योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३८

विकिस्रोतः तः


अष्टत्रिंशदधिकशततमः सर्गः १३८
तापस उवाच ।
गन्तुमेवं विचार्याहं ततस्तत्संविदैकताम् ।
प्रवृत्तश्चौत्तमाब्जेन सौरभेणेव सौरभम् ।। १
यावत्तच्चेतनं तस्य तमोजोधातुमत्यजम् ।
प्रवृत्तं बाह्यसंवित्तौ समस्तेन्द्रियसंविदा ।। २
संविदं संविदा गृह्णंस्तान्बाह्येऽन्तरपि क्षणात् ।
अहं प्रसृतवांस्तत्र तैलबिन्दुरिवाम्भसि ।। ३
तत्संविदि तथैवाथ यावत्परिणमाम्यहम् ।
भुवनं दृष्टवांस्तावत्सर्वं द्विगुणितं स्थितम् ।।
दिशो द्विगुणतां यातास्तपतस्तपनावुभौ ।
भूमण्डले द्वे संपन्ने द्वे वै द्यावौ समुत्थिते ।। ५
वदनप्रतिबिम्बे द्वे दर्पणप्रतिबिम्बिते ।
यथा भातस्तथा भाते मिश्रिते ते जगच्चितम् ।। ६
तैलवद्भाति कोशस्थं यच्चेतनतिलद्वये ।
तस्मिञ्जगद्द्वयं तत्तत्तथा भाति विमिश्रितम् ।। ७
संविद्द्वितयकोशस्थे मिश्रिते अप्यमिश्रिते ।
ते उभे जगती भाते समे क्षीरजले यथा ।। ८
निमेषाद्दृष्टमात्रेण सा तत्संविन्मया ततः ।
सकलैवात्मतां नीता परिमित्येव संविदा ।। ९
ऋतुर्ऋत्वन्तरेणेव सरितेवाल्पिका सरित् ।
वातेनामोदलेखेव धूमलेखेव वार्मुचा ।। १०
एकत्वेनाशु संवित्तेर्ययौ मे जगदेकताम् ।
दुर्दृष्टेर्द्विवपुश्चन्द्रः सुदृष्टेरेकतामिव ।। ११
ततो मे तच्चितिस्थस्य स्वं विवेकमनुज्झतः ।
अल्पीभूतः स्वसंकल्पस्तत्संकल्पस्थितिं गतः ।। १२
तच्चित्तवृत्त्यैव ततो बाह्यमालोकयंस्ततः ।
अभुञ्जि तद्दिनाचारं तत्तद्धृदयमत्यजन् ।। १३
ततो यदृच्छयैवासौ शनैर्निद्राकुलोऽभवत् ।
पद्मः सायमिवापीय पयो भुक्त्वान्नमुच्छ्रमः ।। १४
प्रसृतं दिग्निकुञ्जेषु रूपालोकक्रियाकरम् ।
संजहार बहिश्चित्तं सायमर्को रुचिं यथा ।। १५
सह चित्तेन तास्तस्य समस्तेन्द्रियवृत्तयः ।
हृत्कोशमविशञ्छन्नाः कूर्मस्येवाङ्गसंधयः ।। १६
मुद्रिता हृदयाकारास्त आसंश्चक्षुरादयः ।
लोष्टरूपा मृतावेव लिपिकर्मार्पिता इव ।। १७
अहं तच्चित्तवृत्त्यैव सहसोन्नम्य तत्स्थितः ।
तच्चित्तानुविधायित्वात्तत्तद्धृदयमाविशम् ।। १८
संहृत्य बाह्यानुभवमन्तरेव तदोजसि ।
क्षणमन्वभवं शून्यं सुषुप्तं तल्पकोमले ।। १९
क्लमान्नपानबहुलैर्निबिडास्वपि नाडिषु ।
सुषिरास्वेव वा वायुर्न निर्यात्येव याति च ।। २०
यदा तदात्मकात्मैकपरो हृदि सहस्थितम् ।
अप्रधानीकरोत्येतच्चित्तं स्वार्थस्वभावतः ।। २१
स्वार्थमात्रोऽद्य तस्यान्तः परकृत्यं न कस्यचित् ।
कचति स्वार्थसत्तायामेतदेव वपुर्यतः ।। २२
श्रीराम उवाच ।
मनः प्राणवशादेव मनुते किं महामुने ।
स्वरूपं मनसो नास्ति तस्मात्तत्केवलं च किम् ।। २३
श्रीवसिष्ठ उवाच ।
देह एवेह नास्त्येव स्वानुभूतोऽप्ययं निजः ।
मनसः कल्पनात्मेदं वपुः स्वप्ने गिरिर्यथा ।। २४
तच्चित्तमपि नास्त्येव चेत्यार्थाभावयोगतः ।
सर्गादौ कारणाभावाद्दृश्यानुत्पत्तिहेतुतः ।। २५
अतः सर्वमिदं ब्रह्म तच्च सर्वात्मकं यदा ।
तदा विश्वमिदं विष्वगस्त्येव च यथास्थितम् ।। २६
अस्ति चित्तादि देहादि तद्ब्रह्मैव च तद्विदाम् ।
यादृक्तत्तद्विदामेतदस्माकं विषये न तत् ।। २७
यथेदं त्रिजगद्ब्रह्म यथेति विविधात्मकम् ।
अत्रेमं राजपुत्र त्वं वर्ण्यमानं क्रमं श्रृणु ।। २८
अस्ति चिन्मात्रममलमनन्ताकाशरूपि यत् ।
सर्वदा सर्वरूपात्म न जगन्न च दृश्यता ।। २९
सर्ववित्त्वात्तु तेनेदं मनस्त्वं चेतितं स्वतः ।
रूपमत्यजता शुद्धं बुद्धमाधिविवर्जितम् ।। ३०
मनसा कल्पितं तेन यद्वै सरणमात्मनः ।
तदेतत्प्राणपवनं विद्धि वेद्यविदां वर ।। ३१
प्राणतैषा यथा तेन कल्पितेवानुभूयते ।
तथैवेन्द्रियदेहादि दिक्कालकलनादि च ।। ३२
इति विश्वमिदं विष्वक् चित्तमात्रमखण्डितम् ।
चित्तं तु चित्परं ब्रह्म तस्माद्ब्रह्मेदमाततम् ।। ३३
अनाकारमनाद्यन्तमनाभासमनामयम् ।
शान्तं चिन्मात्रसन्मात्रं ब्रह्मैवेदं जगद्वपुः ।। ३४
सर्वशक्ति परं ब्रह्म मनःशक्त्या यथा स्थितम् ।
यत्र तत्र तथा रूपं स्वमेवानुभवत्यलम् ।। ३५
संकल्पात्म मनो ब्रह्म संकल्पयति यद्यथा ।
तत्तथैवानुभवति सिद्धमाबालमीदृशम् ।। ३६
प्राणीकृतः स्वयमयं ननु चेतसात्मा
देहीकृतस्त्रिभुवनीकृत एव नाद्यः ।
देहीकृतः खवपुरेव गिरीकृतश्च
स्वप्नेषु कल्पितपुरीष्वनुभूतमेतत् ।। ३७
इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० चित्तसर्वात्मकताप्रतिपादनं नामाष्टत्रिंशदधिकशततमः सर्गः ।। १३८ ।।