योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३७

विकिस्रोतः तः
Jump to navigation Jump to search


सप्तत्रिंशदधिकशततमः सर्गः १३७
व्याध उवाच ।
एवं चेत्तन्मुने ब्रूहि कीदृग्दुःखपरिक्षये ।
न कर्कशो न च मृदुर्व्यवहारक्रमो भवेत् ।। १
मुनिरुवाच ।
इदानीमेव संत्यज्य धनुषा सह सायकान् ।
मौनमाचारमाश्रित्य शान्तदुःखमिहोष्यताम् ।। २
श्रीवसिष्ठ उवाच ।
इति संबोधितस्तेन परित्यज्य धनुःशरान् ।
आसीन्मुनिसमाचारस्तत्रैवायाचिताशनः ।। ३
विवेश मनसा मौनी ततः शास्त्रविवेकिताम् ।
दिनैरेव यथा पुष्पमामोदेन नराशयम् ।। ४
अपृच्छन्मुनिशार्दूलं कदाचित्तमरिन्दम ।
भगवन्दृश्यते स्वप्नः कथमन्तर्बहिः स्थितः ।। ५
मुनिरुवाच । ।
ममापि साधो प्रथममेष एव विवेकिनः । ।
पुरा चित्ते वितर्कोऽभूत्कुतोऽप्यभ्रमिवाम्बरे ।। ६
तत एतद्दिदृक्षार्थमहमभ्यस्तधारणः ।
बद्धपद्मासनस्तस्यां संविद्येवाभवं स्थिरः ।। ७
तत्रस्थो दूरविक्षिप्तं तयैवाहृतवानहम् ।
चेतः स्वहृदयं सायं रुचेव रविरातपम् ।। ८
वेदनेरणया प्राणस्ततश्चित्तान्वितो मया ।
शरीराद्रेचितो बाह्ये सौरभं कुसुमादिव ।। ९
व्योमस्थचित्तवलितः स प्राणपवनो मया ।
अग्रस्थस्य मुखाग्रस्थे जन्तोः प्राणे नियोजितः ।। १०
यः प्राणवलितः प्राणस्तेन नीतो हृदन्तरम् ।
स्वेहया स्वं स्वकः सर्पः करभेणेव हिंसितः ।। ११
ततोऽहं हृदयं तस्य प्रविष्टः प्राणवाजिना ।
संकटस्थः स्वया बुद्ध्या तावेबानुसरोन्तरम् ।। १२
चरद्रसाभिर्बह्वीभिर्नाडीभिरभितो वृतम् ।
कुल्याभिः स्थूलतन्वीभिर्बाह्यदेशमिवाखिलम् ।।१३
पर्शुकापञ्जरप्लीहयकृद्रक्तादिडिम्बकैः ।
संकटं जीवसदनं भाण्डोपस्करणैरिव ।। १४
सर्वैः शलशलायद्भिरुष्णैरवयवैर्वृतम् ।
निदाघतापसंतप्तैरूर्मिजालैरिवार्णवम् ।। १५
नवं नवं बहिःशैत्यं नासाग्राच्चेतनात्मकम् ।
जीवनायानिशं चेतो वातोन्नीतमनारतम् ।। १६
रक्तकुट्टरसश्लेष्मवसानिःस्रावपिच्छिलम् ।
घनान्धकारमुष्णं च संकटं नरकोपमम् ।। १७
उदयावयवाश्लेषस्पष्टास्पष्टमरुद्रतैः ।
स्थित्यन्तानां तु वैषम्यादागामिगदसूचकम् ।। १८
दरत्सरभसच्छिद्रावातवातेन शब्दितम् ।
पद्मनालप्रणालान्तर्ज्वलदर्णववाडवम् ।। १९
मिलत्पदार्थनीरन्ध्रं सितमच्छं सवायुभिः ।
क्वचित्सौम्यं क्वचित्क्षुब्धं चोरैरिव पुरं निशि ।। २०
रसनादपरैर्नाडीमार्गविद्याधराध्वगैः ।
