योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०६७
सप्तषष्टितमः सर्गः ६७
विद्याधर्युवाच ।
यावत्तं सर्गमागच्छ प्रसादः क्रियतां मुने ।
आश्चर्येषूपपन्नेषु महान्तो ह्यतिकौतुकाः ।। १
तथेत्युक्ते मया सार्धं गन्तुमारब्धमम्बरे ।
वात्यया सौरभेणेव शून्ये शून्येन शून्यया ओ। २
अथाहं दूरमध्वानं शून्यमुल्लङ्घ्य नाभसम् ।
नभःस्थं भूतसंघातं तया सार्धमवाप्तवान् ।। ३
तमुल्लङ्घ्य चिरेणात्र भूतसंचारमम्बरे ।
लोकालोकशिरोव्योम प्राप्तोऽस्मि धवलाम्बुदम् ।।४
उत्तरांशेन्दुशुभ्राभ्रपीठान्निर्गत्य तां शिलाम् ।
आनीतोस्मि तथोत्तुङ्गां तप्तकाञ्चनकल्पिताम् ।। ५
यावत्पश्याम्यहं शुभ्रां शिलां तां न च तज्जगत् ।
कलधौतमयीमुच्चैरग्निलोकतटीमिव ।। ६
तदा मयोक्ता सा कान्ता क्व भवत्सर्गभूरिति ।
क्व रुद्रार्काग्नितारादि क्व लोकान्तरसप्तकम् ।। ७
कार्णवाकाशककुभः क्वोन्मज्जननिमज्जने ।
क्व महाम्भोदसंभारः क्व ताराम्बरडम्बरम् ।। ८
क्व शैलशिखरश्रेण्यः क्व महार्णवलेखिकाः ।
क्व द्वीपवलयाः सप्त क्व तप्तकनकावनिः ।। ९
क्व कार्यकालकलनाः क्व भूतभुवनभ्रमः ।
क्व विद्याधरगन्धर्वाः क्व नरामरदानवाः ।। 6.2.67.१०
क्वर्षिभूपालमुनयः क्व नयापनयक्रमः ।
क्व पञ्चयामयामिन्यः क्व स्वर्गनरकभ्रमः ।। ११
क्व पुण्यपापकलना क्व कलाकालकेलयः ।
क्व सुरासुरवैराणि क्व द्वेषस्नेहरीतयः ।। १२
वदत्येवं मयि वचः सोवाच वरवर्णिनी ।
विस्मयाकुलमालोक्य शिलामलिविलोचना ०। १३
विद्याधर्युवाच ।
पश्याम्यखिल नात्मीयमहं सर्वमिहोपले ।
मुकुरप्रतिबिम्बस्थपुरान्यपुरवज्जनम् ।। १४
नित्यानुभव एवात्र दर्शने कारणं मम ।
तदभावो मुने मन्ये ते कारणमदर्शने ।। १५
अन्यच्च चिरकालैकद्वैतसंकथयानया ।
शुद्धातिवाहिकैकात्मदेहता विस्मृतावयोः ओ। १६
ममातिसुचिराभ्यस्तमपि व्योम लतामिव ।
गतं निजं जगदिदं यतः पश्यामि न स्फुटम् ।। १७
अभूद्यत्स्वजगत्पूर्वमतिप्रकटमेव मे ।
तत्पश्यामीदमादर्श इव बिम्बितमस्फुटम् ।। १८
चिरव्यर्थोत्थया नाथ संकथाव्यथया मिथः ।
स्वास्थ्यं विस्मृतमात्मीयमवदाततमं ततम् ।। १९
योऽभ्यासः प्रकचत्यन्तः शुद्धचिन्नभसो रसात् ।
भवेत्तन्मयमेवान्तराबालमिव लक्ष्यते ।। 6.2.67.२०
न सच्छास्त्रेण सा विद्धि न सन्न्यायेन सा कला ।
अस्ति नास्त्यमितोद्योगाद्यदभ्यासान्न सिद्ध्यति।।२१
स्वजगत्संतताभ्यासवशतो मां कथाभ्रमः ।
नूनमाक्रान्तवानेष द्वयोर्हि बलवाञ्जयी ।। २२
इष्टवस्त्वर्थिनां तज्ज्ञसूपदिष्टेन कर्मणा ।
पौनःपुन्येन करणान्नेतरच्छरणं मुने ।। २३
अयमित्थमिहाज्ञानभ्रमः प्रौढोऽहमात्मकः ।
