योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ५७

विकिस्रोतः तः
Jump to navigation Jump to search


सप्तपञ्चाशः सर्गः ५७

श्रीराम उवाच ।
सत्यमेतत्त्वया ब्रह्मन्यदुक्तं सूक्तिसुन्दरम् ।
अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतकृत् ।। १
सर्वेश्वरः सर्वगश्च चिन्मात्रममलं पदम् ।
स्थानं भुवि वपुर्देवः सर्वभूतान्तरस्थितः ।। २
हदयंगमतां प्राप्तमिदानीं ब्रह्म मे विभो ।
त्वदुक्तिभिर्यथाम्भोदधाराभिर्भूभृदव्यथः ।। ३
औदासीन्यादनिच्छत्वान्न भुङ्क्ते न करोति च ।
समग्रालोककारित्वाद्भुंक्ते देवः करोति च ।। ४
किंत्वयं भगवन्स्फारः संशयो मे हृदि स्थितः ।
तं त्वं छिन्धि गिरा ब्रह्मन्दीधित्येन्दुर्यथा तमः ।। ५
इदं सत्तदिदं वाऽसदयं सोऽहमिदं नतु ।
अयमेको द्वितीयोऽयमित्यादिकलनामयम् ।। ६
एकस्मिन्विद्यतेऽध्वान्ते नीहार इव भास्करे ।
इदं प्रथममेवाच्छे कथमात्मनि संस्थितम् ।। ७
श्रीवसिष्ठ उवाच ।
सिद्धान्तकाल एवास्य संप्रश्नस्योत्तरं स्थिरम् ।
कथयिष्यामि ते राम येन ज्ञास्यसि तत्त्वतः ।। ८
मोक्षोपायस्य सिद्धान्तमसंप्राप्य न राघव ।
श्रोतुं प्रश्नोत्तराण्येतान्यलं योग्यो भविष्यसि ।। ९
कान्तागीतगिरां राम तरुणो भाजनं यथा ।
प्रश्नानामुत्तमोक्तीनां पुण्यकृद्भाजनं तथा ।। १०
वृथा भवति बालेषु यथा रागमयी कथा ।
निरर्थकाल्पबोधेषु तथोदारोदया कथा ।। ११


