योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०९१

विकिस्रोतः तः
Jump to navigation Jump to search

एकनवतितमः सर्गः ९१

श्रीवसिष्ठ उवाच ।
ततोऽहमभवं तेजस्तेजोधारणयेद्धया ।
चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम् ।। १
नित्यं सत्त्वप्रधानत्वात्प्रकाशाकृतिराजगत् ।
सर्वं दृश्यमृते सर्वचौरध्वान्तप्रतापयुक् ।। २
दीपादिभिः शनैः स्निग्धैर्दशाशतविहारिभिः ।
प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत् ।। ३
लोकालोके च हृषितैश्चन्द्रार्काद्यंशुरोमभिः ।
परप्रकाशैकरतैर्दूरोत्क्षिप्ताम्बराम्बरम् ।। ४
अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः ।
दृश्यं सदृश्यमनिशं सर्वस्य गुणशालिनः ।। ५
तमस्तमालपरशुः परशुद्धिकरं पदम् ।
सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम् ।। ६
शुक्लकृष्णारुणादीनां नित्यं ज्योत्स्नाङ्गशायिनाम् ।
पुत्राणामिव वर्णानां सर्वेषां देहदः पिता ।। ७
घनस्नेहरसं पृथ्व्या रक्षितानलवेधनम् ।
गृहं प्रति घनानन्दैर्वृतदीपकपुत्रकम् ।। ८
दृष्टं पातालकेष्वीषत्तमोरूपेषु पावकम् ।
अर्धदृष्टं रजोरूपे भूतले भूतमालिते ।। ९
सत्त्वात्मसु महासत्त्वं नित्यत्वं देवसद्मसु ।
जगज्जीर्णकुटीदीपः कूपोम्भस्तमसोर्महान् ।। 6.2.91.१०
दिग्वधूविमलादर्शो निशानीहारमारुतः ।
सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः ।। ११
केदारं दिनसस्यानां तमोच्छूनामनुग्रहः ।
नभःकाचबृहत्पात्रक्षालनाम्बु समुल्लसत् ।। १२
सत्ताप्रदतयार्थानां प्रकाशकतयापि च ।
चिन्मात्रपरमार्थस्य सहोदर इवानुजः ।। १३
क्रियाकमलिनीभानुर्भूतलोदरजीवितम् ।
रूपालोकमनस्कारचमत्कारश्चितेर्यथा ।। १४
नभस्तलगतासंख्यनक्षत्रमणिमालितः ।
दिनर्तुवत्सराबृंह्यवाडवाग्न्यादिफेनिलः ।। १५
चन्द्रार्कादितरङ्गान्तरजडं पङ्किलो महान् ।
बृहद्ब्रह्माण्डखातस्थो नित्यमेकार्णवोऽक्षयः ।। १६
हेमादिषु सुवर्णत्वं नरादिषु पराक्रमः ।
काचकच्यं च रत्नादौ वर्षादिष्ववभासनम् ।। १७
ज्योत्स्ना मुखेन्दुबिम्बेषु पक्ष्मलेक्षणलक्ष्मसु ।
स्रवत्स्नेहामृतापूरो हाससौहार्दभासनम् ।। १८
कपोलबाहुनेत्राक्षिभ्रूकरालकलासकः ।
निजोऽजेयतया जातो विलासः कामिनीजने ।। १९
तृणीकृतत्रिभुवनचपेटास्फोटितद्विषाम् ।
शिरःसु वज्रीकरणं वीर्यं सिंहादिचेतसि ।। 6.2.91.२०
कटुकङ्कटकुट्टाकखड्गसंघट्टटांकृतैः ।
पटुस्फुटाटोपरटि भटेष्वटनमुद्भटम् ।। २१
