योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ००३

विकिस्रोतः तः

तृतीयः सर्गः ३
श्रीराम उवाच ।
अवेदनं वेदनस्य मुनीन्द्र क्रियते कथम् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।। १
श्रीवसिष्ठ उवाच ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
यदा तदैव सुकरं वेदनावेदनं स्वयम् ।। २
एतौ वेदनशब्दार्थौ रज्जुसर्पभ्रमोपमौ ।
असत्यावुदितौ विद्धि मृगतृष्णाम्भसा समौ ।। ३
अबोधस्त्वनयोः श्रेयान्बोधो दुःखाय चैतयोः ।
तस्मात्सदेव बुद्ध्यस्व माऽसद्बुद्ध्यस्व राघव ।। ४
जन्तोर्वेदनशब्दार्थबोधो दुःखकरः परः ।
निष्कृत्य ज्ञप्तिशब्दार्थबोधं तिष्ठ यथास्थितम् ।। ५
सर्वावबोधावसरे ज्ञप्तिशब्दार्थयोरिह ।
निर्वाणोदय इत्येव परमोमिति शाम्यताम् ।। ६
शुभाशुभात्मकर्म स्वं नाशनीयं विवेकिना ।
तन्नास्तीत्यवबोधेन तत्त्वज्ञानेन सिध्यति ।। ७
कर्ममूलनिकाषेण संसारः परिशाम्यति ।
सुविचारितमन्विष्टं यावत्कर्म न विद्यते ।। ८
चिद्रूपो बिल्वमज्जान्तश्चित्तसंज्ञां यदात्मनि ।
करोति तद्यथा बिल्वान्न स्वल्पमपि भिद्यते ।। ९
न यथा संनिवेशान्तः संनिवेशस्ततः पृथक् ।
तथा नभोर्थादि पृथङ् न परस्मान्मनागपि ।। १०
यदेवाम्भस्तदेवान्तर्द्रवत्वमपृथग्यथा ।
चित्त्वमेव तथा चित्तं तद्रूपत्वात्तदर्थयोः ।। ११
यथा द्रवत्वं पयसि यथाऽऽलोकश्च तेजसि ।
तथा ब्रह्मण्यतद्भावं चित्त्वं चित्तं च विद्यते ।। १२
चेतनं कर्म तत्स्वान्तर्न्निर्मूलं भ्रमयक्षवत् ।
उदेत्यहेतुकं तच्चेन्नोदितं तन्न विद्यते ।। १३
चेतनं कर्म तच्चेतद्भाति स्पन्द इवानिलः ।
अहेतुकं यदात्मैतद्बहिरन्तश्च सार्थधीः ।। १४
विस्तारः कर्मणां देहः सोऽहंतात्मा ससंसृतिः ।
अचेतनानहन्त्वेन शाम्यत्यस्पन्दवातवत् ।। १५
अचेतनादनन्तात्मा भूत्वा ज्ञोऽप्युपलोपमः ।
संसारमूलकषणं कुरु क्रोडमुखाग्रवत् ।। १६
कर्मबीजकलाकोशत्याग एवं कृतो भवेत् ।
नान्यथा राघवान्तस्ते शान्तमस्तु सदा स्थितम् ।।१७
कर्मबीजकलात्यागे त्वेतस्मादितरात्मनि ।
अविद्यमाने जीवस्य तज्ज्ञैर्विदितवस्तुभिः ।। १८
शान्तैर्न गृह्यते किंचिन्न च संत्यज्यतेऽपि च ।
त्यागादानेन जानन्ति ततस्तैः शान्तमानसम् ।। १९
आकाशशून्यहृदयैर्ज्ञैर्यथास्थितमास्यते ।
क्रियते च यथाप्राप्तं नाप्येतैः क्रियतेपि च ।। २०
प्रवाहपतितं सर्वं स्पन्दते शान्तमानसम् ।
तेषां कर्मेन्द्रियाण्येवमर्धसंसुप्तबालवत् ।। २१
