योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४२

विकिस्रोतः तः
Jump to navigation Jump to search


द्विचत्वारिंशः सर्गः ४२

श्रीवसिष्ठ उवाच ।
कुपितस्यासतोऽप्यस्य प्रेक्षामात्रविनाशिनः ।
अविद्याविततव्याधेरौषधं श्रृणु राघव ।। १
यां तां कथयितुं जातिं राम राजससात्त्विकीम् ।
मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां श्रृणु ।। २
यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ।। ३
चित्स्पन्दवपुषस्तस्य स्पन्दस्तस्माच्चिदेव हि ।
प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव ।। ४
अन्तरब्धेर्जलं यद्वत्स्पन्दास्पन्दवदीहते ।।
सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम् ।। ५
आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः ।
तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ।। ६
स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो यथोन्नतम् ।
एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति ।। ७
जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव चञ्चलः ।
सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान् ।। ८
यथोल्लसति भाश्चक्रैः कचन्कनकसागरः ।
तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः ।। ९
लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि दृशोऽदृशि ।
तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे ।। १०
किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे ।
तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे ।। ११
आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव तिष्ठति ।
आलोकश्रीरिवालोककोटरे यत्ततां गता ।। १२
क्षणं स्फुरति सा देवी सर्वशक्तितया तया ।
चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव ।। १३
उदितैषा प्रकाशाख्या चिच्छक्तिः परमात्मनः ।
देशकालक्रियाशक्तीर्वयस्याः संप्रकर्षति ।। १४
स्वस्वभावं विदित्वैवमनाद्यन्तपदे स्थिता ।
रूपं परिमितेवासौ भावयत्यविभाविता ।। १५
यदैवंभावितं रूपं तया परमसत्तया ।
तदैवैनामनुगता नामसंख्यादिका दृशः ।। १६
चिदेवैतदवस्त्वेव व्यतिरिक्ता तथात्मनः ।
अनन्ता तद्गतैवाशु लहरीव महार्णवात् ।। १७
यथा कटककेयूरैर्भेदो हेम्नो विलक्षणः ।
तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम् ।। १८
यथा दीपेन दीपानां जातानामात्मनां तथा ।
देशकालकलामात्रभेदः स्वाभाविकश्चितेः ।। १९
देशकालपरिस्पन्दशक्तिसन्दीपिताथ चित् ।
संकल्पमनुधावन्ती प्रयाति कलनापदम् ।। २०
विकल्पकलिताकारं देशकालक्रियास्पदम् ।
चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते ।। २१
क्षेत्रं शरीरमित्याहुस्तदसौ वेत्त्यखण्डितम् ।
सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते ।। २२
वासनां कलयन्सोऽपि यात्यहंकारतां पुनः ।
अहंकारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते ।। २३
बुद्धिः संकल्पकलिता प्रयाति मनसः पदम् ।
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ।। २४
पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ।
दहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति ।। २५
एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।
दुःखजालपरीतात्मा क्रमादायाति चित्तताम् ।। २६
क्रमेण पाकवशतः फलमेति यथान्यताम् ।
अवस्थयैव नाकृत्या जीवो मलवशात्तथा ।। २७
जीवोऽहंकारतां प्राप्तस्त्वहंकारश्च बुद्धिताम् ।
संकल्पजालकलितां मनस्तां बुद्धिरागता ।। २८
मनो हि संकल्पमयं संस्थाग्रहणतत्परम् ।
प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः ।। २९
इच्छाद्याः शक्तयश्चेतो गावो वृषमिवोन्मदम् ।
अनुधावन्ति दोषाय सरितः सागरं यथा ।। ३०
इति शक्तिमयं चेतो घनाहंकारतां गतम् ।
कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् ।। ३१
स्वसंकल्पानुसंधानात्पाशैरिव नयन्वपुः ।
कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते ।। ३२
बद्धमस्मीति कलयद्विद्यातत्त्वं जहच्छनैः ।
अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम् ।। ३३
स्वसंकल्पिततन्मात्रज्वालाभ्यन्तरवर्ति च ।
परां विवशतामेति श्रृङ्खलाबद्धसिंहवत् ।। ३४
विचित्रकार्यकर्तृत्वमाहरद्वासनावशात् ।
स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा ।। ३५
क्वचिन्मनः क्वचिद्रुद्धिः क्वचिज्ज्ञानं क्वचित्क्रियाः ।
क्वचिदेतदहंकारः क्वचित्पुर्यष्टकं स्मृतम् ।। ३६
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।
क्वचिन्मलमितिप्रोक्तं क्वचित्कर्मेतिसंस्थितम् ।। ३७
क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति स्फुटम् ।
प्रोक्तं क्वचिदविद्येतिक्वचिदिच्छेति संस्थितम् ।। ३८
तदेतदाबद्धमिह चित्तं राघव दुःखितम् ।
तृष्णाशोकसमाविष्टं रागायतनमाततम् ।। ३९
जरामरणमोहान्तर्भवभावनयाहतम् ।
ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम् ।। ४०
इच्छासंक्षुभिताकारं कर्मवृक्षवनाङ्कुरम् ।
सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम् ।। ४१
कोशकारवदाबद्धं शोकाकारपदं गतम् ।
तन्मात्रवृन्दावयवमनन्तनरकातपम् ।। ४२
स्वदृश्यमपि शैलेन्द्रसमभारभयावहम् ।
जरामरणशाखाढ्यं संसारविषदुर्द्रुमम् ।। ४३
इमं संसारमखिलमाशापाशविधायकम् ।
दधदन्तः फलैर्हीनं वटधाना वटं यथा ।। ४४
चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।
कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम् ।। ४५
मृगं यूथादिव भ्रष्टं शोकोपहतचेतनम् ।
पतङ्गकमिव ज्वालादग्धं विषयपावके ।। ४६
छिन्नमूलमिवाम्भोजं परमां म्लानिमागतम् ।
छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम् ।। ४७
विषयादिषु मध्यस्थं चित्ररूपेषु शत्रुषु ।
दशास्वेतास्वनन्तासु लुठितं संकटास्विति ।। ४८
दुःखे निपतितं घोरे विहङ्गः सागरे यथा ।
स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने ।। ४९
उह्यमानमनास्थाब्धौ मनो विषयविद्रुतम् ।
उद्धरामरसंकाश मातङ्गमिव कर्दमात् ।। ५०
बलीवर्दवदामग्नं मनो मदनपल्वले ।
आलूनशीर्णावयवं बलाद्राम समुद्धर ।। ५१
शुभाशुभप्रसरपराहताकृतौ
ज्वलज्जरामरणविषादमूर्च्छिते ।
व्यथेह यस्य मनसि भो न जायते
नराकृतिर्जगति स राम राक्षसः ।। ५२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जीवावतरणं नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।