योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०८४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुरशीतितमः सर्गः ८४
श्रीराम उवाच ।
अनन्तरं मुने ब्रूहि काली किमिव नृत्यति ।
किं शूर्पफलकुद्दालमुसलादिस्रजाऽऽवृता ।।
श्रीवसिष्ठ उवाच ।
स भैरवश्चिदाकाशः शिव इत्यभिधीयते ।
अनन्यां तस्य तां विद्धि स्पन्दशक्तिं मनोमयीम् ।। २
यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।
चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा ।। ३
स्पन्देन लक्ष्यते वायुर्वह्निरौष्ण्येन लक्ष्यते ।
चिन्मात्रममलं शान्तं शिव इत्यभिधीयते ।। ४
तत्स्पन्दमायाशक्त्यैव लक्ष्यते नान्यथा किल ।
शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि ।। ५
स्पन्दशक्तिस्तदिच्छेदं दृश्याभासं तनोति सा ।
साकारस्य नरस्येच्छा यथा वै कल्पनापुरम् ।। ६
करोत्येव शिवस्येच्छा करोतीदमनाकृतेः ।
सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणाम् ।। ७
प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता ।
दृश्याभासानुभूतानां करणात्सोच्यते क्रिया ।। ८
वडवाग्निशिखाकाराच्छोष्याच्छुष्केति कथ्यते ।
चण्डित्वाच्चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः ।। ९
जया जयैकनिष्ठत्वात्सिद्धा सिद्धिसमाश्रयात् ।
जयन्ती च जया प्रोक्ता विजया विजयाश्रयात् ।। १०
प्रोक्ता पराजिता वीर्याद्दुर्गा दुर्ग्रहरूपतः ।
ओंकारसारशक्तित्वादुमेति परिकीर्तिता ।। ११
गायत्री गायनात्मत्वात्सावित्री प्रसवस्थितेः ।
सरणात्सर्वदृष्टीनां कथितैषा सरस्वती ।। १२
गौरी गौराङ्गदेहत्वाद्भवदेहानुषङ्गिणी ।
सुप्तानामथ बुद्धानाममात्रोच्चारणाद्धृदि ।। १३
नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते ।
शिवयोर्व्योमरूपत्वादसितं लक्ष्यते वपुः ।। १४
नभो हि मांसमेताभ्यां दृष्टिदृष्टं विलोक्यते ।
अस्ति नभो नभस्येव तौ नभोनभसि स्थितौ ।। १५
नभोनिभावभूताङ्गावच्छौ व्योम्न इवाग्रजौ ।
हस्तपादास्यमूर्ध्नो यद्वहुत्वाल्पत्वभेदतः ।। १६
नानात्वं हलशूर्पादिस्रग्धरत्वं च तच्छृणु ।
सा हि क्रिया भगवती परिस्पन्दैकरूपिणी ।। १७
दद्यात्स्नायाच्च जुहुयादित्याद्यग्रशरीरिणी ।
चितिशक्तिरनाद्यन्ता तथा भातात्मनात्मनि ।। १८
साकाशरूपिणी कान्ता दृश्यश्रीः स्पन्दधर्मिणी ।
देव्यास्तस्या हि याः काल्या नानाभिनयनर्तनाः ।। १९
ता इमा ब्रह्मणः सर्गजरामरणरीतयः ।
क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः ।। २०
स्पन्दान्करोति धत्तेऽन्तः कल्पितावयवात्मिका ।
काली कमलिनी काली क्रिया ब्रह्माण्डकालिका ।।२१
धत्ते स्वावयवीभूतां दृश्यलक्ष्मीमिमां हृदि ।
न कदाचन चिद्देवी निर्देश्यावयवा क्वचित् ।। २२
शिवत्वाव्यतिरेकेण शिवतैवं विदृश्यताम् ।
यथाङ्ग शून्यता व्योम्नः स्पन्दनं मातरिश्वनः ।। २३
ज्योत्स्नायाश्चेत्यमेवं हि दृश्यमङ्गं चितेः क्रिया ।
शिवं शान्तमनायासमव्ययं विद्धि निर्मलम् ।। २४
न मनागपि तत्रास्ति स्तैमित्यं स्पन्दधर्मता ।
