योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३२

विकिस्रोतः तः


द्वात्रिंशाधिकशततमः सर्गः १३२
भास उवाच ।
मन्दरे मृदुमन्दारमन्दिरे मन्दराभिधाम् ।
आलिंग्याऽप्सरसं सुप्तं सरित्तृणमिवानयत् ।। १
मामथासौ मया पृष्टा समाश्वास्य जलाकुला ।
बाले किमिदमित्युक्तं तया चपलनेत्रया ।। २
इह चन्द्रोदयेष्वेताश्चन्द्रकान्तकटप्रजाः ।
नद्यो माद्यन्ति वनिताः सेष्टा इव निशागमे ।। ३
त्वत्संगमरसावेशवशात्तन्ननु विस्मृतम् ।
इत्युक्त्वा मामुपादाय सोड्डीना विहगीव खम् ।। ४
भृङ्गं श्रृङ्गवतः श्रृङ्गे गङ्गाकनकपङ्कजे ।
अहमासं समाः सप्त तत्क्लिन्नोऽकर्दमाप्लुते ।। ५
अन्यन्मया जगद्दृष्टमृक्षचक्रविवर्जितम् ।
गर्भगर्भस्थैकजातिस्वप्रकाशजनावृतम् ।। ६
न दिग्विभागो न दिनानि यत्र
न चैव शास्त्राणि न वेदवादाः ।
न चैव दैत्यादिसुरादिभेदो
जगन्मया तादृगथात्मदीप्तम् ।। ७
विद्याधरामरविहारविमानभूमा-
वभ्रंलिहाचलनितम्बकदम्बकच्छे ।
आसं समाः समरसोऽमरसोमनामा
सप्तान्यसप्त ससमुद्रतटे तपस्वी ।। ८
पवनवहनसंनिवेशनाना-
सुहयपयोधरदेहकैरनेकैः ।
गजहरिणमृगेन्द्रवृक्षवल्ली-
मृगनगपन्नगपक्षिभिः परीतम् ।। ९
गगनमवनितः समेत्य वह्ने -
र्वरविभवेन जगत्यनन्तकोशम् ।
क्वचिदहमभितो दिदृक्षुरग्रे
सृत उरगाशनवद्वलादविद्याम् ।। १०
क्वचिदहं जगतः परिनिर्गतः
पतित एकमहार्णवविस्तृते ।
नभसि तत्र निवासिनिभे सितः
समयमन्वभवं पतनं तथा ।। ११
आकाशकोशपतनानुभवैकवृत्तेः
श्रान्तस्य मे पदमकार्यथ निद्रयान्तः ।
तादृक्सुषुप्तवपुषाथ मयोपलब्धं
स्वप्नात्मजाग्रति तदात्मनि तत्र विश्वम् ।। १२
भूयो दिगन्तभुवनामरमन्दराद्रि-
संसारचञ्चलतया लतयेव पक्षी ।
अक्षीणवातबलया परिचाल्यमान-
स्तन्मासु तासु पतितो हि जगद्गुहासु ।। १३
विषयाशा दृशो यावत्तावद्यातः क्षणादहम् ।
पुनस्तथैव पश्यंस्तु दृश्यं यातः पुनःपुनः ।। १४
इति दृश्यमदृश्यं च गम्यं चागम्यमेव च ।
वेगाल्लङ्घयतो देशं मम वर्षगणा गताः ।। १५
दृश्याख्याया अविद्याया न त्वन्तं प्राप्तवानहम् ।
मिथ्यैव हृदि रूढायाः पिशाच्या इव बालकः ।। १६
नेदं नेदं सदित्येव विचारानुभवे स्थितम् ।
तथापीदमिदं चेति दुर्दृष्टिर्न निवर्तते ।। १७
प्रतिक्षणं सुखैर्दुःखैर्देशकालैः समागमैः ।
सरिद्वारिवदालोला नवमायान्ति यान्ति च ।। १८
तालीतमालबकुलातुलतुङ्गश्रृङ्ग-
मुन्नादवातजवमेकमहं स्मरामि ।
सूर्यादिभिर्विरहितं प्रकटं स्वकान्त्या
सस्थावराद्रितटजङ्गममेव विश्वम् ।। १९
यदेतदेकान्तविहारहारि
स्वच्छन्दमेकामितमस्तशङ्कम् ।
क्वचिन्मया चारुजगत्सु दृष्टं
तुल्या न तस्यामरराजलक्ष्मीः ।। २०
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अवि० वि० भासवर्णितस्वजन्मपरम्परा नाम द्वात्रिंशाधिकशततमः सर्गः ।। १३२।।