योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०७५

विकिस्रोतः तः


पञ्चसप्ततितमः सर्गः ७५
श्रीवसिष्ठ उवाच ।
अथाग्रस्थब्रह्मलोको ब्रह्मणि ध्यानशालिनि ।
निक्षिप्ताक्षः शनैर्दिक्षु दृष्टवानहमग्रतः ।। १
द्वितीयमर्कं मध्याह्ने पश्चादभ्युदितं स्फुटम् ।
दिग्दाहमिव दिग्वक्रे वनदाहमिवाचले ।। २
वह्निलोकमिव व्योम्नि वडवाग्निमिवार्णवे ।
ततोऽपश्यमहं दीप्तं सूर्यं नैर्ऋतदिङ्मुखे ।। ३
सूर्यं याम्ये ककुब्भागे सूर्यमग्निककुष्मुखे ।
सूर्यमैन्द्रककुब्भागे सूर्यमीशानदिङ्मुखे ।। ४
कुबेरककुभि सूर्यं सूर्यं वायव्यदिक्तटे ।
सूर्यं वरुणदिग्भागे तेन विस्मयवानहम् ।। ५
यावद्विचारयाम्याशु विधिवैधुर्यमाकुलम् ।
उदभूद्भूतलात्तावदर्क और्व इवार्णवात् ।। ६
एकादशेऽखिलार्काणां प्रतिबिम्बमिवोत्थितम् ।
उदभूत्त्रयमर्काणामन्तरे दिग्गणाम्बरे ।। ७
तद्धि रौद्रं वपुस्तत्र तन्मध्ये लोचनत्रयम् ।
तद्द्वादशपरीमाणं दीप्तं वृन्दं विवस्वताम् ।। ८
सर्वदिक्कं ददाहोच्चैः शुष्कं वनमिवानलः ।
अथोदभूज्जगत्खण्डशोषणग्रीष्मवासरः ।। ९
अनग्निरग्निदाहो द्रागदृश्योल्मुकगुल्मकः ।
अनग्निनाग्निदाहेन तेन तामरसेक्षण ।। १०
अङ्गानि दावदग्धानि खिन्नानीव ममाभवन् ।
प्रदेशं तमथ त्यक्त्वा दूरमारूढवानहम् ।। ११
दृढहस्ततलाघातहतकन्दुकवन्नभः ।
अपश्यं गगनस्थोऽहमुदितं चण्डतेजसम् ।। १२
तपन्तं द्वादशादित्यगणं दिक्षु दशस्वपि ।
बृहत्तत्र सतारावज्वालेव भगणं चलम् ।। १३
महाकुहकुहाशब्दं क्वथत्सप्ताब्धिडम्बरम् ।
सज्वालोल्मुकनीरन्ध्रलोकान्तरपुरान्तरम् ।। १४
ज्वालाघनपटाटोपसिन्दुरीकृतपर्वतम् ।
दीप्यमानमहागारस्थिरविद्युत्ककुत्पटम् ।। १५
स्फुरत्कटकटाटोपचटत्पत्तनमण्डलम् ।
विदधद्भूतलोद्भूतधूमदण्डैः शिलाघनैः ।। १६
काचस्तम्भसहस्राढ्यं भुवनस्थानमण्डपम् ।
क्वथद्भूतमहाभूतताराक्रन्दातिघर्घरम् ।। १७
भूतलोकपुरापातस्फुटच्चटचटोद्भटम् ।
ताराविशरणोद्धातघृष्टरत्नधरातलम् ।। १८
सर्वस्थलालयचलद्दह्यमानजनव्रजम् ।
क्षीणाक्रन्दक्वथद्भूतगणदुर्वासदिक्तटम् ।। १९
उत्तप्ताम्बूदराखिन्नजलेचरमहार्णवम् ।
सर्वदिक्कानलप्लोषक्षीणाक्रन्दपुरान्तरम् ।। २०
विदलद्दग्धदिग्दन्तिदन्तोत्तम्भितभूधरम् ।
धराधरदरीरन्ध्रधूममण्डलकुण्डलम् ।। २१
पतत्पर्वतनिष्पिष्टप्लुष्टपत्तनमण्डलम् ।
पचत्पचपचाशब्दशब्दिताद्रीन्द्रकुञ्जरम् ।। २२
