सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १०७

विकिस्रोतः तः
← सर्गः १०६ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः १०७
वाल्मीकिः
सर्गः १०८ →


सप्ताधिकशततमः सर्गः १०७
श्रीवसिष्ठ उवाच ।
अचेत्यचिन्मयं विश्वं विष्वगाभाति चिन्नभः ।
अत्र चिच्चेतनं चेदं चेत्यमप्येवमात्मकम् ।। १
अतो जीवन्नपि मृत इव सर्वोऽवतिष्ठते ।
असावहं च त्वं चेति जीवन्तोऽपि मृता इव ।। २
काष्ठमौनमृता एव व्यवहारगता अपि ।
खगमा एव वा सर्वे भावाः स्थावरजङ्गमाः ।। ३
आकाशकाचकच्यात्म यदिदं किंचिदाततम् ।
न किंचिदेव तद्विद्धि किंचिद्व्योम्नि कुतो भवेत् ।। ४
केशोण्ड्रकनदीवाहधूमालीमौक्तिकादिवत् ।
यत्नं कचति तत्रास्ति नानुभूतेऽपि वस्तुता ।। ५
तथैवास्मिञ्जगन्नाम्नि चिद्व्योम्नि कचने चिते ।
अनुभूतेऽपि निःशून्ये कास्थास्थाभावकश्च कः ।। ६
चिद्वालकल्पनाजाले शून्यात्मनि निरर्थके ।
अवस्तुभूते पृथ्व्यादौ भ्रान्तिमात्राम्बरोदये ।। ७
किमास्था बालका ब्रूत ममेदमहमित्यलम् ।
आ ज्ञातं रमते बालसंकल्पे बाल एव च ।। ८
पृथ्व्याद्यसद्विचारैर्वा व्यर्थं यास्यति जीवितम् ।
किंचिच्च न ज्ञास्यति भोराकाशक्षालनोद्यतः ।। ९
सहकार्यादिपूर्वाणां कारणानामभावतः ।
यदादावेव नोत्पन्नं तन्नामाद्य भवेत्कुतः ।। १०
अजातेनासतार्थेन खेन व्यवहरन्ति ये ।
मूढा मृतमजातं वा तनयं पालयन्ति ते ।। ११
कुतः पृथ्व्यादयः केन के नाम कथमुत्थिताः ।
चिद्व्योमेत्थमिदं शान्तं प्रकचत्यात्मनात्मनि ।। १२
कार्यकारणकालादिकल्पनाकुलचेतसाम् ।
एवं पृथ्व्यादयः सन्ति तैर्बालैरलमस्तु नः ।। १३
अपृथ्व्यादि जगन्नाम सपृथ्व्यादि च खात्मकम् ।
कचतीत्थं नभोरूपं स्वप्नादिष्विव चिन्मणिः ।। १८
अङ्गं यदेतस्य चिदम्बरस्य
निराकृति स्वानुभवानुमानम् ।
तदेतदाभाति महीतलादि-
रूपेण वेद्येतिकृताभिधानम् ।। १५
०इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उत्तरार्धे अविद्याभावप्रतिपादनं नाम सप्ताधिकशततमः सर्गः ।।१०७।।