योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०७०

विकिस्रोतः तः


सप्ततितमः सर्गः ७०
अन्यजगद्ब्रह्मोवाच ।
अथाहं चिन्मयाकाशस्त्वन्याकाशमयीं स्थितिम् ।
परां ग्रहीतुमिच्छामि तेनेहोपस्थितः क्षयः ।। १
महाप्रलयकालेऽस्मिंस्त्यक्तुमेषा मयाधुना ।
मुनीन्द्र नूनमारब्धा तेन वैरस्यमागता ।। २
आकाशत्वाद्यदाद्योऽयं पराकाशो भवाम्यहम् ।
तदा महाप्रलयता वासनायाश्च संक्षयः ।। ३
तेनैषा विरसीभूता मन्मार्गं परिधावति ।
नानुगच्छति को नाम निर्मातारमुदारधीः ।। ४
इहाद्यायं कलेरन्तश्चतुर्युगविपर्ययः ।
प्रजामन्विन्द्रदेवानामद्यैवान्तोऽयमागतः ।। ५
अद्यैव चायं कल्पान्तो महाकल्पान्त एव च ।
ममायं वासनान्तोऽद्य देहव्योमान्त एव च ।। ६
तेनेयं वासना ब्रह्मन्क्षयं गन्तुं समुद्यता ।
क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम् ।। ७
यथा जडाब्धिलेखाया जायते लहरी चला ।
वासनायास्तथैवेच्छा मुधोदेत्यपकारणम् ।। ८
आभिमानिकदेहाया वासनायाः स्वभावतः ।
अस्या आत्मावलोकेच्छा स्वयमेवोपजायते ।। ९
आत्मतत्त्वं नु पश्यन्त्या धारणाभ्यासयोगतः ।
दृष्टोऽनया भवत्सर्गो वर्गव्यग्रनिरर्गलः ।। १०
अनयाम्बरसंचारपरयाद्रिशिरःशिला ।
दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका ।। ११
एतद्यस्मिञ्जगद्यत्र तद्दृषत्त्वं जगद्गिरौ ।
अस्मज्जगत्पदार्थेषु संत्यन्यानि जगन्त्यपि ।। १२
वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे ।
बोधैकतां गतास्त्वाशु पश्यामस्तानि वीक्षणात् ।।१३
घटे पटे वटे कुड्ये खेऽनलेऽम्भसि तेजसि ।
जगन्ति सन्ति सर्वत्र शिलायामिव सर्वदा ।। १४
जगन्नाम मुधा भ्रान्तिः किल स्वप्नपुरोपमा ।
मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्यथ नास्ति च ।। १५
परिज्ञाता सती येषामेषा चिन्नभसैकताम् ।
गता ते न विमुह्यन्ति शिष्टास्तु भ्रमभाजनम् ।। १६
अथान्यधारणाभ्यासात्स्वविरागवशोदितम् ।
साधयन्त्याऽर्थमात्मीयं दृष्टस्त्वमनया मुने ।। १७
इति मायेव दुष्पारा चिच्छक्तिः परिजृम्भते ।
इत्थमाद्यन्तरहिता ब्राह्मी शक्तिरनामया ।। १८
प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् ।
द्रव्यकालक्रियाद्योता चितिस्तपति केवलम् ।। १९
देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्विदम् ।
चिच्छिलाङ्गकमेवैकं विद्ध्यनस्तमयोदयम् ।। २०
चिदेवेयं शिलाकारमवतिष्ठति बिभ्रती ।
अङ्गमस्या जगज्जालं मरुतः स्पन्दनं यथा ।। २१
विज्ञानघनमात्मानं जगदित्यवबुध्यते ।
अनाद्यन्तापि साद्यन्ता चित्त्वादिति गतापि चित् ।।
चिच्छिलेयमनाद्यन्ता साद्यन्तास्तीति बोधतः ।
साकारापि निराकारा जगदङ्गेति संस्थिता ।। २३
यद्वत्स्वप्ने चिदेव स्वं रूपं व्योमैव पत्तनम् ।
वेत्ति तद्वदिदं वेत्ति पाषाणं जगदङ्गकम् ।। २४
न सरन्तीह सरितो न चक्रं परिवर्तते ।
नार्थाः परिणमन्त्यन्तः कचत्येतच्चिदम्बरम् ।। २५
न महाकल्पकल्पान्तसंविदः संविदम्बरे ।
संभवन्ति पृथग्रूपाः पयसीव पयोन्तरम् ।। २६
जगन्ति सन्त्येव न सन्ति शान्ते
चिदम्बरे सर्वगतैकमूर्तौ ।
नभोन्तराणीव महानभोन्त-
श्चित्सन्ति सत्तानि पराम्बराणि ।। २७
वसिष्ठ तद्गच्छ मुने जगत्स्वं
त्वं चासने संप्रति शान्तिमेहि ।
बुद्ध्यादिरूपाणि परं व्रजन्तु
वयं बृहद्ब्रह्मपदं प्रयामः ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा० शिलान्तर्जगत्पितामहवाक्यानि नाम सप्ततितमः सर्गः ।।७०।।