कस्मिंश्चिदेव समये किंचित्पुंसो विराजते ।
फलमाभाति वृक्षस्य शरद्येव न माधवे ।। १२
उपदेशगिरो वृद्धे रञ्जना निर्मले पटे ।
लगन्त्युदारविज्ञानकथा चाधिगतात्मनि ।। १३
प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया ।
न विस्तरेण तेनैतन्न ज्ञातं भवता स्फुटम् ।। १४
यदि त्वमात्मनात्मानमधिगच्छसि तं स्वयम् ।
एतत्प्रश्नोत्तरं साधु जानास्यत्र न संशयः ।। १३
मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते ।
वक्तव्यो विस्तरेणैव साधो प्रश्नोत्तरक्रमः ।। १६
जानात्यात्मानमात्मैव कृत आत्मात्मनैव हि ।
आत्मैव संप्रसन्नः सन्नात्मानं प्रतिपद्यते ।। १७
तदेतत्कथितं राम कर्त्रकर्तृविचारणम् ।
अज्ञातत्वात्तु तामेतामक्षीणवासनो भवेत् ।। १८
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज ।। १९
तामसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः ।
मैत्र्यादिभावनानाम्नीं गृहाणामलवासनाम् ।। २०
तामप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि ।
अन्तःशान्तसमस्तेहो भव चिन्मात्रवासनः ।। २१
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषे स्थिरसमाधानो येन त्यजसि तत्त्यज ।। २२
चिन्मयः कलनाकालप्रकाशतिमिरादिकम् ।
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।। २३
समूलमपि संत्यक्त्वा व्योमसौम्यप्रशान्तधीः ।
यस्त्वं भवसि सद्बुद्धे स भवानस्तु सत्कृतः ।। २४
हृदयात्संपरित्यज्य सर्वमेव महामतिः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ।। २५
समाधिमथ कर्माणि मा करोतु करोतु वा ।
हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ।। २६
नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः ।
न समाधानजप्याभ्यां यस्य निर्वासनं मनः ।। २७
विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः ।
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ।। २८
दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश ।
जनाः कतिपया एव यथावस्त्ववलोकिनः ।। २९
यद्यदालोक्यते किंचित्कश्चिद्यत्तन्न विद्यते ।
ईप्सितानीप्सितादन्यन्न तत्र यतते जनः ।। ३०
ये केचन समारम्भा ये जनस्य क्रियाक्रमाः ।
ते सर्वे देहमात्रार्थमात्मार्थं नतु किंचन ।। ३१
पाताले ब्रह्मलोके च स्वर्गे च वसुधातले ।
व्योम्नि कतिपया एव दृश्यन्ते दृष्टदृष्टयः ।। ३२
इदं हेयमुपादेयमिदमित्यसदुत्थितौ ।
निश्चयौ गलितौ यस्य ज्ञस्यासावतिदुर्लभः ।। ३३
करोतु भुवने राज्यं विशत्वम्भोदमम्बु वा ।
नात्मलाभादृते जन्तुर्विश्रान्तिमधिगच्छति ।। ३४
ये महामतयः सन्तः शूराश्चेन्द्रियशत्रुषु ।
जन्मज्वरविनाशाय त उपास्या महाधियः ।। ३५
सर्वत्र पञ्चभूतानि षष्ठं किंचिन्न विद्यते ।
पाताले भूतले स्वर्गे रतिमेतु क्व धीरधीः ।। ३६
युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ।
दूरसंत्यक्तयुक्तेस्तु महामत्तार्णवोपमः ।। ३७
कदम्बगोलकैस्तुल्यं ब्रह्माण्डं स्फारचेतसः ।
किं प्रयच्छति किं भुंक्ते प्राप्तेऽस्मिन्सकलेपि सः ।। ३८
एतदर्थमबुद्धीनां यन्महासमरक्रियाः ।
तन्मन्ये राम धिक्कार्यं द्वन्द्वलक्षक्षयावहम् ।। ३९
कल्पमात्रेण कालेन सुमहापेलवोदरे ।
तस्मिन्नपि हि यो नाशः सर्वाधिरमहाधियाम् ।। ४०
आत्मनो ज्ञस्य सर्गादेर्यन्मनागपि नोद्गतम् ।
तस्मिञ्जगत्त्रये प्राप्ते किं चिदात्मा बली भवेत् ।। ४१
इतः शैलशतैर्व्याप्ता तथेतो जलराशिभिः ।
कियानस्य भुवो देहो येनोदारं प्रपूरयेत् ।। ४२
न तदस्ति जगत्यस्मिन्सपातालसुरालये ।
यन्नामात्मवतो ज्ञस्य किंचित्कार्यतरं भवेत् ।। ४३
एकतामनुयातस्य व्योमवद्विततस्य च ।
स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्यचेतसः ।। ४४
शरीरजालनीहारधूसरा शून्यकोटरा ।
शान्तसंसारसुभगा त्रिलोकीविपुलातटी ।। ४५
स्फारब्रह्मामलाम्भोधिफेनाः सर्वे कुलाचलाः ।
चिदादित्यमहाभासमृगतृष्णाजलश्रियः ।। ४६
आत्मतत्त्वमहाम्भोधिवीचयः सर्गराजयः ।
अनुत्तमपदाम्भोदवृष्टयः शास्त्रदृष्टयः ।। ४७
चन्द्राग्नितपनालोका घटकाष्ठादिसन्निभाः ।
प्रकाशनीयाश्चिद्रूपत्विषो मलकणास्तथा ।। ४८
विहरन्ति स्वमात्मानः संसारवनचारिणः ।
कामभोगोलपग्रासमृगा नरसुरासुराः ।। ४९
अस्थिखण्डार्गलामूर्धपिधानाः स्नायुश्रृंखलाः ।
जगद्देहा जरज्जीवरक्तमांससमुवद्गकाः ।। ५०
वनमालामृगा मुग्धाः पुरसंचारसंस्थितौ ।
बालबुद्धिविनोदाय योजिताश्चर्मपुत्रिकाः ।। ५१
नैवंविधोदारमना मनागपि महामतिः ।
न ज्ञश्चलति भोगौधैर्मन्दवातैरिवाचलः ।। ५२
तस्मिन्किल पदे राम ज्ञस्तिष्ठति महोत्तमे ।
यस्मिंश्चन्द्रार्कदेशोऽपि न पातालमिव स्थितः ।।५३
यस्यालोकाल्लोकपालाः समालोकाः सुवेदिनः ।
शरीरं पान्त्ययमिव पश्यन्मूढाः क्षपार्णवे ।। ५४
न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।
अप्यभ्यासगताः स्फारहृदयं खमिवाम्बुदाः ।। ५५
न केचन जगद्भावास्तत्त्वज्ञं रञ्जयन्त्यमी ।
मर्कटा इव नृत्यन्तो गौरीलास्यार्थिनं हरम् ।। ५६
न केचन जगद्भावास्तत्त्वज्ञं रजयन्त्यमी ।
प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा ।। ५७
वज्रार्पितोपममसन्मयमम्बुभङ्ग-
तुङ्गं तरङ्गकृतबिम्बमिवावलोक्य ।
लोलां तदीहितसुखेषु रतिं न याति
तज्ज्ञः कुशैवललवेष्विव राजहंसः ।। ५८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु स्थितिप्रकरणे पूर्णाशयस्वरूपवर्णनं नाम सप्तपञ्चाशः सर्गः ।। ५७ ।।