योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०७९
एकोनाशीतितमः सर्गः ७९
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे चक्षुर्व्योमस्थोऽहमथात्यजम् ।
ब्रह्मलोके महालोके प्रभातेऽर्कप्रभामिव ।। १
यावद्दृष्टो मया तत्र शैलादिव विनिर्मितः ।
परमेष्ठी समाधिस्थः प्रधानपरिवारवान् ।। २
समूहश्चैव देवानां मुनीनां भावितात्मनाम् ।
शुक्रो बृहस्पतिश्चैव शक्रो वैश्रवणो यमः ।। ३
सोमोऽथ वरुणोऽग्निश्च तथान्येऽपि सुरर्षयः ।
देवगन्धर्वसिद्धानां साध्यानां च विनायकाः ।। ४
लिपिकर्मार्पिताकाराः सर्वे ध्यानपरायणाः ।
बद्धपद्मासनास्तत्र निर्जीवा इव संस्थिताः ।। ५
अथ ते द्वादशादित्यास्तमेवोद्देशमागताः ।
बद्धपद्मासनास्तस्थुस्तथैवाशु यथैव ते ।। ६
ततो मुहूर्तमात्रेण दृष्टवानहमब्जजम् ।
पुरो विनिद्रतां यातः स्वप्नदृष्टमिवाग्रगम् ।। ७
ब्रह्मलोकजनं सर्वं महतामिव वासनाम् ।
नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम् ।। ८
अरण्यशून्यमेवासीत्तद्ब्रह्ममननं तदा ।
कठिनाकाण्डविध्वस्तं पृथिव्यामिव पत्तनम् ।। ९
सर्व एव न च क्वापि ते तथा तादृशास्तदा ।
ऋषयो मुनयो देवा वेदा विद्याधरादयः ।। १०
ज्ञातं ततोऽवधानेन मया नभसि तिष्ठता ।
यावन्निर्वाणमापन्ना ब्रह्मवत्सर्व एव ते ।। ११
वासनायां विलीनायामदर्शनमुपागताः ।
स्वप्नलोकाः प्रबुद्धानामिव स्वं रूपमागताः ।। १२
आकाशात्मैव देहोऽयं भाति वासनया स्फुटः ।
तदभावात्तु नो भाति स्वप्नो बोधवतो यथा ।। १३
अन्तरिक्षगतो देहो यथा स्वप्ने विलोक्यते ।
बोधे तद्वासनाशान्तौ न किंचिदपि लक्ष्यते ।। १४
जाग्रत्यपि तथैवायं वासनायाः परिक्षये ।
नैवातिवाहिको नैव लक्ष्यतेऽत्राधिभौतिकः ।। १५
स्वप्नानुभव एषोऽत्र दृष्टान्तत्वेन लक्ष्यते ।
आबालमेतत्संसिद्धमनुभूतं श्रुतं स्मृतम् ।। १६
अपह्नुते च वा योऽपि स्वमेवानुभवं शठः ।
स त्याज्यः को ह्यलीकेन सुप्तमुद्वोधयेत्किल ।। १७
देहकारणकः स्वप्नो देहाभावान्न दृश्यते ।
इति चेत्तददेहानां परलोकोऽपि नास्ति च ।। १८
इत्येतदभविष्यच्चेत्तच्छरीरकसंक्षये ।
नाभविष्यदयं सर्गः स चास्त्येव च सर्वदा ।। १९
अवयवविभागात्मन्यवश्यंभाविनि क्षये ।
न कदाचिदनित्थं तज्जगदित्यप्यसंस्थितम् ।। २०
न कदाचिज्जगन्नाशो देहोद्भूतगुणादिकम् ।
मदशक्तिरिव ज्ञप्तिरुदेतीति च वक्षि चेत् ।। २१
तत्पुराणेतिहासानां सर्वसंक्षयवादिनाम् ।
