योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १०९

विकिस्रोतः तः
← सर्गः १०८ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः १०९
अज्ञातलेखकः
सर्गः ११० →


नवाधिकशततमः सर्गः १०९
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे सर्वे मन्त्रिणो नृपमाययुः ।
मुनयो वासवमिव दैत्याक्रान्तनभोभुवम् ।। १
मन्त्रिण ऊचुः ।
देव निर्णीतमस्माभिर्यावन्न विषयोऽरयः ।
त्रयाणामप्युपायानां दण्डस्तेषु विधीयताम् ।। २
प्रणयोऽनुप्रवेशो वा न कदाचन यः कृतः ।
अधुना तेषु तं देव कुर्यात्तेषु कथैव का ।। ३
पापा म्लेच्छा धनाढ्याश्च नानादेश्याः सुसंहताः ।
बहवो लब्धरन्ध्राश्च सामादेर्नास्पदं द्विषः ।। ४
तत्सुसाहसमेवेदं वर्जयित्वा प्रतिक्रिया ।
नान्यास्ति शीघ्रमेवातो रणोद्योगो विधीयताम् ।। ५
वीराणां दीयतामाज्ञा पूज्यन्तामिष्टदेवताः ।
आहूयन्तां च सामन्ता हन्यतां रणदुण्दुभिः ।। ६
सन्नह्यन्तामशेषेण निर्गच्छन्तु रणे भटाः ।
क्रियन्तां कालकम्पाभ्रमेदुरा राजिता दिशः ।। ७
आस्फाल्यन्तां धनूंष्युच्चैः क्वणन्तु गुणपङ्क्तयः ।
भवन्तु जलदश्यामाः ककुभः खण्डमण्डलैः ।। ८
स्फुरज्ज्याविद्युतः शूरवारिदा घनगर्जिताः ।
नाराचधारा मुञ्चन्तु कचत्कोदण्डकुण्डलाः ।। ९
राजोवाच ।
गम्यतां सङ्गरायाशु संविधानं विधीयताम् ।
स्नात्वाहं पूजयित्वाग्निं निर्गच्छामि रणाजिरम् ।। १०
इत्युक्त्वा नृपतिः स्नातो महारम्भोऽपि स क्षणात् ।
प्रावृषीव नवोद्यानं गङ्गाजलधरैर्घटैः ।। ११
अथ प्रविष्टोऽग्निगृहं पूजयित्वा हुताशनम् ।
आदरेण यथाशास्त्रं चिन्तयामास भूमिपः ।। १२
नीतमायुरनायासविलासविभवश्रिया ।
प्रजाभ्यो दत्तमभयमासमुद्रसमुद्रितम् ।। १३
आक्रान्तवसुधापीठाः पादपीठे कृता द्विषः ।
लताः फलभरेणेव नमिताः ककुभो दश ।। १४
प्रजाचित्तेन्दुबिम्बेषु लिखितं धवलं यशः ।
भूमावारोपिता कीर्तिलता त्रिपथगामिनी ।। १५
कोशवद्भरिता रत्नैः सुहृन्मित्रार्यबन्धवः ।
निपीतोऽर्णवतीरेषु नालिकेररसासवः ।। १६
द्विषामाकम्पिता भेकगलाङ्गत्वगिवासवः ।
मच्छासनाङ्किता जाता द्वीपान्तरकुलाचलाः ।। १७
विहृतं सिद्धसेनासु दिगन्तनवभूमिषु ।
भूम्यन्तभूभृतां मूर्ध्नि विश्रान्तं मेघलीलया ।। १८
धियेवोच्चैःपदे ज्ञानपूर्णयैकान्तशीलया ।
विलब्धान्यविनष्टानि राष्ट्रानीष्टार्थकारिणा ।। १९
रक्षांस्यप्यविनीतानि बद्धानि निगडैर्घनैः ।
धर्मार्थकामैरन्योन्यं चयापचयवर्जितैः ।। २०
अखण्डितैर्मया नीतं पीतातियशसा वयः ।
इदानीं शष्पविश्रान्तप्रालेयभरभासुरम् ।। २१
आगतं वार्धकं सर्वभोगसंरम्भमार्जनम् ।
तस्योपर्यरयो रौद्रा बलवन्तो रणैषिणः ।। २२
संभूय सर्वतः प्राप्ताः संदिग्धो वर्तते जयः ।
तदिहैवानलायास्मै देवाय जयदायिने ।। २३
मस्तकाहुतिमेवेमां समुद्यम्य ददामि वै ।
राजोवाच ।
कृशानो देव मूर्धाऽयं तुभ्यमाहुतितां गतः ।। २४
मया पूर्वं पुरोडाश इव देवेश दीयते ।
यदि तुष्टोऽसि भगवंस्तदनेन कृतेन मे ।। २५
चत्वारो भवतः कुण्डात्स्वदेहाः प्रोद्भवन्तु मे ।
बलवन्तः श्रिया दीप्ता नारायणभुजा इव ।। २६
तैश्चतुर्दिक्कमेवारीन्वध्यामहमविघ्नतः ।
त्वया च दर्शनं देयं मह्यं मतिमते विभो ।। २७
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा स महीपालः खङ्गमादाय चिच्छिदे ।
शिरः कमलमालोलं लीलयेवाशु बालकः ।। २८
छिन्नमेष शिरो यावज्जुहोत्यसितवर्त्मने ।
तावच्छरीरेण सह पपाताग्नौ स पार्थिवः ।। २९
भुक्त्वाथ वह्निस्तं देहं ददावस्मै चतुर्गुणम् ।
महतामुपयुक्तं हि सद्य एवाभिवर्धते ।। ३०
चतुर्मूर्तिरथोत्तस्थौ पावकाद्बसुधाधिपः ।
प्रज्वलंस्तेजसां पुञ्जैर्नारायण इवार्णवात् ।। ३१
ते देहास्तस्य चत्वारो विरेजुर्भास्वरत्विषः ।
सहजातोत्तमोत्तंसभूषणायुधवाससः ।। ३२
सकंकटशिरस्त्राणाः समौलिकटकाङ्गदाः ।
सहारकुण्डलाभोगाः सर्वाः सर्वे महाशयाः ।। ३३
सर्व एव समाकाराः सदृशावयवान्विताः ।
चञ्चलोच्चैःश्रवःप्रख्यं हयरत्नमवस्थिताः ।। ३४
ससुवर्णशरापूर्णतूणीराः सुमहाशयाः ।
समानगुणकोदण्डाः समानवपुषः शुभाः ।। ३५
समारोहन्ति ते यस्मिन्पुंसि नागे रथे हये ।
सर्वेषामरिदोषाणां नैव गम्यो भवत्यसौ ।। ३६
पीत्वा धृत्वा चिरं कालं गर्भे पुरुषतापिताः ।
वेद्यामिव हितास्तत्र सागरा वडवार्चिषा ।। ३७
रत्नाश्वदेहकुसुमोत्करपूर्णदेहा-
श्चत्वार इन्दुहसितैरवभासयन्तः ।
सन्मूर्तयो हरय एव यथाब्धयो वा
वेदा इवाहुतिहुतादनलात्प्रसस्रुः ।। ३८
इत्यार्षे श्रीवासिष्ठ० वाल्मी० मो० निर्वा० उ० अवि० वि० अग्निप्रवेशाद्देहलाभो नाम नवाधिकशततमः सर्गः ।। १०९ ।।