योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४५

विकिस्रोतः तः


पञ्चचत्वारिंशः सर्गः ४५

श्रीवसिष्ठ उवाच ।
जगत्संपन्नमेवेदं संपन्नं किंचिदेव न ।
शून्यमेव च भामात्रं मनोविलसितं स्थितम् ।। १
न देशकालावेतेन ब्रह्माण्डेनावृतौ स्थितौ ।
मनागपि महारूपवताप्याकाशरूपिणा ।। २
एतत्संकल्पमात्रात्म स्वप्नदृष्टपुरोपमम् ।
यत्रैव तत्र तच्छून्यं केवलं व्योम संस्थितम् ।। ३
अभित्तिरागरचनमपि दृष्टमसन्मयम् ।
अकृतं कृतमेवैतद्व्योम्नि चित्रं विचित्रकम् ।। ४
मनसा कल्पितं सर्वं देहादिभुवनत्रयम् ।
संस्मृतौ कारणं चैतच्चक्षुरालोकने यथा ।। ५
आभासमात्रं हि जगद्धटावटपटभ्रमैः ।
आवर्तते न सद्रूपात्पृथक्कुड्यादयः स्थिताः ।। ६
मनसेदं शरीरं हि वासनार्थं प्रकल्पितम् ।
कृमिकोशप्रकारेण स्वात्मकोश इव स्वयम् ।। ७
न तदस्ति च यन्नाम चेतःसंकल्पमम्बरम् ।
न करोति न चाप्नोतिदुर्गमप्यतिदुष्करम् ।। ८
सर्वशक्तिधरे देवे का नाम ननु शक्तयः ।
न संभवन्त्याश्रियन्ते याभिरन्तर्मनोगुहाः ।। ९
सत्तासत्ते पदार्थानां सर्वेषां सर्वदैव हि ।
महाबाहो संभवतः सर्वशक्तौ विभौ सति ।। १०
पश्य भावनया प्राप्तं मनसैवात्मजं वपुः ।
तस्मात्तत्कलनां राम सर्वशक्तियुतां विदुः ।। ११
स्वसंकल्पकृताः सर्वे देवासुरनरादयः ।
स्वसंकल्पोपशमने शाम्यन्त्यस्नेहदीपवत् ।। १२
आकाशसदृशं सर्वं कलनामात्रजृम्भितम्
जगत्पश्य महाबुद्धे सुदीर्घं स्वप्नमुत्थितम् ।। १३
न जायते न म्रियते इह किंचित्कदाचन ।
परमार्थेन सुमते मिथ्या सर्वं तु विद्यते ।। १४
न वृद्धिमेति नो ह्रासं यन्न किंचित्कदाचन ।
किं वा तनु भवेत्तत्र कस्य का नाम खण्डना ।। १५
भूमभूतं स्वकायोत्थमपश्यन्निपुणं दृशा ।
राघवाऽमहता स्वान्तः किमज्ञ इव मुह्यसि ।। १६
मृगतृष्णा यथा तापान्मनसो निश्चयात्तथा ।
असन्त इव दृश्यन्ते सर्वे ब्रह्मादयोऽप्यमी ।। १७
द्विचन्द्रविभ्रमप्रख्या मनोरथवदुत्थिताः ।
मिथ्याज्ञानघनाः सर्वे जगत्याकारराशयः ।। १८
यथा नौयायिनो मिथ्या स्थाणुस्पन्दमतिस्तथा ।
असत्यैवोत्थिता नित्यमाकाराणां परम्परा ।। १९
इन्द्रजालमिदं विद्धि मायारचितपञ्जरम् ।
मनोमनननिर्माणं न सन्नासदिव स्थितम् ।। २०
ब्रह्मैवेदं जगत्सर्वमन्यतायास्ततः कुतः ।
प्रसङ्गः कीदृशः कोऽसौ क्व वा सापरितिष्ठति ।। २१
अयं गिरिरयं स्थाणुरित्याडम्बरविभ्रमः ।
मनसो भावनादार्ढ्यादसन्सन्निव लक्ष्यते ।। २२
प्रपञ्चपतनारम्भं प्रमत्तस्य इदं जगत् ।
सकामतृष्णामननं त्यक्त्वान्यद्राम भावय ।। २३
यथा स्वप्नो महारम्भो भ्रान्तिरेव न वस्तुतः ।
दीर्घस्वप्नं तथैवेदं विद्धि चित्तोपपादितम् ।। २४
दृश्यमानमहाभोगं गृह्यमाणमवस्तुकम् ।
कोशमाशाभुजङ्गानां संसाराडम्बरं त्यज ।। २५
असदेतदिति ज्ञात्वा माऽत्र भावं निवेशय ।
अनुधावति न प्राज्ञो विज्ञाय मृगतृष्णिकाम् ।। २६
