योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३६

विकिस्रोतः तः


षट्त्रिंशदधिकशततमः सर्गः १३६
भास उवाच ।
अथाहं तं महादेवं पावकं पृष्टवानिदम् ।
शुकपक्षतिकोणस्थः भूयतामवनीश्वर ।। १
भगवन्सर्वयज्ञेश स्वाहाधिप हुताशन ।
किमिदं नाम संपन्नं कथ्यतां किमिदं शवम् ।। २
वह्निरुवाच ।
श्रूयतामखिलं राजन्यथावद्वर्णयामि ते ।
त्रैलोक्यभासुरानन्तशववृत्तान्तमक्षतम् ।। ३
अस्त्यनन्तमनाकारं परमं व्योम चिन्मयम् ।
यत्रेमान्यपसंख्यानि जगन्ति परमाणवः ।। ४
शुद्धचिन्मात्रनभसि तस्मिन्सर्वगते क्वचित् ।
सर्वात्मन्युदभूत्संवित्संवेदनमयी स्वयम् ।। ५
सा तेजःपरमाणुत्वमपश्यद्वेदनावशात् ।
भावितार्थात्मकतया स्वप्ने त्वमिव पान्थताम् ।। ६
परमाणुरसंवित्त्वादपश्यदणुतां स्वयम् ।
भास्वतीं पद्मजरजस्तुल्यां संकल्पनात्मिकाम् ।। ७
सोच्छूनतां भावयन्ती पुनरप्यभवत्स्वयम् ।
चक्षुरादीनीन्द्रियाणि वपुष्यन्वभवत्स्वतः ।। ८
अपश्यदग्रे च जगच्चक्षुरादि स्वभावतः ।
आधाराधेयवद्भूतमयं स्वप्नपुरं यथा ।। ९
असुरो नाम तत्रासीत्प्राणी मानी बभूव ह ।
असत्यप्रतिभासात्म पितृमातृपितामहः ।। १०
दर्पोत्सिक्ततया तत्र कस्यचित्स महामुनेः ।
यदा मृदितवानासीदाश्रमं शर्मभाजनम् ।। ११
मुनिः शापमदात्तस्य महाकारतयाश्रमः ।
त्वया यन्नाशितो मृत्वा भव त्वं मशकोऽधमः ।। १२
स तच्छापहुताशोऽथ तस्मिन्नेव तदा क्षणे ।
असुरं भस्मसाच्चक्रे जलमौर्व इवानलः ।। १३
निराकारं निराधारमाकाशवलयोपमम् ।
चित्तं किंचिदिवाचेत्यमासीच्चेतनमासुरम् ।। १४
तदेकत्वं ययौ साम्याद्भूताकाशेन चेतनम् ।
तदास्पदेन तत्राथ वायुना चैकतां ययौ ।। १५
आसीच्चेतनवातात्माऽभविष्यत्प्राणिनामकः ।
रजसा पयसा व्याप्तस्तेजसा नभसाणुना ।। १६
स पञ्चतन्मात्रमयश्चिन्मात्रलवकोऽणुकः ।
स्पन्दमाप स्वभावेन व्योम्नि वातलवो यथा ।। १७
अथ तस्यानिलान्तस्थं चेतनं तद्व्यबुध्यत ।
कालानिलजलैर्भूमौ बीजमङ्कुरकृद्यथा ।। १८
शुद्धशापविदन्तस्था मशकत्वविदास्य चित् ।
वेधिता मशकाङ्गानि विदित्वा मशकोऽभवत् ।। १९
स्वेदजस्याल्पदेहस्य निःश्वासनिपतत्तनोः ।
द्वे तस्य मशकस्येह दिने भवति जीवितम् ।। २०
श्रीराम उवाच ।
प्राणिनामिह सर्वेषां योन्यन्तरज एव किम् ।
समुद्भवः संभवति किमुतान्योऽपि वा प्रभो ।। २१
श्रीवसिष्ठ उवाच ।
ब्रह्मादीनां तृणान्तानां द्विधा भवति संभवः ।
एको ब्रह्ममयोऽन्यस्तु भ्रान्तिजस्ताविमौ श्रृणु ।। २२
पूर्वरूढजगद्भ्रान्तिभूततन्मात्ररञ्जनात् ।
भूतानां संभवः प्रोक्तो भ्रान्तिजो दृश्यसङ्गतः ।। २३
अभातायां जगद्भ्रान्तौ भूतभावः स्वयं भवन् ।
यः स ब्रह्ममयः प्रोक्तः संभवो न स योनिजः ।। २४
एवं स्थिते स मशको जगद्भ्रान्तिवशोत्थितः ।
न तु ब्रह्मोत्थितस्तस्य राम चेष्टाक्रमं श्रृणु ।। २५
क्षमेक्षुशष्पकक्षादिपुञ्जगुञ्जेषु गुञ्जता ।
स्वायुषोऽर्धं दिनं तेन सर्वं भुक्तं विवल्गता ।। २६
शाद्वलोदरदोलायां दोलनं बाललीलया ।
चिरमारब्धमेतेन सार्धं मशिकया स्वयम् ।। २७
दोलाश्रमार्तस्तत्रासौ यावद्विश्राम्यति क्वचित् ।
तावद्धरिणपादाग्रगिरिपातेन चूर्णितः ।। २८
हरिणाननसंदर्शत्यक्तप्राणतया तया ।
पूर्वक्रमगृहीताक्षः स जातो हरिणस्ततः ।। २९
विहरन्हरिणोऽरण्ये व्याधेन धनुषा हतः ।
व्याधाननगदृष्टित्वात्संजातो व्याध एव सः ।। ३०
व्याधो वनेषु विहरन्संयातो मुनिकाननम् ।
तत्र विश्रान्तवान्सङ्गान्मुनिना प्रतिबोधितः ।। ३१
भ्रान्तः किमिदमादीर्घदुःखाय धनुषा मृगान् ।
हंसि पासि न कस्मात्त्वं तन्त्रं जगति भङ्गुरे ।। ३२
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चलाः ।
लोला यौवनलालना जलरयः कायः क्षणापायवा-
न्पुत्र त्रासमुपेत्य संसृतिवशान्निर्वाणमन्विष्यतां ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अ० वि० श० मशकव्याधबोधनं नाम षट्त्रिशदधिकशततमः सर्गः ।। १३६ ।।