योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०२५

विकिस्रोतः तः


पञ्चविंशः सर्गः २५

श्रीवसिष्ठ उवाच ।
संवेदनं भावनं च वासना कलनेति च ।
अनर्थायेह शब्दार्थे विगतार्थो विजृम्भते ।। १
वेदनं भावनं विद्धि सर्वदोषसमाश्रयम् ।
तस्मिन्नेवापदः सन्ति लता मधुरसे यथा ।। २
संसारमार्गे गहने वासनावेशवाहिनः ।
उपयाति विचित्रौघैर्वृत्तवृत्तान्तसंततिः ।। ३
विवेकिनो वासनया सह संसारसंभ्रमः ।
क्षीयते माधवस्यान्ते शनैरिव धरारसः ।। ४
अस्याः संसारसल्लक्या वासनोत्सेधकारिणी ।
कदल्या वनजालिन्या रसलेखेव माधवी ।। ५
संसारान्ध्यतयोदेति वासनात्मा रसश्चितौ ।
यथा वनतया तस्थौ मधुमासरसः क्षितौ ।। ६
चिन्मात्रादमलाच्छून्यादृते किंचिन्न विद्यते ।
नान्यत्किंचिदपर्यन्ते खे शून्यत्वेतरद्यथा ।। ७
वेदनात्मा न सोऽस्त्यन्य इति या प्रतिभा स्थिरा ।
एषाऽविद्या भ्रमस्त्वेष स च संसार आततः ।। ८
अनालोकनसंसिद्ध आलोकेनैव नश्यति ।
असदात्मा सदाभासो बालवेतालवत्क्षणात् ।। ९
सर्वदृश्यदृशो बाधे बोधसारतयैकताम् ।
यान्त्यशेषमहीपीठसरित्पूरा इवार्णवे ।। १०
मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिन्मयादितया चेत्यं चिच्छून्यं नोपलभ्यते ।। ११
बोधावबुद्धं यद्वस्तु बोद्ध्यकर्केतेयते ।
नाबोधं बुध्यते बोधो वैरूप्यादिनान्यता ।। १२
द्रष्टृदर्शनदृश्येषु प्रत्येकं बोधमात्रता ।
सारस्तेन तदन्यत्वं नास्ति किंचित्खपुष्पवत् ।। १३
सजातीयः सजातीयेनैकतामनुगच्छति ।
अन्योन्यानुभवस्तेन भवत्वेकत्वनिश्चयः ।। १४
यदि काष्ठोपलादीनां न भवेद्बोधरूपता ।
तत्सदानुपलम्भः स्यादेतेषामसतामिव ।। १५
यदा त्वेषा नु दृश्यश्रीर्बोधमात्रैकरूपिणी ।
तदान्येवाप्यनन्यैव सती बोधेन बोध्यते ।। १६
सर्वं जगद्गतं दृश्यं बोधमात्रमिदं ततम् ।
स्पन्दमात्रं यथा वायुर्जलमात्रं यथार्णवः ।। १७
मिश्रीभूता अपि ह्येते जतुकाष्ठादयो यथा ।
मिथोऽननुभवे मिश्रा ऐक्यं ह्यनुभवे मिथः ।। १८
अन्योन्यानुभवो ह्यैक्यमैक्यं त्वन्योन्यवेदनम् ।
यथाम्भसोः क्षीरयोर्वा न काष्ठजतुनोरिव ।। १९
अहमित्येव बन्धाय नाहमित्येव मुक्तये ।
एतावन्मात्रके बन्धे स्वायत्ते किमशक्तता ।। २०
चन्द्रद्वयप्रत्ययवन्मृगतृष्णाम्बुबुद्धिवत् ।
किमनुत्थित एवायमसदेवाहमुत्थितः ।। २१
ममेदमिति बन्धाय नाहमित्येव मुक्तये ।
एतावन्मात्रके वस्तुन्यात्मायत्ते किमज्ञता ।। २२
यः कुण्डबदरन्यायो या घटाकाशयोः स्थितिः ।
स संबन्धोऽपि नैवान्यमैक्यं ह्यन्योन्यवेदनम् ।। २३
अन्योन्यावेदनं त्वैक्यं भागशो गतमप्यलम् ।
अजडं वा जडं वापि नैकं रूपं विमुञ्चति। ।। २४
नाजडं जडतामेति स्वभावा ह्यनपायिनः ।
यच्चाजडं जडं दृष्टं द्वैति तत्रास्ति नैकता ।। २५
वासनावेशवलिताः कुविकारशतात्मभिः ।
व्रजन्त्यधोधो धावन्तं शिलाः शैलच्युता इव ।। २६
व्यूढानां वासनावातैर्नृतृणानामितस्ततः ।
तान्यापतन्ति दुःखानि तत्र वक्तुं न पार्यते ।। २७
भ्रान्त्वा भृशं करतलाहतकन्दुकाभं
लोकाः पतन्ति निरयेषु रसेन रक्ताः ।
क्लेशेन तत्र परिजर्जरतां प्रयाताः
कालान्तरेण पुनरन्यनिभा भवन्ति ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० म० मङ्किबोधनं नाम पञ्चविंशः सर्गः ।। २५ ।।