योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०३१

विकिस्रोतः तः


एकत्रिंशः सर्गः ३१
श्रीवसिष्ठ उवाच ।
सर्वात्मनि चिदाभासे तदेवाश्वनुभूयते ।
संवेद्यते यदेवान्तरसत्यं वस्त्ववस्तु वा ।। १
तदेवाभ्यासतः पूर्वं बाह्यार्थानुभवात्मना ।
स्फुरतीव बहिष्ट्वेन स्वस्वप्नोऽत्र निदर्शनम् ।। २
चिद्रूपं सर्वमेतच्च चिदच्छा गगनादपि ।
चिच्चिनोति चिदेवातो नैतत्किंचन कुत्रचित् ।। ३
न नाशो नास्ति नानर्थो न जन्ममरणे न खम् ।
न शून्यता न नानास्ति सर्वं ब्रह्मैव नैव च ।। ४
नाशे जगदहंत्वादेर्न किंचिदपि नश्यति ।
असतः किल नाशोऽपि स्वप्नादेः किं नु नश्यति ।। ५
मिथ्यावभासे संकल्पनगरे कैव नष्टता ।
तथा जगदहंत्वादौ नाशो नासति विद्यते ।। ६
कुतो जगदुपालम्भ इति चेत्तदवस्तुनि ।
न निर्णयः संभवति खपुष्पाणां किमुच्यते ।। ७
निर्णय एष एवात्र यदशेषमभावयन् ।
यथास्थितं यदाचारं पाषाण इव तिष्ठसि ।। ८
जगत्संकल्पमात्रात्म तत्र तेऽर्थयुतं क्षणात् ।
शाम्यत्यशेषेणेत्येव निर्णयः सर्गविभ्रमे ।। ९
सर्गेऽनर्गल एवायं ब्रह्मात्मकतयाक्षयः ।
अन्यथा तु न सर्गोऽयमस्ति नास्ति च सन्ति वा ।।१०
येषां च विद्यते सर्गः स्वप्नपुंसामिवासताम् ।
स सर्गः पुरुषास्ते च मृगतृष्णाम्बुवीचिवत् ।। ११
असतामेव सद्भावमिव येषामुपेयुषाम् ।
न वयं निर्णयं विद्मो वन्ध्यापुत्रगिरामिव ।। १२
परिपूर्णार्णवप्रख्या काप्यपूर्वैव पूर्णता ।
तज्ज्ञानां द्रष्टृदृश्यांशदृष्टौ न हि पतन्ति ते ।। १३
अचला इव निर्वाता दीपा इव समत्विषः ।
साचारा वा निराचारास्तिष्ठन्ति स्वस्थमेव ते ।। १४
आपूर्णैकार्णवप्रख्या काप्यन्तः पूर्णतोदिता ।
अन्तःशीतलता ज्ञप्तिर्ज्ञस्यापूर्वैव लक्ष्यते ।। १५

वासनैवेह पुरुषः प्रेक्षिता सा न विद्यते ।
तां च न प्रेक्षते कश्चित्ततः संसार आगतः ।। १६
अनालोकनसिद्धं यत्तदालोकान्न विद्यते ।
कृष्णाद्यनुपलम्भोऽत्र दृष्टान्तः स्पष्टचेष्टितः ।। १७
भूतानि देहमांसादि तच्चासद्विभ्रमो जडः ।
बुद्ध्यहंकारचेतांसि तन्मयान्येव नेतरत् ।। १८
भूतादिमयतां त्यक्त्वा बुद्ध्यहंकारचेतसाम् ।
अत्यन्तं स्थितिरभ्येति यदि तन्मुक्ततोदिता ।। १९
चिच्छ्लिष्टा चेत्यनिष्ठत्वात्तादृश्येवात्र कास्तिता ।
तस्मात्केव कुतः कुत्र वासना किंस्वरूपिणी ।। २०
यस्य चैष भ्रमः सोऽसन्प्रेक्षयासन्न लक्ष्यते ।
मृगतृष्णाम्बुवत्तेन संसारः कस्य कः कुतः ।। २१
तदेवं तर्हि तस्य स्यादिति चित्तोदयो हि यः ।
पुनः स एव संसारविभ्रमः संप्रवर्तते ।। २२
तस्मात्सर्वमनाश्रित्य व्योमवत्समुपास्यताम् ।
अपुनःस्मरणं श्रेय इह विस्मरणं परम् ।। २३
नेह द्रष्टा न भोक्तास्ति नाऽस्तिता न च नास्तिता ।
यथास्थितमिदं शान्तमेकं स्पन्दि सदाब्धिवत् ।।२४
सर्वं दृश्यं जगद्ब्रह्म सदित्यवगते स्फुटम् ।
जलशोषादिवोदेति बिम्बबिम्बिक्षये शिवम् ।। २५
शान्तताव्यवहारो वा रागद्वेषविवर्जितः ।
विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः ।। २६
अथवा शान्ततैवास्य निर्वाणस्यावशिष्यते ।
निर्वासनः किल मुनिः कथं व्यवहरत्वसौ ।। २७
यावत्त्वस्य न निर्वाणं परिपोषमुपागतम् ।
तावद्व्यवहरत्यस्तरागद्वेषभयोदयः ।। २८
वीतरागभयक्रोधो निर्वाणः शान्तमानसः ।
शिलेवाप्यशिलीभूतो मुनिस्तिष्ठति नित्यशः ।। २९
कोशेऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा ।
अनन्या स्वप्नविभ्रान्तिरात्मन्यस्ति न बाह्यता ।। ३०
बाह्यताभावनाद्बाह्यमात्मैवात्मत्वभावनात् ।
भवतीदं परे तत्त्वे भावनं तत्तदेव हि ।। ३१
यान्तः स्वप्नादिविभ्रान्तिः सैवेयं बाह्यतोदिता ।
मनागप्यन्यता नात्र द्विभाण्डपयसोरिव ।। ३२
स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमये तते ।
आधाराधेयते ते द्वे यथा जलतरङ्गते ।। ३३
स्वप्नादावात्मनोऽन्यत्वज्ञानादन्यत्ववेदनम् ।
अनन्यतावबोधे तु तदनन्यन्न चोदयि ।। ३४
कलनारहितं शान्तं यद्रूपं परमात्मनः ।
भवत्यसौ तत्तद्भावादतद्भावान्न तद्भवेत् ।। ३५
स्वप्नादिज्ञानसंशान्तौ यद्रूपं शुद्धमैश्वरम् ।
न तदस्ति न तन्नास्ति न वाग्गोचरमेव तत् ।। ३६
आत्यन्तिकभ्रान्तिलये युक्त एवावगच्छति ।
स्वरूपं नोपदेशस्य विषयो विदुषो हि तत् ।। ३७
शान्तं निरस्तभयमानविषादलोभ-
मोहात्मदेहमननेन्द्रियचित्तजाड्यम् ।
त्यक्त्वाहमक्षयमपास्तसमस्तभेदं
निर्वाणमेकमजमासितुमेव युक्तम् ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० निर्वाणयुक्त्युपदेशवर्णनं नामैकत्रिंशः सर्गः ।। ३१ ।।