योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३४

विकिस्रोतः तः


चतुस्त्रिंशाधिकशततमः सर्गः १३४
विपश्चिदुवाच ।
एतस्मिन्नन्तरे व्योम्नः स पतन्पुरुषो मया ।
स्थमिताखिलभूपीठः शवरूपो विलोकितः ।। १
स यावदुदराभिख्यो देहभागोऽस्य येन भूः ।
सप्तद्वीपापि पिहिताऽमातुः शैलोपमो महान् ।। २
वह्निनोक्तमनन्तं तत्तद्भुजोरुशिरश्च मे ।
लोकालोकात्परं पारं प्राप्तं ह्यविषये नृणाम् ।। ३
व्योमवासिचये देवीमथ स्तुवति सादरम् ।
व्योम्नः प्रकटतामागाच्छुष्का नु भवति स्वयम् ।। ४
प्रेतवृन्दैरनुगता मातृमण्डललालिता ।
कुम्भाण्डयक्षवेतालजालतारकिताम्बरा ।। ५
शिरालदीर्घदोर्दण्डवनीकृतनभस्तला ।
किरन्ती कीर्णदिग्दाहैर्दृष्टिपातैर्दिवाकरान् ।। ६
स्फुरन्नानायुधाकारकचज्झणझणध्वनि ।
शतखण्डं खगानीकं कुर्वाणा व्योमकोटरे ।। ७
देहज्वालेक्षणोष्माढ्यैः शरीरावयवैस्त्विषः ।
दीर्घवेणुवनाकाराः किरन्ती कोटियोजनाः ।। ८
दन्तकान्तीन्दुविद्योतदुग्धस्नपितदिङ्मुखा ।
कृशातिदीर्घविस्तीर्णशरीरापूरिताम्बरा ।। ९
निरालम्बास्पदा सांध्या विततेवाभ्रमालिका ।
प्रेतासनसमारूढा सुरूढा परमे पदे ।। १०
स्फुरन्ती प्रज्वलद्रूपा संध्या जलधरारुणा ।
दधाना गगनाम्भोधौ वाडवज्वलनश्रियम् ।। ११
शवैः शवाङ्गैर्मुसलैः प्रासतोमरमुद्गरैः ।
वृसिकोलूखलहलैः किरन्ती चञ्चला स्रजः ।। १२
प्रजां कटकटाटोपैर्वहन्ती गगनाङ्गणे ।
दृषदां घर्घरारावैः प्रावृङ्गिरिरिवाचले ।। १३
देवा ऊचुरयं देवि उपहारीकृतोऽम्बिके ।
सार्धं स्वपरिवारेण शीघ्रमाह्रियतामिति ।। १४
वदत्येवं सुरानीके तं शवं प्राणवायुना ।
देवी प्रववृते रक्तसारमाक्रष्टुमञ्जसा ।। १५
प्राणेनाकृष्यमाणं तद्रक्तं भगवतीमुखे ।
अविशत्सांध्यमेघौघ इव मेरोर्गुहान्तरम् ।। १६
तावद्रक्तं तया पीतं प्राणाकृष्टं नभःस्थया ।
यावच्छुष्का सती तृप्ता पीना सा चंडिका स्थिता ।।१७
ततो बभूव सा रक्तपरिपीनशरीरिणी ।
रक्ता वर्षाभ्रमालेव तडित्तरललोचना ।। १८
लम्बोदरा भगवती विषमाहिविभूषणा ।
रक्तासवमदक्षीबा समस्तायुधधारिणी ।। १९
व्योम्नि नर्तनमारेभे स्वशरीरार्धपूरिते ।
पर्यन्तगिरिमालाग्रस्थितामरनिरीक्षिता ।। २०
ततः पिशाचकुम्भाण्डरूपिकादिमहागणाः ।
शवमावारयांचक्रुर्महाचलमिवाऽम्बुदाः ।। २१
शवशैलो गृहीतोऽसौ कुम्भाण्डैः कटिभागतः ।