रसे निर्वासने लब्धे रसा अप्यतिनीरसाः ।
नान्तस्तिष्ठन्ति न बहिरज्ञाननिपुणा इव ।। २२
कर्मणो वेदनं त्यागः स च सिद्धः प्रबोधतः ।
अवस्तु नेतरेणार्थः किं कृतेनाकृतेन वा ।। २३
अवेदनमसंवेद्यं यदवासनमासितम् ।
शान्तं सममनुल्लेखं स कर्मत्याग उच्यते ।। २४
अपुनःस्मरणं सम्यक् चिरविस्मृतकर्म तत् ।
स्थितं स्तम्भोदरसमं स कर्मत्याग उच्यते ।। २५
अत्यागं त्यागमिति ये कुर्वते व्यर्थबोधिनः ।
सा भुङ्क्ते तान्पशूनज्ञान्कर्मत्यागपिशाचिका ।। २६
समूलकर्मसंत्यागेनैव ये शान्तिमास्थिताः ।
नैव तेषां कृतेनार्थो नाकृतेनेह कश्चन ।। २७
समूलमलमुद्धृत्य कर्मबीजकलामिति ।
नित्यमेकसमाधानास्तज्ज्ञास्तिष्ठन्त्यतः सुखम् ।। २८
प्रवाहपतिते कार्ये ईषत्स्पन्दा अतन्मयाः ।
घूर्णमाना इव क्षीबा यन्त्रसंचारिता इव ।। २९
मोक्षलक्ष्म्या विलासिन्या व्यसनोपहता इव ।
अर्धसुप्तप्रबुद्धाभाः कामप्यवनिमागताः ।। ३०
यत्समूलं परित्यक्तं तत्त्यक्तमिति कथ्यते ।
अमूलकाषस्त्यागो यः स शाखालवनोपमः ।। ३१
अकृष्टमूलशाखाग्रलवनः कर्मपादपः ।
पुनः शाखासहस्रेण दुःखाय परिवर्धते ।। ३२
अवेदनात्मना तेन कर्मत्यागोऽङ्ग सिध्यति ।
क्रमेण नेतरेणात एतदेवाहरन्भव ।। ३३
ये त्वेवं कर्मसंत्यागमकृत्वान्यत्प्रकुर्वते ।
अत्यागं त्यागरूपात्म गगनं मारयन्ति ते ।। ३४
बोधात्मकतया कर्मत्यागः संपद्यते स्वयम् ।
दग्धबीजा निरिच्छोच्चैरक्रियैव भवेत्क्रिया ।। ३५
बुद्धीन्द्रियेहितं कर्म सफलं रसभावनात् ।
वेष्टितव्यं कुदाम्नेव स्पन्दोऽन्यो निष्फलोऽङ्गजः ।।३६
कर्मत्यागे स्थिते बोधाज्जीवन्मुक्तो विवासनः ।
गृहे तिष्ठत्वरण्ये वा शाम्यत्वभ्येतु वोदयम् ।। ३७
गेहमेवोपशान्तस्य विजनं दूरकाननम् ।
अशान्तस्याप्यरण्यानि विजना सजना पुरी ।। ३८
परिशान्तमतेर्ज्ञस्य स्वप्नेऽप्यप्राप्तमानवा ।
निर्मला वितता हृद्या हृद्येव वनभूमिका ।। ३९
ज्ञस्य निर्वाणदृश्यस्य निस्पन्दार्था नभोमयी ।
शान्ताशेषविशेषार्था जगदेव महाटवी ।। ४०
अनन्तसंकल्पवतो हृदयस्थजगत्स्थितेः ।
हृद्येवावर्तते भूमिरज्ञस्याखिलसागरा ।। ४१
जनस्याज्ञस्य दीनस्य विविधद्वन्द्वसंकटा ।
सारम्भा विविधाकारा हृद्येव ग्राममण्डली ।। ४२
विविधकार्यविकारदशामयी
सपुरपत्तनमण्डलपर्वता ।
मुकुरकोश इव प्रतिबिम्बिता
हृदि भवत्यमला मलिने मही ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे दृश्योपशमयोगोपदेशो नाम तृतीयः सर्गः ।। ३ ।।