योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०९५

विकिस्रोतः तः
← सर्गः ९४ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०९५
वाल्मीकिः
सर्गः ९६ →


पञ्चनवतितमः सर्गः ९५
श्रीवसिष्ठ उवाच ।
ततश्चिदाकाशवपुर्भूतपञ्चकवर्जितः ।
विहरन्नहमाकाशे पिशाच इव संस्थितः ।। १
न मां पश्यन्ति चन्द्रार्कशक्रा हरिहरादयः ।
न देवसिद्धगन्धर्वकिंनरा नाप्सरोगणाः ।। २
नाक्रामन्ति मयाक्रान्ता न च श्रृण्वन्ति मद्वचः ।
इत्यहं मोहमापन्नो विक्रीत इव सज्जनः ।। ३
अथ चिन्तितवानस्मि सत्यकामा इमे वयम् ।
पश्यन्तु मां सुरगणास्तेन तस्मिन्सुरालये ।। ४
द्रष्टुं प्रवृत्ता मामग्रे वास्तव्याः सर्व एव ते ।
झटित्येव पुरं प्राप्तमिन्द्रजालद्रुमं यथा ।। ५
अथ गीर्वाणगेहेषु संपन्नो व्यवहार्यहम् ।
यथास्थितसमाचारः स्थितो निःशङ्कचेष्टितः ।। ६
यैरविज्ञातवृत्तान्तैर्दृष्टोऽहमजिरोत्थितः ।
वसिष्ठः पार्थिव इति लोकेषु प्रथितोऽस्मि तैः ।। ७
व्योमन्यादित्यरश्मिभ्यो दृष्टोऽहं यैर्नभोगतैः ।
वसिष्ठस्तैजस इति लोकेषु प्रथितोऽस्मि तैः ।। ८
वातात्समुदितो दृष्टो यैरहं गगनास्पदैः ।
सिद्धैर्वातवसिष्ठाख्यस्तैरहं समुदाहृतः ।। ९
यैरहं सलिलाद्दृष्टः प्रोत्थितस्तैर्मुनीश्वरैः ।
उक्तो वारिवसिष्ठोऽहमिति मे जन्मसंततिः ।। १०
ततःप्रभृति लोकेऽहं पार्थिवः प्रथितः क्वचित् ।
अम्मयः क्वचिदन्येषां तैजसो मारुतः क्वचित् ।। ११
अथ कालेन मे तत्र तस्मिन्नेवातिवाहिके ।
आधिभौतिकता देहे रूढा रूढान्तरेरिता ।। १२
यदेतदातिवाहित्वमाधिभौतिकता च खम् ।
द्वयमप्येकदेहात्म ततः कचति मे चितिः ।। १३
एवमात्म क्वचिद्व्योम कचनात्माप्यहं नभः ।
परमेव निराकारं युष्मास्वाकारवानपि ।। १४
जीवन्मुक्तो व्यवहरंस्तथास्ते ब्रह्मखात्मकः ।
तथैवादेहमुक्तोऽपि तिष्ठति ब्रह्ममात्रकः ।। १५
मम न ब्रह्मतापेता तादृग्व्यवहृतेरपि ।
असंभवादन्यदृशो युष्मदादिष्वहं त्वहम् ।। १६
यथाऽज्ञस्य स्वप्ननरे निर्जन्मनि निराकृतौ ।
आधिभौतिकताबुद्धिस्तथा मे जगतोपि च ।। १७
एवमेवावभासन्ते सर्व एव स्वयंभुवः ।
सर्गाश्च न तु जायन्ते प्रयाता इव चोदिताः ।। १८
एष सोहमिहाकाशवसिष्ठः पुष्टतामिव ।
गतोऽद्य स्वात्मनाभ्यासाद्भवतां वा भवत्स्थितिः।। १९
आकाशात्मान एवैते सर्व एव स्वयंभुवः ।
यथा त्वेतन्मनोमात्रमिमे सर्गास्तथैव हि ।। २०
अहमादिरयं सर्गस्त्वपरिज्ञानदोषतः ।
वेताल इव बालानां गतो वो वज्रसारताम् ।। २१
परिज्ञातस्तु कालेन स्वल्पेनैवोपशाम्यति ।
वासनातानवात्स्नेहो बन्धौ दूरगते यथा ।। २२
घनत्वमहमासाद्य तथा सर्गस्य शाम्यति ।
परिज्ञाता यथा स्वप्ननिधेरादेयभावना ।। २३
शाम्यन्ति संपरिज्ञाताः सकला दृश्यदृष्टयः ।
यथा मरुनदीवेगवारिग्रहणबुद्धयः ।। २४
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
एतदासाद्यते नित्यं किमेतावति दुष्करम् ।। २५
संसारवासनाभावरूपे सक्ता नु यस्य धीः ।
मन्दो मोक्षे निराकाङ्क्षी स श्वा कीटोऽथवा जनः ।। २६
भोगाभोगः किलायं यः स जीवन्मुक्तबुद्धिना ।
कीदृशो भुज्यमानः स्यात्कीदृक्स्यान्मौर्ख्यसेविना ।। २७
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
अन्तःशीतलतोदेति परार्थेषु हिमोपमा ।। २८
मोक्षः शीतलचित्तत्वं बन्धः संतप्तचित्तता ।
एतस्मिन्नपि नार्थित्वमहो लोकस्य मूढता ।। २९
अयं प्रकृत्या विषयैर्वशीकृतः
परस्परं स्त्रीधनलोलुपो जनः ।
यथार्थसंदर्शनतः सुखी भवे-
न्मुमुक्षुशास्त्रार्थविचारणादितः ।। ३०
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा० वसिष्ठशरीरवर्णनं नाम पञ्चनवतितमः सर्गः ।। ९५ ।।
।। दिवसः १७ ।। पाषाणोपाख्यानं समाप्तम् ।।