तापतप्तोन्नमद्भूतज्वरितार्णवपर्वतम् ।
हृदयस्फोटनिःसारपतद्विद्याधराङ्गनम् ।। २३
आक्रन्दरोदनश्रान्तमूर्धनिःसरणामरम् ।
नागलोकज्वलज्ज्वालापातालोत्तप्तभूतलम् ।। २४
शुष्कार्णवसदापक्वविवर्तोग्रजलेचरम् ।
और्वेणाबिन्धनाभावात्प्रोड्डीयेव सहस्रधा ।। २५
गतेन नृत्यतोत्थाय गृहीतगगनांगनम् ।
अथोदभूज्ज्वलज्ज्वालाकिंशुकांशुकशोभितः ।। २६
ताण्डवायेव कल्पाग्निस्तरलोल्मुकमाल्यवान् ।
तारं पटपटाटोपी रटद्भट इवोद्भटः ।। २७
ज्वालोद्भुजो धूमकचो जगज्जीर्णकुटीनटः ।
जज्वलुर्वनजालानि पुराणि नगराणि च ।। २८
मण्डलद्वीपदुर्गाणि जङ्गलानि स्थलानि च ।
सर्वखानि महाकाशमाशा दश दिवः शिरः ।। २९
श्वभ्ररूपारघट्टाट्टपट्टनोदारदिक्तटः ।
श्रृङ्गाणि सिद्धवृन्दानि गिरयः सागरार्णवाः ।। ३०
सरः सरस्यः सरितो देवासुरनरोरगाः ।
आशाः शनशनाशब्दैः पुरुषैश्च शिवार्चिषाम् ।। ३१
आसन्क्ष्वेडाकुराक्षस्यो ज्वालाजालोज्ज्वलोर्ध्वजाः ।
भमद्भमिति भांकारैर्भीषणैर्भूरिभस्मभिः ।। ३२
ज्वालाः श्वभ्राद्रिभूमीनां गुहाभ्यः परिनिर्ययुः ।
ज्वालोदरस्था अरुणाः समस्ता भूतजातयः ।। ३३
स्थलपद्मोदरालीनामाजहुः श्रियमश्रियः ।
सद्यो निःसृतरक्ताभैः सिन्दूराम्भोदसुन्दरैः ।। ३४
धगद्धगिति गायद्भिर्ज्वालाजालैर्जगद्गतैः ।
आसीद्रक्तांशुकैः कीर्णं संध्याभ्रैरिव वा नभः ।। ३५
उत्फुल्लकिंशुकवनैरुड्डीनैरिव वाऽऽवृतम् ।
और्वेण चावृता आसन्फुल्लाशोकवना इव ।। ३६
इव स्थलाब्जवलिता राविरा इव चार्णवाः ।
नानावर्णज्वलज्ज्वालाधूमविन्यासबन्धवान् ।। ३७
रूढं वह्निमिवाधातुं चित्रसौधलताश्रयम् ।
अनन्त इव विन्यास वनयौवनपावकः ।। ३८
उदयास्तमयादिभ्यो विन्ध्यो विधुरतामगात् ।
अङ्गारकल्पविटपैर्ज्वालावनविवल्गनैः ।। ३९
शनैरीषदिव क्षुब्धैः सह्योऽसह्यत्वमाययौ ।
मध्यमध्यकचत्कार्ष्ण्यभ्रमद्धूमालिमालितम् ।। ४०
वलज्ज्वालाब्जमलिनं दृष्टं सर इवाम्बरम् ।
खेऽद्रीणां शिखरे व्योम्नि शिखाशिखरशेखराः ।। ४१
ननृतुर्नीरसा नाशनर्तक्यः केतुकुन्तलाः ।
तलाहितानलज्वाला ब्रह्माण्डोर्ध्वकपाटभूः ।। ४२
तर्जनप्रोत्पतद्भूतधानौघा भ्रष्टभूमिका ।
क्वणच्छ्रेणी मृज्जलाग्निर्नानावर्णाननारुणा ।। ४३
हृत्प्रकोष्ठे जगल्लक्ष्म्याः सौवर्णीवाभवत्तदा ।
शैलाश्चटचटास्फोटैर्वृक्षाः कटकटारवैः ।। ४४
देशा हलहलोल्लासैरलं विदलनं ययुः ।
अब्धयः क्वथिताकाराः फेनिलोल्लासमांसलाः ।। ४५
वीचीकरतलाघातांश्चक्रुरर्कमुखे मुखे ।