शाम्यति ज्ञानचर्चाभिः पश्याभ्यासविजृम्भितम्।।२४
अहं शिष्याबला बाला पश्यामि त्वं न पश्यसि ।
सर्वज्ञोऽपि शिलासर्गं पश्याभ्यासविजृम्भितम्।।२५
अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोपि चूर्ण्यते ।
बाणोप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ।।२६
इत्थं नाम परिप्रौढा मिथ्याज्ञानविषूचिका ।
शाम्यत्येव विचारेण पश्याभ्यासविजुम्मितम् ।। २७
अभ्यासेन कटुद्रव्यं भवत्यभिमतं मुने ।
अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते ।। २८
अबन्धुर्बन्धुतामेति नैकट्याभ्यासयोगतः ।
यात्यनभ्यासतो दूरात्स्नेहो बन्धुषु तानवम् ।। २९
आतिवाहिकदेहोऽयं शुद्धचिद्व्योम केवलम् ।
आधिभौतिकतामेति भावनाभ्यासयोगतः ।। 6.2.67.३०
आधिभौतिकदेहोऽसौ धारणाभ्यासभावनात् ।
विहंगवत्खमभ्येति पश्याभ्यासविजृम्भितम् ।। ३१
पुण्यानि यान्ति वैफल्यं वैफल्यं यान्ति मातरः ।
भाग्यानि यान्ति वैफल्यं नाभ्यासस्तु कदाचन।।३२
दुःसाध्याः सिद्धिमायान्ति रिपवो यान्ति मित्रताम्।
विषाण्यमृततां यान्ति संतताभ्यासयोगतः ।। ३३
येनाभ्यासः परित्यक्त इष्टे वस्तुनि सोऽधमः ।
कदाचिन्न तदाप्नोति वन्ध्या स्वतनयं यथा ।। ३४
यदप्यभिमतं वस्तु स्वभ्यासेन तदर्जनात् ।
तद्युक्तिपूर्वकं त्याज्यमामृत्योर्जीवितं यथा ओ। ३५
इष्टे वस्तुनि नाभ्यासं यः करोति नराधमः ।
सोऽनिष्टेऽनिष्टमाप्नोति नरकान्नरकान्तरम् ।। ३६
तरन्ति सरितं स्फीतां संसारासारसेविनः ।
त एवात्मविचाराख्यमभ्यासं न त्यजन्ति ये ।। ३७
अभ्यासभासोऽभिमतं वस्तु प्रकटयन्त्यलम् ।
प्रापयन्ति च निर्विघ्नं घटं दीपप्रभा यथा ।। ३८
यथा कल्पद्रुमलताः सच्चिन्तामणयो यथा ।
फलन्ति शरदश्चैतास्तथैवाभ्यासभूमयः ।। ३९
इष्टवस्तु चिराभ्यासभास्वान्भासयति प्रजाः ।
तथेन्द्रियाख्यां देहोर्व्यां रात्रिं पश्यन्ति नो यथा 6.2.67.४०
सर्वस्य जन्तुजातस्य सर्ववस्त्ववभासने ।
सर्वदैवैक एवोच्चैर्जयत्यभ्यासभास्करः ।। ४१
चतुर्दशविधायास्तु भूतजातेर्न कस्यचित् ।
सिध्यत्यभिमतं वस्तु विनाभ्यासमकृत्रिमम् ।। ४२
पौनःपुन्येन करणमभ्यास इति कथ्यते ।
पुरुषार्थः स एवेह तेनास्ति न विना गतिः ।। ४३
दृढाभ्यासाभिधानेन यत्ननाम्ना स्वकर्मणा ।
निजवेदनजेनैव सिद्धिर्भवति नान्यथा ।। ४४
अभ्यासभास्वति तपत्यवनौ वने च
वीरस्य सिध्यति न यन्न तदस्ति किंचित् ।
अभ्यासतो भुवि भयान्यभयीभवन्ति
सर्वासु पर्वतगुहास्वपि निर्जनासु ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० उ० पाषा० अभ्यासप्रशंसा नाम सप्तषष्टितमः सर्गः ।। ६७ ।।