योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५९
एकोनषष्टितमः सर्गः ५९
श्रीवसिष्ठ उवाच ।
अन्नपानाङ्गनासङ्गादृते नास्तीह किंचन ।
शुभमस्त्विति संवादि महान्किमिव वाञ्छतु ।। १
तिर्यञ्चः पशवो मूढा ये न तुष्यन्त्यसाधवः ।
भोगैः कृपणसर्वस्वैरादिमध्यान्तपेलवैः ।। २
विश्वासं यान्ति ये लोके तैरलं नरगर्दभैः ।
इतः केशा इतो रक्तमितीयं प्रमदातनुः ।। ३
एतया तोषमायान्ति सारमेया न मानवाः ।
मृन्महीदारुतरवो देहा मांसमया अपि ।। ४
अधो भूरम्बरं पृष्ठे किमपूर्वं सुखाय तु ।
मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः ।। ५
मोहायैवापरामृष्टाः सकला लोकसंविदः ।
सर्वस्या एव पर्यन्ते सुखाशायाश्च संस्थितम् ।। ६
मालिन्यं दुःखमप्येवं ज्वालाया इव कज्जलम् ।
आगमापायिनोऽनित्या मनःषष्ठेन्द्रियक्रियाः ।। ७
लता नागेन्द्रमृदिता धारयन्ति न संपदः ।
पुत्रिका रक्तमांसस्य कान्तेयमिति सादरम् ।। ८
स्वदेहनाम्नाऽस्थिचये श्लिष्यते मोहकक्रमः ।
सर्वं सत्यमिदं राम स्थिरमज्ञस्य तुष्टये ।। ९
ज्ञस्यास्थैर्यमसत्यं च जगद्राम न तुष्टये ।
अभुक्तेऽपि विषा यैषा विषमूर्च्छां प्रयच्छति ।। १०
तां परित्यज्य भोगास्थां स्वात्मैकत्वगतिं भज ।
अनात्ममयभावेन चित्तं स्थितिमुपागतम् ।
यदा तदैतदाजातं जगज्जालमसन्मयम् ।। ११
वासनावशतो ब्रह्ममनसा कल्पितं वपुः ।
तेजसा श्रितकुड्येन हेमाभत्वमिवात्मनः ।। १२
श्रीराम उवाच ।
वैरिञ्चपदमासाद्य मनो ब्रह्मन्महामते ।
इदं जगत्सुघनतां कथमानयति क्रमात् ।। १३
श्रीवसिष्ठ उवाच ।
गर्भतल्पात्समुत्थाय पद्मजः प्रथमः शिशुः ।
ब्रह्मेति शब्दमकरोद्ब्रह्मा तेन स उच्यते ।। १४
संकल्पजालरूपस्य मनसा कल्पिताकृतेः ।
अकरोत्तस्य संकल्पलक्ष्मीः पदमथोत्तरे ।। १५
ततः संकल्पयामास पूर्वं तेजो महाप्रभम् ।
शरदन्ते लताचक्रचक्रीकृतदिगन्तरम् ।। १६
पक्षप्रतिमनिस्यूतकर्मणातिगुणाक्षरम् ।
पुञ्जपिञ्जरपर्यन्तं हेमज्ञाननिभाम्बरम् ।। १७
जालहेमलताजालजटालनिजमन्दिरम् ।
कचत्प्रसरदुद्यानाकारकुण्डलमण्डितम् ।। १८
तं शरीरं मनस्तस्मिंस्ततस्तेजसि भास्वरे ।
आत्माकारसमाकारं भास्वरं समकल्पयत् ।। १९
स ततस्तेजसस्तस्मादभ्युदेति दिवाकरः ।
जालमण्डलमध्यस्थो ज्वलत्कनककुण्डलः ।। २०
ज्वलज्जटाभारधरोपान्तविस्फारपावकः ।
ज्वालाविशालावयवः पूरिताकाशमण्डलः ।। २१
अथ ब्रह्मा महाबुद्धिरन्यास्तास्तेजसः कलाः ।
अपाल्य यदसद्ब्रह्मा तरङ्गानिव सागरः ।। २२
तेऽपि संकल्पसंप्राप्तसिद्धयः समशक्तयः ।
यथासंकल्पितं वस्तु क्षणाद्दृष्ट्वापुरग्रतः ।। २३
संकल्पयन्तो यान्यांस्ते नानाभूतगणान्बहून् ।
भूतेष्वन्यांस्तु तेष्वन्यांस्तेष्वन्यान्विविधानपि ।। २४
संस्मृत्य वेदांस्तदनु यज्ञक्रमगुणान्बहून् ।
जगद्ग्रहादयं ब्रह्मा मर्यादां समकल्पयत् ।। २५
ब्राह्मं रूपमुपादाय मनोनाम महद्वपुः ।
तनोतीत्थमिमां दृष्टिं भूतसंततिसंकुलाम् ।। २६
समुद्राचलवृक्षाढ्यां कृतलोकोत्तरक्रमाम् ।
मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम् ।। २७
सुखदुःखजराजन्ममरणस्वाधिबोधिताम् ।
रागद्वेषमयोद्विग्नां गुणत्रयमयात्मिकाम् ।। २८
