योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२२
← सर्गः १२१ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्) सर्गः १२२ वाल्मीकिः |
सर्गः १२३ → |
द्वाविंशत्यधिकशततमः सर्गः १२२
श्रीवसिष्ठ उवाच ।
ततः प्रभाते प्रसभं पृथिव्याः
कृत्वा यथाशास्त्रमलं व्यवस्थाम् ।
आविष्टदेहा इव ते रसेन
निषेध्यमाना इव मन्त्रिमुख्यैः ।। १
निवार्य सर्वं परिवारमात्र-
माक्रन्दमानं वदनै रुदद्भिः ।
निरस्य चास्नेहतयाभिमान-
मात्सर्यलोभाभिभवैषणादि ।। २
दिगन्तमालोक्य समुद्रपारे
क्षणात्समायाम इति ब्रुवन्तः ।
स्वमन्त्रशक्त्योत्तमतां गतैस्तै-
रब्धिः पदैरेव तदा प्रविष्टः ।। ३
विपश्चितस्ते दिशि दिश्यनल्पै-
र्भृत्यैः समुद्रं प्रविशद्भिरेव ।
भृत्यैश्च कैश्चित्त्वनुगम्यमाना
ययुर्यथा वारिणि पद्भिरेव ।। ४
तरङ्गजालेषु पदानि कृत्वा
पृष्ठे स्थलस्येव जलस्य चान्तः ।
चत्वार एकैकतयैव युक्ता
भृशं वियुक्ता निजसेनया ते ।। ५
पदक्रमेणैव महार्णवान्त-
स्तावत्प्रविष्टा अवलोकितास्ते ।
तटस्थितैर्यावददृश्यभावं
शरन्नभोमेघलवा इवापुः ।। ६
तमध्वानमथोहुस्ते जलधौ पादचारिणः ।
वितताध्यवसायेन बद्धकक्षाहरा इव ।। ७
उन्नतावनतामद्रिसमारोहावरोहणैः ।
श्रियं वारितरङ्गाणां हरन्तो हरिमूर्तयः ।। ८
आवर्तेषु तृणानीव भ्रान्ता विगतसंभ्रमम् ।
चिरं चञ्चलमत्ताभ्रचन्द्रमण्डलशोभिषु ।। ९
मन्त्रविद्याबलौजोभिर्दुर्जयाः शस्त्रपाणयः ।
क्वचित्प्रमत्तैर्मकरैर्निगीर्णोद्गीर्णदेहकाः ।। १०
जलकल्लोलविश्रान्तवातोत्सारितमूर्तयः ।
नीतानीताः क्षणेनैव योजनानां शतं शतम् ।। ११
जलकल्लोलमातङ्गतुङ्गिताङ्गतया तया ।
दधाना निजराज्येभपृष्ठरोहस्थितिश्रियम् ।। १२
विस्तीर्णोर्मिघटापट्टपाटपट्टनपाटवैः ।
दर्शयन्तो जलाम्भोदनिष्क्रान्तिं मारुता इव ।। १३
तरत्तरलमातङ्गतरङ्गौघविघट्टिताः ।
अत्यजन्तो निजं धैर्यं वेलावरतटा इव ।। १४
महोर्मिमुक्तामाणिक्यमण्डलप्रतिबिम्बिताः ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ।। १५
पाण्डुडिण्डीरपिण्डेषु कुर्वन्तो लाघवात्पदम् ।
श्वेतपद्मपरिक्रान्तराजहंसश्रियं दधुः ।। १६
घननिर्घातनिर्घोषभीषणार्णवघुंघुमात् ।
न भीता भूभृतस्तत्र वेलावलनजृम्भितात् ।। १७
अभ्रंलिहजलाद्रीन्द्रपातोत्पातविघट्टिताः ।
क्षणं पातालमाजग्मुः क्षणमर्कास्पदं ययुः ।। १८
अशङ्कितोत्पतद्वारिपूरपातपटावृताः ।
उत्पातपातनिपतद्वितानकवृता इव ।। १९
प्रक्रान्तास्तेम्बुराशौ सहचरमकराः शूरनक्रैः कुलीरै-
र्व्याप्तावर्ताविवृत्ताः सलिलतरुलतासीकरैरन्तरालैः
कुर्वन्तः कान्तियुक्तं वपुरिव कुसुमैर्भ्रान्तमाणिक्यमुक्तै-
र्व्यक्ताव्यक्तांशुजालैः प्रतिपदमितरैरभ्ररूपैरदभ्रैः ।। २०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० वि० बलपरिभ्रंशो नाम द्वाविंशाधिकशततमः सर्गः ।। १२२ ।।