योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०९८

विकिस्रोतः तः
← सर्गः ९७ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०९८
वाल्मीकिः
सर्गः ९९ →


अष्टनवतितमः सर्गः ९८
श्रीवसिष्ठ उवाच ।
विवेकिनो विरक्ता ये विश्रान्ता ये परे पदे ।
तेषां तनुत्वमायान्ति लोभमोहादयोऽरयः ।। १
न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च ।
उद्विजन्तेऽपि नो लोकाल्लोकान्नोद्वेजयन्ति च ।। २
न नास्तिक्यान्न चास्तिक्यात्कष्टानुष्ठानवैदिकाः ।
मनोज्ञमधुराचाराः प्रियपेशलवादिनः ।। ३
सङ्गादाह्लादयन्त्यन्तः शशाङ्ककिरणा इव ।
विवेचितारः कार्याणां निर्णेतारः क्षणादपि ।। ४
अनुद्वेगकराचारा बान्धवा नागरा इव ।
बहिः सर्वसमाचारा अन्तः सर्वार्थशीतलाः ।। ५
शास्त्रार्थरसिकास्तज्ज्ञा ज्ञातलोकपरावराः ।
हेयोपादेयवेत्तारो यथाप्राप्ताभिपातिनः ।। ६
विरुद्धकार्यविरता रसिका सज्जनस्थितौ ।
अनावरणसौगन्ध्यैः परास्पदसुखाशनैः ।। ७
पूजयन्त्यागतं फुल्ला भृङ्गं पद्मा इवार्थिनम् ।
आवर्जयन्ति जनतां जनतापापहारिणः ।। ८
शीतलास्पदवत्स्निग्धाः प्रावृषीव पयोधराः ।
भूभृद्भङ्गकरं धीरा देशभङ्गदमाकुलम् ।। ९
रोधयन्त्यागतं क्षोभं भूकम्पमिव पर्वताः ।
उत्साहयन्ति विपदि सुखयन्ति च संपदि ।। १०
चन्द्रबिम्बोपमाकारा दारा इव गुणाकराः ।
यशःपुष्पामलदिशो भाविसत्फलहेतवः ।। ११
पुंस्कोकिलसमालापा माधवा इव साधवः ।
कल्लोलबहुलावर्तं व्यामोहमकरालयम् ।। १२
लुठन्तमिव हेमन्तं लोडयन्तं जनास्पदम् ।
वीचिविक्षोभचपलं परचित्तमहार्णवम् ।। १३
तच्च रोधयितुं शक्तास्तटस्थाः साधुपर्वताः ।
आपत्सु बुद्धिनाशेषु कल्लोलेष्वाकुलेषु च ।। १४
संकटेषु दुरन्तेषु सन्त एव गतिः सताम् ।
एभिश्चिह्नैरथान्यैश्च ज्ञात्वा तानुचिताशयान् ।। १५
आश्रयेतैकविश्रान्त्यै श्रान्तः संसारवर्त्मना ।
यस्मादत्यन्तविषमः संसारोरगसागरः ।। १६
विना सत्सङ्गमन्येन पोतकेन न तीर्यते ।
आस्तां किं मे विचारेण यद्भवेदस्तु तन्मम ।। १७
इत्यन्तः कल्कमासाद्य न स्थेयं गर्तकीटवत् ।
एकोऽपि विद्यते यस्य गुणस्तं सर्वमुत्सृजन् ।। १८
अनादृतान्यतद्दोषं तावन्मात्रं समाश्रयेत् ।
गुणान्दोषांश्च विज्ञातुमाबाल्यात्स्वप्रयत्नतः ।। १९
यथासंभवसत्सङ्गशास्त्रैः प्राग्धियमेधयेत् ।
दोषलेशमनादृत्य नित्यं सेवेत सज्जनम् ।। २०
स्थूलदोषं त्वनिर्वाणं शनैः परिहरेत्क्रमात् ।
याति रम्यमरम्यत्वं स्थिरमस्थिरतामपि ।। २१
यथा दृष्टं तथा मन्ये याति साधुरसाधुताम् ।
एष सोऽत्यन्त उत्पातो यः साधुर्याति दुष्टताम् ।।२२
देशकालवशात्पापैर्महोत्पातोऽपि दृश्यते ।
सर्वकर्माणि संत्यज्य कुर्यात्सज्जनसंगमम् ।
एतत्कर्म निराबाधं लोकद्वितयसाधनम् ।। २३
न सज्जनाद्दूरतरः क्वचिद्भवे-
द्भजेत साधून्विनयक्रियान्वितः ।
स्पृशन्त्ययत्नेन हि तत्समीपगं
विसारिणस्तद्गतपुष्परेणवः ।। २४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० सज्जनसमागमप्रशंसा नामाष्टनवतितमः सर्गः ।। ९८ ।।