मनोहस्तैर्विरिंचोत्थैर्यद्यथा कल्पितं पुरा ।
तत्तथैवाखिलं द्रष्टुं दृश्यतेऽद्यापि मायया ।। २९
इत्थं सर्वेषु भूतेषु केषुचित्त्वथवा पुनः ।
संकल्पयति संसारं परं पश्यति चित्स्थितम् ।। ३०
मोह एवंमयो मिथ्या जागतः स्थिरतां गतः ।
संकल्पनेन मनसा कल्पितोऽचिरतः स्वयम् ।। ३१
संकल्पवशतः सर्वाः प्रसवन्ति जगत्क्रियाः ।
संकल्पवशतो देवा निर्यान्ति नियतिस्थिताः ।। ३२
कोपितायाः प्रजानाथैर्जगत्सृष्टेः कुलोद्भवः ।
ब्रह्मा संचिन्तयत्येष पद्मासनगतः प्रभुः ।। ३३
मनःस्पन्दनमात्रेण चित्रं चित्तं यदुत्थितम् ।
सृष्टिर्वा भोगिनी स्फारा व्यवहारविकारिणी ।। ३४
रुद्रोपेन्द्रमहेन्द्राद्या शैलसागरसंकुला ।
पातालरोदोदिक्स्वर्गमार्गसंकटकोटरा ।। ३५
संकल्पजालमत्यन्तं मयेदमभितस्ततम् ।
अधुनाविरतोऽस्म्यस्माद्विकल्पोल्लासनक्रमात्।। ३६
इति निश्चित्य विरतः कल्पनानर्थसंकटात् ।
अनादिमत्परं ब्रह्म स्मरत्यात्मानमात्मना ।। ३७
तमासाद्य तदाभासे पदे गलितमानसे ।
सुखं तिष्ठति शान्तात्मा तल्पेऽधः श्रमवानिव ।। ३८
निर्ममो निरहंकारः परां शान्तिमुपागतः ।
अविक्षुब्ध इवाम्भोधिरात्मनात्मनि तिष्ठति ।। ३९
ध्यानात्कदाचिद्भगवान्स्वयं विरमति प्रभुः ।
बन्धनात्सलिलस्यन्दात्सौम्यत्वादिव वारिधिः ।। ४०
विचारयति संसारं सुखदुःखसमन्वितम् ।
आशापाशशतैर्बद्धं रागद्वेषभयातुरम् ।। ४१
ततः स करुणाक्रान्तमना भूतविभूतये ।
करोतीह महार्थानि शास्त्राणि विविधानि च ।। ४२
अध्यात्मज्ञानगर्भाणि वेदवेदाङ्गसंग्रहम् ।
पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम् ।। ४३
पुनस्तत्पदमालम्ब्य परमापद्विनिर्गतः ।
स्वस्थस्तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः ।। ४४
अवलोक्य जगच्चेष्टां मर्यादां विनियोज्य च ।
ब्रह्मा कमलपीठस्थः पुनः स्वात्मनि तिष्ठति ।। ४५
कदाचित्केवलं सर्वसंकल्पपरिहीनया ।
यदृच्छयानुग्रहार्थं लोकक्रमवदास्थितः ।। ४६
नार्जवं नास्य संत्यागो वपुषो नच संग्रहः ।
नाना न चेतनं नेह न स्थितिर्नास्थितिः स्थिता ।। ४७
सर्वभावसमारम्भः समः सर्वासु वृत्तिषु ।
परिपूर्णार्णवाकारो मुक्तशेषोऽवतिष्ठते ।। ४८
कदाचित्केवलं सर्वसंकल्पपरिहीनया ।
यदृच्छयानुग्रहार्थ लोकानां प्रतिबुध्यते ।। ४९
एषाब्राह्मी स्थितिः पुण्या या मयोक्ता महामते ।
यातां विधिसुरानीकौ तामेतां सात्त्विकीमपि ।। ५०
चित्सर्गोपरमाकाशे ब्रह्मणो यन्मनःफलम् ।
उदेति प्रथमः सैव ब्रह्मत्वं समवाश्नुते ।। ५१
सर्गे स्थितिं गते त्वन्या योदेति कल्पनापरा ।
सा व्योमानिलमाश्रित्य प्रविश्यौषधिपल्लवान् ।। ५२
काचित्सुरत्वमायाति काचिदायाति यक्षताम् ।
उदेति प्रथमं सैषा ब्रह्मत्वं समवाश्नुते ।। ५३
या यत्सत्त्वं समन्वेति सा तदेवाशु जायते ।
जाता संसर्गवशतस्तस्मिन्नेव च जन्मनि ।
बध्यते मुच्यते वासौ स्वयमन्वारभेदतः ।। ५४
इत्थं गतास्थितिरियं किल रामभद्र
सृष्टिः स्फुटप्रकटसंकटकर्मलब्धा ।
आविर्भवेद्विविधवेगविहारभार-
संरम्भगर्भविधृता कलनापदे सा ।। ५५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः ।। ५९ ।।