देवेषु दानवारित्वं सुरारित्वं सुरादिषु ।
सर्वभूतेषु सोजस्त्वमुन्नामः स्थावरादिषु ।। २२
अथ ते मरुवद्भास्वांस्तत्राहमनुभूतवान् ।
जगदाकाशकोशेषु तेषु तामरसेक्षण ।। २३
दिगन्तदशनिस्तीर्णैः करजालैर्जगत्खगम् ।
गृह्णदद्व्यङ्गमर्कत्वं ग्रामवदृष्टभूतलम् ।। २४
कामोत्पले कोशचक्रं वाडवं तिमिरार्णवे ।
ब्रह्माण्डसदने दीपं वृक्षं दिनफलावलेः ।। २५
रसायनह्रदाकारमिन्दुत्वं वदनं दिवः ।
निशानिशाचरीहासं विकासं रजनीविशाम् ।। २६
जगल्लावण्यलक्ष्मीणां सर्वासामुपमास्पदम् ।
रजनीरोहिणीनारीकैरवाणां परं प्रियम् ।। २७
नेत्रवृन्दस्य वक्त्रस्य द्युलतापुष्पजालकम् ।
स्वर्गौघमशकव्यूहं तारकापटलं मृदु ।। २८
वणिङ्मात्रे वणिग्घस्ततुलातोलनदोलितम् ।
रत्नत्वं जलकल्लोलहस्तान्दोलनमब्धिभिः ।। २९
अब्धाऽब्धौ शफरावर्तमब्धा गोमञ्जरीगणः ।
अब्दादौ दावदहनं वैद्युतं द्योतनं तनौ ।। 6.2.91.३०
दारुदारणदुर्वारदीप्तं ज्वलनमाततम् ।
यज्ञाग्निदाहकल्याणं विस्फोटकठिनारवम् ।। ३१
कचत्काञ्चनमाणिक्यमुक्तामणिमयं महः ।
तपस्तां नीतमाक्षिप्य पाण्डित्यमिव पामरैः ।। ३२
विभ्रान्तं स्तनशृङ्गेषु मुक्ताहारतया तया ।
असुरोरगगन्धर्वनरनायकयोषिताम् ।। ३३
पादाहतिं गतं मार्गे तिलकत्वं वधूमुखे ।
खद्योतेन मया लब्धं पश्यावस्थासु चापलम् ।। ३४
क्वचिद्विद्युत्तया तेषु शफर्या चार्णवेष्विव ।
खस्थेषु विकृतं चारु वार्यावर्तविराविषु ।। ३५
क्वचिद्दीपतयानीय कलिकाकोमलाङ्गया ।
अन्तःपुरेषु कान्तानां सुरतालोकनं कृतम् ।। ३६
क्वचित्कज्जलजालस्य ज्वालाकनकदाकृते ।
खेदिना घनकूर्माभं सङ्गेनैव स्वकोटरे ।। ३७
कल्पान्तेषु क्वचित्सर्वजगद्भ्रमघनश्रमात् ।
खे कज्जलासिते लीनं रुद्रेभ इव विद्युता ।। ३८
क्वचिदाकल्पमापीय वाडवाग्नितया जलम् ।
जगत्सु गगनेष्वन्ते ननृते जलराशिषु ।। ३९
क्वचिदुल्मुकदन्तेन मया ज्वालाभुजात्मना ।
विलोलधूमावर्तोग्रकुन्तलेनाकुलौजसा ।। 6.2.91.४०
पुरपल्वलदाहेषु कवलीकृतजन्तुना ।
कृताः कृताष्ट काष्ठादिपदार्थाः खादनोचिताः ।। ४१
हतेन शस्त्रपाषाणैरयःपिण्डादिवासिना ।
हन्तृदाहार्थमुद्गीर्णाः कणकोपलताः क्वचित् ।। ४२
क्वचिन्महाशिलाकोशे पाषाणमणिना मया ।
समस्तभूतादृश्येन स्थितं युगशतान्यपि ।। ४३
श्रीराम उवाच ।
मुने तस्यामवस्थायामनुभूतं त्वया सुखम् ।
उत दुःखमिति ब्रूहि बोधाय मम मानद ।। ४४
श्रीवसिष्ठ उवाच ।
यथा याति नरः सुप्तो जडतां चेतनोऽपि सन् ।