अन्योन्यवेल्लितोल्लोलभूतलाकारपर्वतम् ।। ४६
जह्णुर्वीचीकरैर्देहे जडाः प्रकुपिता इव ।
आशाकाशाशिनामेषां गुहागुहगुहारवान् ।। ४७
पपाठ शब्द आग्नेयो ज्वालातटतटोद्भवः ।
लोकपालपुरापाततप्ताङ्गाराद्रिभित्तयः ।। ४८
दिशो दशापि वैवश्यं ययुरुन्मत्तवृत्तयः ।
काञ्चनद्रवसाद्रीन्द्रद्रुमागारगुहागृहः ।। ४९
शनैश्चार्वाकृतिर्मेरुरासीद्धिम इवातपे ।
क्षणेनैवानलात्तस्माद्धिमवाञ्जतुवद्द्रुतः ।। ५०
सर्वान्तःशीतलः शुद्धो दुर्जनादिव सज्जनः ।
तस्यामपि दशायां तु मलयोऽमलसौरभः ।। ५१
आसीत्त्यजत्युदारात्मा न नाशेऽप्युत्तमं गुणम् ।
नश्यन्नपि महान् ह्लादं न खेदं संप्रयच्छति ।। ५२
चन्दनं दग्धमप्यासीदानन्दायैव जीवताम् ।
न कदाचन संयाति वस्तूत्तममवस्तुताम् ।। ५३
प्रलयानलनिर्दग्धमपि हेम न नष्टवत् ।
द्वे हेमनभसी तस्मिन्न नष्टे प्रलयानले ।। ५४
तयोरेव वपुः श्लाघ्यं सर्वनाशेऽप्यनाशयोः ।
नभो विभुतयाऽनाशि हेमाकृष्टतयाक्षयम् ।। ५५
सत्त्वमेकं सुखं मन्ये न रजो न च वा तमः ।
चलदुच्चवनानीव विकीर्णाङ्गारवर्षणः ।। ५६
दग्धाब्दाद्रिर्महाधूमज्वालोऽभूद्वह्निवारिदः ।
रसविस्मरणार्तानां शून्यानां स्फारदेहिनाम् ।। ५७
शुष्काणां व्योमविटपिपत्राणां पात्ररूपिणाम् ।
वारिदानां सवारीणां दग्धानां प्रलयार्चिषा ।। ५८
ज्ञस्येवाङ्ग न दोषाणां दृष्टं भस्मापि न क्वचित् ।
न लङ्घयति कैलासं यावदुल्लसितोऽनलः ।। ५९
तावत्तं कल्पकुपितो रुद्रो नेत्राग्निनादहत् ।
दाहस्फुटद्द्रुमस्थूलशिलाचटचटारवाः ।। ६०
लकुटोपललोष्टौघैरयुध्यन्तेव भूभृतः ।
ज्वालाघनघटाटोपसावतंसचलान्तिमाः ।। ६१
बभूवुर्व्योमविकसत्स्थूलपद्मवना इव ।
सर्गः कदाचिदेवासीदित्यगात्स्मरणीयताम् ।। ६२
कल्पान्तः स्मारयन्मूर्खानगादस्मरणीयताम् ।
तापोपतापपरमाः परमारणतत्पराः ।
वह्नयोऽपह्नवं चक्रुर्जगतामसतामिव ।। ६३
ववुरशनिनिपातपीडिताङ्गाः
कचदनलोल्मुकगुल्ममण्डलाभाः ।
प्रलयसमयवायवोऽनलान्ता-
द्दलदमरावलयो लये लिहन्तः ।। ६४
व्यालोलस्फुटदानलद्रुमवनप्रोद्भूतभस्मोष्मणा
दत्ताभ्राभ्रमदुल्मुकाहतिवहत्साङ्गारगौरार्चिषः ।
भ्रश्यत्पावकशृङ्गमध्यविलसज्ज्वालावलीश्यामला
निःशेषाग्निनिकाशसुस्तवजवा वेगेन वाता ववुः ।।
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० निर्वाणप्रकरणे उ० पाषा० महाकल्पान्ताग्निवर्णनं नाम पञ्चसप्ततितमः सर्गः ।। ७५ ।।