संचरद्भिर्वृतं वातैराकारार्धार्धगीतिभिः ।। २१
तदहं हृदयं जन्तोराविशं विषमान्तरम् ।
नरोऽवयवसंबाधं नरवृन्दमिवाधिकः ।। २२
अनन्तरमहं प्राप्तस्तेजोधातुं हृदन्तरे ।
दूरस्थमिव यत्नेन रात्राविन्दुमिवार्करुक् ।। २३
यस्मात्त्रिभुवनादर्शो दीपस्त्रैलोक्यवस्तुषु ।
सत्ता सर्वपदार्थानां जीवस्तत्रावतिष्ठते ।। २४
काये सर्वगतो जीवः स्वामोदः कुसुमे यथा ।
तथाप्योजसि किञ्जल्कैर्मुखे शैत्यं विवस्वता ।। २५
तज्जीवाधारमोजस्तु प्रविष्टोऽहमलक्षितम् ।
रक्षितं परितः प्राणैर्वातैः प्रच्छादनं यथा ।। २६
ततोऽञ्जः संप्रविष्टोऽहमामोद इव मारुतम् ।
उष्णांशुरिव शीतांशुं मृत्पात्रमिव वा पयः ।। २७
द्वितीयेन्द्वंशुसंकाशे शुक्लाभ्रलवपेलवे ।
नवनीतगुडप्रख्ये क्षीरबुद्बुदसुन्दरे ।। २८
तत्र पश्याम्यहं तिष्ठन्प्रवेशव्यग्रयोज्झितः ।
स्वौजसीव वसन्स्वप्न इव विश्वमखण्डितम् ।। २९
सार्कं सपर्वतं साब्धि ससुरासुरमानवम् ।
सपत्तनवनाभोगं सलोकान्तरदिङ्मुखम् ।। ३०
सद्वीपसागराम्भोधि सकालकरणक्रमम् ।
सकल्पक्षणसर्वर्तु सहस्थावरजंगमम् ।। ३१
तत्स्वप्नदर्शनं तत्र स्थिरमेव समं स्थितम् ।
वसाम्यत्येव निद्रान्ते निद्राऽन्ते नागता यतः ।। ३२
अनिद्र एव किं स्वप्नं पश्यामीति मया ततः ।
परिचिन्तयता ज्ञातमिदं व्याध विबोधिना ।।
ननु नामास्य चिद्धातोः स्वरूपमिदमैश्वरम् ।
स्वं यद्व्यपदिशत्येष जगन्नाम्नाम्बरात्मकम् ।। ३४
चिद्धातुर्यत्र यत्रास्ते तत्र तत्र निजं वपुः ।
पश्यत्येष जगद्रूपं व्योमतामेव चात्यजत् ।। ३५
अहो त्वद्येदमाज्ञातं यदित्थं दृश्यते जगत् ।
तत्कथ्यते स्वप्न इति स्वचित्कचनमात्रकम् ।। ३६
चिद्धातोर्यत्स्वकचनं तत्किंचित्स्वप्न उच्यते ।
किंचिच्च जाग्रदित्युक्तं जाग्रत्स्वप्नौ तु न द्विधा ।। ३७
स्वप्नः स्वप्नो जागरायामेष स्वप्ने तु जागरा ।
स्वप्नस्तु जागरैवेति जागरैव स्थिता द्विधा ।। ३८
चेतनं नाम पुरुषः स मृतेषु शतेष्वपि ।
शरीरेषु महाबुद्धे कथं कस्य कदा मृतः ।। ३९
तच्चेतनं खमेवास्ति स्थितं तद्देहवत्कचत् ।
अनन्तमविभागात्म प्रतिघाप्रतिघात्मकम् ।। ४०
स्वभावस्याप्रतिघस्य नित्यानन्तोदितात्मनः ।
परमाणोश्चिदाख्यस्य मज्जा जगदिति स्मृतः ।। ४१
चिद्व्योम्न उदरे भान्ति समस्तानुभवाणवः ।
तथा यथावयविनो विचित्रावयवाणवः ।। ४२