उदराद्रूपिकावृन्दैर्यक्षैः कुञ्जरविक्षतैः ।। २२
भुजोरुकन्धराद्यास्ते तस्यान्येऽवयवा यतः ।
ब्रह्माण्डस्य परं पारं प्राप्ताः परमविस्तृताः ।। २३
ततस्तैर्भूतसंघातैः स्थिता दूरे दिगन्तरे ।
न प्राप्ता वै हि तत्रैव कालेन कलिताः स्वयम् ।। २४
नृत्यन्त्यां चण्डिकायां खे भूतवृन्दे शवाकुले ।
देवेष्वद्रिषु तिष्ठत्सु बभूव भुवनं तदा ।। २५
पिण्डाहार्यामदुर्गन्धिगुण्ठीकृतककुब्गणम् ।
रक्तगर्भाभ्रनिर्व्यूहैः खादिरज्वलनोज्ज्वलम् ।। २६
मांसचर्वणसंरम्भप्रोद्यच्छवशवस्वनम् ।
लतास्थिखण्डनोड्डीनबृहत्कटकटारवम् ।। २७
भूतसंघट्टविश्लेषवशाद्भीषणनिःस्वनम् ।
हिमवद्विन्ध्यशैलाद्रिप्रमाणास्थ्यचलावृतम् ।। २८
देवीमुखानलज्वालापक्वमांसाक्तभूतलम् ।
रक्तसीकरनीहारसिन्दूरितककुब्गणम् ।। २९
सर्वतः प्रेक्षकैर्देवैः सप्राकारदिगन्तरम् ।
रुधिरैकार्णवीभूतसप्तद्वीपवसुन्धरम् ।। ३०
अत्यन्तान्तर्हिताशेषसमस्ताचलमण्डलम् ।
रक्तप्रभाभ्रसंभारवस्त्रावृतदिगङ्गनम् ।। ३१
वृत्तालोलभुजभ्रान्तहेतिच्छन्ननभस्तलम् ।
दूरस्मृतिपथप्राप्तपुरपत्तनमण्डलम् ।। ३२
अत्यन्तासंभवद्रूपसर्वस्थावरजंगमम् ।
संपन्नानन्तकुम्भाण्डरूपिकाद्येकसंगमम् ।। ३३
नृत्तलोककराकारखगावलनजालकैः ।
मानसूत्रैरिव विधेरन्यद्रचयतो जगत् ।। ३४
भूमेरार्कगतं नीतैः पिशाचैरान्त्रतन्तुभिः ।
मिमानमिव दिक्कुञ्जैस्तिर्यगूर्ध्वमधो जगत् ।। ३५
जगदालोक्य तत्तादृगुदक्तोपप्लवाप्लुतम् ।
भूतपूर्वमहीपीठस्थितिरक्तार्णवीकृतम् ।। ३६
द्वीपसप्तकपर्यन्ते लोकालोकाद्रिमूर्धनि ।
तदङ्गकैरनाक्रान्ते स्थिताः खिन्नतराः सुराः ।। ३७
श्रीराम उवाच ।
ब्रह्माण्डादपि निर्गत्य यस्य तेऽवयवा गताः ।
लोकालोकाचलस्तेन ब्रह्मन्न स्थगितः कथम् ।। ३८
श्रीवसिष्ठ उवाच ।
द्वीपसप्तकमध्येऽस्मिन्राम तस्योदरं स्थितम् ।
शिरःखुरभुजाद्यङ्गं ब्रह्माण्डात्परतः स्थितम् ।। ३९
पार्श्वाभ्यामूरुमध्याच्च कटिपार्श्वद्वयात्तथा ।
शिरोंसद्बयमध्याभ्यां लोकालोकः स लक्ष्यते ।। ४०
तत्रोपविष्टास्ते देवा लक्ष्यन्ते श्रृङ्गमूर्धसु ।
सुशुद्धकान्तयस्तापादजला जलदा इव ।। ४१
प्रसारिताङ्गकमधो वक्रं तत्पतितं शवम् ।
संभक्षयति भूतौघे प्रनृत्यन्तीषु मातृषु ।। ४२
वहत्स्वसृक्प्रवाहेषु मेदोगन्धे विजृम्भिते ।
दुःखिताश्चिन्तयामासुः प्रत्येकममरा इदम् ।। ४३