सा क्रियैव तथारूपा सती बोधवशाद्यदा ।। २५
व्यावृत्त्यैव तथैवास्ते शिव इत्युच्यते तदा ।
चितिशक्तेः क्रिया देव्याः प्रतिस्थानं यदात्मनि ।।२६
यथाभूतस्थितेरेव तदेव शिव उच्यते ।
देव्याः क्रियायाश्चिच्छक्तेः स्वरूपिण्या महाकृतेः।।२७
कल्पिताकारधारिण्या अनन्यावयवा इमे ।
सर्गाः सज्जनतावर्गा लोका आलोकभास्वराः ।। २८
सद्वीपसागराः पृथ्व्यः सवनावनयोऽद्रयः ।
साङ्गोपाङ्गास्त्रयो वेदाः सविद्यास्थानगीतयः ।। २९
सविधिप्रतिषेधार्थाः सशुभाशुभकल्पनाः ।
सदक्षिणाग्नयो यज्ञाः पुरोडाशाद्यशंसिनः ।। ३०
भूपालोलूखलवृसीशूर्पयूपादिसयुताः ।
संग्रामाः सायुधग्रामाः सशूलशरशक्तयः ।। ३१
सभुशुण्डीगदाप्रासहयेभभटभासुराः ।
ज्ञातयो भूतसंघानां चतुर्दश सुरादिकाः ।
चतुर्दशाब्धिद्वीपोर्व्यस्तथा लोकाश्चतुर्दश ।। ३२
श्रीराम उवाच ।
चितेः कल्पाः शरीरिण्याः सर्गा येऽङ्गे स्थितास्तथा ।
ते किमात्मनि तिष्ठन्ति उतासत्या वदेति भो ।। ३३
श्रीवसिष्ठ उवाच ।
रामासौ किल चिच्छक्तिस्तया यच्चोदितं तथा ।
तत्प्रचेतितमेवातः सत्यं चेदमिवाखिलम् ।। ३४
तत्प्रतिबिम्बितं बाह्यान्मुकुरप्रतिबिम्ववत् ।
सत्यं तदन्तरेवास्ति चितेर्नासत्यमर्थतः ।। ३५
चिद्रूपस्य तथाप्यन्तः सत्संकल्पपुरं भवेत् ।
दृढध्यानाद्विशुद्धायाश्चितेर्भवतु सा कथम् ।। ३६
आदर्शेष्वथवा स्वप्ने सर्गः संकल्पनेऽस्तु वा ।
स आत्मन्यर्थकारित्वात्सत्य इत्येव मे मतिः ।। ३७
मम नार्थाय स इति वक्षि चेत्तत्कथं भवेत् ।
देशान्तरगताः सर्वे भवन्त्यर्थाय संप्रति ।। ३८
यथा देशान्तरग्रामस्तद्गतस्यार्थकृद्भवेत् ।
सर्वे तथैव तद्भावं गतस्यार्थविनिश्चयात् ।। ३९
यद्यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते ।
तत्सत्यमात्मनोऽन्यस्य नैवातत्तामुपेयुषः ।। ४०
तस्माच्चिच्छक्तिकोशस्थाः सर्वाः सर्गपरम्पराः ।
सत्य आत्मेति तद्भावं गतस्यान्यस्य नाखिलाः ।। ४१
भूतभव्यभविष्यस्थाः संकल्पस्वप्नपूर्गणाः ।
सर्वे सत्याः परं तत्त्वं सर्वात्मा कथमन्यथा ।। ४२
प्राप्यन्ते योगसिद्धेन तद्भावं तु गतेन ते ।
अन्येन पर्वता ग्रामा गत्या देशान्तरे यथा ।। ४३
चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् ।
न लुठत्येव लुठितमित्यप्यनुमतं स्फुटम् ।। ४४
तथा चलन्त्या लुठितं तस्या देहगतं जगत् ।
न लुठत्येव मुकुरप्रतिबिम्बमिव स्थितम् ।। ४५
स त्रैलोक्यमहारम्भः सत्योऽपि भ्रान्तिमात्रकम् ।
भ्रान्तिमात्रस्य के नाम लुठनालुठने वद ।। ४६
कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा ।
कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितम् ।। ४७
भ्रान्तित्वं केवलं सैव दृश्यश्रीर्यावदग्रगा ।
त्वं विद्धीमामपि भ्रान्तिं जगल्लक्ष्मीमवास्तवीम् ।।४८
संकल्पने मनोराज्ये स्वप्ने संकथने भ्रमे ।
यथापुरानुभवनं त्रैलोक्यानुभवं तथा ।। ४९
अहमिति जगदिति नान्त-
भ्रान्तिरियं प्रकचतीव चितः ।
परमाकाशकृशाख्या
शाम्यति निपुणं परिज्ञाता ।। ५०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा० शिवशक्तिवर्णनं नाम चतुरशीतितमः सर्गः ।। ८४ ।।