निवृत्तो बाह्यतो जीवो जीवाधारे हृदि स्थितः ।
रूपं स्वं स्वप्नसर्गोऽयमिति वेत्ति चिदाकचान् ।। ४३
बाह्योन्मुखं बहिर्जाग्रच्छब्दितं कचितं स्वकम् ।
रूपं पश्यति जीवोऽयमन्तस्थं स्वप्न इत्यपि ।। ४४
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
प्रसृतो जीव इत्यन्तर्बहिश्चैकात्मकः स्थितः ।। ४५
अर्कोऽर्कबिम्बसंस्थोऽपि यथेहापि स्थितस्त्विषा ।
तथा जीवो जगद्रूपो बहिरन्तश्च संस्थितः ।। ४६
अन्तःस्वप्नो बहिर्जाग्रदहमेवेति वेत्ति चेत् ।
चिदात्मको यथाभूतं मुच्यते तदवासनः ।। ४७
अच्छेद्योऽयमदाह्योऽयमपि जीवोऽन्यथा वदन् ।
द्वैतसंकल्पयक्षेण मुह्यत्येव शिशुर्यथा ।। ४८
अन्तर्मुखोऽन्तरात्मानं बहिः पश्यन्बहिर्मुखः ।
आस्ते जीवो जगद्रूपं यत्स्वन्ते स्वप्नजाग्रती ।। ४९
इति चिन्तयतः किं स्यात्सुषुप्तमिति मे मतिः ।
जाता तेन सुषुप्तांशमन्वेष्टुमहमुद्यतः ।। ५०
यावत्किं दृश्यदृष्ट्यान्तस्तूष्णीं तिष्ठाम्यहं चिरम् ।
निश्चित्त इति संवित्तिः शमा नान्यत्सुषुप्तकम् ।। ५१
नखकेशादि देहेऽस्मिन्विदिताविदितं यथा ।
न जडं च जडं चैव सुषुप्तं चेतनात्मनि ।। ५२
संवित्त्या किं श्रमार्तोऽस्मि शान्तमासेवि मानसम् ।
इत्येकपरिणामत्वान्नान्यदस्ति सुषुप्तकम् ।। ५३
एतन्निद्राघनं जाग्रत्यपि संभवति स्वतः ।
न किंचिच्चिन्तयाम्यासे शान्त इत्येकरूपकम् ।। ५४
एषावस्था यदा याति घनता मुच्यते तदा ।
निद्राशब्देन तन्वी तु स्वशब्देन कथ्यते ।। ५५
सुषुप्तमिति निश्चित्य तुरीयान्वेषणामहम् ।

प्रवृत्तः कर्तुमुद्युक्तो युक्तः परमया धिया ।। ५६
यावद्रूपं तुरीयस्य किंचनापि न लभ्यते ।
सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा ।। ५७
यथास्थितमिदं विश्वं सम्यग्बोधाद्विलीयते ।
यथास्थितं च भवति न च किंचिद्विलीयते ।। ५८
अतः स्वप्नो जागरा च सुषुप्तं च तुरीयके ।
सयथास्थितमस्तीदं नूनं नास्ति च किंचन ।। ५९
कारणाज्जगदुत्पन्नं न ब्रह्मेत्थमवस्थितम् ।
जगत्तया शान्तमजं बोध इत्येव तुर्यता ।। ६०
असंभवात्संभवकारणानां
न जायते किंचन नाम सर्गः ।
चिच्चेतनेनैव हि सर्गसंवित्
स्वयं गृहीता द्रवताम्बुनेव ।। ६१
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० वि० जाग्रत्स्वप्नसुषुप्ततुरीयवर्णनं नाम सप्तत्रिंशदधिकशततमः सर्गः ।। १३७ ।।