योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२४

विकिस्रोतः तः
← सर्गः १२३ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः १२४
वाल्मीकिः
सर्गः १२५ →


चतुर्विंशत्यधिकशततमः सर्गः १२४
श्रीराम उवाच ।
एकसंविन्मयाः सर्व एवैकवपुषोऽपि ते ।
विविधेच्छाः कथं ब्रह्मन्संपन्ना एकदेहिनः ।। १
श्रीवसिष्ठ उवाच ।
एकसंविद्धनाकाशमप्यनानैव सर्वगम् ।
स्वयं नानेव संपन्नं सुप्ते चित्तमिवात्मनि ।। २
तस्याच्छत्वात्तथाभूतमात्मैवात्मनि बिम्बति ।
तादृशस्य तथाभूतौ मुकुरस्येव निर्मला ।। ३
एकलोहमया एव यथादर्शाः परस्परम् ।
तथैते प्रतिबिम्बन्ति पदार्थाः पारमार्थिकाः ।। ४
तेन यस्य यदा यद्यत्पुरो भवति वस्त्वसौ ।
यदर्थं युज्यते तेन चिद्धनैकस्वभावतः ।। ५
इत्यनानैव नानेदं नानानाना च वस्तुतः ।
न च नाना न चानाना नानानानात्मकं ततः ।। ६
तेन यस्य यदायातं पुरो वस्तु विपश्चितः ।
स तेन संविन्मयतामेत्य तद्वशमागतः ।। ७
एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।
योगिनस्त्रिषु कालेषु सर्वाण्यनुभवन्त्यपि ।। ८
अब्दोऽपि व्याप्तिमानेकस्तुल्यकालं पृथक्क्रियाः ।
आह्लादस्तेन पादेन करोत्यनुभवत्यपि ।। ९
तुल्यकालमसंख्यातमीश्वरप्रतियोगिनः ।
कर्मजालं जगज्जातं कुर्वन्त्यनुभवन्ति च ।। १०
एको विष्णुश्चतुर्भिः स्वैर्बाहुभिर्वा शरीरकैः ।
पृथक्कुर्वन्क्रियाः पाति जगद्भुंक्ते वराङ्गनाः ।। ११
बहुबाहुर्यदा द्वाभ्यां हस्ताभ्यां ह्यर्थसंग्रहम् ।
करोति बहुभिर्भूयः संग्रामं सततं करैः ।। १२
तथैव तैर्विपश्चिद्भिः सर्वदिक्कं तथा स्थितैः ।
तथा व्यवहृतं प्राप्तमेकसंविन्मयैरपि ।। १३
सुप्तं तैर्भूमिशय्यासु भुक्तं द्वीपान्तरेषु च ।
विहृतं वनलेखासु प्रक्रान्तं मरुभूमिषु ।। १४
उषितं गिरिमालासु भ्रान्तं सागरकुक्षिषु ।
विश्रान्तं द्वीपलेखासु निलीनं घनमालिषु ।। १५
रूढमर्णवमालासु वात्यासु जलवीचिषु ।
क्रीडितं भूभृदब्धीनां तटीषु नगरीषु च ।। १६
शाकद्वीपोदयगिरितटे सप्तवर्षाणि सुप्तं
पूर्वेणान्तर्विदलगहने यक्षसंमोहितेन ।
पाषाणाम्बु प्रसभममुनैवात्र पीत्वा दृषत्ता-
मागत्यान्तः स्थितमथ समाः सप्त जात्येन भूमेः
शाकद्वीपेऽस्तशैलस्य शिरस्यभ्रगुहागृहे ।
पिशाचाप्सरसा मासं पाश्चात्यः कामुकीकृतः ।। १८
यत्र शान्तभये वर्षे जलधारे महागिरौ ।
हरीतकीवने वर्षं पूर्वोऽन्तर्धानमाययौ ।। १९
अत्र रैवतके शैले वर्षे शिशिरनामनि ।
दशरात्रमभूत्सिंहः पूर्वो यक्षवशीकृतः ।। २०
अत्र काञ्चनशैलादिदरीदर्दुरतां गतः ।
पिशाचमायाछलितो दशवर्षाण्युवास सः ।। २१
कौमारं वर्षमासाद्य श्यामाद्रेरुत्तरस्तटम् ।
शाकद्वीपेऽन्धकूपेऽन्धो न्यवसच्छरदां शतम् ।। २२
मरीबकेऽकरोद्वर्षे वर्षाण्यत्र चतुर्दश ।
विद्याधरत्वं पाश्चात्यः स विद्याधरविद्यया ।। २३
रतक्लमक्लान्तपुरारिलक्ष्मी-
चलाङ्गलेखाक्रमशीकराक्तम् ।
एलालतालिङ्गनलब्धगन्ध-
मालम्ब्य वेलावनगन्धवाहम् ।। २४
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अवि० वि० द्वीपान्तरवर्णनं नाम चतुर्विंशत्यधिकशततमः सर्गः ।। १२४।।