद्य दृष्टपदार्थाभ्यां स्वप्नं स्वप्नवतोऽभवत् ।
सर्गस्वप्नस्तु दृष्टार्थ एवादौ खे विराजते ।। ६
एवं सत्स्वप्न इत्येव संदिग्धमिव वक्षि किम् ।
स्फुटमप्यनुभूतं सत्स्वप्नध्यानोद्यमः कथम् ।। ७
इदमित्थं यदाभोगि स्फुटं स्वप्नजगन्मुने ।
सदेवानुभवत्येव तत्र संदिग्धता कथम् ।। ८
अथेवंवादिनस्तस्य वाक्यमाक्षिप्तवानहम् ।
पृष्टवान्व्याधगुरुता कासौ मे कथ्यतामिति ।। ९
अन्यमुनिरुवाच ।
श्रूयतामिदमाख्यानमपरं कथयामि ते ।
संक्षेपेण महाप्राज्ञ नास्त्यन्तो विस्तरस्य मे ।। १०
अस्म्यहं तावदादीर्घतपास्त्वमतिधार्मिकः ।
श्रुत्वेदं मद्वचः सत्यमिहैव रतिमेष्यसि ।। ११
इहस्थं मामिमं त्वं च न त्यक्ष्यसि सपर्यया ।
अहं भवद्भिः सहितो निवत्स्यामीति निश्चयः ।। १२
साधो यातेषु वर्षेषु ततः कतिपयेष्विह ।
सर्वबन्धुविनाशस्ते दुर्भिक्षेण भविष्यति ।। १३
मत्तसीमान्तसामन्तविग्रहेण तदैव च ।
सर्वो गृहात्तनुप्राणिर्ग्रामकोऽयं विनङ्क्ष्यति ।। १४
ततो दुःखमजानन्तौ चिरमाश्वसितौ मिथः ।
शान्तौ विदितवेद्यत्समौ सर्वार्थनिस्पृहौ ।। ११
इहैवैकत्र कस्मिंश्चित्तरुखण्डकजालके ।
समाचारौ निवत्स्यावः शून्ये चन्द्ररवी यथा ।। १६
उत्पत्स्यते त्वरण्येऽस्मिन्कालेन वनमुत्तमम् ।
शालताललताजालवलिताखिलभूतलम् ।। १७
तालीतमालदलताण्डवमण्डिताशं
व्याकोशपद्मवनवन्द्यविकासिवृक्षम् ।
कूजच्चकोरचयचारुलतानिकुञ्ज-
मुद्भासि नन्दनमिवागतमन्तरिक्षात् ।। १८
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० मुनिरात्रिसंकथावर्णनं नाम द्विपञ्चाशदधिकशततमः सर्गः ।। १५२ ।।