स्मृत्यादीनां सवेदानां वैयर्थ्यमुपजायते ।। २२
अप्रमाणतयैतस्मिन्नर्थे तेषां महामते ।
अन्यत्राणि प्रमाणत्वं वन्ध्यादावपि किं भवेत् ।। २३
न चैतदिष्यते लोके जगदुच्छेदकारणात् ।
अन्यच्चास्तामेतदङ्ग ममेदमपरम श्रृणु ।। २४
मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या ।
प्रसृतानां पिशाचादिदेहता सा न सिध्यति ।। २५
अथ सापि मुधा भ्रान्तिर्यावद्देहं प्रदृश्यते ।
इति चेत्तन्मुधा नाम सत्यमित्येव वो भवेत् ।। २६
एवं चेत्तत्परो लोकः सत्स्वर्गनरकादिकम् ।
इत्येषापि न संवित्किं सत्यतामुपगच्छति ।। २७
न पिशाचप्रमा सत्या मदशक्तिमतोऽपि हि ।
प्रतिभास्य न सत्या स्यात्परलोकात्मिका कथम् ।। २८
पिशाचोऽस्तीति चेत्संवित्सत्यार्था तेन संविदः ।
मृतस्यास्ति परो लोक इत्यस्यां किं न सत्यता ।। २९
काकतालीयवद्देहात्पैशाची ज्ञप्तिरस्ति चेत् ।
परलोकार्थसंवित्तिः कथं नास्ति सकारणा ।। ३०
यान्तर्वेत्ति यथा संवित्सा तथानुभवत्यलम् ।
अस्तु सत्यमसत्यं वा सिद्धमित्यनुभूतितः ।। ३१
मृतस्यास्ति परो लोको विदित्येवंमयी भवेत् ।
सति वाऽसति देहेऽस्मिंस्तेन किं सदसच्च किम् ।। ३२
तस्मात्स्वभावः प्रथमं प्रस्फुरन्वेत्ति संविदम् ।
वासनाकारणं पश्चाद्बुद्ध्वा संपश्यति भ्रमम् ।। ३३
तत्क्षयाच्छममायाति द्रष्टृदृश्यदृगामयः ।
तत्सत्तायामुदेतीयं संसृत्याख्या पिशाचिका ।। ३४
उपलम्भ उदेत्यादौ ब्रह्मणो वासना ततः ।
तच्छान्तिं विद्धि निर्वाणं तत्सत्तां संसृतिभ्रमम् ।। ३५
उत्पन्नैव च सानादौ परब्रह्मण्यसंभवात् ।
उत्पन्ना समयाद्यासौ ब्रह्मैव परमेव सत् ।। ३६
एतावद्यत्परिज्ञानं तन्निर्वाणं विदुर्बुधाः ।
यदत्रैवापरिज्ञानं तं बन्धं विद्धि राघव ।। ३७
विज्ञानघन एवायं कचनाकचनात्मकः ।
स्वयमेव कचत्यन्तर्न कचत्येव वा स्वयम् ।। ३८
संविदंशपरावृत्तिमात्रे पेलवरूपिणि ।
बन्धदृङ्मोक्षदृक् चेति क्लेशस्तत्साधनं कियत् ।। ३९
संविदुद्वोधने बन्धस्तदनुद्वोधने शिवम् ।
असत्सद्वज्जगद्भाति संविदुद्वोधनोदरम् ।। ४०
अजडं वेदनं सुप्तं मोक्ष इत्यभिधीयते ।
प्रबुद्धं बन्ध इत्याहुर्यदिच्छसि तदाहर ।। ४१
निर्वाणवासनमनन्तमनाद्यमच्छ-
बोधैकतानमपयन्त्रणमस्तशङ्कम् ।
अद्वैतमैक्यरहितं च निरस्तशून्य-
माकाशकोशविशदाशयशान्तमास्व ।। ४२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० पा० वासनाभावप्रतिपादनं नामैकोनाशीतितमः सर्गः ।। ७९ ।।