हा कष्टं क्व गता पृथ्वी क्व गता जलराशयः ।
क्व गता जनसंघाताः क्व गता धरणीधराः ।। ४४
तादृक्चन्दनमन्दारकदम्बवनमण्डितः ।
मण्डपः पुष्पराशीनां कष्टं क्व मलयो गतः ।। ४५
उच्चावदाता विपुला हिमवद्भूमयोऽपि ताः ।
नीताः शौक्ल्यरुषेवाशु रुधिरेणात्मपङ्कताम् ।। ४६
क्रौञ्चद्वीपतले क्रौञ्चे योऽभूत्कल्पद्रुमो महान् ।
ब्रह्मलोकलसच्छाखः सोऽपि चूर्णत्वमागतः ।। ४७
हा क्षीरार्णव पारिजातकमलाचन्द्रामृतानां पते
हा दध्यर्णव नावनीतशिखरिप्रोद्भूतवेलावन ।
हा मध्वर्णव नालिकेरगिरिके योगेश्वरीसेवित
क्वेदानीं समुपैष्यथ क्व वनिता दिग्दर्पणत्वं गताः ४८
हा कल्पद्रुमकाञ्चनामललतानिःसंधिबन्धाचल
क्रौञ्चद्वीपविरिञ्चहंसनलिनीनीरन्ध्रदिग्जालक ।
यातः क्वेह कदम्बकाननदरीविश्रान्तविद्याधरी-
क्रीडाकोविदनागरामरगृह त्वं पुष्करद्वीपक ।। ४९
स्वादूदोदग्रतापावलकुसुममहीपावनानां वनानां
गोमेधद्वीपकल्पद्रुमकनकलतासुन्दरीणां दरीणाम् ।
शाकद्वीपाचलानाममरतरुवनैर्दंशितानां सितानां
स्मृत्यैवोदेति पुण्यं सुरपदसुखदं मानवानां नवानां
मन्दानिलावलितपल्लववालवल्ली-
संतानभासितसमस्तदिगन्तराणि ।
ध्वस्तानि तानि सकलानि वनानि कष्ट-
माश्वासमेष्यति कथं जनता न जाने ।। ५१
कदा नु तानीक्षुरसाब्धितीरे
वनानि खण्डाचलभूमिकासु ।
द्रक्ष्येम भूयो गुडमोदकानि
तथा कुमाराण्यपि शर्करायाः ।। ५२
कदम्बकल्पद्रुमशीतलेषु
तालीतमालीसवनाचलस्य ।
कदा नु तच्चन्दनसुन्दरीणां
पश्येम नृत्तं कनकालयेषु ।। ५३
गतानि कष्टं स्मरणीयरूपतां
जम्बूद्रुमस्याग्रफलानि तान्यपि ।
येषां नदीं द्वीपसमुद्रमेखला
वहत्यसौ जम्बुमती रसाम्बुभिः ।। ५४
शिलीन्ध्रनीरन्ध्रमहीध्ररन्ध्र-
क्षीबामरस्त्रीकृतगीतनृत्यम् ।
संस्मृत्य संस्मृत्य सुरोदतीरं
प्रागब्जमुर्वीव हृदावदीर्ये ।। ५५
पश्यासृगम्भसि नवार्णवमूर्ध्नि भासा
सौवर्णपर्वतशताग्रशिखाः कचन्ति ।
संध्यारुणा उदयनास्तमयावनीनां
स्तोकोदितेन्दुकलिका इव दिङ्मुखेषु ।। ५६
तादृक्सागरवारिराशिवलया द्वीपान्तरालंकृता
प्रोच्चाद्रीन्द्रनिविष्टवारिदघटानीलोत्पलानां स्थली ।
स्रोतोजङ्गलकाननोग्रनगरग्रामाग्रहाराम्बरा
नो जाने तरुपल्लवाङ्कुरवती कष्टं क्व याता मही ।।५७
इत्यार्षे श्रीवा० वाल्मी० दे० मो० नि० उ० अवि० वि० शवोपाख्याने देवपरिदेवनवर्णनं नाम चतुस्त्रिंशदधिकशततमः सर्गः ।। १३४।।