चिद्व्योम गच्छेद्दृश्यत्वं तथा जाड्यं प्रचेतति ।। ४५
आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा ।
सुप्तं जडमिवास्तेऽन्तः स्यादस्य न तदन्यथा ।। ४६
वस्तुतस्तस्य खोर्व्यादि नासद्रूपं न सन्मयम् ।
द्रष्टृदृश्यमिवाभाति ब्रह्म चैतत्समं स्थितम् ।। ४७
एतत्सत्यपरिज्ञानं यस्योत्पन्नमखण्डितम् ।
न तस्य पञ्चभूतानि न दृश्यद्रष्टृविभ्रमः ।। ४८
तदा मयैवं शुद्धेन तत्कृतं ब्रह्मरूपिणा ।
ब्रह्मरूपादृते किंचिदेतत्कर्तुर्न युज्यते ।। ४९
यदा सर्वमिदं दृश्यं जातं ब्रह्म निरामयम् ।
तदा ब्रह्मपदस्थेन मयात्मैवैवमीक्षितः ।। 6.2.91.५०
यदा पुनरहं पञ्चभूतानीत्येव भासयन् ।
भवामि जड एवाहं तदा चेतामि किं किल ।। ५१
सुप्तोऽस्मीति दृढं भावं बुद्धवांश्चेतनोऽपि सन् ।
नैद्रमेवैत्यलं जाड्यं लसच्चेतति किंचन ।। ५२
यस्तु ज्ञानप्रबुद्धात्मा देहस्तस्याधिभौतिकः ।
शाम्यत्युदेति विमलो बोधात्मैवातिवाहिकः ।। ५३
आतिवाहिकदेहेन तेन बोधात्मनाणुना ।
बृहता वा यथाकामं निर्वाणात्मावतिष्ठते ।। ५४
बोधदेहेन हृदयं शिलानामप्यभेदिनाम् ।
प्रविश्याशु विनिर्याति याति पातालमम्बरम् ।। ५५
तस्मान्मया पुरा राम बोधदेहेन तत्तदा ।
तथा कृतमनन्तेन चिन्मयव्योमरूपिणा ।। ५६
वज्रपाषाणपातालनभोम्बरगमागमान् ।
कुर्वतस्तादृशस्याशु न विघ्न उपजायते ।। ५७
बोधमात्रशरीरेण यावदास्ते जडेष्वसौ ।
पदार्थेषु तथाभूतस्तावत्तत्रावतिष्ठते ।। ५८
स्वेच्छयैव चलित्वाथ ततोऽन्यत्र प्रयाति चेत् ।
तच्चैव स्थितिं याति तत्तथैवागतिर्यथा ।। ५९
बोधमात्रं विदुर्देहमातिवाहिकमव्ययम् ।
इदानीं त्वं तमेवेह बुधोऽनुभवसि स्वयम् ।। 6.2.91.६०
चिन्मात्रव्योमरूपोऽस्मीत्यर्कादाविति बोधतः ।
आत्मैवास्तमुपानीतः सन्नेवासन्निवात्मना ।। ६१
स्थितं स्वप्नादिजगति तमसेवासतेव च ।
आवृतेनेव वान्यासामलभ्येन सता दृशम् ।। ६२
तरङ्गलेखयाङ्गारसरितः स्वाङ्गलग्नया ।
मनोराज्यश्रियेवाशुक् प्रोत्पन्नस्तद्वदेहया ।। ६३
कज्जलालिकया वह्निविपिनं पुष्पशोभया ।
फुल्लस्थलाम्बुजाकारं किंशुकाशोकरूपया ।। ६४
विततारम्भयाप्युच्चैर्ज्वालाज्वलतयेद्धया ।
उपोत्थायाङ्ग गलितं खललक्ष्म्येव लीलया ।। ६५
तेजस्तयापि परमाणुकणोदरेऽपि
दृष्टेत्थमेवमिह राम मया जगच्छ्रीः ।
अन्या च सा न च चिदम्बरतः परस्मा-
त्स्वप्ने पुराचलगणोऽत्र निदर्शनं वः ।। ६६

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० पाषा० तैजसजगद्वर्णनं नामैकनवतितमः सर्गः ।। ९१ ।।