स्वसंकल्पात्स्वरूपाढ्यां मनोरथमयीं श्रियम् ।
योऽनुगच्छति मूढात्मा दुःखस्यैव स भाजनम् ।। २७
वस्तुन्यसति लोकोऽयं यातु काममवस्तुनि ।
यस्तु वस्तु परित्यज्य यात्यवस्तु स नश्यति ।। २८
मनोव्यामोह एवेदं रज्ज्वामहिभयं यथा ।
भावनामात्रवैचित्र्याच्चिरमावर्तते जगत् ।। २९
असदभ्युदितैर्भावैर्जलान्तश्चन्द्रवच्चलैः ।
वञ्च्यते बाल एवेह न तत्त्वज्ञो भवादृशः ।। ३०
य इमं गुणसंघातं भावयन्सुखमीहते ।
प्रमार्ष्टि स जडो जाड्यं वह्निभावनया स्वया ।। ३१
असदेवेदमाभोगि दृश्यते जलपञ्जरम् ।
मनोमनननिर्माणहृदये नगरं यथा ।। ३२
इदं चित्तेच्छयोदेति लीयते तदनिच्छया । ।
मिथ्यैवं दृश्यते स्फीतं गन्धर्वनगरं यथा ।। ३३
राम नष्टे जगत्यस्मिन्न किंचिदपि नश्यति ।
युक्तेऽपि च जगत्यस्मिन्न किंचिदपि युज्यते ।। ३४
मनःप्रकल्पिते भग्ने हृदि विस्तीर्णपत्तने ।
वृद्धिं चोपगते ब्रूहि किं वृद्धं कस्य किं क्षतम् ।। ३५ ।
क्रीडार्थेन यथोदेति बालानां हृदि वर्तनम् ।
मनसा तद्वदेवेदमुदेत्यविरतं जगत् ।। ३६
न किंचित्कस्यचिन्नष्टमिन्द्रजालजले यथा ।
भ्रष्टे नष्टे तथैवास्मिन्संसारे वितथोत्थिते ।। ३७
यदसत्तदसत्स्याच्चेन्न किं कस्य किल क्षतम् ।
ततो हर्षविषादानां संसारे नाम नास्पदम् ।। ३८
असदेव यदत्यन्तं तस्मात्किं नाम नश्यति ।
नाशाभावे हि दुःखस्य कः प्रसङ्गो महामते ।। ३९
सदेव वा यदत्यन्तं तस्य किं नाम नश्यति ।
ब्रह्मैवेदं जगत्सर्वं सुखदुःखे किमुत्थिते ।। ४०
असद्वापि यदत्यन्तं वृद्धिः स्यात्तस्य कीदृशी ।
वृद्धेरभावे हर्षस्य कः प्रसङ्गो महामते ।। ४१
सर्वत्रासत्यभूतेऽस्मिन्प्रपञ्चैकान्तकारिणि ।
संसारे किमुपादेयं प्राज्ञो यदभिवाञ्छतु ।। ४२
सर्वत्र सत्यभूतेऽस्मिन्ब्रह्मतत्त्वमयेऽपि च ।
किं स्यात्र्त्रिभुवने हेयं प्राज्ञाः परिहरन्तु यत् ।। ४३
असत्सद्वा जगद्यस्य तेनासौ सुखदुःखयोः ।
अगम्य एव मूर्खस्तु तद्विनाशेन दुःखितः ।। ४४
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
योऽभिवाञ्छत्यसद्राम तस्यासत्तैव दृश्यते ।। ४५
आदावन्ते च यत्सत्यं वर्तमाने सदेव तत् ।
यस्य सर्वं सदेव स्यात्तस्य सत्तैव दृश्यते ।। ४६
असत्यभूतं तोयान्तश्चन्द्रव्योमतलादिकम् ।
बाला एवाभिवाञ्छन्ति मनोमोहाय नोत्तमाः ।। ४७
बालो हि वितताकारैर्वस्तुरिक्तैः प्रयोजनैः ।
संतोषमेत्यनन्ताय दुःखाय न सुखाय तु ।। ४८
तस्मान्मा त्वं भवो बालो राम राजीवलोचन ।
अविनाशमिहालोक्य नित्यमाश्रय सुस्थिरम् ।। ४९
असदिदमखिलं मया समेतं
त्विति विगणय्य विषादितास्तु मा ते ।
सदिह हि सकलं मया समेतं
त्विति च विलोक्य विषादितास्तु मा ते ।।५० ।।
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ५१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे यथाभूतार्थयोगोपदेशो नाम पञ्चचत्वारिंशः सर्गः ।। ४५ ।।